भाषा

ENहिગુ
ग्रंथ पाठ

पद्मसंहिता · अध्याय 4.6

4.6.1

सूक्तस्याङ्गेषु भगवन् पौरुषस्य कथं भवेत् ।
न्यासः कथं वा तेन त्वामर्चयामि यथा मम

4.6.2

पृच्छत स्संशयानस्य गृहार्चन विधिक्रमः ।
याथातथ्येन वक्तव्योमयि चेदस्त्यनुग्रहः

4.6.3

छन्दोऽनुष्टु बृषि स्तस्य वासुदेवस्स देवता ।
मूर्ध्निफाले नयनयो र्नासिकायां तथा मुखे

4.6.4

गले भा ह्वोश्च हृदये नाभावङ्गे च मेहने ।
ऊर्वोश्चरणयोर्न्यानः प्रथमादि ऋचां क्रमात्

4.6.5

आद्ययाऽवाहयेद्देव मासनं च द्वितीयया ।
पाद्यं तृतीयया चार्घ्यं चतुर्थ्या वितरेदृचा

4.6.6

पङ्चम्याचमनं स्नानं षष्ठ्या सप्तऋचाम्बरम् ।
उपवीत मृचाष्टम्या नवम्यागन्धेलेपनम्

4.6.7

पुष्पं दशम्येकादश्या द्वादश्या धूपदीपकौ ।
निवेदनं त्रयोदश्या चतुर्दश्या नमस्कृतिः

4.6.8

प्रदक्षिणं पङ्चदश्या षोडश्योद्वासनं हरेः ।
समिधन्नाज्य होमश्च प्रत्यृचं जातवेदसि

4.6.9

स्वगृहे पूजयेद्विष्णु शुचौ देसे गृहे क्वचित् ।
स्थले रत्नमयस्थाने विमाने च तथाविधे

4.6.10

अप्स्वग्नौ हृदये सूर्ये स्थण्डिले प्रतिमासु च ।
पुष्पोदपात्रमादाय तिष्ठन्नावाहयेद्धरिम्

4.6.11

ओंभूरादि व्याहृतिभिः प्रत्येकं पुरुषोत्तमम् ।
व्यस्ताभिश्च समस्ताभिः वेदाद्येनासनं ततः

4.6.12

पात्रस्थमम्भस्सावित्र्या अभिमन्त्र्य पवित्रकम् ।
तदघ्यं विष्णुगायत्र्या दद्यात्त्रीणिपदेत्यृचा

4.6.13

पाद्यमाचमनीयं च प्रणवेन प्रकल्पयेत् ।
मन्त्रैस्स्नपनमब्लिङ्गैरङ्गं च विमृजेत्ततः

4.6.14

व्याहृत्याप्लोतवस्त्रेण जितन्त इति विद्यया ।
वासो विद्यादिना दद्यादुपवीतं च लेपनम्

4.6.15

इदं विष्णुरिति प्रोच्यप्रणवेन प्रसाधनम् ।
तद्विष्णोरिति पुष्पाणि जितन्त इति धूपकम्

4.6.16

उद्दीप्यस्वेति दीपं च देवस्य त्वेति वै हविः ।
वासुदेदादिमन्त्रैश्च मत्स्याद्यैः केशवादिभिः

4.6.17

पुष्पाणि दद्याद्ध्यात्वाचतांतां मूर्तिं यथायथम् ।
चतुर्मुखादि देवानां परिवारतयार्चनम्

4.6.18

न स्वातन्त्र्येण यष्टव्यः वैष्णवेन गृहार्चने ।
जपकाले नृसूक्तं वा द्वादशाक्षरमेव वा

4.6.19

अष्टाक्षरं वा यद्वान्यं मन्त्रं प्रणवमेव वा ।
जपेत्समाहितमना यद्वा त्रय्यन्त गोचरान्

4.6.20

यो नित्यं पूजयेद्विष्णुं गृहस्थो वेश्मनि स्वयम् ।
स नयेत्स्व कुलोद्भूतान् पुरुषानेकविंशतिम्

4.6.21

विष्णोः पदं वा सालोक्यं यद्वान्य दभिवाञ्छितम् ।
उपचारा हरेदद्य सपर्या विधिगोचराः

4.6.22

अष्टोत्तरशतं विंशच्छ्रुता ये मन्मुखोद्गताः ।
अवहन नमस्कारौ प्रत्युत्थान मनन्तरम्

4.6.23

पुष्पाञ्जलि स्स्वागतोक्ति रासनं पादपीठिका ।
अर्घ्यं पाद्यं प्रतिग्राहः पाद्यप्लोताभि मर्शनम्

4.6.24

आलेपनं चरणयोश्च न्दनक्षोदवारिणा ।
अपामाचमनीयं तु प्रतिग्रहण दर्शनम्

4.6.25

उपस्पर्शन मालेपश्चन्द नाद्यम्बुचर्चया ।
पुष्पमाला धूपदानं मधुपर्क निवेदनम्

4.6.26

घनसारो नागवल्ली
स्नानविष्टर गोचराः ।
पादुरे स्नानपीठं च स्नानशाटक मन्वतः

4.6.27

दन्तकाष्ठ मथादर्शो जिह्वानिर्लेखपट्टिका ।
ताम्बूलविटिका वस्त्रमपरार्धप्रसारितम्

4.6.28

अभ्यङ्गो मौलिमाला च तालवृन्तमनन्तरम् ।
चन्दनोद्वर्तनं तन्वा गन्धामलकवारि च

4.6.29

कङ्कतं कजनीस्नानं वस्त्रं गन्धानुलेपनम् ।
उत्तरीयं पवित्रं च नृत्तंगेय मनन्तरम्

4.6.30

वाद्यं दशशतैश्छिद्रैस्स्नानं धाराभि रर्णसाम् ।
नीराजनं शिरःप्लोत मुष्णीषं प्लोतपाससा

4.6.31

अङ्गाभिमर्शनं वस्त्र मुपवीत मनन्तरम् ।
उत्तरीयं त्रिंशदेते कथिताः कमलासन

4.6.32

अलङ्कारासनस्थस्य हरेस्तत्काल गोचराः ।
उपचारा श्शिरस्त्राणं पीतकौशेय वाससा

4.6.33

कर्पूर रजसा ऽऽमौलि चापादान्त मनन्तरम् ।
कस्तूरिका मृगमदं चन्दनेनानुलेपनम्

4.6.34

व्यजनं चामरप्यूहौःकुङ्कु मेनानुलेपनम् ।
गन्धं च कृत्रिमा भूषा ब्रह्मसूत्र मनन्तरम्

4.6.35

उत्तरीयं मौलिमाला भाहुमालाविलम्बनम् ।
मृत्स्नया तिलकं कुर्यादञ्जनं च शलाकया

4.6.36

पुष्पावकिरणं ब्रह्मन् महादर्शप्रदर्शनम् ।
ताम्बूलिका धूपदीपौ शालितण्डुल मात्रिका

4.6.37

स्वाध्यायाध्ययनं दानं नाट्यं वेणु निनादनम् ।
वीणादिवादनं पाठो मङ्गलाना मनन्तरम्

4.6.38

नीराजनं च पिण्डानां पङ्चानां क्षेपणं दिशि ।
यात्रासनोपचारास्तु हरेसत्त्काल गोचराः

4.6.39

उपानहौ चामराणि मुक्तातप निवारणम् ।
मयूरपिङ्छव्यजनं तालवृन्तं रथो गजः

4.6.40

अश्वश्च शिबिकायानं वैनते यध्वजोन्नतिः ।
क्रीडायष्टिश्च ताम्बूली क्रिडाफलसमृद्धयः

4.6.41

एवं पङ्चदश प्रोक्ता यात्रासनगताः परम् ।
भोजनासनमारूढे हरौ तत्कालगोचराः

4.6.42

मधुपर्कं च ताम्बूलं वीटिका मुखशाटिका ।
अर्हणाम्भः पायसान्नं मुद्गान्नं च गुलोदनम्

4.6.43

दध्योदनं पानकं च पानीयं हस्तशाटकम् ।
शुद्धिक्च करयो रेलाचन्दनक्षोदवारिणा

4.6.44

सुखासीने च दाशार्हे चन्दनोदकचर्चया ।
अज्गेष्वालेपनं माल्यमपूव पृथुकास्तथा

4.6.45

सक्तनस्तिलपिण्डाश्च फलानि क्वथितं जलम् ।
नालिकेराम्बुदानं च ताम्बूलीदलवीटिका

4.6.46

प्रदक्षिण नमस्कारस्तु तिरात्म निवेदनम् ।
अर्घ्यमुद्वासनं चैते शतमष्ठा च विंशतिः

4.6.47

उपचारा हरेर्ब्रर्ह्म विस्तरेण प्रदर्शिताः ।
आपाहन नमस्कारौ सपर्यासन मन्वतः

4.6.48

पादपीठं तथैपार्घ्यं पाद्यनीर प्रतिग्रहः ।
पाद्यमाचमनीयाम्भः प्रतिग्रहणमेव च

4.6.49

अचामो मुखवासश्च पादुके स्नानविष्टरम् ।
स्नानशाटी दन्तकाष्ठं जिह्वानिर्लेखनं तथा

4.6.50

ताम्बूलाभ्यङ्जनं चैव व्यजनं चाङ्गपेषणम् ।
गन्धामलकजं स्नानं कङ्कतेन विशोधनम्

4.6.51

रजनीचर्चया स्नानमुत्तरीय परिष्कृतिः ।
वारिधारा सहस्रेण स्नानं नीराजनं तथा

4.6.52

प्लोताभिमर्शनं वासो ब्रह्मसूत्र मनन्तरम् ।
उत्तरीय मलङ्कारविष्टरं केशशोषणम्

4.6.53

परिधानं दुकूलेन गन्धद्रव्यानु लेपनम् ।
व्यजनं भूषणं माला पुष्पाणां सयनाञ्जनम्

4.6.54

ताम्बूलं दर्पणं धूपदीपौ मात्रा परिव्ययः ।
दानं नीराजनं च्छत्रमुपानट् चामरध्वजाः

4.6.55

वाहनं शिबिकायानं त्रयं क्रीडा फलं तथा ।
भोजन स्यासनप्राप्ति र्मधुपर्क निवेदनम्

4.6.56

अर्हणं प्रापणं पानं पानीयं सुखविष्टरम् ।
निवेदन मपूपादे स्ताम्बूली स्तोत्र शंसनम्

4.6.57

विसर्जनमिति ब्रह्मन् षष्टिश्च चतुरुत्तरा ।
उपचारानथो पक्ष्ये द्वात्रिं शत्तुयथातथम्

4.6.58

आवहनासने पश्चादर्घ्यं पाद्य मन न्तरम् ।
आचामो मुखवासश्च पादुके दन्तधावनम्

4.6.59

जिह्वानिर्लेखनं तेलं धात्र्यास्स्नानं हरिद्रया ।
पासश्चैपूपवीतं च गन्धालेपश्च भूषणम्

4.6.60

मालाऽञ्चनं तथादर्शदानां धूपश्चदीपिका ।
मात्रादानं ततश्छत्रं चामरं तूर्यघोषणम्

4.6.61

मधुपर्कार्हणं चैव निवेदन मनन्तरम् ।
भक्ष्यं तथा नागवल्ली विसर्जन मथान्तिमम्

4.6.62

उपचाराष्षोडश न्युरात्मनश्शक्त्यपेक्षया ।
आवहनासने पूर्वमर्घ्यं पाद्य मनन्तरम्

4.6.63

उपस्पर्शस्तथा स्नानं पस्त्रं यज्ञोप वीतकम् ।
गन्धालेपस्तथा भूषा माला धूपः प्रदीपिका

4.6.64

मधुपर्कं प्रापणं च विसर्जन मथान्तिमम् ।
आसनेषु च सर्वेषु पाद्यं पाद्य प्रतिग्रहः

4.6.65

पादप्लोत श्चरणयोर्गन्धा लेपश्चतुर्मुख ।
आचामश्च तदम्बूनां प्रतिग्रहण मिष्यते

4.6.66

भोज्ययात्रासने त्यक्त्वा कर्तव्यं पादविष्टरम् ।
उपक्रमोप रमयो र्मधुपर्क निवेदनम्

4.6.67

भोजनान्तेच वस्त्रस्य परिधाने तथा प्लवे ।
जिह्वानिर्लेखनान्ते च सर्वत्रा चमनक्रिया

4.6.68

निवेदनि च वस्त्राणां केशानामपि शोषणे ।
घन्टानादं विना धूपो
न विनान्यत्र घण्टया

4.6.69

दीपोपचारे नै वेष्टं घण्टास्वनन मन्यथा ।
विभवानां क्षये स्थाने स्याच्च पूजाऽसुरीकृता

4.6.70

निर्लेखनं रसज्ञाया दन्तकाष्ठं च निक्षिपेत् ।
उपस्पर्शन वारीणां प्रतिग्रहण भाजने

4.6.71

भक्षणाद्यन्न पानान्ते पाससा हस्तमार्जनम् ।
तथाञ्जने नयनयो र्मार्जनं पाससा भवेत्

4.6.72

अर्हणं भोजने दद्यान्न पानादौ कदा चन ।
परस्य सूक्ष्मस्य तथा स्थूलस्य तदनन्तरम्

4.6.73

चिन्ता सङ्क्रमणं तस्य बिम्बे प्रत्युद्गम स्तथा ।
स्वागतोक्तिर्नमस्कारस्सान्निध्य प्रार्थना तथा

4.6.74

इत्यावाहन मष्टाङ्गं परस्य परमात्मनः ।
रत्नेषु स्फटिके स्वर्णे रजते ताम्रकेऽपिवा

4.6.75

क्षणिके वार्चयेद्देव मावाह्य विधिपूर्वकम् ।
चक्राब्जमण्डलं कुम्भ स्सोदक स्सूत्रवेष्टनम्

4.6.76

बीजं पिष्टं तथैपान्नं फलं पुष्पं जलं तथा ।
गन्धं वेदिश्शकृत्कूर्चमित्यादि क्षणिकं मतम्

4.6.77

आलये स्थापितं देवं सदा नीराजयेद्धरिम् ।
सम्पूर्ण मम्भसा कुम्भं हेमादिद्रव्य निर्मितम्

4.6.78

स्रग्विणं सापिधानं च मुखेऽश्वत्थ दलै र्युतम् ।
अक्षतैरर्चितं गन्धवारिणाभ्युक्षितं तथा

4.6.79

चतुष्टया ङ्गुलोत्सेधं दीपवर्ति विराजितम् ।
उच्चैरादाय हस्ताभ्यामापाद तलमस्तकम्

4.6.80

त्रिः परिभ्रम्य देवेशं बलिपीठे विनिक्षिपेत् ।
एवं नीराजनं घोरशान्त्यर्थं पुष्टिवर्धनम्

मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc