पद्मसंहिता · अध्याय 4.9
नियक्तोऽहं प्रजास्स्रष्टु त्वया कैटभसूदन ।
मुह्यामि च प्रजास्स्रष्टुं कथं कर्तव्य मित्यहम्
देवराज्यात्परिभ्रष्टो देवेन्द्रो ब्रह्महत्यया ।
मां समाराध्य विधिना प्राप्तवानात्मनःपदम्
एवमन्ये च राजानो ममाराधनमुत्तमम् ।
कृत्वा निर्धूय पापानि पातकानि महान्त्यपि
प्रापुर्लोकान् सुदुष्प्रा पानिष्टानत्ययवर्जितान् ।
एकोत्तरेण कलशैस्सह स्रेणाभि षेचनम्
पवित्रवस्तुसहितैः पवित्रजलपूरितैः ।
आराधनं मम ब्रह्मन् प्रीणनं परमं मतम्
पापापनोदनैकान्तं सर्वाभ्युदयसाधनम् ।
प्रजानामपि राष्ट्रस्य राज्ञश्चायुर्विवर्धनम्
अनुष्ठितं पुत्रकामैस्तथा विजयकाङ्क्षिभिः ।
दुर्भिक्षदुर्निमित्तादि घोराणां शमनं परम्
सर्वसंपत्करं सर्व पुरुषार्धैकसाधनम् ।
आराधनेन तेन त्वं मामाराध्य यथाविधि
निर्मुक्तमोहो निष्पापः प्रजास्स्रष्टुमपीशिषे ।
सहस्रकलशस्नानविधिःकीदृक्कथं भवेत्
पवित्राणि च वस्तूनि कानि को वा विधेःक्रमः ।
स्थापनं कलशानां च को वा स्थापक इष्यते
द्वात्रिंशद्धस्त विस्तारं द्विगुणेनायतं शुभम् ।
कलशास्पदभू भागवैपुल्यानुगुणं महत्
मण्टपं कल्पयित्वान्यद्द्वाराणि च यथाविधि ।
कलशस्थापनाभूमिं पञ्चविंशतिधा समम्
विभज्य सूत्रमार्गेण मध्यमे ब्रह्मणःपदे ।
एकाशीतिघटा स्थ्साप्यादिव्ये तु तदनन्तरे
भागे प्रत्येकमाशासु पूर्वादिचतसृष्वपि ।
एकाशीतिघटाः स्थाप्याः कोणेऽपि च चतुष्टये
स्थाप्याश्चै कोनपञ्चाशत्प्रत्येकं मानुषे पुनः ।
भागे षोडश दिक्षु स्यात्प्रत्येकं पञ्चविंशतिः
विधिकाश्च यथायोगं कल्पनीयाः पदे पदे ।
ब्राह्मे भागे तु नवके मध्यमे च महाघटे
सर्वलोहानि रत्नानि सर्वाणि च फलानिच ।
सर्वैषधींश्च सर्वांश्च गन्धपूर्णांश्च निक्षिपेत्
श्रीवत्साद्याः प्रतिकृतीः कृत्वा निष्कप्रमाणिकाः ।
स्वर्णं ताम्रं च रजयं केवलं चैव निक्षिपेत्
श्रीवत्सं वनमालां च शङ्खं चक्रं गदां तथा ।
पद्मं शार्ङ्गं तथा खड्ग मष्टौ चिह्नानि शार्ङ्गिणः
वासोभ्यां वेष्टिते कुम्भे वासुदेवं समर्चयेत् ।
ब्राह्म एव च भूभागे परितो नवकाष्टके
प्राचीन कुम्भनवके मध्यमे कलशे क्षिपेत् ।
नूर्याकान्तं पद्मरागं पुरुषस्तस्य देवता
नवकानां तथान्येषां क्रमाद्द्रव्यं च देवताः ।
कुम्भस्य वक्ष्यते ब्रह्मन् मध्यमस्य पृथक् पृथक्
वैडूर्य मिन्द्रकान्तं च द्वयं द्रव्यं तु देवता ।
वासुदेवश्चेन्द्र नीलोऽप्ययस्कान्तश्च तद्द्वयम्
देवता सत्यमूर्तिस्स्यात्प्रवालो वस्तु गारुडम् ।
सङ्कर्षणो देवता स्यात्पुष्यकं स्फटिकद्वयम्
द्रव्यं देवोऽच्युतः पद्मरागः कनकमेव च ।
प्रद्युम्नो देवता तस्य वज्रं रजतमेव च
अनन्तो देवता तस्य ताम्रं मुक्ता च वस्तुनि ।
देवता चानिरुद्धस्स्या त्सर्वकुम्भेषु मौक्तिकम्
दिव्ये भागे दिशि प्राच्यामेकाशीतिघटास्पदे ।
नवके मध्यमे मध्यकलशे कदलीफलम्
पनसाम्रं मातुलङ्गं हव्यजम्बाककेसराः ।
बदराणि च तत्वात्मा देवता तस्य कथ्यते
देवताऽद्रव्यमन्यत्र नवकेष्वष्टसूच्यते ।
क्रमान्मध्ये घटे द्रव्यं मातुलङ्गं सदाडिमम्
पृथिवी देवता तस्य जम्बा नारङ्गमेव च ।
देवताऽपामदिष्ठात्री तक्कोलैला फलद्वयम्
तेजस्वी पुरुषो देवः क्षीरिकामलकद्वयम् ।
द्रव्यं देवो जगत्प्राणो द्राक्षा खर्जूरजं फलम्
द्रव्यं विष्णुपदं देवचूतं पारा च दाडिमम् ।
देवो मनःफलं क्षुद्रपनसं वस्तु देवता
अहङ्कारःफलं बिल्वकदल्योर्वस्तु देवता ।
बुद्दिस्सर्वेषु कुम्भेषु बदराणि च निक्षिपेत्
अष्टाक्षरेण मन्त्रेण पञ्चोपनिषदा पुनः ।
कुम्भानामपि सर्वेषा मभिमन्त्रणमिष्यते
उशीरं कुङ्कुमं कुष्ठं मांसी मलयजं मुरम् ।
ह्रीबेरमगुरुं पिष्ट्वा कुम्बे तत्र विनिक्षिपेत्
त्रैलोक्यमोहनं देव मर्चयेन्मन्त्रवित्तमः ।
नवकेषु तथा न्येषु प्राच्यादिषु यथाक्रमम्
जलतो वीरणीमूलं बभ्रुर्देवस्स भाज्यते ।
कर्पूरकाश्मीरमुभौ द्रव्यं शौरिश्च देवता
चम्पकं मुकुलं मांसी दासार्हश्चाधिदेवता ।
चन्दनं चन्दनं रक्त मन्नाधिपतिरच्युतः
नुरपर्णी रजो मौरं कर्दमो वस्तु देवता ।
वैकुण्ठो गिरिजं मूलं प्रियङ्ग्वाश्च रजःकणाः
पुरुषोत्तमदैवत्यं कुष्ठे द्वे द्रव्यमुच्यते ।
मुकुन्दःकृष्णधवलो वक्ररूपी वृषाकपिः
तमालपत्रं सर्वेषु निक्षिपेत्पुरुषात्मना ।
पवमानादिभिर्मन्त्रेर्मन्त्रेयेत्तान् सकृत्सकृत्
त्रत्येकं गन्ध वस्तूनि फलन्यष्टै यथोदितम् ।
एकाशीति घटग्रामे वारुणे ब्रह्मणः पदे
घटे वापीसरित्कूप ह्रदवृष्टि हिमापगाः ।
पत्युः पाथांसि चाहृत्य तटाकस्य च निक्षिपेत्
नवकानामथान्येषा मष्टानां मध्यमे घटे ।
पूर्वोक्तान्येव वाप्यादि नीराणि क्रमशःक्षिपेत्
मध्यमार्न द्रव्यकलशान् सर्वानेव प्रपूरयेत् ।
नलिनीनिर्झराम्भोभिः मत्स्यकूर्मावपि द्वयम्
निष्कद्वयपरिच्छिन्न काञ्चनेन विनिर्मितम् ।
कलशेष्वेव नवसु मध्यमेषु विनिक्षिपेत्
मत्स्यादि रूपिणं देवं वर्जयित्वाच भार्गवम् ।
यथोक्तकुम्भनवके क्रमेणैव सभाजयेत्
एकाशीति पदे सौम्ये मद्ये नवकमध्यमे ।
यमगोधूमकव्रीहि शालिमुद्गप्रियङ्गुकान्
माषश्यामाकनीवारान् क्षिपेत्तत्र च पूजयेत् ।
देवेशं गरुडारूढं पद्मनाभं यथाविधि
धान्यानि तानि चैकैक मन्येष्वष्टसु निक्षिपेत् ।
घटेषु मध्यभूतेषु क्रमात्सर्वत्र शालयः
पूजयेद्वनमालां च शङ्खं चक्रं च कौस्तुभम् ।
पद्मं शार्ङ्गं गदां खड्गं क्रमादुक्तं घटाष्टके
पङ्छा शत्सुटेष्वग्नेरेकोनेषु तथा दिशि ।
मध्यमं कुम्भनवकमाघारेण प्रपूरयेत्
षट्स्वेन्द्रेषु च गोमूत्रं क्षीरं याम्येषु पुरुणे ।
दधि षट्सु तथा सौम्ये गोमयं षट्सु निक्षिपेत्
चतुर्षु कुम्भेष्वाग्नेये कोणे वाप्युष्णमुच्यते ।
नैरुते पञ्चगव्यानि पञ्चामृतमथानिले
ऐशाने सक्तुभिस्तेषु नारायणसभाजनम् ।
नैरृत्तौकोनपञ्चाशद्घटेषु ब्रह्मणःपदे
तैलेन नवकं पूर्य गन्धाद्भिष्षट्पुरस्थ्सिताः ।
घटसारद्रवैर्याम्ये लाजैःकुम्भेषु वारुणे
सौम्ये भिमन्त्रिताम्भोभिः कोणेषु गुळवारिभिः ।
यजेत तेषु कुम्भेषु वासुदेवं जगद्गुरम्
मारुदैकोनपंचाञ्चाशद्घटेषु नवकं पुनः ।
पूर्य सर्षपतैलेन प्राच्यां षट्पाद्यपारिभिः
याम्येषडर्घ्यैष्षट्कुम्भाः प्रतीच्याचमनाम्बुभिः ।
षट्सैम्ये मङ्गलाम्बोभिः पूरयेत्कमलासन
कोणेष्विक्षुरस्तेस्तत्र समाराध्योऽनिरुद्धकः ।
एशानैकोनपंचाशद्घटेषु ब्रह्मणः पदे
नवकं मधुभिःपूर्य प्राच्यां षट्सर्वगन्धकैः ।
शान्तिवारिभिरन्यत्र षट्कं कोणे च नैरुते
आग्नेये च स्थिताः कुम्भा नालिकेरजलैरपि ।
शार्वे च वायवीये च पीयूषैर्नालिकेरजैः
यष्टप्यो हरिरेतेषु कुम्भेषु कमलासन ।
भागे तु मानुषे प्राच्यां कुम्भानां पञ्चविंशतिः
मध्यमं पुरयेन्मृद्भिर्वक्ष्यमाणाभिरष्टभिः ।
क्षेत्रतीर्थाब्धिशैलेषु गजसूकरयोरपि
वल्मीकवृषमोर्मृत्स्नान्यस्यते मध्यमे घटे ।
अष्टास्वन्येषु कलशेष्वेकै कां तां विनिक्षिपेत्
अर्च्यश्च केशवस्तेषु क्रमादन्यत्र चोच्यते ।
सहदेवी वचा चैव शतमूला शतावरी
कुमारी च गुलूची च सिंही व्याघ्रीति चाष्टमी ।
मूलानि मध्ये चै तेषां कलशे मध्यमे क्षिपेत्
एकैकमष्टास्वन्येषु तेषु नारायणार्चनम् ।
न्यग्रोधोमम्बराश्वत्थ जम्बुभिल्व त्वचां रसाः
तथापलाशमधुक शिरीषाणामपि त्वचः ।
न्यसनीया घटे मध्ये प्रत्येकमितराष्टके
पूज्यश्चमाधवस्तेषु तरूणां पल्लवा इमे ।
पलाशबिल्ववकुल कदम्बाम्रशिरीषजाः
न्यग्रोधाश्वत्थजाश्चापि न्यसनीया विधेःपदे ।
एकैकमित रेष्वर्च्यो गोविन्दो जातिमल्लिकैः
प्रियङ्गु पद्मवकुल नन्द्यावर्तक चम्पकाः ।
कुन्दं चैतानि पुषाणि न्यसनीयानि मध्यमे
सिद्धार्थो राजसिद्धार्थो वंशो गोरोचनापि च
इन्द्रवेणुर्यवष्षष्ठश्शमी च चणक स्तथा ।
एतानि मध्यमे कुम्भे एकैकमिति रेषु तत्
तेषु पूज्यो मधुरिपुसरस्सी रुहसम्भव ।
तिलमारण्यं कं ग्राम्यं जीरकद्वयमेव
अतसीसम्भवं चैव शतपुष्पं कुमारकम् ।
ऋषिबीजं च कलशे मध्यमेऽन्यत्र पूर्ववत्
तेषां त्रिविक्रमो देवो यष्टव्य स्साङ्गपीठकः ।
श्यामाकष्षाष्टिकश्शाली नीवारस्य च तण्डुलाः
दुर्वाकुशेन्द्र वल्लीनामङ्कु राः पिप्पलस्य च ।
न्यस्यन्ते मध्यमे कुम्भे कुम्भेष्व न्यत्र पूर्ववत्
देवता वामनस्तेषु कुशा दिव्यौषधास्त्रयः ।
काशा मूलमुशिरस्य शरपुङ्खस्य मूलिका
मूलिकास्त गरस्यापि तथापामार्गमूलिका ।
ते मध्ये च घटे सर्वे घटेष्वन्यत्र पूर्ववत्
देवता श्रीधरस्तेषां तुलस्यौ च सितासिते ।
वेणुकेसरिणोःपत्रे पत्रे केतकबिल्वयोः
शमीपर्णं तथा जातेर्मध्यमेऽन्यत्र पूर्ववत् ।
देवता च हृषीकेशो द्वयं मुस्ताकचोरकम्
कुमुदोत्पलयोः कन्दं कह्लोरं शीतलीयकम् ।
न्यस्येन्मध्ये कुवलयं कुम्भेष्वष्टसु पूर्ववत्
तेषां देवः पद्मनाभो मुद्गमाषयवाङ्कुराः ।
निष्पावतुवरीव्रीहिकुलुत्थानामथाङ्कुराः
आढकस्य च कुम्भानां मध्यमेऽन्यत्र पूर्ववत् ।
दामोदरार्चनं तत्र शङ्ख पुष्पी बला तथा
विष्णुक्रान्ता सदाभद्रा पद्ममेकदलं वरम् ।
सहा च सह देवा च न्यसनीयाःविधेःपदे
अन्यत्र पूर्ववत्पूज्यो यज्ञनारायणो भवेत् ।
स्वेतार्कश्च तथैवाग्निभद्रा ब्रह्मसुवर्चला
सरसा च विरक्ता च पृश्निपर्णी स्थिरा तथा ।
एरण्डकं घटे मध्ये अन्यत्र स्याद्यथा पुरम्
अर्चनीयो हरिस्तत्र सूरभिः पद्मकेसरं ।
पत्रमेला लवङ्गत्व ङ्नागकेसरमेव च
लताजातिफले मध्ये न्यसनीया विधेःपदे ।
एकैकमितरेषु स्यात्तेषु कृष्णश्च देवता
सुवर्णं रजतं ताम्रं प्रत्येकं निष्टपञ्चकम् ।
कृत्वा पद्माकृतिं कांस्यं दर्पणं चषकानि च
अयोलवित्राद्याकारं त्रपुं सीसकपित्तले ।
त्रयं प्रकृतिरूपेण न्यस्यते मध्यमे घटे
प्रत्येकमितरेष्वेतद्धय ग्रीवोऽधिदैवतम् ।
कुम्भेष्वन्येषु सर्वेषु पूरणं गन्धपारिभिः
सहस्रकलशस्स्नाने देशिका बहवः स्मृताः ।
चत्वारो द्विगुणं वापि तेषां षोडश ऋत्विजः
पुण्याहं वाचयित्वान्वगधिदेवार्चनं भवेत् ।
पञ्चोपनिषदैर्मन्त्रैस्सहस्रं सर्पिषाहुतीः
शान्त्यर्थं मूलमन्त्रेण जुहुयात्समिदादिभिः ।
यावद्रजोभिर्हारिद्रैस्स्नपनं मधुविद्विषः
मृत्स्नाभिर्मानुषे भागे प्रक्रम्य ब्रह्मणःपदे ।
रत्नोदकान्तं कलशैस्सहस्रेणाभिषेचनम्
मृदा विष्णोर्नुकमिति स्नपनं मूलवारिभिः ।
तद्विष्णोरिति देवस्य कषाय कलशाम्बभिः
प्रथद्विष्णुरितीशस्य विद्यया पल्लवाम्बभिः ।
देवस्य त्वेति कुसुमैस्तवामित्यपिसर्षपैः
द्रुवः पात्विति मन्त्रेण स्नपनं तिलवारिभिः ।
भद्रं कर्णेतिमन्त्रेण षाष्टिकाम्बुभिराप्लवः
न ते विष्णुरिति स्नानं कुश मूलाम्बभिर्हरेः ।
इरावतीति मन्त्रेण तुलसीदलवारिभिः
मुस्ताम्बुभिरतो देवा अवन्त्विति चतुर्मुख ।
इदं विष्णुरिति स्नानं उष्णैस्त्रीणिपदेति च
शङ्खपुष्पाम्बुभिश्चे तैर्विष्णोः कर्माणि पश्यत ।
तद्विष्णोः परमिति सुरभ्यादिजलै स्तथा
तिद्विप्रास इतिस्नानं लोहौर्भागे नृणामपि ।
दिव्ये भागे तु पौरस्त्ये एकाशीति घटास्पदे
प्रागादि ब्रह्म भूम्यन्तं क्रमेण स्नानमिष्यते ।
ऐन्ट्रे फलाम्बुभिः स्नानं यज्ञायज्ञीयमन्त्रकम्
क्रमेण मन्त्राः कथ्यन्ते द्रव्य कुम्भाष्टके यथा ।
इन्द्राविष्णुपदे मन्त्रो मनीषापदलक्षितः
पषट्ते विष्णुरित्येत त्तिस्रो वाच इतीदृशः ।
इषेत्वोर्जेति मन्त्रेण सावित्री त्वमसीति च
यस्मिन्विश्वानि विद्य च पर्जन्यायेति लक्षितः ।
एकाशीतपदे याम्ये स्नानं गन्धोदकैर्घटैः
नारायणानुवाकस्य ऋग्भिरष्टाभिरादितः ।
व्यस्ताभिरष्टभिस्स्नानं सर्वाभि र्मध्यमेन तु
दिग्भागे पश्चिमे ब्रह्म न्ने काशीति फटास्पदे ।
प्रागादि ब्रह्मभूम्यन्तं स्नानं वाप्यादिभिर्जलैः
मन्त्राः क्रमेण वक्ष्यन्ते प्रतिद्रव्य घटाप्लवम् ।
या आप इति मन्त्रेण सिन्धुद्वीपेतिविद्यया
एते शतमृचा स्नानमिमं मे वरुणेति च ।
शं नो देवीरभीत्येष यासां राजेति मन्त्रतः
समुद्र ज्येष्ठ मन्त्रेण यासां देवेति विद्यया ।
सूक्तेन वारुणेनैव स्नानं द्रव्य घटैरि ति
एकाशीति घटे सौम्ये वूर्वाद्यब्जपदावधि ।
धान्यानि वस्तु कुम्भानां नवानां मन्त्र उच्यते
त्रातार मिन्द्रसाम्ना चमन्तश्चात्वा वहन्त्विति ।
मन्त्रोजितं त इत्येष आपो वहति लक्षितः
मन्त्रश्च तावती त्येष स त्वं नो अग्निरित्यृचा ।
त्वं नो अग्न इति च महाव्याहृतय स्तथा
अणोरणीयानित्यन्तो मन्त्रः स्नान विदौ क्रमात् ।
एकोन पञ्चाशत्कुम्भेष्वग्नेः कोणे यथाक्रमम्
गोमूत्रादि घटे स्नाने मन्त्राणं कथ्यते क्रमः ।
गायत्री प्रथमा तासां पयोव्रत मनन्तरम्
दधिक्राव्णेति च स्नानं गन्धद्वारामितीदृशम् ।
विष्णोरराटमिति च मूर्धानं दिव इत्यृचा
हिरण्यगर्भमन्त्रेण आप्यायस्वेति विद्यया ।
घृतस्ना तेति मन्त्रश्च घृतस्नानविधौ क्रमः
एकोनपञ्चाशत्कुम्भे पदे निरृतिगोचरे ।
मन्त्राःक्रमेण वक्ष्यन्ते वस्तुकुम्भेरथाप्लवे
रक्षोघ्नमिति सामाद्यं पवित्रन्त इतीति च ।
भगवान् वासुदेवेति सामवेदव्रताह्वायम्
वै राजसाम कथितं तथा चैव पराजिताः ।
कथ्यते वायुकोणेऽपि मन्त्रास्स्नासविदौ तथा
द्वादशाक्षरमन्त्रश्च द्रुपदा दिव इत्यसौ ।
अष्टाक्षराह्वयो मन्त्रश्शन्नोदेवीरिति स्मृतः
हिरण्यपाणिरिति च वेदाहमिति च क्रमात् ।
ईशानकोणे मन्त्रोक्ति रानोनियुरिति ? स्मृतः
श्रीसूक्तं मधु मान्नश्च मधुनक्त इतीति च ।
मधुवातेति कोणेषु मन्त्रक्लृप्तिरुदाहृता
ब्राह्मेपदे तु सूक्तस्य पौरुषस्यादितःक्रमात् ।
अष्टासु द्रव्यकुम्भानामष्टानां मन्त्र इष्यते
मध्यमे नवके पूर्वमष्टाभिश्शुद्धवारिभिः ।
स्नापयेन्मूलमन्त्रेण सहस्रेण घटैरिति
स्नापिते देवदेवेशे पश्चाद्रत्नघटाम्बुभिः ।
नूक्तेन पौरुषेणैन स्नापयेद्देशिकस्स्वयम्
घटैश्शुद्धोदकैन्यैस्स्नपनं मूलविद्यया ।
हरिद्राचूर्णसंपूर्णैःपञ्चविंशतिभिर्घटैः
स्नपनं सप्तदशभिर्यद्वाषोडशसंमितैः ।
यद्वा द्वादशभिः कार्यं नवभिर्वा यथावसु
आराध्य देवमुचितं निवेद्य च महाहविः ।
होमस्सहस्त्रेराज्येन समिद्भिर्मूलविद्यया
अन्नैश्छतुर्विधैश्चैव प्रत्यृचं पुरुषात्मना ।
सूक्तेन तुष्टिं वस्त्राद्यैर्दे शिकानामनन्तरम्
सहस्रकलशस्नाने तत्सङ्ख्या स्वर्णदक्षिणा ।
तदर्धमधवा पादो यथाश्रद्धं यथावसु
यावती दक्षिणा तेषां स्यादर्धमथ ऋत्विजाम् ।
सहस्रं ब्राह्मणा नन्नैर्भोजयेद्दक्षिणामपि
तद्यात्तुष्टिकरीमन्यानागतानपि तोषयेत् ।
सेवां कुर्वन्तिये मर्त्याश्श्रद्धाभक्तिसमन्विताः
देवस्य स्नानसमये सहस्रकलशाम्बुभिः ।
गङ्गादि सरितां स्नानफलमश्नुवते महत्
सहस्र कलशस्नाने यत्फलं राजराष्ट्रयोः ।
पूजन्ते तदशेषेण प्रागुक्तमिति नोच्यते
मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0