पद्मसंहिता · अध्याय 4.32
ऐहिकामुष्मिकं सर्वं मन्त्रं सौदर्शनं परम् ।
शुश्रूषोर्भगवन्नद्य रहस्यमपि पावनम्
भक्ताय मह्यं दातव्यं प्रणताय यथातथम् ।
हन्त ते कथ यिष्यामि मन्त्रं सर्वार्थसाधनम्
यथार्थनाम तेनायं नाख्येयो यस्य कस्य चित् ।
उद्गीथमुद्धरेत्पूर्वं चन्द्रमाद्यं नभोमणिम्
अत्रिं सितद्युतिं वह्निं गोपनं ज्वलनं मुखम् ।
ऊष्माणमुदयं वीरं पुल्लाक्षं विष्णुमस्तकम्
हृदयाह्लादमित्येव मन्त्रोद्धारश्चतुर्मुख ।
वह्निमादिमनुस्वारं बीजमुद्धृत्य कल्पयेत्
षडङ्गमनुवर्णानामुद्धारः कथ्यते क्रमात् ।
अङ्गत्रयं चतुर्वक्त्र पूर्वमाविष्कृतं मया
चतुर्थ्यन्तं चक्रपदमुद्गीथादि प्रयोजयेत् ।
अनन्तरं सूर्यपदं तद्विभक्ते च तत्पदम्
पञ्चमं षष्ठमप्यङ्गं पदं तत्तद्विभक्तिकम् ।
उद्धार्यं च साहस्रादि ज्वालाधारादि पूर्वकम्
एवमङ्गानि षड्ब्रह्मन्नुक्तानि गहनानि ते ।
अहिर्बुध्य्नोमनोर्द्रष्टा विराट्छन्दस्सुदर्शनः
देवता मुनयश्चात्र प्रत्यक्षरमथाब्जज ।
व्यासः कण्वो नारदश्च वसिष्ठः परमो भृगुः
अत्रिष्षडेते द्रष्टारश्छन्दांस्यक्षरशश्शृणु ।
उष्णिग्बृहत्यौ गायत्रं पङ्त्किश्च जगती विराट्
वर्णाः कालाग्निवराणाभाः कालाश्चैवहिदेवताः ।
करयोर्न्यस्य तलयोरुभयोरक्षराणि षट्
प्रथमान्तार्णशिष्टानामङ्गुष्ठादिषु पर्वसु ।
अङ्गुलीषु क्रमादेवमक्षरन्यास ईरितः
देहे च मूर्ध्निचास्ये च हृदये गुह्यजानुनोः ।
पादयोर्न्यसनीयानि क्रमान्मन्त्राक्षराणि षट्
श्रीसुदर्शनगायत्री मपरां न पराजिताम् ।
वक्ष्यामि तस्याश्चोद्धारः पदशः कथ्यतेऽधुना
उद्गीथादि चतुर्थ्यन्तं सुदर्शनपदं ततः ।
वेत्तिं लुडन्तमपरं बह्वर्थं पद मिरयेत्
महापूर्वं चक्रपदं तद्विभक्ति र्विभूतिजम् ।
ध्यायन्ती पदमुच्चार्य पूर्ववत्तिङ्विभूषितम्
तत्पदं चास्मदादेशो नः पदं च द्विशीर्षकम् ।
प्रपूर्वं चो दयान्तं च पदमित्युद्धरेन्मनुम्
अस्य बीजं तु पूर्वोक्तं वेदितव्यं चतुर्मुख ।
आशासु दशसु स्थाप्य मन्त्रं तच्चक्रमुद्रया
तन्मध्येस्थितमात्मानमग्निज्वालापरीतवत् ।
ध्यायेत् क्षिततले शुद्धे सहस्रदलपङ्कजे
कर्णिकायां चक्रधरं द्विभुजं वृत्तलोचनम् ।
दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम्
महोदरं महाकायं जपाकुसमसन्निभम् ।
करण्डमुकुटोपेतं रक्ताम्बरविभूषितम्
धारयन्तं शिखारत्ने चक्रमेकसमप्रभम् ।
नाभिनेमिसमायुक्तं ज्वालामण्डलदुस्सहम्
ज्वलत् षडरसंयुक्तमयुतार्कसमप्रभम् ।
पद्ममेवं स्थितं धायेत्तन्नाभौ च सुविस्तृते
चक्राभिमानिसं देवं द्विहस्तं पुरुषंस्थितम् ।
रक्ताम्बरधरं रक्तं रक्तचन्दनपङ्किलम्
करण्डमुकुटोपेतं सर्वाकल्पपरिष्कृतम् ।
दंष्ट्राकरावदनं भ्रुकुटीकुटिलाननम्
उद्गिरन्तं हुतवहं खरण्डैर्मारुतानुकम् ? ।
विष्फुलिङ्गान् दुर्विषहान्विसृजन्तमनेकशः
कामरूप सहस्रेभ्यः प्रलयाम्बदनिस्वनम् ।
तर्जनं वामतर्जन्या बिभ्राणं दक्षिणे करे
निपीडिताङ्गलिं शत्रुं प्रहरन्नि वभीषणम् ? ।
दहन्निव च नेत्राभ्यां पिबन्निव महोदधिम्
ध्यात्वैवमर्चयेद्भोगैरर्घ्यादिभिरतन्द्रितः ।
सिद्धये मन्त्रराजस्य पुरश्चर्या यथोदिता
देशे काले च मन्त्रस्य रूपं सङ्ख्या च पूर्ववत् ।
खाककन्दफलक्षीरसक्तुपिण्डान्न भक्षणः
तोयैस्पर्पणमग्नौ च जुहुयात्समिदादिभिः ।
मन्द्रस्सिध्यति तस्यैवं कुर्वाणस्य यथाविधि
सिद्धैं च सूचयत्यस्य स्वप्ने मङ्गलदर्शनम् ।
प्रयुञ्जीतततो मन्त्रं शान्तिकादिषु कर्मसु
षोडशस्तम्भसंयुक्तं कल्पयेद्यागणमण्टपम् ।
स्थापयेत्तत्र विधिपत्कुम्भानां पञ्चविंशतिम्
वेष्टितान् सूत्रवस्त्राद्यै र्धान्यराशिषु मङ्गलान् ।
एषु द्रव्याणि सङ्गृह्य न्यसेत्कमलसम्भव
घृतमुष्णोदकं रत्नं फलदोक मनन्तरम् ।
लोहतोयं मर्जानाम्भो गन्धाम्भशाचक्षतोदकम्
यपोदकं क्रमाधेषु कुम्भेषु नवसु क्षिपेत् ।
पाद्यं गुळोदकं चैव दधि चेक्षुरसं तथा
अर्घ्यं च नालिकेराम्भः क्षीरं च तदनन्तरम् ।
सर्वौषधिबजलं तद्वदाचामं मङ्गलोदकम्
मधुपूर्वं शान्तिवारि पञ्चगव्यमनन्तरम् ।
मूलोदकं कषायाम्भः पुक्ष्पवारि चतुर्मुख
द्रव्याण्ये तेषु कुम्भेषु बहिष्ठेषु विनिक्षिपेत् ।
प्रत्येकं शतकृत्वश्च मन्द्रेणै वाभिमन्त्रयेत्
कुम्भे द्रव्याणि निक्षिप्य चक्रब्जं वर्तयेत्ततः ।
तन्मध्येमन्त्रराजेन यष्टव्यं तत्सुदर्शनम्
कुण्डेवृत्तेच जुहुयात्समि दन्नादिभिः क्रमात् ।
हुत्वा निशायां मानुना प्रभातेऽर्घ्यादिभिः क्रमात्
अर्चयित्वा हेतिराजं हुत्वाग्नौ समिदादिभिः ।
भूर्जपत्रे लिखेच्चक्रं नाभिनेमिसमन्वितम्
षडरं तत्र पूर्वादि क्रमाच्चैव षडक्षरम् ।
लिखित्वच्छन्दसामादि तन्मध्यै साध्यनाम च
हेमसूच्यालिखेद्द्रव्यैर्मिश्रितैश्चन्दनादिभिः ।
चन्दनद्वयकाश्मिररोचनागुरु मुख्यकैः
गन्धद्रव्यैस्सुसंपिष्टैः पश्चात्तां भूर्जपत्रिकाम् ।
गुलिकां कारयेत्तां च शालितण्डुलराशिषु
अधिवास्या स्वहं कुम्भैस्स्नापयित्वा यथाविधि ।
बन्धयेत्तां मातुरङ्गेमन्द्रेणानेन मन्त्रवित्
गुलिकाबन्धनेनैव मुक्तोरोगादिभिर्नरः ।
तेजस्वी भवति क्षिप्रं त्वचा मुक्तो यथारगः
ज्वलितस्य भवेच्छान्तिः प्रसूनैर्निम्बसम्भवैः ।
दूर्वाङ्कुरांश्चूतदलैस्सिक्तैर्मधुपयोघृतैः
मनुना जुहुयादग्नौ सप्तरात्रमतन्त्रितः ।
प्रत्येहं दशसाहस्रसङ्ख्याया रोगिसन्निधौ
अभिषिच्य तथा कुम्भै रोगिणं चक्रविद्यया ।
बध्वा च गुलिकां मन्त्रीमोचयेज्ज्वलितं ज्वरात्
गोभूहिरण्यवस्त्राद्यैर्मन्त्रिणं तोषयेत्ततः ।
ब्राह्मणेभ्यो यथाशक्ति दद्याद्गोकम्बलादिकम्
भूतग्रहि पिशाचादि पीडितानां तथा नृणाम् ।
शान्तये जुहुयादग्नौ किंशुकोत्थैस्समिच्छतैः
त्रियहं त्रिसहस्रैश्च तेषां बध्वा शिखां ततः ।
गुग्गुलूत्थेन धूपेन धूपितान् गृहपीडितान्
ताडयेन्मन्त्रजप्तेन दण्डेन लतयापि वा ।
पिशाचादिस्ततो ब्रूयान्मुञ्छामिति प्रपीडितः
शपथं कारयित्वातु शिखाबन्धं च मोचयेत् ।
स्थापितैः कलशैः पश्चान्मन्त्रेण ग्रहपीडितम्
स्नापयेद्बन्धयेच्छापि गुलिकामभिमन्त्रिताम् ।
ततो विमुच्य तेरोगाच्छेतो वाग्भिरुपद्रवात्
तेजस्वी शतमायुश्च भवेन्मन्त्रप्रभावतः ।
नारीच दुर्भगा चक्रधारणात्सुभगा भवेत्
वन्ध्या च गर्भिणी सद्यस्सुप्रसूस्स्यादपप्रनूः ।
अनृतुस्स्यादृतुमती विमुखा सुमुखा भवेत्
विरहे सङ्गता भर्ता भवेदचिरकालतः ।
स्त्रीप्रसूः पुंप्रसूतिश्च अन्तना स्तनमण्डिता
कुमारपक्षिपीडादौ बालानां च यथोदितैः ।
विदिभिर्मुच्यते दुःखाल्लभते चायुरुत्तमम्
प्रासादेपि नरेन्द्रस्य ब्रह्मरक्षोमुखैर्गृहैः ।
प्रवेशे सति तन्मध्ये कुम्भान् रत्नसमन्वितान्
स्थापयित्वा यथापूर्वं समिदाद्यैरतन्द्रितः ।
मन्त्रेण जुहुयान्मन्त्री द्वादशाहन् समाहितः
प्रत्येकं दशसाहस्रसङ्ख्याया कमलासन ।
ताम्रपात्रे शिलायां वा चक्रमालिख्य तत्पुनः
धान्यराशिषु संस्थाप्य निशायां प्रातरुत्थितः ।
प्रासादद्वारि निखनेद्दिक्षु चाष्टसु मुद्रितम्
प्रोक्षयेत्कुम्भुतोयेन गृहं सर्वमशेषतः ।
पलायन्ते ग्रहस्सर्वे दूरतस्सर्वतो मुखाः
तद्रष्ट्रेपि न तिष्ठन्ति सर्वकालमसंशयम् ।
प्रासादवर्तिनस्सर्वे जीवन्ति निरुपद्रवाः
धनधान्यसमृद्धिश्च यथा धनदवेस्मनि ।
वस्त्रशय्यासानादीनां दंशने मूषिकादिभिः
रक्तस्त्रीदर्शने वापि केशानां दहने तथा ।
अकस्मद्गोपुरादीनां दहनेऽशनिपीडिते
निशि शक्रधनुर्दर्शे निवाते चैत्यभूरुहः ।
भङ्गे वल्मीकजनने दुस्स्वप्नेऽन्यत्र तादृशे
एवमादौ दुर्निमित्तै शान्तिमेतेन कारयेत् ।
यज्ञवृक्षसमिद्भिश्च होमः पूर्वोक्तसङ्ख्यया
कुर्याच्च शान्तिं पुष्ट्यादिकर्मणा कमलासन ।
कथ्यन्ते तानि बहुधा नाभेदं यान्ति भेदतः
सर्वाभ्युदयकर्माणि चतुरश्रेषु कारयेत् ।
पौष्टिकं पद्मकुण्डेषु शान्तिं वृत्ते सुखावहः
त्रिकोणे मारणं कर्म कुण्डे चापाकृतौ पुनः ।
उच्चाटनं यक्षकन्यासाधने कोणपञ्चके
षडश्रे स्तम्भनं कर्म सप्ताश्रे मोहनं भवेत् ।
विद्वेषणं नवाश्रेस्यादष्टाश्रे मारणं विधिम्
एकादशाश्रे ब्रह्मादिवशीकरणमाचरेत् ।
कुण्डे दशाश्रे पश्यादि देवतातोषणोविधिः
द्वादशाश्रेषु पुरुषं वैकुण्ठं द्रष्टुमाचरेत् ।
योन्याकारे विवाहार्थं कन्यार्थं कमलासन
चतुर्विंशत्यङ्गुले स्याद्विस्तारायामकल्पनम् ।
खातं तावद्भिरेव स्यात्कुण्डेषु नियतिं शृणु
तदर्धं पादमथवा चतुरङ्गुलमेव वा ।
परितो द्व्यङ्गुलं हित्वा बहिस्तिस्रश्च वेदिकाः
कार्यास्तासां च विस्तारश्चतुरङ्गुलसंमितः ।
तावत्ये पोन्नतिर्ब्रह्मन् कुण्डस्य धनुषः पुनः
अङ्गुल्या नवतिष्षट्च ज्या च षट्त्रिंशदङ्गुला ।
शङ्कुं विधाय तन्मध्ये दशाङ्गुलसमायतम्
भ्रामयेत्परितस्सूत्रं कुण्डं तद्वलयाकृतिम् ।
चतुरश्रस्य कुण्टस्य विभजेत्पञ्चधा भुजम्
द्वौ भागौ भुजमेकं चत्रिं शत्पञ्चाथवा पुनः ।
अङ्गुलीनां भवेदेषां त्रिकोणाङ्के भुजः स्मृतः
कुण्डे षडश्रे च भुजा अष्टाष्टैकादशाङ्गुलाः ।
एको भुजः पञ्चकोणे विंशत्यङ्गुलिसंमितः
सप्ताश्रे च भूजायामो यवषट्काधिकः पुनः ।
तिस्रश्च दश चाङ्गुल्यः कुण्डे त्वष्टाश्रिभिर्युते
द्व्यधिका दश वा भूमौ दशांगुल्यः प्रकीर्तिताः ।
अंगुल्योस्तु भुजायामो नलस्कन्दांश कीर्तितः ॥ ? 32.86 ॥
नावाश्रकुण्डेषु यवा पञ्चकोणे भुजायतिः ।
दश चाङ्गुलयः प्रोक्ता दशाश्रे च चतुर्मुख
यवाः पञ्च भुजायामो नव चाङ्गुलयः स्मृताः ।
एकादशाश्रेकुण्डे तु यवैरष्टाभिरन्वितः
अष्टावङ्गुलयः कुण्डे द्वादशाश्रे भुजायतिः ।
अष्टादशांगुला फ्रोक्ता योनिकुण्डेषु चायतिः
अष्टौ च चत्वारिंशच्च भवेदंगुलयोऽब्जज ।
गजोष्ठसन्निभा योनिर्यद्वाश्वत्थदलोपमा
कुण्डा न्युक्तान्यथेदानीं शान्त्यादिः प्रतिकल्प्यते ।
यत्कुण्डं यस्य कथितं शान्त्यादेस्तस्य तद्भवेत्
अश्ववारणशालासु चक्रयन्त्रं यथाविधि ।
लिखित्वा ताम्रदार्वादौ निशायामधिवासयेत्
सहस्करृतः कर्तप्यो होमः कुण्डे शुभे यतः ।
समिद्भिर्यज्ञ योग्याभिः स्थापयेत्कुम्भमर्चितम्
अथ प्रभाते शालायां यन्त्रं खन्यान्महीतले ।
प्रोक्षयेत्कुम्भतोयेन गजानश्वान् पृथक्पृथक्
सौदर्शनेन मन्त्रेण पुण्याहं पाचयेत्तथा ।
नश्यन्ति व्याधयस्तेषां गजाश्वानां चतुर्मुख
बलं स्यादधिकं तेषामिति सप्ताहमाचरेत् ।
ब्राह्मणेभ्यो धनं दद्या द्यथाशक्ति च दक्षिणाम्
ऊर्जस्वलमथो ब्रह्मन् गजाश्वंजायते भृशम् ।
तथा च प्रत्यहं होमस्स्यात्सुदर्शनविद्यया
इत्थं गोमहिषादीनां रक्षां कुर्वीत मन्द्रवित् ।
पुररक्षामथब्रह्मन् प्रवक्ष्यामि यथातथम्
स्तम्भैष्षोडशभिर्युक्तां दर्भमाला परिष्कृताम् ।
पुरमध्ये प्रपां कृत्वा जुहुयात्सर्पिषा पुनः
पालाशीभिस्समिद्भिश्च दिनान्येकोनविंशतिः ।
दिक्ष्वाष्टासु तथा मध्ये पुरस्य कमलासन
खन्यात्सौदर्शनं यन्त्रं स्थापयेत्कुम्भमञ्जसा ।
तोयेन प्रोक्षयेद्विद्वान्नगरं चक्रविद्यया
ऋग्भिश्च पावमानीभिः प्रशस्तार्यथाक्रमम् ।
पुरद्वारेषु सौधेषु मण्टपेषु महीबृताम्
सर्वत्र निखनेच्छक्रं जुहुया त्समिदादिभिः ।
मरणव्याधिदुर्भिक्षज्वरादिव्याधयः पुनः
नश्यन्ति बलवन्तश्च भवन्ति पुरवासिनः ।
ग्राममध्ये तथा दिक्षु विदिक्षु चतुरासन
शृङ्गाटकेषु सर्वेषु निखनेदायुधा धिपम् ।
गृहवेतालरक्षांसि व्याध यश्चज्वरा दयः
न बाधन्ते पुरं ग्रममपस्मारादयस्तथा ।
न तस्करभयं किञ्छिदकालमरणं तथा
पुरुषायुषवन्तस्स्युर्नरा धान्यधनान्विताः ।
सौभाग्यं कान्तिरारोग्यं तथा कुलविपर्धयः
ब्रह्मवर्चस मित्येतद्ब्राह्मणानां भविष्यति ।
पयस्विन्यो भविषन्ति गावः पीनपयोधराः
तद्राष्ट्रेषु मनुष्याणां भद्रमेव भविष्यति ।
अथ वक्ष्यामि ते ब्रह्मन् पन्नगानां निवारणम्
देवालये नदीतीरे नन्दनोपवनेषु वा ।
चतुस्तम्भसमायुक्तं चतुस्तोरणभूषितम्
अभितो दर्भमालाभिश्शोभितं होम मण्डलम् ।
कृत्वा तस्मि न्नपां कुम्भान् स्थापयित्वा नवापरान्
प्राच्यां वेद्यां पुनः कुर्यात्कुण्डं पूर्वोक्तलक्षणम् ।
यजेदेतेषु कुम्भेषु नव मूर्तिर्यजेत्क्रमात्
निवेद्य पायसं तेभ्यः पश्चात्कुण्डे हुताशनम् ।
आददीताथ ताम्रेण तालमात्रं भुजङ्गमम्
प्रकल्प्य शेषमन्त्रेण प्रतिष्टाप्य पितामह ।
तस्मिंश्चक्रं लिखेत्तस्य मध्ये मत्स्याकृतिं पुनः
गरुडं शङ्खपालं च कृष्णमन्त्रं च वेष्टनम् ।
तन्नागयन्त्रं क्षीरेण घृतेन मधुनापि च
दध्ना शकृद्रसेनापि स्नापयेच्चक्रविद्यया ।
पुष्पगन्धप्रदीपाद्यैरुपचारैस्तथापरैः
इष्ट्वा नागं स्वमन्त्रेण चक्रं चक्रस्य विद्यया ।
कुण्डमध्ये पुनर्नागयन्त्रं खन्याद्विचक्षणः
तस्य चोत्तानरूपस्य हुताश मुपरिस्थितम् ।
कृत्वा दध्ना घृतेनापि पयसा मधुनापि वा
समिद्भिर्ब्रह्म वृक्षस्य जुहुयान्मन्त्रकोविदः ।
सहस्रकृत्वः प्रत्येकमथ गोपयसोक्षितैः
नीवारभागैस्सप्ताहं जुहुयादयुतैरपि ।
अपो नस्त्वितिमन्त्रेण जुहुयात्साधकोत्तमः
त्रिष्वहस्सु व्यतीतेषु पर्जन्यो मेघवाहनः ।
द्वावयेदवनीं कृत्स्नां भूयोपि सलिलोदयैः
अतिवृष्टि प्रशमनं प्रवक्ष्यामि चतुर्मुख ।
विङ्गलाकारमात्मानं ध्यात्वा पियीषभावितम्
शूलवज्र धरं चापि मन्त्रवि न्मन्त्रभूषणम् ।
तैलाज्यसिक्तै र्जुहुयाल्लाजनर्षपलावणैः
जुहुयाज्ज्वलिते वह्नावयुतं सप्तसागरात् ।
वृष्टिशब्दं पुरस्कृत्य स्तम्भयेति पदद्वयम्
प्रयोक्तव्यमिदं ब्रह्मन्मन्त्रान्ते मन्द्रवेदिना ।
अथ शाम्यति सा वृष्टिर्महती चक्रविद्यया
अथ राष्ट्रपुरादीनां क्षोभशान्तिं तथा शृणु ।
अक्षराष्ठगतं चक्रं प्रतिष्ठाप्य यथाविधि
पुरे राष्ट्रे तथा खन्यात्तत्काष्ठैर्जुहुयात्तथा ।
सहसा क्षोभमायान्ति वाजिवारणसंकुलम्
राष्ट्रं च क्षुभितं ब्रह्मन्ननवस्थं भविष्यति ।
यति शान्तौ मतिं कुर्याच्चक्रमुद्वास्य तत्पुनः
स्नापयेद्भगवन्तं च सहश्रकलशाम्बभिः ।
झडित्येव प्रशान्तं प्याद्दुरितं पुरराष्ट्रयोः
राष्ट्रादिलम्भनं तेऽद्य प्रवक्ष्यामि चतुर्मुख ।
उपेतं दलषट्कोणे कर्णिकाकेसरान्वितम्
चक्राब्जं कारयेद्भूमौ मेध्यायां कमलासन ।
तद्बहिर्नाभिवलयं षडरं तद्भहिर्लिखेत्
तद्बहिर्नेमिवलंय ज्वालामाला समन्वितम् ।
तद्बहिः कल्पयेत्पीठं चतुर्द्वार परिष्कृतम्
शोभोपशोभयुक्तं च कृत्वा मण्डलमिदृशम् ।
तस्मिन् सुदर्शनं ब्रह्मन् पूजयित्वा यथाविधि
समिद्भिरन्नै राङ्यैश्छ हुत्वा मन्त्रं प्रसीदतु ।
शृङ्गे चक्रं देहराष्ट्रं देहराष्ट्रं तथा धनम्
इत्येतां पावनीं गाधां जपान्ते प्रार्थयन्पठेत् ।
अथ तस्य पुरं राष्ट्रं ग्रामं चक्रं प्रयच्छति
अथ प्रभष्टराज्यानां मनुजानां यथा श्रियः ।
तथा वक्ष्यामिते ब्रह्मन्नुवायं चक्रविद्यया
अन्तस्थितस्य पद्मस्य स्यात्पलाशचतुष्टयम् ।
अथाष्टौ द्वादश ब्रह्मन् षोडशाथ चतुष्टयम्
विंशतिश्च तथा त्रिंशद्द्वौ क्रमेण बहिश्छदाः ।
इति षड्विध पत्रस्य कर्णिकायां सुदर्शनम्
येष्वथो षट्प्रकारेषु पलाशेषु यथाक्रमम् ।
मूर्तीश्चतस्रः प्रथमं तथाष्टौ द्व्यधिका दश
षोडशाथ सहस्रं च विंशतिश्च पितामह ।
अथ द्वात्रिंशतिं पश्चादन्तरालेषु षट् स्वपि
यथाक्रमं भूषणानि श्रीवत्सप्रभृतीन्यथ ।
अष्टौ शक्तीश्श्रिया सार्धं चक्रादिं होम मण्डलम्
कवीन् सप्ताधिकान् पञ्च कुमुदादीननन्तरम् ।
इन्द्रादीनथ दिक्पालान् पूजयेन्मन्त्रकल्पवित्
समिद्भिर्भिल्वरूपाभिस्तलैः पद्मैस्तथा घृतैः ।
सहस्रकृत्वः प्रत्येकं जुहुयाच्चक्रविद्यया
इत्थं गते सप्तरात्रे प्रातरुत्थाय मन्त्रवित् ।
स्थापितैः पञ्चविंशत्या कुम्भैश्शालिकृतासनैः
घृतादिपूरितैर्ब्रह्मन् चक्रविद्याभिमन्त्रितैः ।
राज्यभ्रष्टं मन्त्रहीनं दन्युभिः परिपीडितम्
राजानं ब्राह्मणं वैश्यं तथान्यं दुरिताहतम् ।
अभिषिंचेत् स्मरन् चक्रं तन्मन्त्रेण विधानवित्
तथा प्रकल्पयेत्यन्त्रं दापयेद्दक्षिणां गुरोः ।
इत्थं कृते चतुर्विक्त्रसौभाग्यं राज्यलम्भनम्
दस्युनाशो भवेद्भद्रं स्यात्सुदर्शनतेजसा ।
आदावन्ते तथा ब्रह्मन् हंसमन्त्रवता पुनः
नाशयेच्चक्रमन्त्रेण विषं स्थापरजङ्गमम् ।
अथ सङ्ग्रामविजयं वक्ष्यामि कमलासन
कृपाणे तोरमे शक्तौ शरेषु वलये तथा ।
आयुधेषु तथान्येषु ललाटे वाजिहस्तिनाम्
तथा द्वज पठान्तेषु लिखित्वाचक्रमण्डलम् ।
प्रविश्य समरं भीमं रिपूणां रोमहर्षणम्
हेषितेन तुरङ्गाणां बृह्मितेन विषाणिनाम् ।
हर्षनादेन योधानां रथनेमिस्वनैस्तथा
तुरङ्गम खुरक्षुण्डैः पार्थिवैः पांसुमण्डलैः ।
तिरोहितनभस्सूर्यं कृतान्तसदनोपमम्
रुधिरास्राव संभ्रान्तं वेतालमिथुनोद्यतम् ।
मांससङ्ग्राह णोड्डीनसहस्रश्येनसङ्कुलम्
ज्वालामालामयं चक्रं ध्यायन् जित्वा रिपूनपि ।
अक्षनागप्रहरणैर्निष्कृयेत्पृतनामुखम्
अथ वा राज्यसीमासु शङ्कान् खदिरसम्भवान् ।
स्थापयेच्चक्रमेन्त्रेण हुतशिष्टघृतोक्षितान्
अग्निप्रकाररूपस्तेन शक्यं प्रेक्षितुं परैः ।
प्रवेशे कम्पनं ब्रह्मन् ब्रह्मविद्या प्रभावतः
यत्र यत्र भयं पुंसां तत्र तत्राभयं भवेत् ।
चक्रमध्यस्तमात्मानं ध्यायन्तं कुपितात्मनः
पर्वतारोहणेऽरण्ये सागरप्लवनादिषु ।
व्याघ्रसिंहवराहादि सन्निपातैः खिले पथि
गच्छन्न भयमाप्नोति चक्रमन्त्रमिमं जपन् ।
तं नच्छिन्दन्ति शस्त्राणि न तं दहति पापकः
न चैनं क्लेदयन्त्यापो यस्यैष हृदये मनुः ।
ब्राह्मणक्षत्रवैश्यानां शूद्राणां कमलासन
प्रतिलोमानुलोमानां कुर्यात्सं वनसं पुनः ।
समिद्भिर्ब्रह्मवृक्षाणामश्वत्थवटवृक्षयोः
प्लक्षोदुम्बरजातीना मपवर्गस्य पापके ।
होमं कुर्याद्यथासङ्ख्यं तथा तज्जातियोषिताम्
ब्राह्मणश्श्रियमाप्नोति होमेन श्वेतपङ्कजैः ।
रक्तपद्मैर्नरेन्द्रस्य वैश्यस्य श्वेतपाटलैः
श्रीफलैराहुतिं कुर्वन् राष्ट्रस्याधिपतिर्भवेत् ।
अङ्गेन न्यस्तमन्त्रेण यां स्पृशेदङ्गनां नरः
तस्य सा वशमायाति मृतं चाप्यनुगच्छति ।
अपमृत्युजयं वक्ष्ये यथातदवधारय
होमशालागते कुण्डे सम्य गाधाय पङ्कजम् ।
तस्मिन्नावाह्य देवेशं दूर्वाकाण्डैर्यथोक्षितैः
जुहुयात्कोटिभिर्मन्त्रैर्यथाशक्त्यथवा पुनः ।
इति मासद्वयं रक्षेत्पावकं नियतेन्ध्रियः
होमान्ते यदि भूपालस्तुलारोहणमाचरेत् ।
अन्यश्चेदात्मनोयत्स्वं दद्याद्ब्राह्मणसात्प्रति
कलशैः पञ्चविंशत्या स्नापयेच्चक्रविद्यया ।
एवं कृते चतुर्वक्त्र कालमृत्युं जयेन्नरः
अपमृत्युः कथं तस्य तज्जये नास्ति संशयः।
अथवा कालमृत्योश्च जयो पायोऽपगम्यताम्
निष्टैस्सहस्रसङ्ख्यातैः प्रतिकृत्य पितामह ।
द्विभुजं पुरुषाकारं भ्रुकुटीकुटिलेक्षणम्
दंष्ट्राकरालवदनं वराहरुधिरेक्षणम् ।
यष्टिं करेण सव्येन पाशं वामेन बिभ्रतम्
प्रक्षाल्य पञ्चभिर्गवैः पञ्चोपनिषदा तथा ।
नवकैरभिषिच्याथ धान्यराशिषु निक्षिपेत्
आवाह्य पश्चाद्व्याहृत्या पूजयित्वास्वनामभिः ।
होममग्नौ प्रकुर्वीत समिच्चरुघृतैरपि
ऋग्भिः कृता न्तलिङ्गाभिर्ब्रह्मन् व्याहृतिभि स्तथा ।
ततः प्रभाते विप्राय तं पुमांसं हिरण्मयम्
पूताय भगवद्भक्त्या पञ्चकालानुवर्तिने ।
दापयेत्काल मृत्युं च जित्वास्यात्प्रायषं पदम्
अथ मारणमेतर्हि श्रूयितां चतुरासन ।
विविक्ते कल्पयेद्देशे होमशालां विधानवित्
तन्मध्ये कल्पयेत्कुण्टचार्यो दक्षिमाणामुखः ।
गृहीत्वाक्षस्य फलकां हस्तद्वयसमायताम्
तदर्धविस्त्रृतां ब्रह्मन् घनं च चतुरङ्गलम् ।
तस्या लिखित्वा द्वेष्यस्य वपुः प्रत्यक्षसंमितम्
प्रतिकूलेऽथ नक्षत्रे रिपोरष्टमराशिषु ।
कृष्णपक्षे विशेषेण प्रकुर्यान्मरणक्रियाम्
प्राच्यां भागेऽथ कुण्डस्य षडरं चक्रमालिखेत् ।
कृष्णसूत्रेरलङ्कृत्य तस्मिन् चक्रं प्रतिष्ठितम्
कृष्णगन्धैः कृष्णपुष्पैः पूजयेत् कृष्णवारिभिः ।
श्मशानाद्वा सुनिलयाद्वल्मीकान्मृदमाहरेत्
तां रिपोः पादधूलीभिर्व्यामिश्रां कमलासन ।
उन्मत्तरसमिश्रेण खरमूत्रेण पेषयेत्
विष्ठया वा मृदा वापि द्वेष्यस्य प्रतियातनाम् ।
तस्यां प्राणान् प्रतिष्ठाप्य मन्त्रेणानेन मन्त्रवित्
उद्गीथमप्रमेयं च मन्दरं भुवनं तथा ।
क्रोधानिलौ पश्चिमास्यं हुताशं मधुसूदनम्
प्रचण्डगोपनौ रामं भास्करं पश्चिमाननम् ।
नमध्यं गोपनद्वन्द्वममुष्येति पदं पुनः
जीवा इह स्थिता शब्दं विष्णुदक्षोदयां स्तथा ।
क्रोधरूपं तपस्यन्तं सर्वशब्दमनन्तरम्
विक्रमं विघ्नराजात्रिवह्नि बन्धू च गोपनम् ।
वनमालाधरं रामं पाङ्मनः काय इत्यपि
अथ माया तृतीयान्तं लोडन्तं यानि यन्मुखम् ।
स्वाहावसानमुद्धृत्य प्रणवान्तानिकं ? मनुम्
तां च प्राणवतीं कुण्डे खन्यामत्तानशायिनीम् ।
फलकास्थितमाकामनु लिप्य पातामह
पूर्वोक्तया मृदा पश्चात्प्राणिनं प्राणविद्यया ।
पादेनाक्रान्तहृदयो रोषलोहितलोचनः
सहस्रकृत्वश्चक्रस्य मन्त्रं भाषेत मन्त्रवित् ।
वृषवृक्षप्ररूढेन शङ्कुना नेत्रयोर्हृदि
हस्तयोः पादयोर्गुह्येश्रोत्रयोर्नासिकोदरे ।
अन्येष्वपि प्रतीकेषु वधं कुर्याद्विचक्षणः
तथा कृते रिपो स्ततद्गात्रं हीनं भविष्यति ।
अथ कुण्डेश्मशानाग्निं निदधीत पितामह
दर्भैः परिस्तरे द्वेद्वां दक्षिणापश्चिमोन्मुखान् ।
परिधिं तद्वदाकीर्य कृत्वा राक्षां तथात्मनः
ऋत्विग्भिष्षोडशोद्दिष्टैर्द्वारेष्वध्ययने कृते ।
ब्राह्मणेभ्यो धनं दत्वा हेतिराजमनुस्मरन्
अक्षकाष्ठप्रक्लृप्ताभ्यां स्रुक्स्रुवाभ्यां यथाविधि ।
कृष्णपन्नगराजीव कृष्णोतु क्षतजोक्षितैः
मरीचैस्सर्षपै र्युक्तानष्टधान्याष्टधान्वितान् ।
समिधोऽक्षस्य जुहुयात्सहस्रं प्रतिवासरम्
रिपुनक्षत्र वृक्षाणां समिधश्छापि मन्त्रवित् ।
मन्त्रान्ते शत्रुनामानं मारयेति प्रकीर्तयेत्
होतव्यं चावमानेन होमं कृत्वा दिने दिने ।
यावद्भवति कृत्याया दर्शनं जातवेदसि
क्रमेणतावज्जु हुयाद्वासरावेकविंशतिम् ।
फलकामपि वेदस्थां होमधूपेन धूपयेत्
अगुरुं गुग्गुलं चापि धूपार्थ मनले दहेत् ।
अथ सप्तस्वतीतेषु दिवसेषु पितामह
सप्तस्वहस्सु मध्ये च यथाक्रमनुमि ज्वराः ।
आक्रोशो वेदना तीव्रा गात्राणामविधेयता
हिक्का निश्वासविच्छेदो जिह्वाहानिस्तथारिपोः ।
भवन्तिहि प्रभावेन चक्रमन्त्रस्य निश्चितम्
इति द्विसप्तकेऽतीते दिवसेऽनन्तरे पुनः ।
मध्यरेत्रे कृते होमे कृत्या तस्माद्विभावसोः
त्रिशूलभीषणैर्हस्तै स्सप्तभिस्त्रिभिरङ्घ्रिभिः ।
जिह्वया रक्तवर्षिण्या लेलिहाना निजं मुखम्
उद्गिरन्ती स्वनेत्राभ्यामाज्वसिक्तं हविर्भुजम् ।
नरास्थिमालां बिभ्राणा पुरीतत्कतमेखला
कपोलकुण्डलोपेता प्रहसन्ती भयानकम् ।
दण्डं घण्टां तथा शूर्पं मार्जनीं पाशमण्डलम्
बिभ्रती लम्बमानाभ्यां हस्ताभ्यां मुक्तमूर्धजा ।
अधिरूढापरस्कन्धमन्धकारनिभाकृतिः
स्फुलिङ्गमण्डलस्थेव विमुक्ताटोपभीषणा ।
उत्थाय प्राञ्जलिर्भूत्वा किंकरोमिति भाषते ॥ 32. 211 ॥
अभिधास्यत्यथाचार्यः प्राणान् हर रिपोरिति ।
आदिष्टा सा तथेत्युक्त्वा रिपुं तस्य महात्मनः
अपि दूरस्थितं हत्वा गुरुं पुनरुपैष्यति ।
अथ पूर्णाहुंतिं हुत्वा होतृभिस्सह मन्त्रवित्
द्वाविंशे दिवसेलक्षं षडक्षरमिमं जपेत् ।
तथापराजितं मन्त्रं नारसिह्ममनुं तथा
घृतादिपूरितैः कुम्भैर्विंशत्या पञ्चभिः पुनः ।
आत्माभिषेकं कुर्वीत चक्रमन्त्राभिमन्त्रितैः
एनसो मुच्यते तस्मात्तथा शान्तिर्भविष्यति ।
उच्चाटनं प्रवक्ष्यामि यथावत्कमलासन
निम्बदुत्तूरप्रत्राणां श्मशानाङ्गारमिश्रितैः ।
रसैरक्षस्य काष्ठेन द्विहस्ते प्रेतवाससि
षट्कोणे नाभिनेम्यज्के मण्डले क्रमशोलिखेत् ।
नामधेयं रिपोरन्तः प्रोच्ययामे थ पश्चिमे
यकारं भुवनं ब्रह्मन् झकारं भुवनं तथा ।
शिष्टेषु त्रिषु कोणेषु तथोष्टे मण्डलादयः
तदारूढं रिपुं चापि कुणअडे चापाकृतौ पुनः ।
समिद्भिर्निंबवृक्षस्य तथा च विषभूरुहः
जुहुयादभितो वह्नावमृतं प्लोषयन् रिपुम् ।
यत्र ध्वजं तं बध्नी यादुच्छ्रिते चैत्यपादपे
अहोभिरेकविंशत्या रिपुस्तस्य महानपि ।
अधिष्टानं निजं हित्वा भार्यापुत्रादिभिस्सह
पलायते दिगन्तेषु न क्वचिल्लभते स्थितिम् ।
अथ विद्वेषणं ब्रह्मन् यथावदवधारय
अक्षपादपकाष्ठेन स्निग्धयोराकृतिद्वयोः ।
कृत्वा तयोर्लिखेन्मन्त्रं नामधेयं तयोरपि
विद्वेषय पदोपेत मसृजाध्याङ्क्ष कारयोः ।
आखुमार्जारयोर्ब्रह्मन् तथा सर्वमयूरयोः
तथान्येषां विरुद्धानां तिरश्चां पक्षिणामपि ।
निब ध्य रज्जुमायामां मूर्धजैर्महिषाश्वयोः
तथा ते अकृती बध्वा व्यस्तयोस्तुकृतं मुखम् ।
अपिदध्यात्तयोरास्यं जपेन्मन्त्रं षडक्षरम्
कुण्डे च होमं कुर्वीत समिद्भि र्मृत्युबन्धयोः ।
अष्टोत्तरसहस्रेण हुयादग्नौ सुदर्शनम्
युध्येत स्निग्धयोर्द्वन्द्वं काकोलूकादिसंमितम् ।
इत्थं दश स्वतीतेषु दिवसेषु स मन्त्रवित्
अपाकृष्यति दम्पत्यो ममत्वं मित्रयोरपि ।
क्षीरैस्नायात्तयोर्भूयः प्रीतर्भवति पूर्ववत्
अथाभिधीयते ब्रह्मन् स्तम्भनं तं निशम्यताम् ।
शिलातले लिखित्वाथ चतुष्कोण चतुष्टयम्
तेषु प्रत्येकमालिख्य पत्रैर्दिव्यैः पितामह ।
गृहं वामनमन्त्रं तमिन्दुकान्तचतुष्टयम्
वज्राङ्कमपि पुष्पैस्तत्पूजयेत्कनकप्रभम् ।
स्थापयित्वा स्थण्डिलेऽस्मिन्नासित्वा मन्त्रमिरयेत्
स्तम्भयेति पदं चापि जुहुयादर्कखण्डिकाः ।
स्तम्भनं स्यात् झडित्येवं विवाहे गर्भलाभके
वादजल्पवितण्डासु कथास्वपि च वादिनाम् ।
वक्ष्यामि स्खलनं ब्रह्मन् लिखित्वा प्रतियातनाम्
द्वेष्यस्यालयवैस्तल्या गोमयाङ्गारमिश्रितैः ।
तदङ्गेषु लिखेन्मन्त्रं तद्बीजेन समन्वितम्
अथ स्याच्छक्तिहीनं तु मतिद्वेषस्य देहिनः ।
अथ ते ताडनं वक्ष्ये दुत्तूरहयमारयोः
अर्कस्य च रसे ब्रह्मन् श्मशानाङ्गारमिश्रितैः ।
ळिखेत्प्रतिकृतिं बिल्व काष्ठे प्रेतस्य वासनि
सङ्खकीलमथाधाय चतुरङ्गुलसंमितम् ।
अङ्गानि ताडये त्तस्य तेन कीलेन मन्त्रवित्
षडक्षरस्य कुर्वीत नित्यं जप मतन्द्रितः ।
धनादिहानिस्तस्य स्यान्न्यस्ते द्वेष्टि स मन्त्रवित्
वशीकारमहं ब्रह्मन् भूपतीनां ब्रवीमिते ।
कुष्ठकुङ्गुमसिद्धार्धकर्पूरागुरुचन्दनैः
गोरोचनान्वितैश्चापि कुसुम्भरजसा सह ।
भूर्जपत्रे ळिखेच्चक्रं षडरेषु षडक्षरम्
तद्बहिर्द्वादशारं च नाभिनेमिसमन्वितम् ।
द्वादशाक्षरमालिख्य द्वादशारं ततो बहिः
अष्टाक्षरेण मन्त्रेण हंसमन्त्रेण चान्वितम् ।
तद्बहिर्द्वादशज्वालं पाशाङ्कुशमनुद्वयम्
साध्यस्य नामधेयेन प्रणवेनान्तराङ्कितम् ।
आभिष्षोडशभिर्ब्रह्मन् विदर्भितमनन्तरम्
तदेतद्गुलिकां कृत्वा पद्मसूत्रेण वेष्टिताम् ।
चक्राब्जे वा सितां कृत्वा पूजितां कुसुमादिभिः
होमं पद्माकृतौकुण्डेकृत्वा कुसुमसर्पिषा ।
द्वादशाहानिकृत्वैवं मङ्गाल्यादीनि साधयेत्
राजदयो मुखं तस्य प्रेक्षन्तेविवशा इव ।
तस्य दूरात्पलायन्ते कूश्माण्डप्रमुखा ग्रहाः
रसादल प्रवेशं ते कथयामि चतुर्मुख ।
बिल्वदारुं समासाद्य कुसुम्भरजसा सुधीः
लिखित्वा षडरं चक्रं बहिस्तस्याथ मन्त्रवित् ।
यथोपदेशं पातालं पन्नगासुरसङ्कुलम्
लिखेत्कृत्वा पुनः कुण्डं तस्मिन्नाधाय पावकम् ।
जुहुयान्न रमांसेन जपेन्मन्त्रं च सर्वशः
द्वादशाहेन ते पश्चात्पापालतलसंश्रयाः ।
उपस्थास्यन्ति तं भीता युवत्यः कामपीडिताः
तं ग्रहिष्यन्ति भर्तारमहं पुर्वं शुचिस्मिताः ।
पाणिभिर्लोलवलयैः कामयानाः प्रियंवदाः
रसायनादि दास्यन्ति तस्मै पातालवर्तिने ।
तद्भक्षणेन दीर्घायुस्ताभिस्सह यथेप्सितम्
रंस्यते रम्यदेशेषु यत्र वा जायते रुचिः ।
खड्गस्य साधनं ब्रह्मन्निदानीं कथयामिते
अश्वत्थपत्रा न्तरितं खड्गं शास्त्रोक्तलक्षणम् ।
स्पृष्ट्वा षडक्षरं मन्त्रं जपेद्ध्यात्वा सुदर्शनम्
अथ खड्गस्य तापस्यात्सयक्ष्यादीनि जेष्यते ।
तस्मिन् धूमायमाने तु गन्धर्वाधिपतिर्भवेत्
तस्मिन् ज्वालामुखे ब्रह्मन् विद्याधरपतिर्भवेत् ।
गृहीत्वा तं पुनः खड्गं यथेष्टं लोकमाप्नुयात्
गोमयेनोपलिप्तेऽथ शून्यागारे पितामह ।
चक्रं लिखित्वा सुमनास्सितपुष्पौरलंकृतम्
व्रणहीनं शवं तस्मिन् ब्राह्मणस्य नृपस्य वा ।
प्राचीन शिरसं कृत्वा माहिषेन घृतेन तम्
पादयोर्मन्त्रविल्लिम्पेदसहायोऽप्रमत्तधीः ।
तद्वक्षसि पदं कृत्वा मन्त्रराजमिदं जपेत्
प्रत्यहं जुहुयादग्नौ समिद्भि र्वेत्रभूरुहः ।
कृते सङ्ख्यं ? जपेन्मन्त्रं जनहोमैः पितामह
उत्थास्यति शवः प्राणी निशीथे कल्पिताञ्जलिः ।
सतस्मै मन्द्रसिद्धाय वक्ति दिव्यं रसायनम्
पादुकामञ्जनं खड्गं प्रदास्यति यथेप्सितम् ।
यदिदं तेन खड्गेन हत्वा श्नीयात्तदामिषम्
त्रैलोक्य विषयं ज्ञानं लप्स्यते चतुरासन ।
वलीपलितहीनत्वममरत्वं च सेत्स्यति
निधानान्यपि गूढानि प्रत्यक्षमिव पश्यति ।
रसं विमृज्य पाषाणे लिखेच्चक्रं षडक्षरम्
रसं निधाय मूषायां बध्वाद्रव्यैर्यथोचितैः ।
कृत्वाभिमन्त्रित्रंब्रह्मन् चक्रमन्त्रेण कल्पवित्
उपयुञ्जीत मेधावी जपेच्चापि षडक्षरम् ।
आरोग्यं बलमैश्वर्यं कालमृत्युव्यतिक्रमम्
वाग्मित्वं बुद्धिमत्वं च रूपसंवननं वयः ।
सभस्थले गतिश्चापि साक्षादिव गरुत्मतः
इत्यादयो गुणास्तस्य भविष्यन्तिन संशयः ।
यथा न पादखेदस्स्याद्दूरं गत्वापि तच्छ्रुणु
काकजङ्घामुपादाय कोकिलेक्षणसंहिताम् ।
बलां मोटारसैस्तेषां सऱपुङ्खरसान्वितैः
सर्षपस्नेहंसमिश्रैश्चक्रमान्त्राभिमन्त्रितैः ।
लिप्त्वा पादयुतं चक्रं कृत्वारण्यमहापथे
योजनानां सहस्रे द्वे न खेदं समवाप्नुयात् ।
यक्षीसिद्धिं प्रवक्ष्यामि तां लिखेत् क्षौम पाससि
न्य ग्रोधमाले तां ध्यात्वा यक्षीविद्यां जपेद्बधः ।
आराध्य गुग्गुलूत्थेन धूपेन कमलासन
समिद्भिर्वटवृक्षस्य तथाशोक करञ्जयोः ।
रक्तपद्मैस्तिलैश्चापि जुहुयाज्जातवेदसि
एकविंशति रात्रान्ते कम्पते स वटो मुहुः ।
दृढबुद्धिः पुनश्चापि मन्त्रमेवं जपेद्बुधः
अथ प्रत्यक्षरूपा सा यक्षी कल्याणलक्षणा ।
स्निग्धेव जननी सिद्धिं तस्मै दत्वा यथेप्सिताम्
अमुनैव विधानेन यक्षा वैश्रवणादयः ।
प्रत्यक्षभूता दास्यन्ति साधकेन वृतं वरं
यथा यथाऽधिको होमो जपे वा कमलोद्भव ।
अमुष्य चक्रमन्त्रस्य पञ्चकोटिर्यथोत्तरम्
तथा तथा पदान्येता न्यवधूयेत किल्बिषम् ।
आदित्यानां सशाङ्कस्य वसूनां मरुतामपि
अश्विनोर्वासवस्यापि मन्वादीनां तपस्विनाम् ।
रुद्राणां ब्रह्मणश्चापि चक्रमन्त्रस्य वैभाव्त
सहस्र कोटिसङ्ख्येन होमेन च जपेन च ।
तपसा चातितीव्रेण लभते वैष्णवं पदम्
किं भूयसा प्रलापेन यत्रेष्टं यद्भविष्यति ।
स तेन तेन लभते पापे भ्योपि प्रमुच्यते
इत्येतत्कथितो ब्रह्मन् षडक्षरमहामनोः ।
कलास्संग्रहरूपेण रहस्यस्सर्वसिद्धिदः
मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0