पद्मसंहिता · अध्याय 4.31
भगवन् विघ्नराजस्य जन्मकीदृक्कुतश्च सः ।
भूषणानां च कोटीरप्रमुखानां यथातथम्
चक्रादीनामायुधानां तार्क्ष्यसेनेशयोरपि ।
मनवः पूजितायैस्तैः पूजिताः फलहेतवः
इति सर्वं समाचक्ष्वमयि ते यद्यनुग्रहः ।
असुरैरर्दिता देवा बलिनो युद्धदुर्जयौः
शरण्यं शरणं जग्मुः प्रद्युम्नमभयप्रदम् ।
आहवेषु वयं दैत्यैर्बलवन्तोपि बाधिताः
यथा ते विघ्नविहताः पलायन्ते तथा कुरु ।
प्रद्युम्नस्तैरिति प्रोक्तः क्रुद्धस्संरक्तलोचनः
कोपात्तस्य समुद्भूतस्सम्यक् स्तम्भेरमानवः ।
सञ्जातं प्राञ्जलिपुटं कुर्वाणं तं पुरस्थ्सितम्
तं दृष्ट्वा गजवद्वक्त्रं प्रोवाचेदं वचस्तदा ।
देवानामसुराणां च सङ्ग्रामे समुपस्थिते
सन्निधाय भवांस्तत्र दैत्यानां विघ्नमाचर ।
इत्युक्त्वा मिषतस्तस्य प्रद्युम्नो भगवान् हरिः
अन्तर्दधे सुराश्चापि प्रतिजग्मुर्यथा गतम् ।
ततः प्रभृति विघ्नेश प्रसादाद्देवतागणाः
असुरान् जघ्निवांसस्तेन च जग्मुः पराभवम् ।
तत्र किरीटमन्त्रः.
आकल्पस्य किरीटस्य मनुं वक्ष्यामि संप्रति
व्यापिनं नतिमुद्धृत्य कमलं तदनन्तरम् ।
महामायां सप्तजिह्वं पञ्चबिन्दुसमाह्वयम्
हृदयाह्लादमाकारं पवनं शुक्लमन्दरौ ।
दाक्षायणीशविजयौ मन्दरं च सरोरुहम्
श्रीधरं हृदयाह्लोदं माधवं वित्तवर्धनम् ।
कुम्भं हुताशनं देवदत्तं क्षीरं सुधामयम्
दहनं गोपनं वायुं करालं कमलोद्भव ।
ओतदेहं क्षितिधरं विक्रमं धूमकेतनम्
अमृतं बन्धुसहितं भद्रहस्तं त्रिविक्रमम् ।
चतुर्गतिं श्रीधरं च विजयं माधवं तथा
हस्तिवक्त्रं वैधरं च भुवनं कामगं ततः ।
वैराजं वैधराह्वानमिरयित्वा ततः परम्
रामं पवित्रं विजयं गोपनं द्विरदाननम् ।
महेन्द्रं कुञ्जरमुखं विक्रमं सूक्ष्मलोचनम्
गोपनं स्पर्शनामादिदेवं समसरोरुहम् ।
माहेन्द्रं पश्चिमं चादिदेवं च धनदाह्वयम्
विक्रमं पश्चिमं चैव विजयं च तुरानन ।
प्रभञ्जनमृगेशं च मधुसूदन संज्ञितम्
मार्ताण्डं पापकमथो पञ्चबिन्दुं सबिन्दुकम् ।
करालमृतधामानं महामायां सयष्टिकम्
गोपतिं श्रीधरयुतं नासिक्यं फट्कृतिं तथा ।
स्वाहायां विरमेन्मन्त्रं बीजमस्योच्यतेऽधुना
कमलं त्वृतधामानं महामाया परिष्कृतम् ।
उद्धृतं षत्षडङ्गानि द्रष्टा चाखण्डल स्तथा
छन्दश्च पङ्त्किरित्युक्तं किरीटो देवतापि च ।
किरीटिनं च द्विभुजं महाकायं महोदरम्
कृताञ्जलिपुटं प्रह्वं सुस्थितं भूषणैर्युतम् ।
ध्यात्वैवं मन्त्रविन्मन्त्रं पञ्चलक्षमतन्द्रितः
नत्यन्तं
छन्दसामादिं श्रीशब्दं कलशं तथा ।
एकनेत्रं हुतवहं शशाङ्कं मधुसूदनम्
सदागतिं चादिदेवं नासिक्यं यष्टिसंज्ञितम् ।
लक्ष्मीं करालं पुलहं महामायां सबिन्दुकम्
तार्क्ष्यमौर्वादिकं यष्टिं हुंफट्कारं हुतान्तिमम् ।
श्रीभीजं तद्भवेद्बीज मृषिश्चैव प्रजापतिः
विराट् छन्दश्च गायत्रं श्रीवत्सो देवता मता ।
श्रीवत्समन्त्रमपरं कथयामि चतुर्मुख
ओंकारं प्रथमं सोमं स्वरादि जयमारुतौ ।
माधवं तारकाधीशमेकनेत्रं समारुतम्
कलशं विजयं पश्चान्महामायापरिष्कृतम् ।
शुक्लं च तारं श्वसनं कुंभं वैराजमेव च
अनलं पूर्णचन्द्रं च पुलहं माधवं तथा ।
सत्यन्तं शुक्लविजयौ श्वसनं श्वेतरोचिषम्
दक्षं दरं देवदत्तामोषधीशं तथाब्जज ।
वैराजं प्रथमं कुम्भमृतधामवदर्भितौ
जयं सदागतिं देवदत्तं चैव ठठान्तिमम् ।
श्रीभीजं पूर्वमेवोक्तमृषिर्देवल उच्यते
छन्दश्चाक्षरपङ्त्किस्स्याच्छ्रीवत्सो देवता मता ।
ततो लक्षजपेनैव सर्वान्कामानवाप्नुयात्
प्रणवादिं च सत्यन्तं विधातारं तथा मनुम् ।
सकारं विजयं लोकं सुभद्रं मधुविद्विषम्
प्रभञ्जनं पावकं च वैराजं विघ्ननायकम् ।
गोपनं धनदं मायां पश्चिमं प्रथमस्वरम्
वै राजं मारुतं पश्चादेकारं प्रथमस्वरम् ।
माधवीं पद्मनाभं च विजयं ब्रह्मसाधनम्
अग्निं भल्लायुधं कुम्भमाकारं मारुतं तथा ।
अचां द्वितीयं कमलं पुलहं च पवित्रकम्
आदिदेवं च धनदं त्रिविक्रममनन्तरम् ।
पश्चिमं विजयं चादिं स्पर्शनं माधवं तथा
ओषधीशमिकारं च दृष्टिं च धनदं पुनः ।
रामं प्रद्यम्नसहितं पश्चिमं पद्मनाभकम्
प्रभञ्जनं छलध्वंसं द्वयं स्वाहावसानकम् ।
कौस्तुभं बिन्दुसहितं बीजमेतदृष्टिः पुनः
जमदग्निर्विराट् छन्दो देवता कौस्तुभाह्वया ।
कौस्तुभं च चतुर्थ्यन्तमुच्चार्यनतिमु द्धरेत्
पञ्चलक्षजपादस्य मनोस्सिध्यति वाञ्छितम् ।
सप्तार्णपूर्वकं कुम्भं भद्रहस्तं प्रियद्विषम्
भद्रहस्तं मन्दरं च मधुसूदनमब्जज ।
पुलहं देवदत्तं च माधवीं मधुसूदनम्
माहेन्द्रं रामनामानं विघ्नेशं पञ्चबिन्दुकम् ।
पश्चिमं श्रीधरं वह्निं भुवनं तदनन्तरम्
क्रोधाग्निं वासुदेवं च वैराजौ द्वौ च मन्दरम् ।
पश्चिमं पद्मनाभं च माया शिरसमन्वतः
मारुतं माधवयुतं ठठान्तो मनुरीरितः ।
कलशं मारुतं पश्चादुदयश्चा निरुद्धकम्
बीजं मुनिश्च धनदः छन्दः पङ्क्तिश्च देवता ।
वनमालापरं मन्त्रं कथयामि महाफलम्
ब्रह्मकोशं नतिं कुम्भं मुखं विघ्नेश मन्दरौ ।
गोपनं पुलहं चादिदेवं शङ्खं च गोधनम्
माधवं सूदनं वायुं मृगेशं दक्षगोपनौ ।
चतुर्गतिश्चादिदेवमनलं सगुहालयम्
पश्चिमं विक्रमपरं प्रचण्डं पञ्चिबिन्दुकम् ।
दक्षं दिनकरं चक्षुर्द्वितीयं श्वेतदीधितिम्
दक्षद्वयं वासुदेवं तिग्मांशुं बन्धुशीर्षकम् ।
द्विरदास्यं पञ्चबिन्दुं श्वेतरोचिषमादिमत्
अमृतं वह्निशिरसं कमलं गोपनाह्वयम् ।
मन्दरं वैधरं मायां पञ्चमं गजवाहनम्
माधवं श्वेतदीधिं च कुम्भं बहुलशीर्षकम् ।
विजयं चैकदृष्टिं च वरुणं पाटलप्रियम्
चतुर्गतिं सूदनं च मारुतं चादिमत्तथा ।
चतुर्थमृतधामान मग्निं च श्वसनं पुनः
ब्रह्मकोशपरां चैव भद्रपाणिं च पद्मजाम् ।
विजयं प्रणवादिं च श्वेतदीधितिमब्जज
शशाङ्कं पद्मनाभं वै धरं मायामहाधनौ ।
पश्चिमं विजयं माया शीर्षं विघ्नेशमिरयेत्
विक्रमं सूक्ष्मदृष्टिं च गोपनं च चतुर्मुख ।
जन्मध्वंसं च कलशं पुलहं च द्विरुच्छरेत्
पूर्ववच्च द्विरभ्यस्य पुष्टिबीजमथोद्धरेत् ।
गोपतिं गोपनं यष्टिं वरुणं चादिबिन्धुकम्
भास्करं भुवनं यिष्टिं फट्कारं च ठठान्तिमम् ।
पियीषं पवनं ब्रह्मसाधनं यष्टिशीर्षकम्
बीजमेतच्चतुर्वक्त्र प्रधानार्णाङ्गकल्पना ।
भवश्चास्य मुनिश्छन्दो अस्या उष्णिश्च देवता
द्विभुजां बालिकां पीनवक्षोरुहविभूषिताम् ।
करण्डमकुटोपेतां बिभ्राणां वनमालिकाम्
दर्पणं वामहस्तेन बिभ्राणां दक्षिणेन तु ।
पुष्पमञ्ज लिकां द्वाभ्यां ध्यात्वालक्षं जपेन्मनुम्
अन्येषां भूषणानां च चतुर्थ्यन्तं समाह्वयम् ।
मन्त्रं मनोन्तं जानीयाद्भीजमाद्यं प्रकल्पयेत्
प्रभामनुं प्रवक्ष्यामि यथावदवधारय ।
उद्गीथमादिं नत्यन्तं पश्चिमं त्वृतधामकम्
भल्लायुधं चादिदेवं श्वसनं सूक्ष्मलोचनम् ।
अचां द्वितीयं श्वेतांशु कमलं चादिमत्तया
पावकं चौषधं पद्मपाणिं वै राजमन्वतः ।
मृगेशं जन्मविध्वंसं ब्रह्मसाधनसंयुतम्
ककुभं कलशं चादि देवं पुलहमब्जज ।
ओङ्कारं माधवीमग्निं मायामस्तकभूषितम्
पाटलप्रियमाकारं पीताभं मधुविध्विषम् ।
श्रीवत्समादिं विजयं शशाङ्कं विष्णुमस्तकम्
मार्ताण्डमिन्दुमनलं मधुसूदनमारुतौ ।
श्रियः प्रतिमथैकाक्षं गोपनं कमलोद्भव
अमृतं त्वृतधामानं विजयं कमलालयाम् ।
ओतदेहं सुभद्रं च बन्धुमस्तकभूषितम्
विजयं गोपनं प्राणं हुंफट्कारं ठठान्तकम् ।
आद्यर्णं यष्णिसहितं बीजमस्यप्रकीर्तितम्
ऋषिर्भास्कर एतस्य पङ्त्किश्छन्दश्च देवता ।
प्रभा जपश्च मन्त्रस्य लक्षसङ्ख्यः प्रकीर्तितः
भोगांश्च पुष्करान् भुक्त्वामन्त्रविन्मन्त्रवैभवात् ।
परं पदमवाप्नोति देहत्यागेन संशयः
निगमादिं कौस्तुभं च गोपनं बिन्दुमैन्दवम् ।
विक्रमं वैधरं पुण्यं रामं शुक्लसमाह्वयम्
वै राजमग्नि माकारं स्पर्शनं विष्णुमस्तकम् ।
सत्यन्तमुद्धरेन्मन्त्रमेवमक्षस्रजस्सुधीः
अक्षमालाधरं ध्यायेद्विभुजं स्फटिकप्रभम् ।
अलङ्कृतं पीतवस्त्रं पद्मविष्टरसंस्थितम्
वरदाभयदाकारं मन्त्रस्य च जपस्तथा ।
मन्त्री च महदाप्नोति फलमत्यन्तदुर्लभम्
उद्गीथं सुभगं शङ्खमूर्ध्वयष्टिमनन्तरम् ।
धनदं च हृषीकेशं मन्दरं ब्रह्मनाधनम्
बहुलं चैकनेत्रं च पञ्चान्तं बन्धुमस्तकम् ।
अनलं गोपनं शङ्खमचामादिं नतिं ततः
धूपपात्रमनुः प्रोक्तो
घण्टामन्त्रः प्रवक्ष्यते ।
आम्नायादिं क्षितिधरं हृषीकेशं रविं तथा
गुहालयं च नासिक्यं पद्मपाणिं प्रचण्डकम् ।
झषमाकार संयुक्तं चतुर्गतिनमस्कृतिः
कथितश्च मनुर्ब्रह्मन्
दीपपात्रस्य कथ्यते ।
उद्गीथं ककुभं चादिं गदध्वंसम चां मुखम्
पावकं विजयं जन्महन्तारं ब्रह्मसाधनम् ।
वैराजं विक्रमपरमनलं च गुहालयम्
पश्चिमं चादिदेवं च श्वसनं नतिशीर्षकम् ।
दीपपात्रस्य कथितो मनु
स्संप्रति कथ्यते
ब्रह्मकोशमुखं ब्रह्मन् सप्तार्णं तदनन्तरम् ।
शशाङ्कं श्रीधर दृष्टिमादिलक्ष्मीं हुताशनम्
लम्बोदरं चादिदेवं दरं विष्णुं च माधवम् ।
नभोमणिमथो रामं पुलहं चादिमत्तथा
वक्रतुण्डं विधातारं वक्रतुण्डमचां मुखम् ।
कमलं त्वृतधामानं यान्तं च मधुसूधनम्
मुसलं गोपनयुतं श्वसनं ककुभं ततः ।
अमृतं पीतवर्णार्णं हुंफट्कारं ठठान्तिमम्
शुक्लं मुखं सबिन्दुं च बीजमेवं समुद्धरेत् ।
तारं करालमाकारं पुलहं चादिमत्तथा
वक्रतुण्डं विधातारं बहुलं मधुविद्विषम् ।
आदिं चतुर्गतिं हुंफडित्यादि हृदयादिषु
कालरुद्रोऽथ भगवानृषिश्छन्दः प्रकीर्तितः ।
गायत्री देवता चास्य हेतिराजस्सुदर्शनः
जपेद्द्वादशलक्षं तु सिद्धयो मूलमन्त्रवत् ।
आदितस्सप्तवर्णांश्च पूर्वोक्तान् शशिनं तथा
श्रीधरं वैधरं विष्णुं श्रीवत्समनलं तथा ।
भद्र हस्तादि देवं च शङ्खादिं च चतुर्मुख
सुदर्शनस्य कथितो द्वादशार्णात्मको मनुः ।
बीजमङ्गं यथापूर्वं द्रष्टा च कपिलस्म्सृतः
छन्दो विराट् देवता च हेति राजस्सुदर्शनः ।
जफो द्वादशलक्षं च द्विषट्काक्षरवत्फलम्
आम्नायादिं च नत्यन्तं सुदर्शनपदं ततः ।
चतुर्थ्यन्तं प्रयुञ्जीत फलमष्टाक्षरे यथा
ऋषिर्भवस्तथा च्छन्दो गायत्रं हेति राडिनः ।
पूर्वोदितं द्विषट्कार्णं माधवी मादिमुद्धरेत्
नभोमणिं चादिदेवं वक्रतुण्ड मचां मुखम् ।
कराल मृतमग्निं च गोपनं ककुभं तथा
अचां द्वयं गन्धवहं मुखं दक्षं चतुर्मुख ।
गोपतिं गोपनमथो जृम्भलं चादिमत्तथा
महेन्द्रं यादसां नाथं द्विरदं पन्नगाधिपम् ।
स्पर्शनं नृहरिं कुम्भं रामं सुभगमन्वतः
प्राचेतसं सयष्टिं च शुक्लमादिं दरं तथा ।
अमृतं बन्धुसहितं धनाध्यक्षमपां पतिम्
नासिक्यं शशिनं चादिं मारुतं मन्दरद्वयम् ।
मुखं लक्ष्मीं तथै काक्षं वसुं चैव गुहालयम्
सयष्टिं कुञ्जरमुखं गोपनं शुभदं दरम् ।
माधवीं गोपतिं चैव गोपनं कालनेमिजित्
माहेन्द्रं गोपनं शङ्खं ककुभं कुम्भसंज्ञितम् ।
पुलहं मुसलं कुम्भं महेन्द्रं भुवनाह्वयम्
गदध्वंसं हुतवहं वै राजं मृगवल्लभम् ।
जन्मध्वंसं शशधरमेणएशं च ठठान्तिमम्
बीजमङ्गं यथापूर्व मृषिस्स्यान्नीललोहितः ।
यष्टिश्छन्दश्च कथितो देवता हेतिराडसौ
जपेल्लक्षत्रयं मन्त्री जपस्यास्य च वैभवात् ।
निग्रहेऽनुग्रहे शक्तिस्तम्भविद्वेषणादिकृत्
चलाचलसमुद्रादिशोषणं कम्सनं तथा ।
तत्कटाक्षविनिक्षेपात्सृष्ट्यादीनां विधिर्भवेत्
सुदर्शनमहामन्त्रं वक्ष्यामि चतुरासन ।
मातृकाचक्रमालिख्य समभ्यर्च्य यथाविधि
स्वीकृत्य द्वादशार्णांश्च वक्रतुण्डमचां मुखम् ।
करालमग्नि सहितं गोपनं मारुतं ततः
पश्चिमं पावकं खड्गमनलं च कृशानुकम् ।
विधातारं चादिदेवं पुलहं मधुसूदनम्
दरं हुतवहं तार्क्ष्यं द्विर्वसुं च समुद्धरेत् ।
पाटलप्रियामाकारं दरं ध्रुवसमन्वितम्
लक्ष्मीं मुखं च वै राजमग्निं भुवनशीर्षकम् ।
द्विरदाननमाकारं कमलां मधुसूदनम्
स्पर्शनं वैधरं चादिमनलं वैधरं तथा ।
अमृतं चादिदेवं च महेन्ध्रं च समिकरणम्
शुक्लं मुखं भास्करं च कमलं विक्रमं तथा ।
अनलं सुमुखं विष्णुं पद्मनाभविनायकौ
जन्मध्वंसं च कलशं पुलहं बन्धुसंमितम् ।
वैराजं शुभदं रामं खर्वदेहं हुताशनम्
वैधरं त्वृतधामानं नृहरिं मृगवल्लभम् ।
पवित्रमृतधामानं माधवं भुजगं ततः
चतुर्गतिं तथा दृष्टिं चादिदेवं हुताशनम् ।
भुवनं चण्डमत्रिं च ऊकारं कमलोद्भव
क्रोधरूपं दिनमणिं विघ्नेशं मधुसूदनम् ।
एकाक्षं मन्दरं पद्मं वैधरं गोपतिं तथा
पश्चिमं वक्रतुण्डं च खड्गं गोपनमन्वतः ।
भूधरं मारुतं स्पर्शं तृतीयं ककुभं तथा
यान्तं च विजयं त्वग्निमाकारं श्वेतरोचिषम् ।
अदिं दरं तथेन्द्रं च विजयं ज्वलनं तथा
श्रीधरं च गदध्वंसं भुवनं च हुताशनम् ।
उदयं चतुर्गतिं विघ्ननायकं त्वेकचक्षुषम्
स्वाहाधवं गोपनं च यष्टिं च कमलालयाम् ।
वक्रतुण्डं चोर्ध्वलोकं प्रचण्डं वसुमस्तकम्
मारुतं वरुणं चाग्निं पश्चिमं स्वान्तमब्जज ।
पवित्रमृतधामानं मारुतोदयसंज्ञितौ
विरिञ्चविजयौ चाग्नि देवमन्दरश्रीधरौ ।
मारुतात् षष्ठमन्त्रं च पद्मां विजय मादिमत्
यष्टिं लक्ष्म्यास्तृतीयं च शिखण्डं ब्रह्मसाधनम् ।
खेटकं मारुतं पापहननं पावकं ततः
शशाङ्कं विक्रमं चार्तिदण्डनं विक्रमं तथा ।
अर्धेन्दुशेखरं पश्चात्पञ्जान्तमृतधाम च
नभोमणिं पवित्रं च पवनान्तं च मन्दरम् ।
गजाननं च विजयं दहनं बिन्दुशेखरम्
नीहारदीधितिं यष्टिं सान्तं चैवाग्निसप्तमम् ।
माधवीमिन्दुयान्तौ च दक्षं च मधुविद्विषम्
अर्धेन्दुमिन्दुमाकारं मन्दरं माययायुतम् ।
क्रोधरूपं हुतवहं भुवनं पुण्यविक्रमौ
यान्तं सुभद्रमोंकारं मुसलं द्विरदाननम् ।
धनदं विक्रमं स्पर्शं गोपनं च चतुर्गतिम्
वैराजं वामनं तार्क्ष्यं प्रचण्डं श्वेतदीधितिम् ।
विक्रमं वैधरं पुण्यं प्रचण्डं कुञ्जराननम्
एकनेत्रं हुतवहं मधुसूदनसंज्ञितम् ।
यान्तोदयौ शुक्ललोकौ बहुलं ब्रह्मसाधनम्
सप्तार्चिश्श्रीधरं त्विन्द्रं यष्टिं पञ्चान्तकं तथा ।
यान्तं चाग्निं द्वितीयं च मन्दरं पवनद्वयम्
भद्रपाणिमथैकाक्षं यान्तं च मधुविद्विषम् ।
लम्बकुक्षिं च विजयं शिखिनं मन्दरं तथा
सर्वरोधं भद्रबाहुं माधवं कमलं ततः ।
नासिक्यं खर्वदेहं च वक्रतुण्डं सरोरुहम्
यान्तं कुशेशयं कुम्भं सुमुखं द्विस्समुद्धरेत् ।
ओतदेहं तथा दिं च श्वसनं विजयं तथा
करालमग्नि वदनं मुखं पवकगोपनौ ।
निहारदीथितिं चैव चषकं हव्यवाहनम्
विघ्नेशं गोपनं चाग्निं मधुसूदनमारुतौ ।
चण्डं हुतवहं रामं पुलहं बन्धुशीर्षकम्
सुधामयमिकारं च महान्द्रं रामशीर्षकम् ।
स्पर्शान्तं विक्रमाध्यं च नत्यन्तं बन्धु मस्तकम्
खड्गं त्रिविक्रं पीतवर्णाभं च त्रिविक्रमम् ।
माधवीं सर्वरोधं च वैधरं मन्दरद्वयम्
यान्तार्णाग्निरथं पश्चाद्यान्तं गोपनमस्तकम् ।
विहगेशं श्वेतरोचिर्मुखं हुतवहं तथा
श्रीधरं चैकनयनं पश्चिमं बन्धुमस्तकम् ।
श्रीवत्समादिदेवान्तं प्रचण्डं कमलाभिधम्
अथोर्ध्वलोकं श्रीवत्सं मन्धरं मधुविद्विषम् ।
प्रचण्डं पुण्डरीकाक्षं शुभदं च सरोरुहम्
वनं गजमुखं बन्धुं भुवनं मृगवल्लभम् ।
अमृतं चैकनयनं पञ्चबिन्दुं सुधामयम्
विक्रमं कुञ्जरमुखं गोपनं धूलिकेतनम् ।
करालं जन्मविध्वसं कुलिशं च हुताशनम्
शशाङ्कमादिं यान्तं च वरुणं पुलहं तथा ।
हृषीकेशं तथैकाक्षं वरुणं बन्धुशीर्षकम्
क्रोधरूपं गोपतिं च दान्तं मन्दरगोपनौ ।
शिखिनं स्पर्शनं चादिं षट्कृत्वः पुलहं क्षिपेत्
जयं सदागतिं बन्धुं पियूषं विक्रमाभिधम् ।
हिरण्यगर्भमनलं मन्दरद्वयमब्जज
पुण्डरीकाक्ष मग्न्यन्तं विजयं रामशीर्षकम् ।
नभोमणिं चादिदेवममृतं मायया युतम्
अत्रिं च धनदं कुम्भं द्वयमर्धेन्दुमादिमत् ।
हस्तिवक्त्रं च कमलमसलं च सुधामयम्
अग्निं च गोपनं मान्तं श्रीधरं सुभगं तथा ।
स्पर्शत्रयं बृहद्भानुं गोपनं सुमुखं ततः
माधवीं वासुदेवं च वैधरं माधवाह्वयम् ।
सुभद्रं चन्द्रधवलं मुसलं च द्विरुच्छरेत्
ब्रह्मन्ननन्तरं तस्य मारुतं मधुविद्विषम् ।
कुम्भं सविक्रमं लक्ष्मीं सुधादीधितिविक्रमौ
क्रोधरूपं प्रचण्डं च भुवनं वक्रतुण्डकम् ।
करालं शिखिनं दक्षं भद्रहस्तं तथोदरम्
ओषधीशं तथा दक्षं पानकं च ठठान्तिमम् ।
बीजमङ्गं यथापुर्वमृषिर्दक्षः प्रजापतिः
छन्दोऽतिच्छन्द एतस्य देवता च सुदर्शनः ।
सप्ताधिका सप्तदिश्च वर्णानां द्वे शते समे
जपेन सिध्यति मनुर्लक्षद्वादशसङ्ख्यया ।
कृष्णपक्षे चतुर्दश्या मुपोष्य प्रयतात्मवान्
निशीथे दृढधीर्मन्त्रीश्मशाने वा चतुष्पथे ।
जपेद्भूतादयस्तस्य प्रत्यक्षास्सर्वकामदाः
महासुदर्शनं मन्त्रमपरं कथयामिते ।
द्विषट्काक्षरमुद्धृत्य गोपतिं मृगवल्लभम्
वैरांज विक्रम परमनलं मधुसूदनम् ।
गदध्वंसमचामादिं दक्षं दिनकराह्वयम्
गोपनं धृतिमन्तं च पुलहं पश्चिमाननम् ।
ऋतधामा दिनमणिं पावकं सुमुखं ततः
अमृतं ककुभं पद्मनाभं गोपतिमब्जज ।
सुभगं बन्धुशिरसं पवित्रं विजयं तथा
चतुर्गतिं देवदत्तं पश्चिमं बन्धुमस्तकम् ।
प्रचण्डं पुण्डरीकाक्षं गोपनं वैधराह्वयम्
सरामं चैकनेत्रं च मारुतं ब्रह्मसाधनम् ।
अत्रिं चतुर्गतिं श्वेतदीधितं च स्वरादिमत्
विघ्नेशद्वितयं पश्चान्मायामस्तकमुद्धरेत् ।
सुभद्रं सूदनं शङ्खं वैधरं पञ्चबिन्दुकम्
पश्चिमं चैकनयनं सूदनं गदिनं तथा ।
भद्रबाहुं सरामं च ककुभं कुम्भ गोपनौ
माहेन्द्रं सूदनं विश्वरूपं भूधरमब्जज ।
शुभदं विजयं शुक्लं गोपनं श्वेतदीधितिम्
ऋतं च सूदनं यान्तं देवरं मन्दरोदयौ ।
भृगुं खड्गधरौ द्वौ च माधवं भुवनाह्वयम्
आकारं वक्रतुण्डं च वैधरं श्रीधरं तथा ।
उग्रात्मानं पवित्रं च पद्मनाभं च माधवम्
नृहरिं सूदनं शुक्लं भुवनं बहुलद्वयम् ।
तार्क्ष्यं झषं गोपनं च कमलं बन्धुमस्तकम्
विघ्नेशं वामनपरं सुभद्रं सगुहालयम् ।
एकनेत्रं चादिदेवं पश्चिमाननमब्जज
शुक्लं दक्षं सूदनं च यान्तं पश्छिमवक्त्रकम् ।
ऋतधाम तथा दक्षं सर्वरोधं सपश्चिमम्
विक्रमं शुभदं चादिदेवं खड्गधरं तथा ।
चतुर्गतिं वासुदेवं गदध्वंसं सविक्रमम्
भद्रहस्तं पञ्चबिन्दुबिन्दुमोषधीशं करालकम् ।
विघ्नेशं वैधरं कुम्भं विक्रामणमनन्तरम्
कुञ्जराननमाकारं चतुर्गतिमचां मुखम् ।
शिखिनं मानुषेशं च नृहरिं स्पर्शषोडशीम्
ऋतधामोतदेहं च भद्र बाहुमनन्तरम् ।
अचां द्वितीयं दृष्टिं च गदिनं पद्मनाभकम्
मार्ताण्डं सूदनं विघ्ननायकं विजयं तथा ।
पद्मनाभं गोपनं च शुक्लमादिं दराह्वयम्
तत्समष्टिं द्विरुच्चार्य सोममादिं सयष्टिकम् ।
भास्करं पावकं चैव द्विर्वक्तव्यं तदक्षरम्
पीयूषं विक्रमं पुण्यं कलशं यष्टिशीर्षकम् ।
शशाङ्कमादिं शङ्खं च पूर्ववत्कमलोद्भव
पीयूषं रामशिरसं स्पर्शानामपि षोडशम् ।
ऋतं च सूदनं शुक्ल मत्रिं चैव यथापुरम्
तार्क्ष्यद्वयं च कमलां विजयं त्वृतधाम च ।
हृषीकेशं तथा भद्रद्वयं मधुनिघादनम्
श्रीवत्सं चादिमनलं श्रियः पतिमनन्तरम् ।
पञ्छान्तकं पद्मनाभमेकाक्षं मृगवल्लभम्
जन्मध्वंसं श्वेतरश्मिमेणएशं दृष्टिवामनौ ।
सुभद्रं बन्धुशिरसं स्पर्शानां षोडशाक्षरम्
विक्रमं चैकविंशं च बन्धुं तन्मस्तकस्थितम् ।
सुमुखं पवनाह्वानं ब्र्हमसाविजयाह्वयम् ?
दहनं भद्रममृतं मतिमन्तं च सूदनम् ।
प्रचण्डं गोपनं शुक्लं भुवनं बहुलं तथा
भल्लायुधं श्रीधरं च मुसलं प्रेतनायकम् ।
माधवं वैधरं विघ्ननायकं द्वितीयं तथा
अचां द्वितीयं पञ्चान्तं विष्कंभं द्विरदाननम् ।
विक्रमं माधवीमग्निं वासुदेवं चतुर्मुख
वक्रतुण्डं मानुषेशमप्रमेयं वनस्रजम् ।
धरित्रीं कमलाक्षं च सूक्ष्मदृग्बन्धुमस्तकम्
विघ्नेशं वैधरं प्रेतनायकं माययायुतम् ।
हैरम्बं वैधरं चादिं पश्छिमं त्वृतधामकम्
विजयं रामशिरसं भास्करं विजयाह्वयम् ।
अत्रिं मृगेशं वरुणं गोपनं श्वेतदीधितिम्
श्रीधरं बहुलं पीतं जृम्भलं मोहनाशनम् ।
पश्चिमं भुवनं विघ्ननायकद्वितयं तथा
अचां द्वितीयं कमलमादिं शङ्खं विनायकम् ।
पश्चिमं भुवनं बिन्दुं शशाङ्कं द्विगुणं तथा
भद्रबाहुं सरामं च सुधादीधितिगोपनौ ।
यान्तं समिरणं चादिं पश्चिमं जातवेदनम्
अमृतं विक्रमपरं वैधरं चानलं तथा ।
गोपनं विजयं विघ्ननायकं विजयाह्वयम्
ऋतवधामं नलसिजं पद्मनाभं पितामह ।
वैराजं श्वसनं चादिदेवं भल्लायुधं करम्
श्वसनं प्रणवादिं च विघ्नेशं सर्वविक्रमौ ।
करालमृतधामान्तं विजयं धनसंज्ञितम्
स्वच्छन्धमथं दृष्टिं च चतुर्गति मनन्तरम् ।
शशाङ्कं पुल्लनयनं वासुदेवं च खेटकम्
शङ्खं पुलहमोङ्कारं मार्ताण्डं पश्चिमानम् ।
क्रोधं वनस्रजं भूमिं नासिक्यं श्वेतदीधितिम्
षोडशं कपिलं भानुं चतुर्गतिमनन्तरम् ।
विधातारं तथा शैलं विजयं कमलोद्भव
अचां त्रयोदशं चाग्निं कमलं चन्द्रदीधितिम् ।
वक्रतुण्डं चादिदेवं शङ्खं पीतमचां मुखम्
पूर्णचन्द्रं तथा दक्षं भुवनं वैधरात्मकम् ।
पद्मनाभं ध्रुवं लक्ष्मीं ब्रह्मसाधनसंज्ञितम्
क्रोधरूपं दरं चादिं माधवं गोपतिं तथा ।
विक्रमं माधवं भानुं सरामं सूक्ष्मलोचनम्
गदध्वंसं च पीयूषं विघ्नेशं पश्चिमाननम् ।
अचां द्वितीयं शुभदं सूदनं यष्टिशीर्षकम्
करालं श्रीधरं लक्ष्मीं मृगेशं द्विरदाननम् ।
पद्मपाणिं भूधराख्यं द्वयं वैधरमाधवौ
पश्चिमं पवनं लक्ष्मीं ब्रह्मसाधनसंज्ञितम् ।
क्रोधरूपमचामादिं स्पर्शनं दक्षगोपनौ
धान्तं चतुर्गतिं पापहननं बहुलं तथा ।
वक्रतुण्डं करालं च ककुभं त्वृधाम च
भद्रबाहुं चलध्वंसं मृगेशं दृष्टिमादिमम् ।
द्विरदाननयष्टिं च अनलं गोपनाह्वयम्
सध्रुवं पुलहं बिन्दुं माहेन्द्रं मधुसूदनम् ।
अर्धचन्द्रं तथा चन्द्रं नासिक्यं तद्द्विरुद्धरेत्
शशाङ्कमृतधामानं सूधनं यष्टिशीर्षकम् ।
तद्विरभ्यस्य शीतांशुमर्पितं वसुमस्तकम्
पुलहं वासुदेवाख्यं स्रष्टारंद्विरदाननम् ।
विक्रमं बहुलं ब्रह्मन् गोपनं बहुलं तथा
प्रचण्डं जन्मविध्वंसं विघ्नेशं च तृतीयकम् ।
अचां दृष्टिं द्वितीयान्तं भद्रबाहुं पवित्रकम्
ऋतं च कार द्विरदं चाननं मन्दराह्वयम् ।
प्रद्योतनं गोपनं च शशाङ्कं च श्रियः पतिम्
वैधरं शुभदं चाग्निं श्रीवत्सं ब्रह्मसाधनम् ।
सुमुखं विक्रमपरं विजयं मुखमब्जज
अत्रिं सरामं पञ्चान्तं सुभगं मधुसूदनम् ।
यष्टिं करालमाकारं चतुर्गतिमनन्तरम्
अपां पतिं श्वेतरश्मिं श्रियः पतिमतः परम् ।
स्तम्बरमाननं मायां कलशं दीप्तरोचिषम्
सुभगं गोपनं यान्तं गोपनं पश्चिमाननम् ।
हृषीकेशं वसुं शङ्खं गोपनं द्वितीयं पुनः
यष्टिबीजं द्विरुच्चार्य तिग्मदीधिं पवित्रकम् ।
ऋतधामतथैकाक्षं विक्रमं बहुलाह्वयम्
गदध्वंसं तथैकाक्षं विक्रमं बहुलाह्वयम् ।
गुहालयं पापहनममृतं मधुविद्विषम्
रोचिश्श्रियः पतिं कान्तं वैधरं माधवं तथा ।
पीयूषमादिं कमल मशिवं धनदाह्वयम्
ऋतधाम तथै काक्षमचामेकदशं तथा ।
द्विरुद्धरेत्कामभीजं वैधरं तूदयाह्वयम्
गदध्वंसं तथै वाग्नि मस्तकस्थं पवित्रकम् ।
गोपनं विजयं चादिदेवं विष्कम्भसंज्ञितम्
त्रिदशाकारमेकारं श्वेतांशु विक्रमं तथा ।
गजवक्त्रं सूदनं च कपिलाक्षमनन्तरम्
तृतीयं ककुभद्वन्द्वमस्तकं वसुं पुनः ।
जन्मध्वंसं च जलजं सुधादीधितिविक्रमौ
कलशं पुरुषात्मानं गहनं पद्मनाभकम् ।
भास्करं सुमुखं ब्रह्मन् भुवनं विजयं वसु
द्रुहिणं त्वृतधामानं भूधरं क्रोधनं ततः ।
स्पर्शानां षोडशार्णं च कुम्भेशं मुसलं ततः
निहारदीधितिमचा मेकदेशमतः परम् ।
चतुर्गतिं भद्रहस्तं विजयं पद्मनाभकम्
हैरम्बं गोपनं चैव गदिनं कलुषापहम् ।
अचां द्वितीयं कमलां गोपनं वित्तवर्धनम्
हरिणाननमाये द्वे ककुभं वरुणाह्वयम् ।
ज्वलनं मानुषघ्नं च विघ्नेशं गोपनाह्वयम्
श्रीवत्सं द्विशदं शुक्लमचामादिं सरोरुहम् ।
ब्रह्मन् पञ्चान्तकमतः धृतावासुमतः परम् ?
वैराजमग्निं नृहरिं ब्रह्मसाधनसंज्ञितम् ।
सुभद्रं सुमुखं कुम्भं मारुतं चोतदेहकम्
दक्षं दाक्षायणीकान्तं मन्दरं पञ्चबिन्दुकम् ।
धूमध्वजं प्रचण्डं च सूदनं कतृतीयकम्
हरिवक्त्रं रामसंज्ञं दृष्टिविक्रममब्जज ।
शुभदं कपिलं ह्रस्वं भद्रहस्तं समिरणम्
निहारदीधितिमचामादिं कुम्भं हुताशनम् ।
शुक्लमोङ्कारसंयुक्तं सुभद्रं मधुसूदनम्
स्पर्शं तृतीयमनलं विजयं सप्तमिं कलाम् ।
विक्रमं सूक्ष्मदृष्टिं च श्रीधरं यादसां पतिम्
हेरम्बं वासुदेवं च भद्रहस्तं च माधवीम् ।
अचां द्वितीयं दृष्टिं च कमलं बहुलं तथा
स्पर्शान्तं भुवनं चक्रं भृगुं ककुभसंज्ञितम् ।
नभोमणिं विक्रमं च पाटलं मधुविद्विषम्
भल्लायुधं बन्धु शीर्षं विघ्नेशं वैधराह्वयम् ।
वक्रतुण्डमाचामादिं कमलं पीठपूर्वकम्
गोपनं मानुषं चैव पुलहं बन्धुमस्तकम् ।
ओतदेहं तथा पीतं जन्मध्वसं त्रिविक्रमम्
गोपतिं वरुणं विघ्ननायकं त्वृतधामकम् ।
एकाक्षं मारुतं चादिदेवं बहुलमस्तकम्
पवनं सूक्ष्मदृक् प्रोक्तं सूदनं च चतुर्गतिम् ।
सुभद्रं च बृहद्भानुं गदिनं वरुणं मुखम्
जयं कुम्भेशमखिलमृतं भुवनसंज्ञितम् ।
दृष्टिं च धनदं दक्षं हृषीकेशं जयाह्वयम्
शशाङ्कं भुवनं चादिं कमलामद्रिमस्तकम् ।
विघ्नेशं भुवनं चादिं कमलामद्रिमस्तकम् ।
विघ्नेशं पश्चिमं बन्धुं नासिक्यं गदिनं तथा
माहेन्द्रं शशिनं देवदत्तं लक्ष्मीं श्रियःपतिम् ।
पञ्चान्तकं पद्मनाभं गोपनं विघ्ननायकम्
अमृतं समिरणमचां द्वितीयं पश्चिमाननम् ।
वैराजं माधवीमूर्ध्वलोकेशं विजयद्वयम्
बहुलं समिरणं देवदत्तं मन्दर गोपने ।
गोपनं चौषधीशं च भुवनं वैधराह्वयम्
श्रीवत्समग्निं विघ्नेशं गोपनं च चतुर्गतिम् ।
हुंफट्कारं ठठान्तं च मनुमेवं समुद्धरेत्
बीजाङ्गानि यथापूर्वमृषिस्स्यान्नीललोहितः ।
छन्धश्च वरिवंसंज्ञो देवता च सुदर्शनः
अष्टलक्षं जपेद्ब्रह्मन् पाताले दिवि वा भुवि ।
गतिनन् प्रतिहन्येत मन्त्रिणो मन्त्रवैभवात्
सुदर्शननृसिंहाख्यं मन्त्रं ब्रूमि चतुर्मुख ।
उद्गीधं नृहरिं पद्मनाभां सङ्कर्षणाह्वयम्
नासिक्यं शुक्लमादिं च गोपतिं प्रणवादि च ।
निहारदीधितं पद्मनाभं च मधुविद्विषम्
अनलं ककुभं कुम्भं गोपनं पुलहात्मकम् ।
अचां द्वितीयं स्पर्शान्तं सूदनं पुलहाह्वयम्
विक्रमं कुञ्जरमुखं माधवं तस्य मस्तके ।
मार्ताण्डं भद्रहस्तं च द्विरुच्चार्य प्रभाकरम्
श्रीधरं कपिलाक्षं च फट्कारं खेटकीं ततः ।
ठठान्तमेवं कथितं द्वाविंशत्यक्षरात्मकम्
बीजमङ्गानि चोक्तानि छन्दो गायत्रमिरितम् ॥
द्रष्टा च जमदग्निस्स्याद्धेवता च सुदर्शनः
सुदर्शनस्य हृदये विष्ठितं नृहरिं हरम् ।
स्फटिकाचलसङ्काशं परश्शतसटाकुलम्
प्रलयाम्बुदनिर्घोषगम्भिरगहनध्वनिम् ।
शज्खचक्रधरं द्वाभ्यां कराभ्यामितरौ पुनः
प्रसार्य जानुनोर्भी मं नखदम्भोलिभीषणौ ।
व्यत्यस्तचरणद्वन्द्वमासीनं पद्मविष्टरे
भ्रुकुटीकुटिलं योगपट्टिकादृढबन्धकम् ।
व्यादायवक्त्रकुहरं दंष्ट्रिणं स्फुटिताधरम्
त्रिणेत्रमखिलाकल्पकल्पितं ब्रह्मगर्जितम् ।
ध्याये देवं च तन्मन्त्रं मन्त्री तरति दुर्गतिम्
सकृत्स्मरणमात्रेण यथाभिलषितं फलम् ।
अन्येषु मन्त्रकल्पेषु यदुक्तं तत्समश्नुते
वक्ष्यामि पाञ्चजन्यस्य मन्त्रं सर्वार्थसाधनम् ।
उद्गीथमादौ सप्तार्णानुद्धृत्य तदनन्तरम्
पश्चिमं भुवनं चण्डं पुण्डरीकं हुताशनम् ।
महामायां करालं च गोपनं पन्नगाधिपम्
सूदनं च तथा सङ्खं कलशं मधुसूदनम् ।
मारुतं भुवनाह्वानं मन्दरं भुवनं ततः
खर्वदेहं तथा चादिदेवं श्वसनमादिमत् ।
वैधरं पञ्चबिन्दुं च पश्चिमं विजयं ततः
यान्तं गुहालयं पापहननं मधुविद्विषम् ।
शङ्खं लक्ष्मीं तथायष्टिं खर्वदेहं च पश्चिमम्
आदिदेवं महेन्द्रं च मधुसूदनशीर्षकम् ।
वायुं ठठान्तमुदितमिति प्रोक्तो मनुर्महान्
श्रीवत्सो यष्टिरुद्गीथो बीजमेतत्प्रकीर्तितम् ।
अमुष्य सनको द्रष्टा छन्दस्स्याद्बृहती मनोः
देवता पाञ्चजन्यश्च चतुर्लक्षोजपः स्मृतः ।
अतोऽन्यं पाञ्चजन्यस्य मन्त्रं शृणु चतुर्मुख
सप्तार्णमुद्धरेदादौ पश्चिमं मधुसूदनम् ।
भृगुं चन्ध्रधरं खड्गधवलं ककुभाह्वयम्
गजवक्त्रं तथा नायुमादि देवं समिरणम् ।
पश्छिमं सप्तममचां सुमुखं निगमादिकम्
पीयूषमत्रिं सुभगं वरुणं मधुविद्विषम् ।
गजास्यमादिदेवं च श्वसनं श्वेतरोचिषम्
वैधरं गोपनं चापि गदध्वंसं चतुर्मुख ।
वैराजं विक्रमं दक्षं श्रीधरं तर्क्ष्यवाहनम्
गोपनं स्पर्शनं जन्महन्तरं सलिताधिपम् ।
महेन्द्रमादिं ज्वलनं तथाचं षष्ठिपश्चिमौ
गोपनं पश्चिमं गोपं पीतवर्णं मधुद्विषम् ।
श्वसनं च ठठान्तं च मनुरित्थमुदाहृतः
जीमङ्गानि वैतस्य देवता चापि पूर्ववत् ।
विष्वक्सेन ऋषिश्छन्दस्सुप्रतिष्ठापितामह
पञ्चलक्षजपेनास्य साधको मन्द्रवैभवात् ।
अतलादिषु लोकेषु चरन्न प्रतिहन्यते
किं पिनर्दर्मकामार्थमोक्षाः कमलसम्भव ।
सप्तार्णमग्रे गोविन्दं गदिनं दृष्टिसूदनौ
चतुर्गतिं चातिवीरं भल्लायुधमचां मुखम् ।
अपां पतिं हुतमहमुकारं पश्चिमाननम्
रामं प्रचण्डं गोविन्दं ब्रह्मसङ्कर्षणावपि ।
मन्दरं वासुदेवाह्वं वैधरं विष्णुमस्तकम्
कुशेशयधरे वीरसेनं हुंफट् ठठान्तिमम् ।
इति कौमोदकीमन्त्रमुद्धरेद्बीजमस्यतु
स्पर्शद्वितीयमर्धेन्दुमेतेनैवाङ्गकल्पना ।
ऋषिः कृष्णस्तथा छन्दः पङ्त्किः कौमोदकी पुनः
देवता लक्षमन्त्रश्च जवतस्पिद्धिदो भवेत् ।
आदावुद्धृत्य चोङ्कारं गोपनं दृष्टिविक्रमौ
वैराजं मारुतं पापहननं वसुमस्तकम् ।
वैराजं बन्धुशिरसं माधवीं सूदनं दरम्
पाटलप्रियमाकारं समिरणमचां मुखम् ।
यान्तं गुहालयं ब्रह्मन् पश्चिमं बन्धुमस्तकम्
सुमुखं देवदत्तं च हुंफट्कारं ठठान्तिमम् ।
नादं पकारमाकारमर्धेन्दुशिरसं पुनः
बीजं प्रकल्पयेद्ब्रह्मन्नमनै पाङ्गकल्पना ।
द्रष्टा विरञ्चश्छन्दश्च विराट्पद्मोऽधिदेवता
दशलक्षजपात्सिद्धिरखैलं प्राप्नुयान्नरः ।
इति पद्ममनुः प्रोक्तो बीजेनान्याङ्गकल्पना
शुक्लं पुनर्विष्णु वह्निपीयूषं गोपनाह्वयम् ।
सप्तार्णाद्धरणात्पश्छान्मन्दरं कमलासन
शशाङ्कमादिं पुलहं गोपनं पवनं पुनः ।
ज्वलनं गोपनं दक्षं गोपनं कमलोद्भव
चतुर्गतिं च भुवनं सुमुखं मधुविद्विषम् ।
दरं मुखं ठठान्तं च मन्त्रविन्मन्त्रमुद्धरेत्
मन्दरं भुवनं यष्टिमितिबीजमिदं मनोः ।
मुद्गस्यादृषिश्छन्दो विराण्मन्द्रस्य देवता
मुसलः पञ्चलक्षं तु मन्त्रमस्य प्रचक्षते ।
उद्धृत्य सप्तवर्णांश्च हैरम्बं मधुसूदनम्
गजह्वमत्रिं कमलं मधुशत्रुं चतुर्गतिम् ।
विष्णुं शुक्लं पुनर्विष्णुं वह्निपियूषगोपनाः
शशाङ्कं भुवनं वह्निं श्रीवत्सं ब्रह्मसाधनम् ।
सुमुखं विक्रमं चापि वैधरं विजयं तथा
रामं पञ्चान्तकं पुण्यं गोपनं यष्टिशीर्षकम् ।
पञ्चान्तकं गोपनं च श्वसनं हुंकृतिं तथा
फट्कारं स्वाहया सार्धं खड्गस्य गदितो मनुः ।
चक्रमन्त्रस्य बीजं स्यादृषिश्श्रीनिधिरुच्यते
छन्दो विराढधिपतिः खड्गाख्यो हेतिराड्भवेत् ।
लक्षत्रयं जपेन्मन्त्री काङ्क्षितां सिद्धिमश्नुते
सप्तार्णं कल्पयित्वादौ श्रीवत्सं मधुसूदनम् ।
शार्ङ्गहस्तं गदध्वंसं मधुसूदन शीर्षकम्
ज्वलनं पवनादिं च वह्निं शुक्लमपां पतिम् ।
मधुसूदनपूर्णेन्दुभुवनं हव्यवाहनम्
पवित्रं सप्तममचां श्रियं मन्दरमादिमत् ।
विघ्नेशं गोपनं शङ्खं मुखं पश्चिम श्रीधरम्
बहुलं भुवनं क्रोधं त्रयोदशमचां तथा ।
हुताशमेकदृष्टीद्वौ मन्दरं पद्मसम्भव
पवित्रमृतधामानं वायुं यष्टिं मधुद्विषम् ।
चतुर्गतिं हुंकृतिं च फट्कारं च ठठान्तिमम्
हुंफडन्तं मनुं कृत्वा बीजमाद्यर्णमुद्धरेत् ।
ऋषिर्हुतान्तो मन्त्रस्य छन्दश्छन्दोऽधिदेवता
बाणो जपन्नष्टलक्षं समरे विजयी भवेत् ।
ब्रह्मकोशं नतिं सर्गं कलात्मा कमलाह्वयम्
महेन्द्रं गोपनपरं शुभदं मधुविद्विषम् ।
शशाङ्कं श्रीधरं वह्निं वरुणं बन्धुमस्तकम्
विघ्नेशमादिदेवं च शुभदं गोपनं तथा ।
पवनं कुटामौर्वं च नासिक्यं भास्करो मनुः
यष्टिं हुङ्कारफट्कारौ हुतान्तं मनुमुद्धरेत् ।
पीयूषमादिमर्धेन्दुं बीजं चामुष्य कल्पयेत्
शतदृग्दृष्टवान् मन्त्रं माच्छ्दो देवतापि च ।
पञ्चलक्षं जपेन्मन्द्रं विजयेत्तरसा रिपून्
उद्गीधं पापहननं गोपनं सद्ध्रुवं मनुः ।
पश्चिमं गोपनं लक्ष्मीमादिदेवसमिरणौ
नत्यन्तं कल्पयेन्मन्त्रमृषिः प्राचेतसः स्मृतः ।
छन्दो विराडधिपतिः पशो लक्षत्रयं जपः
ब्रह्मकोशमचामादिं नासिक्यं सरसीरुहम् ।
भुवनं शुभदं पश्चादादिदेवं गदागतिम्
नत्यन्तमिरयेन्मन्त्रं द्रष्टा सत्यो विराट्पुनः ।
छन्दोऽङ्कुशो देवता स्याल्लक्षत्रयमिमं जपेत्
प्रणवादि चतुर्थ्यन्तं नामधेयं ठठान्तकम् ।
अन्येषामायुधानां च मन्द्रबीजमथादिमत्
सिद्धयश्च यथापूर्वं भवन्ति जपतोऽखिलाः ।
अतो वक्ष्ये मनुं ब्रह्मन् शूयतां कथ्यतेऽधुना
वश्याकर्षण विद्वेष मारणो च्चाटनादिषु ।
शोषणस्तम्भनावेश सर्पाकर्षण कर्मसु
नष्टायनविषक्षेप समुद्रतरणादिषु ।
नभोलङ्घन वाय्वग्नि जलभूमि प्रवेशने
इन्द्रजालादिविद्यासु ऋषीणां विजये तथा ।
अतीतानागतज्ञाने भूतसंपनने तथा
देवता सन्निधानादौ स्फोटिमूर्ष्यादिकर्मणि ? ।
एवमादिषु साध्येषु तथा न्येष्वपि सर्मसु
इति मन्त्रं प्रयुञ्जीत गरुत्मन्तमनुस्मरेत् ।
सट्तार्णान् पूर्वमुद्धृत्य गदिनं हव्यवाहनम्
भुवं पुण्डरीकाक्षं गोपनं पवनं पुनः ।
पश्चिमं भुवनं वह्निं श्रीधरं क्रोधविग्रहम्
ब्रह्मसाधनवैराजौ जयमन्दरामादिमत् ।
अमृतं गोपनं चापि गोपतिं द्विरदाननम्
आदिदेवं नभस्वन्तं अनलं च रमाधरम् ।
प्रचण्डं कमलं भद्रहस्तं वामनमस्तकम्
श्वसनं रोहिणीशं च मृगेशं मानुषेश्वरम् ।
गोपन गदिनं पश्चात्कमलां भुवनं तथा
वासुदेवं प्रचण्डं च विक्रमं विजयं तथा ।
वै राजं रामसहितं गदिनं मोहनाशनम्
अचां तृतीयमर्धेन्दुं पञ्चान्तकमधुद्विषौ ।
मारुतं धूमकेतुं च सप्तकृत्वस्समुद्धरेत्
हृङ्कृतिं फट्कृतिं स्वाहमोतदेहं ध्रुवं तथा ।
पुलहं सप्तकृत्वश्च हुंफट्कारं ठठान्तकम्
तारं वरुणगोविन्दौ विघ्नेशमथ माधवम् ।
स्पर्शा न्तकमकारं च पञ्चकृत्वस्सदागतिम्
षट्कृत्वो वरुणं चापि हुंफट् स्वाहावसानकम् ।
निगमं पश्चिमं कूटं विक्रमं विघ्नुगोपनौ
ककुभं गोपनं चापि षट्कृत्वो मारुतं पुनः ।
व्यञ्जनार्णेषु सर्वत्र सुखोच्चारणमिच्छता
स्वरानुद्धरणे कल्प्यं मनुश्शास्त्रोक्तवर्त्मना ।
हुंफट्स्वाहावसानं च गारुडं मन्त्रमुद्धरेत्
पञ्चान्तकमनुस्स्वारं बीजमेतस्य कल्पयेत् ।
आदौ सुवर्णवचनं वक्रतुण्डगिरं पुनः
महासुवर्ण इत्येवं खगेश्वरशिरस्तथा ।
अनन्तवीर्यवन्ताख्यं पक्षिराजं तथा न्तिमम्
प्रणवादि यतुरथ्यन्त नत्यन्तानि चतुर्मुख ।
कल्पयित्वाङ्गमन्द्राणि षड्भिरेतैर्यथाक्रमम्
अङ्गानि हृदयादीनि स्पृशेन्मन्त्रविचक्षणः ।
अमुष्य काश्यपो द्रष्टा छन्दः पङ्त्किर्निगद्यते
देवता गरुडस्तस्य जपो लक्षत्रयं स्मृतः ।
अधस्ताद्वटवृक्षस्य साधकस्साधयेन्मनुम्
आम्नायादिं नरहरिं वामनं पश्चिमाननम् ।
वैराजं पावकं तारमिति पञ्चाक्षरो मनुः
ऋषिर्मरिचिरेतस्य गरुडो देवता तथा ।
छन्दश्च देवी गायत्रं षडङ्गानि पुनस्स्वयम्
उद्गीधं कमलं वायुं वासुदेवं ध्रुवं तथा ।
पश्चिमं बहुलं ब्रह्मसाधनं यष्टिमस्तकम्
विघ्नेशं विक्रमं वह्निं महामायां ध्रुवं पुनः ।
पुष्पभद्रं तथा पीठं वामनं यष्टिकौस्तुभम्
बिन्दुं कलशचन्द्रार्धौ सूर्यार्धान्दुकलात्मनः ।
पन्नगाधिपतिं बन्धुं वरुणं यादसां मुखम्
हुतान्तमुद्धरेन्मन्त्रमिति गारुडमुत्तमम् ।
स्यादिमं जगतस्साक्षात्प्रत्यक्षं पक्षिपुञ्गवः
ब्रह्मकाशमथो पद्मं नासिक्यं भूधराह्वयम् ।
यष्टिं पापस्य हन्तरं बिन्दुं कमलमन्दरम्
अर्धेन्दुकलशं बिन्दुं पश्चिमं पन्नगाशनम् ।
विक्रमाग्निमथो शत्रुं ककुभं मधुसूदनम्
वायुं स्वाहान्तमित्येव मन्यं गारुडमिरयेत् ।
आकाशारोहनं सिद्धिर्जपादस्य भविष्यति
एवं कृत्वाद्यमोङ्कार मादिदेवं खपश्चिम् ।
स्वच्छन्दं च द्विरुच्छार्य गदिनं हव्यवाहनम्
भुवनं मेदिनीं च द्विर्मन्दरं मधुसूदनम् ।
वैराजं विपुलं पश्चाद्वामनं च द्विरीरयेत्
पवित्रं पद्मकञ्जं च नागेन्द्रं वायुमादिमत् ।
एताद्विःकल्पयित्वाथो गोपनं यष्टिमन्तिमम्
तुष्टिबीजार्धशशिनं ठठान्तं कल्पयेन्मनुम् ।
सप्तार्णानादितः कृत्वा भास्करं हव्यवाहनम्
गोपनं यष्टिमार्ताण्डौ हव्यवाहन वामनौ ।
चन्द्रर्धौ द्वादशात्मानं हृषीकेशमथो ध्रुवम्
वरुणं हृदयाह्लादं द्वन्द्वं कमलमाधवौ ।
वैराजं श्रीधरो भूयः पीठस्तु भुवनद्वयम्
विजयं श्रीधरं वह्निं भुवनं पुनरीरयेत् ।
लोकनेत्रोर्ध्वनासिक्यं करालं ब्रह्मसाधनम्
अनलं यष्टिमनिलं यष्टिं कुम्भो ध्रुवं तथा ।
हुतान्तमिति सर्वार्थं जानीयाद्गारुडं मनुम्
सप्तार्णमुद्दृत्य पुनः कलशं बन्धुमस्तकम् ।
क्रोधरूपं प्रचण्डं च त्रिदशाहारमाधवौ
चन्द्रं स्वाहापतिं चापि शशिनं बहुलं तथा ।
मृगाङ्कं श्रीधरं वह्निं भुवनं द्वि चतुष्टयम्
भानुमत्पुलहद्वन्द्वं हुं फडन्तं हुता न्तिमम् ।
इत्यन्यं गारुडं मन्त्रमूहेन्मन्द्रविचक्षणः
पवनेन हुताशेन महेन्द्रेण प्रचेतसा ।
एतैश्चतुर्बिः प्रत्येकं क्रमव्यस्तैर्विषं हरेत्
समस्त्रैः प्रातिलोम्येन स्तम्भनादि समाचरेत् ।
व्यापिनं विघ्नुराजं च दामोदरमथो ध्रुवम्
एवमादिमिति ब्रह्मन् त्य्रक्षरं मनुमुद्धरेत् ।
यैनैव साधितो मन्त्रः यक्षराजोपलक्षितः
त्रीणि तस्य भविष्यन्ति भुवनानि विशेषताम् ।
आदिद्वितीयं भुवनं पञ्छान्तममृतं तथा
गदिनं श्रीधरं वह्निमुदयं चादिमम्बुजम् ।
वैराजं विक्रमं स्वाहा और्वं च कमलाह्वयम्
भुवनं पर्वतं बन्धुं माहेन्द्रादि श्रियं तथा ।
विक्रमं तार्क्ष्यवाहं च मृगेशं मन्दरं तथा
आदिसूर्यो गोपनं च मन्दरं भुवनं दिशम् ।
अग्निं मृगाधिपं चापि स्वाहाकारावसानिकम्
इति मुद्रामनुर्ब्रह्मन् कल्पयेदथ मण्डलम् ।
विस्तरेषु निरीक्षन्तां तेषां सङ्ख्या न विद्यते
आत्मानं चिन्तयेन्मन्त्री गरुत्मन्तमनन्यधीः ।
अथ द्यानं प्रवक्ष्यामि पक्षिराजस्य पद्मज
मेरुशृङ्गनिभाकारं रुक्मपक्षतिमण्डलम् ।
वैडूर्यनीलवासाग्रं वक्रतुण्डं भयङ्करम्
वज्रकल्पन खाकारं कल्पितोत्कटिकासनम् ।
स्नगम्भूरनिर्ह्रदं शिलाघनभुजान्तरम्
अनन्तकर्णाभरणं मूर्ध्नि वासुकिभूषणम् ।
महापद्मादरं पद्मदाम वेष्टितभूषणम्
मस्तके बद्धकार्कोटं कलाभोः ? कटिवेष्टितम् ।
उपवीतकृतेनापि सङ्खपातेन भूषितम्
जयेन कुलिकेनापि कल्पि तानघमूपुरम् ।
धनङ्जयाभिनेधान विजयेन च भोगिना
वामदक्षिणहस्ताभ्यां बिभ्राणं कलकद्वयम् ।
बालपल्लवताम्रेण वारवाणेन शोभितम्
उद्भिन्नभ्रुकुटीबन्धं करण्डमुकुटं तथा ।
पक्षविक्षेपगम्भीर कृतोर्ध्वनयनभ्रमम्
दंष्ट्राकरालवदनं ताम्रवर्तुलचक्षुमम् ।
इत्थं ध्यात्वा गरुत्मन्तमेकतानेन चेतसा
साधयेत्साधनीयानि दुर्लभान्यपि नातिभीः ।
यथाक्तं जपतोमन्द्रमादित्येन्यस्तचक्षुषः
ऊर्ध्वबाहोर्भविष्यन्ति दासा इव फणीश्वराः ।
विष्वक्सेनमनुर्ब्रह्मन् कथ्यते सर्वसिद्धदः
तारं सुधामयं रामं क्रोधरूपं सुधामयम् ।
करालं शशिनं पश्चान्माधवं कुञ्जराननम्
गोपनं मारुतं चापि ठठान्तं मन्त्रमुद्धरेत् ।
तारेण बिन्दुना चापि बीजमेतस्य कल्पयेत्
एतेनै वाङ्गमन्त्राणि कल्प्यानि कमलासन ।
विश्वनाथमृषिं प्राहुर्विराट्छन्दो निगद्यते
देवता च मनोस्तस्य विष्वक्सेनो महाबलः ।
अथ्यान्यः कल्पितो मन्त्रो विष्वक्सेनस्य पद्मज
उद्गीथं भद्रपाणिं च मन्दरं ब्रह्मसाधनम् ।
सुभद्रं गदिनं कुम्भं सुमुखान्तं समाधवम्
स्पर्शादिं बिन्दुसहितं सध्रुवं कमलासन ।
दरान्तं गोपनं ब्रह्मन् धनदं रामशीर्षकम्
पश्चिमं निगमादिं च वै राजं च समाह्वयम् ।
खड्गहस्तं सरामं च जयं वसुवरं तथा
सुभदं सरोरुहं वैराजं विक्रममस्तकम् ।
पद्मपाणिं भद्रपाणिं पाशपाणिं च पश्चिमम्
सोदयं शत्रुहननं मृगेशं वक्रतुण्डकम् ।
प्रचण्डं पुण्डरीकाक्षं मधुशत्रुं चतुर्गतिम्
खड्गहस्तमचामादिं प्रचण्डं झषमर्पितम् ।
सुभद्रान्तं मधुद्वेषिं वै राजं द्विर्वसु परम्
अचां द्वितीयं सुभगं पुण्डरीकविदर्भितम् ।
वैधरं विष्णुसहितं प्रचण्डं सवनालयम्
श्रीवत्सं सध्रुवं खड्ग हस्तहरं तथा ।
कमलं त्वृतधामं च सुभगं वसुगोपनौ
चतुर्गतिमचामादिं वैधरं गोपनं तथा ।
विजयं श्वसनं दत्तं सूदनं मृगताञ्छनम्
समाधवं द धानं च कमलं माधवं ततः ।
पीतं च धनदं कुम्भमर्पितं सध्रुवं पुनः
कलानिधिं च पुरध ? मादि देवं चतुर्गतिम् ।
वैधरं वरुणं मायां खेटकं च समुद्धरेत्
पश्चिमं पद्मनाभं च मावृतं शुभमालिनीम् ।
समन्दरं दरान्तं च मधुद्वेषिं समन्त्रजित्
ऐन्दवं कतृतीयं च संमतं माठराभिधम् ।
सुन्दरं वैधरं पञ्च बिन्दुकं भद्रकं तथा
स्पर्शेषु षोडशं पद्मनाभं च चतुरासन ।
गोपनं चैन्दवमथो चतुर्गतिमनन्तरम्
भान्तं मधुद्विषं यान्तं दरं च द्विस्समुद्धरेत् ।
कद्वितीयं सूदनं च वैधरं च चतुर्गतिम्
द्विर्वक्तव्यं दिनकरं भद्रपाणिमनन्तरम् ।
वैधरं भास्करं चापि पश्चिमं वक्रतुण्डकम्
मन्दरं सर्वरोधं च द्विर्गतीरिति ? संमितम् ।
गोपतिं सुमुखं चापि शुभदं ब्रह्मसाधनम्
क्रोधं चतुर्गतिं चापि आदिबीजं चतुर्मुख ।
आदिदेवं तथा कुम्भं संप्रसारणमक्षरम्
श्रीवत्सं पुरुषात्मानं मन्त्रविक्रमनिष्ठितम् ।
वरुणं शङ्खमपरं पश्चिमं पद्मनाभकम्
सुभद्रं च मधुद्वेषिं कुंभं भद्रकरं तथा ।
वैधरं शुभदं चाग्निं चतुर्गितमनन्तरम्
हुङ्कारं च वषट्कारमिरयेत्कमलासन ।
शुभदं वामनपरं क्रोधं चाग्निं मधुद्विषम्
चतुर्गतिं सूदनं च वक्रतुण्डं समिरणम् ।
माधवीं विजयं भद्रहस्तं च समतं ? पुनः
विधातारं मृगेशं च भागं यान्तं सविक्रमम् ।
सरोरुहं मधुद्वेषिं पश्चिमं रानुशीर्षकम्
महेन्द्रममृतं बन्धुं कतृतीयं मृगं तथा ।
भास्करं सूदनमथो शङ्खं खड्गधरं पुनः
वैराजं सोदयं चैव कतृतीयं वसुं परम् ।
द्वितीयं वासुदेवं च तृतीयं बन्धुसंहितम्
माधवं वरुणं पार्श्वमेदरं ? दरगोपनौ ।
चतुर्गतिं खड्गधरं सऋतं ब्रह्मसाधनम्
सबिन्दुं पश्चिमं चैव वाचां सप्तमसाधने ।
सध्रुवं चेन्धिराभीजं पुष्टिबीजं सहुंकृतिम्
सुधारसं चौर्वपरं माधवं च चतुर्मुख ।
वौषट्कारं तथा लक्ष्मीं दरान्तं पञ्चबिन्दुकम्
यान्तं च सूदनं मान्तं श्रीशब्दं भद्रपाणिनम् ।
विक्रमं पुलहं धूलिकेतनं सूरिनन्दनम्
हुंकृतिं वैधरं भानुं विघ्नेशं मधुसूदनम् ।
खर्वदेहं सबन्धुं च पीतं भल्लायुधं तथा
माधवं वरुणं भद्रहस्तं सर्गिणमब्जज ।
पवित्रं सूदनमथो वैराजं च समिरणम्
ओंकारादि जयं पीतं सूदनं विधुरं पुनः ।
श्रीधरं माणिभद्रं च द्विरदं विक्रमं तथा
वक्रतुण्डधरं बिन्दुं पियूषं रामशीर्षकम् ।
अत्रिं च सूदनं यास्तं मन्दरं दरवैधरौ
द्वयं वसुशिरश्शङ्खं कुम्भं विक्रममस्तकम् ।
पूर्णं घटं सध्रुवं च वैधरं च चतुर्गतिम्
शुक्लं घटं वह्निपरं वैधरं च मधुद्विषम् ।
सुभद्रं मधुविद्वेषं सरसीरुहसम्भव
कपिलाक्षं हुतवहं नृसिंहं च समुद्दरेत् ।
बीजान्येतद्विरुच्चार्य शुक्लपीतान्तिमाक्षरम्
शीर्षं च गोपनं चण्डं पश्चिमं जयतत्परम् ।
भल्लायुधं मारुतं च सर्गिणं चतुरासन
कृपाकं करीरं च वसुतच्छिरसं तथा ।
सुभद्रमूर्ध्वलोकेशं विजयं संप्रसारणम्
सुभद्रं पुरुषात्मानं कलान्तं फट्कृतिं तथा ।
निगमादिं शशधरं माधवं वसुमाधवम्
भल्लायुधं तथासर्गं फट्कृतिं दक्षमक्षरम् ।
गोवतिं गोपनं कुम्भं विक्रमं क्रोधरूपिणम्
प्रचण्डं सार्धममृतं माधवं घटविक्रमम् ।
उग्रात्मानं तथा कुम्भं कमलं द्विविधुंतुदम्
दत्तं भद्रं सूदनं च दक्षान्तं हुंफडन्तकम् ।
स्वाहावसानमित्येवं विष्वेक्सेनमहामनुम्
उद्धरेद्बीजमस्याथ तारं कुम्भं मनुं ध्रुवम् ।
कल्पयेदमुनैवाङ्गमन्त्रं मन्त्रविचक्षणः
द्रुपदो दृष्टवानेतच्छन्दोऽतिच्छन्द उच्यते ।
विष्वक्सेनो देवता च जपेल्लक्षत्रयं पुनः
एतं महामनुं ब्रह्मन् जपतस्सिद्धि काङ्क्षया ।
सुरासुरेभ्यस्सर्वेभ्यो भयं तस्य प्रणश्यति
अथेदानीं प्रवक्ष्यामि तस्याराधनसंयुतम् ।
कल्पयित्वा महापद्मं दलैर्द्वादशभिर्युतम्
कर्णिकायां समासीनं सैनान्यं सम्यगर्चयेत् ।
विष्वक्सेन नमस्तेऽस्तु नमो मृत्युभयापह
नमः पारिष देशाय धुर्यय जगतां नमः ।
चराचराणामदिस्त्वं जन्म नाशो न विद्यते
धुरमाधाय लोकानां त्वय्येव पुरुषोत्तमः ।
योगनिद्रा सुखवशश्शेते शेषे मनोहरे
एकान्तिनां तपोभक्ति प्रकर्षक्षीणकर्मणाम् ।
भगवत्प्राप्तये द्वारदृष्टयस्त्वां प्रभूतये
ब्रह्माणमाहुः कल्पादौ पालने मधुविद्विषम् ।
पतिं पशूनां संहारे जगतस्तस्थुषामपि
पादेन मेदिनीं विश्वां मध्येन परमम्बरम् ।
नाकं मूर्ध्ना त्वमाक्रम्यतिष्ठस्येको जगन्मयः
त्वं भूमिस्त्वमपां स्थानं तेजश्च त्वं समिरणः ।
आकाशस्त्वं त्वामियन्ते विभूतिर्वाप्य तिष्ठति
त्वमेव भास्करो भूत्वा विश्वं तपसि विष्टपम् ।
आह्लादयसि तद्भूयस्सोमो भूत्वाकृपा निधिः
सत्वरूपस्य ते रूपे गुणावन्यो रजस्तमः ।
शुक्लरूपे यथा रूपे शुक्लरूपस्य वस्तुनः
त्वां सृष्ट्वा भगवानादौ भङ्त्क्वा तैर्हेतुभिः पुनः ।
त्वां स्मृत्वा सत्तमं पश्चात्पुमानेति त्वदात्मताम्
वैभवे निजेनैव भिभ्राणेत्वयि विष्टपम् ।
पितामहस्सुखं शेषे शेषेऽशेषजगत्पतिः
ऋग्भिः प्रातस्तुवन्ति त्वां यजुर्भिर्मध्यमेदिने ।
सायाह्ने सामभिः पुण्यैस्सूर्यात्मानं द्विजातयः
प्रवृत्तिहेतुं विश्वस्य त्वामेव प्रकृतिं विदुः ।
पुमांसमप्युदासीनं तत्साक्षिणमकल्मषम्
न किङ्चिदभि रूपं यद्विश्वं ते विष्टवं पुनः ।
नास्तिते नामधेयं चत्वं नामाग्निं सुहृद्विदः
सङ्ख्या नास्ति गुणानां ते तेजसामपि भास्वतः ।
षड्गुणा इति उक्तत्वात्प्रमेयादीन् प्रचक्षते
शक्नोषि बुध्यसे विश्वं भिभर्ति नविकारयम् । ?
ईशिषे द्विषतो हंसि त्वमेव भुवनत्रयम्
हितैषी त्वं यथा स्वामिन् भक्तानां गतपाप्मनाम् ।
तथा च बान्धपास्तेषां साक्षादात्माहिकं बहु
त्वदानिनव ? सिन्धूनां दीधितीनामिवांशुमान् ।
स्वामिन्नाम्नायमूलानां विद्यानां प्रभवो भवान्
न तु तिष्ठन्ति शास्त्राणि बहुनि कथयन्नपि ।
न च त्वद्भक्तिसाराणां कल्याणानि विचिन्तयन्
भवेऽस्मिन् दुः खबहुले त्वामाहुर्योगिनां गतिम् ।
अपां शिवानामाधारमध्वगानां विवासिनाम्
धन्यं तव प्रदेशेषु गत्यन्तरमपश्यताम् ।
निर्वापयसि नोचेच्च त्वं कटाक्षसुधारसैः
दुःखदावाग्नि भिर्दग्धा जन्तवस्तं महीमयाः ।
विशालवक्षसं श्यामं पुण्डरीकनिभेक्षणम्
सालाकारचतुर्बाहुं त्वा महं खरणं व्रजे ।
चक्रवाक इवादित्यं चातको वारिदं यथा
चकोरा इव शीतांशु मार्तस्त्वामहयाश्रये ।
एतत्पठति यस्तोत्रं श्रुतिभिस्संस्थितं त्विदम्
प्रीयते तस्य भगवान् सेनानीरविलम्बितम् ।
दद्याच्च सम्पदस्सर्वास्तस्मैभक्ताय दुर्लभाः
मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0