भाषा

ENहिગુ
ग्रंथ पाठ

पद्मसंहिता · अध्याय 4.33

4.33.1

अथौपचारिकान् मन्त्रान् शुश्रूषे भगवन्नहम् ।
प्रयुज्यमानैर्यैः प्रीतिर्महती ते भविष्यति

4.33.2

ब्रह्मन्नाराधनाङ्गानि मन्त्राण्यवहितश्शृणु ।
यानि श्रुत्यन्तभागेषु शृण्वन्ति ब्रह्मवादिनः

4.33.3

ब्रह्मकोशं पुरस्कृत्य ककुभं ब्रह्ममस्तकम् ।
वैराजं देवरं पश्चादेकनेत्रमृगेश्वरौ

4.33.4

पवित्रभुवनौ चापि ब्रह्मन् चण्डवनालयौ ।
हुताश वामनौ पद्मागोपनौ विनतात्मजम्

4.33.5

विघ्नेशं मन्दरं कान्तं कलात्मा च जयाजयौ ।
पीयूषरामौ श्रीकुम्भौ सूक्ष्मं गोपनपश्चिमौ

4.33.6

वरुणं भद्रहस्तान्तं विघ्नेशं पाटलप्रियम् ।
अनिरुद्धं जयेणेशौ शुक्लं जयमथोदयम्

4.33.7

भास्वन्तमृतधामानं शत्रुदाहकवामनौ ।
पद्मादिदेवौ श्रीवत्सं दक्षं भास्करगोपनौ

4.33.8

पवित्र भुवनौ वह्निभुवनौ शत्रुदाहकम् ।
पश्चिमास्यं मकारं च हुताशनसुधारसौ

4.33.9

अन्तिमं ककुभं कृत्वा जितन्तामनुमिरयेत् ।
भानुविष्णुध्रुवं बीजं ब्रह्मन्नेतस्य कल्पयेत्

4.33.10

अङ्गान्यप्यमुना कुर्यादृषिस्सनके उच्यते ।
छन्धोऽनुष्टुप्तथैतस्य देवता पुरुषोत्तमः

4.33.11

जपोऽम्बुतर्पणं होमं कृतं षोडशलक्षवत् ।
धर्मार्थकाममोक्षार्थान् पुंसां सर्वं प्रयच्छति

4.33.12

पञ्चोपनिषदां मन्त्रानथ ते कथ याम्यहम् ।
परमेष्ठी पुमान् विश्वो निवृत्तस्सर्व एव हि

4.33.13

आम्नायादिं क्रोधरूपं सङ्कर्षणगजानम् ।
दक्षानिरुद्धौ पापघ्न वह्निगोपनमारुतान्

4.33.14

पवित्रपापकौ दक्षमाधवौ पद्मसम्भव ।
क्रोधकौस्तुभ सङ्खाद्यैर्गोपनं जयमन्दरौ

4.33.15

विघ्नेशमाधवौ चान्ते परमेष्टिनमिरयेत् ।
ऋषिरादित्यनामास्य च्छन्दो गायत्र मुच्यते

4.33.16

देवता च सदा विष्णु र्जपेद्ध्वादशलक्षवान् ।
प्रथमं प्रणवं कृत्वा धूलिकेतन गोवनौ

4.33.17

विघ्नेश द्वितयं दक्षकलान्तौ पश्चिमाननम् ।
वह्न्येदिदेवौ शङ्खाख्यं पश्चिमं भुवनं तथा

4.33.18

पावकं भुवनं पश्चाच्चक्रं दाहकगोपनौ ।
जयदक्षौ भद्रपाणी देवदत्तौ तथा न्तिमौ

4.33.19

इत्येवं पौरुषं मन्त्रमिरयेन्मन्त्रकोविदः ।
ऋषिं नारदमस्याहुश्छन्दो गायत्रमीरितम्

4.33.20

देवता वासुदेवश्छ
शृणु विश्वमतः परम् ।
ताराग्निगोपनौ दक्षभद्रपाणी कलान्तिमौ

4.33.21

पवित्रवह्न्यादिदेवान् शङ्खं वरुणविक्रमौ ।
श्रीवत्सकुंभौ विजयमन्दरौ विघ्नमाधवौ

4.33.22

इतीरितो विश्वमन्त्रः पुनर्द्रष्टा भृगुर्मनोः ।
छन्दो गायत्रमेतस्य वाच्यस्सङ्कर्षणाभिधः

4.33.23

उद्गीथकुम्भादिदेवौ विघ्नेशद्वयमस्तकम् ।
मन्दरं वरुणं पापहननं वह्निगोपनौ

4.33.24

वायुं विघ्नेश्वरं रामं पीयूषं वसुमस्तकम् ।
एकनेत्रं वायुमादिदेवान् वैराजमन्दरौ

4.33.25

मनुष्येशं मृगेशानं निवृत्तिमनुरीरितः ।
ऋषिस्तु नारदश्छन्दो गायत्रं पूर्वमीरितम्

4.33.26

प्रद्युम्नो देवताऽनेन निवृत्तिं लभते पुमान् ।
प्रणवं पीतवर्णाभं गोपनं मानुषेश्वरम्

4.33.27

माधवीं सर्गिणं पापहननं वह्निगोपनौ ।
चतुर्गतिं कलात्मानं कुम्भं पावकगोपनौ

4.33.28

वै राजमन्दरौ स्याता मुद्धार्य चतुरासन ।
गजास्यं देवदत्तान्तं सर्वमन्त्रं प्रकल्पयेत्

4.33.29

उष्णिक्छन्दः पुनस्त्वस्य दृष्टास्यान्नीललोहितः ।
अनिरुद्दो देवता च मनवः पञ्च कीर्तिताः

4.33.30

पञ्चोपनिषदः पुण्या स्ता एताश्चतुरानन ।
महापातकनाशिन्यः पराकादि फलप्रदाः

4.33.31

एतास्सम्यगधीतेयो वेदान्तानथवाखलान् ।
तावुभौ सदृशौमन्ये पञ्चभूश्शस्य तेऽधुना

4.33.32

प्रायश्चित्तेषु होमेषु प्रतिष्ठाप्रोक्षणादिषु ।
प्रयुञ्जीत पुमानेतास्सर्वपापप्रणाशिनीः

4.33.33

अतः परं प्रवक्ष्यामि शान्तिमन्त्रचतुष्टयम् ।
प्रणवं मधुहन्तारं पवनं मधुसूदनम्

4.33.34

भास्करं पुरुषात्मानं गदिविघ्नेशमाधवान् ।
भल्लायुधं हृषी केशमग्निं भल्लायुधोदयम्

4.33.35

कुम्भं मृगाङ्कपीयूषौ कमलाननमन्तिमम् ।
शुक्लं कुम्भमथो शत्रुं भास्करं गोपनं तथा

4.33.36

इतीरयेन्मनुं ब्रह्मन् ऋषिस्याद्देवता मनोः ।
छन्दो गायत्रमेतस्य देवता तिग्मतेजसः

4.33.37

उद्गीथं विजयं कुम्भो विघ्नेशात्रिर्मृगेश्वराः ।
पियूषगोपनौ भद्रह स्तगोपनयष्टयः

4.33.38

जृम्भलं पद्मनाभं च भानु मद्विजयोनयः ।
मुसलि गोपनः पश्चा ज्जयं कुम्भं च माधवम्

4.33.39

नेत्रोतदेहौ सूर्यश्च श्रीधरौ विजयावनौ ।
श्रीविघ्नेशस्सुभद्रोऽथ गदी वरुणमस्तकाः

4.33.40

वैराजकुम्भादिदेवा दक्षो मधुनिघादनः ।
आदित्यरामनासिक्यचन्द्र वामनसर्गिणः

4.33.41

हुतान्त इति मन्त्रोऽयमाहनीयश्चतुर्मुख ।
ऋषिमस्य भृगुं प्राहुश्छन्दो गायत्रमित्यपि

4.33.42

हुताशनो देवता च देवानां प्रथमं मुखम् ।
निगमादिं श्रियः कान्तौ विजयद्वय विक्रमौ

4.33.43

क्रोधमेघौ पवित्रं च श्रीधरं पावकोदयौ ।
उग्रात्मवह्नीद्युमणिरनलं बन्धु मस्तकम्

4.33.44

पवित्रं बन्धुनासिक्यं गदिनं पुलहं तथा ।
दृष्टिं मृगेशं द्युमणिं रामो वैधरपावकौ

4.33.45

वरुणं मायया साकं प्रचण्डं पाटलप्रियं ।
पवित्रदहनौ वायुस्वच्छन्धौ ठठपश्छिमौ

4.33.46

इत्थं प्रकल्पयेन्मन्त्रमृषिर्धनद उच्यते ।
छन्दो गायत्रमेतस्य देवता हरिपिङ्गलः

4.33.47

तारं पवित्रं विजयं विघ्नेशं भृगुगोपनौ ।
भास्करं पुरुषात्मानं गदिनं विघ्नमाधवौ

4.33.48

भल्लायुधहृषीकेशौ वह्निं भल्लायुधं तथा ।
कुम्भसंपुटितंशुक्लं चन्द्रपियूषगोपनान्

4.33.49

भानुमन्तमथो शत्रुमिति मन्त्रं विवेचयेत् ।
ऋषिर्बृहस्पतिस्तस्य छन्दः पूर्ववदीरितम्

4.33.50

आदित्यो देवता ह्येवमुक्तं मन्त्रचतुष्टयम् ।
यत्रमन्त्रं क्रियाद्रव्यहीनं शान्त्यादिकर्मणि

4.33.51

तस्मिन्नेतत्प्रयुञ्जीत तथायं साधको विधिः ।
मन्त्राणि ते प्रवक्ष्यामि तत्त्वानां पञ्चविंशतेः

4.33.52

प्रयुज्यमानैर्यैर्विश्वं प्राणितिप्राणवर्जितम् ।
प्रणवस्योपरि स्पर्शानाहुर्वामनमस्तकान्

4.33.53

नमोन्तान् प्रातिलोम्येन योजयेत्पञ्चविंशतिम् ।
परशब्दं चतुर्थ्यन्तं न तेः पश्छात्प्रकल्पयेत्

4.33.54

जीवं देहं तथा बुद्धिर्गर्वं पश्चान्मनस्तथा ।
शब्दस्पर्शौ तथा रूपं रसो गन्धश्च पञ्चकम्

4.33.55

एतान् पञ्चापि विषयान् तन्मन्त्रवचनोदरान् ।
श्रोत्रं त्वक्च तथा नेत्रं जिह्वा घ्राणं ततः परम्

4.33.56

वाचं पाणिं तथा पादं पायूपस्थं पितामह ।
पृथिवीं प्रथमं तोयं तेजोमारुतमन्वतः

4.33.57

प्योम चान्ते चतुर्थ्यन्तै रात्मशब्दैस्तथो त्तरैः ।
कृतनामानिमान् शब्दान्मन्त्ररूपेण कल्पयेत्

4.33.58

उद्गीथकृतनासिक्यौ हुताशं बिन्दुमस्तकम् ।
ककुभं गदिनं वासुदेवं विजयवा मनौ

4.33.59

वह्निं गुहालयं चापि पवित्र मधुसूदनौ ।
चतुर्गतिं मनुं प्राणं दीपार्थं मनुमिरयेत्

4.33.60

तारं सूर्यहृषीकेशयष्टयः पुष्टिभीजवान् ।
मेघबिन्दू शुक्लरामौ ऋषिः पुण्यत्रिविक्रमौ

4.33.61

इन्दुर्गुहालयं पश्चाज्जयपावकगोपनाः ।
इति वायुर्नतिमत्स्या दक्षसूत्रमनुर्महान्

4.33.62

तारं श्रीरामकौमारपुरुषात्ममृगेश्वरौ ।
विष्णुं पंचान्तकं वह्निं धूमध्वजगुहालयौ

4.33.63

पवित्रबन्धुसुमुखा माधवं प्रथमं तथा ।
हुताशं पद्मपाणिंच वायुं वह्निं गुहालयम्

4.33.64

पश्चिमास्य मधोशत्रुं शङ्खं च नतिमस्तकम् ।
इत्यर्घ्यमन्त्रं रचयेत्
अथ पाद्यमनुं शृणु

4.33.65

तारं गदिद्रुवौ चापि गदध्वंसिमृगाधिपौ ।
पश्चिमं रामशिरसं विजयं वह्निपश्छिमौ

4.33.66

एकविंशं पद्मनाभं मायां पवनपङ्कजौ ।
वह्निं द्वितीयमनिलं पापघ्नं मधुसूदनम्

4.33.67

वैधरं मारुतं वह्निं हृषीकेशोऽथ पश्चिमम् ।
रामं सुमुखसारङ्गौ नत्यन्तं मन्त्रमिरयेत्

4.33.68

आदौ व्यापिं शुक्ल वह्निं चन्द्रकुम्भौ जयानिलौ ।
मन्दरं पद्मनाभं च वै राजाग्निगुहालयाः

4.33.69

पापहन्तारमद्वेषी वनमाली मृगेश्वरौ ।
गोपनो वक्रतुण्डश्च दक्षविघ्नेशगोपनाः

4.33.70

वैराजदक्षौ विघ्नेशमाधवौ नतिमस्तकम् ।
इत्यचमन मन्त्रस्स्याद्रूपादीनि यथा अमि

4.33.71

प्रथमं चेदपि मनोन्धो पावान्दुरितात्मवान् ? ।
रामं दृष्टिमनुस्वारं गदिनं विष्णुसप्तमम्

4.33.72

आदित्यगोपनौ चण्डं वह्निजायावसानकम् ।
इत्येतत्कल्पितं मन्त्रं प्रतिभोगनिवेदनम्

4.33.73

प्रयुञ्जीत प्रयोगं च तस्मात्साधारणो मनुः ।
द्विषट्काक्षरमुधृत्य शिखण्डिपुलहं ध्रुवम्

4.33.74

सुभद्रकुंभौ विजयश्रीधरौ दक्षमाधवौ ।
पवित्रभुवनौ क्रोधपश्चिमान नगोपनाः

4.33.75

ठठान्तमथ नत्यन्तं मनुमित्थं प्रकल्पयेत् ।
पुष्पाञ्जलिप्रदानेषु नियुञ्जीत जितं पुनः

4.33.76

तारश्शुक्लघटो यष्टिश्चन्द्रमा भुवनो नलः ।
सुभद्रवाय्यौतदेहनत्यन्तो मनुरीरितः

4.33.77

तेनाराधन वस्त्रं स्यादाप्यायनमुपाचरेत् ।
इत्थमाराधनाङ्गानि मन्त्राणि कथितानि ते

4.33.78

इदानीमैकान् मन्त्रान् प्रवक्ष्यामि मनोहरान् ।
स्वीकृत्य सप्तवर्णानि रोहिणिशमपांपतिम्

4.33.79

पवित्रमानुषेशनौ गोपनं पुण्यविक्रमौ ।
पश्चिमं विजयं वायुं माधवो वरुणानिलौ

4.33.80

वासुदेवं तथा दक्षं गोपनं जयमन्दरौ ।
विघ्नेशमाधवौ पापहननं पवनं तथा

4.33.81

गुहालयमथो यष्टिं सूर्यमूर्ध्वं जगत्पतिम् ।
यष्टिं कुम्भं जगत्प्राणं हृषीकेशं तथा ध्रुवम्

4.33.82

श्वेतांशुं वरुणं बिन्दुं द्विसूर्यं वामनं ध्रुवम् ।
ठठान्तिकं मनुं ब्रह्मन्नीरये दथ तारकम्

4.33.83

नत्यन्तं शुक्लवरुणौ पश्चिमं विक्रमं जयम् ।
बन्धुमग्निं हृषीकेशं पश्चिमं मधुसूदनम्

4.33.84

चतुर्गतिमचामादिं माहेन्द्रं विष्णुपन्नगौ ।
मन्दरं वामनं पश्चात्पश्चिमं विजयानिलौ

4.33.85

देवदत्तं श्रियं वह्निं महामायां महाबलाम् ।
हृषीकेशं ध्रुवं चापि बीजमाम्रेडयेदिमम्

4.33.86

पवित्र मनलं चण्डं गोपनं द्विविनायकम् ।
वैधरं मधुहन्तारं विजयं मन्दरं तथा

4.33.87

भद्रहस्तं मृगेशं च ठठान्तं मन्त्रमिरयेत् ।
सिन्धुद्वीपो मनोर्द्रष्टा विराट् छन्दो निगद्यते

4.33.88

स्वप्नादिपति रेतस्य देवता परमः पुमान् ।
हृषीकेशं यष्टिमन्त्रमिरयेन्मन्त्रकोविदः

4.33.89

उष्णिक्छन्दः पुनस्तस्य देवता नृहरिर्हरिः ।
तथा हि रसनामानि.. मन्त्रं प्रचक्षते

4.33.90

अभिन्नविटपस्कन्धं स्पृष्ट्वा श्वत्थमिमं जपेत् ।
अहोभिस्सप्तभिर्मृत्युं लङ्घयेत्सं यतेन्द्रियाः

4.33.91

अथाल्यायाससाध्यानि शृणु मन्त्राणि पद्मज ।
व्यापिनं पुरुषात्मानं वासुदेवं नपश्चिमम्

4.33.92

रामं विघ्नेश्वरं मायामुद्गीधरहितानिमान् ।
दक्षादीशादिदेवानामथाब्जं सुप्रतिष्ठितम्

4.33.93

वायुं पद्म मथोशत्रुं शङ्खवह्निध्रुवानपि ।
हुतान्तमुद्धरेत्क र्णगोभितिं मन्त्रमुत्तमम्

4.33.94

जपेल्लक्षमिमं मन्त्रमुफोष्यैकादशे हनि ।
द्वादश्यामपि कुर्यात् स्त्रीं समुन्नतपयोधराम्

4.33.95

आवाह्य तस्यां हुत्वा च पूजयित्वाच योगिनीम् ।
मध्यरात्रे बलिं दत्वा छिन्द्यात्तां प्रतियातनाम्

4.33.96

भूतं भवद्भविष्यं च तस्य वक्ष्यति योगिनी ।
अम्नायादिं विधातारं प्रचण्डं वसुमस्तकम्

4.33.97

पश्चिमं विक्रमं लक्ष्मीं गोपनं खड्ग धारिणम् ।
सविक्रमं घटं चाग्निं घटं च द्विरदाननम्

4.33.98

पङ्कजं वारुणमथो सरसीरुहसम्भव ।
ककुभं वह्निमपरं पीयूषं गोपनं तथा

4.33.99

झषं गुहालयं चापि शङ्खं वह्निं च मन्दरम् ।
श्रीधरं पद्मवैराजं गोपनं सूक्ष्मलोचनम्

4.33.100

वह्निं प्रचण्डं विघ्नेशं रामं मन्दरपावकौ ।
पीतादिदेवौ पुलहं यष्टिं पद्मगुहान्तिमौ

4.33.101

एकनेत्रं श्रियं वह्निं वामनं वह्निमाधवौ ।
मृगेशभावसद्बन्धोन् विघ्नोपहतिकं तथा

4.33.102

स्वच्छन्दं विजयं वह्निं वीरसेनसरोरुहौ ।
आदिदेवं तथा चन्द्ररविदृष्टिशुभप्रदौ

4.33.103

वह्निं विनायकं रामं द्विर्दक्षं चतुरासनम् ।
प्रचण्डः पावको यष्टिः पश्चिमास्यहुताशनौ

4.33.104

पियूषरामसहितौ शुभदं वायुगोपनौ ।
विजयं पञ्चबिन्दुं च वै राजं मधुसूदनम्

4.33.105

गणेशगोपनौ पश्चाद्गदिनं विजयं घटम् ।
एकदृष्टिं तथा वह्निं मन्दरं मधुसूदनम्

4.33.106

कुञ्जराननविष्ण्वन्तौ विघ्नेशं बन्धुमस्तकम् ।
ककुभं चन्द्रधवलं गोपनं पश्चिमाननम्

4.33.107

चतुर्गतिं ठठोपान्तमिति मन्त्रं प्रकल्पयेत् ।
अधस्तान्ने त्रवृक्षन्य जपेन्नेतदतन्द्रितः

4.33.108

नष्टं मुष्टिं चिन्तनां च जानात्येतत्प्रसादतः ।
सप्ताक्षरं प्रकल्प्यादौ वरुणं गोपनं दरम्

4.33.109

पियूषमाधवं दक्षं दृष्टिवह्निदरद्वयम् ।
पश्चिमाग्निमुखानेतान् दहनस्यान्तरोदितान्

4.33.110

सूर्य रामौ पीबतन्धो द्विः प्रकल्प्यचतुष्टयम् ।
शुक्लं यष्टिविवस्वन्तौ वह्निं स्वाहावसानिकम्

4.33.111

इत्यम्बुस्तम्भनं मन्त्रं कल्पयेत्कमलासन ।
प्रणवादिं वासुदेवं शुभदं पङ्क जं तथा

4.33.112

मायामभ्यस्य हन्तारं फलहं शशिनं जयम् ।
यष्टिं भल्लायुधं चापि विघ्नेशं राममस्तकम्

4.33.113

सत्यन्तमुदकस्तम्भं मन्त्रं मन्त्र विदीरयेत् ।
अनयोः पूर्वमन्त्रेण स्थितवत्सलिते चरेत्

4.33.114

उत्तरेण तु सिन्धूनां वेगस्तम्भं समाचरेत् ।
अग्निस्तम्भनमन्त्रं ते कथयामि यथातथम्

4.33.115

सप्ताक्षरं कुम्भवह्निं भुवनं वनमालिनम् ।
गोपनं पुरुषात्मानं त्रिवह्निं शशलाञ्चनम्

4.33.116

वैराजबिन्दुं ह्रस्वान्तं चतुर्गतिमथो ठठम् ।
इत्यग्निस्तम्भनं मन्त्रं साधयेतयुतं नरः

4.33.117

लोहतैलं घृतं क्षीरं परशुं सलिलं तथा ।
सप्तचैतानि संस्पृश्य शीतश्छाग्निर्भविष्यति

4.33.118

उदरे पङ्कजस्येव सुखमासीत श्रुष्मणः ।
सप्ताक्षरं चतुर्थ्यन्तं विध्णुशब्दं चतुर्मुख

4.33.119

पवित्रं श्रीहृषीकेशं विघ्नेशं मधुसूदनम् ।
प्रद्युम्नं पापहननं विजयं वायुमाधवौ

4.33.120

दृष्टिं मन्दरं पाताद्विष्ठठान्तं मन्त्रमिरयेत् ।
गवां च महिषाणां च कुर्यादेतेन वश्यताम्

4.33.121

आदौ चतुस्त्रिवर्णानि धरप्रदगुहालयौ ।
पवित्रवह्निकमलं सुमुखं वह्निगोपनौ

4.33.122

वायुषठान्त इत्येष व्यालादिदमनो मनुः ।
प्रणवे षष्ठशब्दादि सम्बुध्यन्तं पिशाचवत्

4.33.123

ऊर्ध्वलोकेश हननं पाषाणेषु ठठोमनुः ।
इदं हि जपतो मन्त्रं रिपुमूर्धनि ताडयेत्

4.33.124

पिशाचरूपं प्रत्यक्षं पाषाणैरस्थिभिश्शवैः ।
व्यापिनं गदिनं भद्रहस्तं पुण्यस्सरित्फतिम्

4.33.125

वह्निं हुताशं विष्ण्वन्तं ककुभं कुम्भविक्रमौ ।
श्रीकुम्भगोपनान् कुम्भं शशाङ्कं ब्रह्मसाधनम्

4.33.126

द्विर्मन्दरं मधोश्शत्रुं सुभद्रं बन्धुमस्तकम् ।
पितं क्रोधन मायामं विजयं गोपनं ध्रुवम्

4.33.127

ब्रह्माणं मानुषेशानं वायुं गोपनमस्तकम् ।
बिन्दुं पवित्र मनलं मारुतं प्रेतनायकम्

4.33.128

स्वाहावसानं गान्धर्वं मन्त्रमित्थं प्रकल्पयेत् ।
अथर्वणमिमं मन्त्रं पिनाकिशिरसि स्थितम्

4.33.129

अधस्तात्पारिजातस्य हेमसिंहासनस्थितम् ।
आयामि नीभिर्मालाभिर्दिव्याभिश्शोभिवक्षसम्

4.33.130

दिङ्नागमदलिप्ताङ्गं दिव्याभरणभूषितम् ।
रूपयौवनयुक्ताभिर्वालव्यजनपाणिभिः

4.33.131

नित्यं षोढसवर्षाभिरुत्पलस्निग्धदृष्टिभिः ।
महाकुल प्रसूताभिर्मदविह्वल मूर्तिभिः

4.33.132

अद्भुतभ्रूविरासाभिश्श्रवणप्रियगीतिभिः ।
ईषद्वि स्रंसिवा सोभिरंसव्युकुलमौलिभिः

4.33.133

स्तनान्दोलितहाराभिः कदलिसुभगोरुभिः ।
कुटिलालकमालाभिः कन्यकाभिर्निषेवितम्

4.33.134

कृतावधानं गीतेषु किन्नराणां मुहुर्मुहुः ।
गन्धर्वाधिपतिं ध्यायन्लक्षं मन्त्रमिमं जपेत्

4.33.135

अथेनमुपतिष्ठनै कुलवत्योवरास्त्रियः ।
गन्धर्वराजवचनाद्रूप यौवनशालिनः

4.33.136

अथेन्द्रजालमन्त्रस्य स्वरूपं कथयामिते ।
ब्रह्मकुंभौ वीरसेनौ क्रोधं सुमुखवारुणौ

4.33.137

रामं दक्षं मधोश्शत्रुं चतुर्गतिमृगेश्वरौ ।
मोहयत्यथ रूपाणि द्विः प्रदर्शयमस्तकम्

4.33.138

हुङ्कारं चतुरभ्यस्तं ब्रह्मन् किलिकिलिं तथा ।
ऋतद्वयं कुम्भरामौ पवित्रानलवामनान्

4.33.139

विजयं लोचने कृत्वा गर्भद्वितयमस्तकम् ।
नानारूपाणि मायेद्वे द्विर्मन्त्रमितिकल्पयेत्

4.33.140

जपेन लक्षसङ्ख्येन माया प्रत्यक्षसंगता ।
यद्यदिष्टं साधकस्य तत्तत्कुर्वीत तत्क्षणात्

4.33.141

ब्रह्माद्या देवतास्सर्वा गगनस्थाः प्रदर्शयेत् ।
गहनं मेदिनीं कुर्याद्यामिनिं दिवसं तथा

4.33.142

जीवन्तमप्सुविहितं प्राणपन्तं तथा शवम् ।
मरुप्रदेशं वारिणि शुष्यन्तं पयसां निथिम्

4.33.143

षड्रसं वैपरीत्येन देशानप्ययथातथम् ।
पाषाणैस्ताडयेद्देहे नेत्राद्युत्पाटनं तथा

4.33.144

खल्वाट केशसंरोहं यूनस्थ्सविरतां तथा ।
पुंसस्त्रीत्वं तथा स्त्रीणां पुस्त्वं क्लीबस्य तद्द्वयम्

4.33.145

तयोर्वाक्लीबतां चित्रं श्मश्रुस्तनविपर्ययम् ।
गीतं शुक्ल स्तथा गीता मन्यथा भावभागिनः

4.33.146

अगर्भिणीं गर्भिणीं च गर्भिणीं चाप्यगर्भिणीम् ।
पादादिभङ्गसन्धाने नभः कुसुमसम्भवः

4.33.147

अचिन्तितानि शैलानां पतनानि यथेप्सितम् ।
मनुष्यादिषु शृङ्गाणि गगनारोहणं तथा

4.33.148

अकाल रणसंरंभान् प्रतिमाकर्षणं तथा ।
कठिनानां द्रवीभावं द्रवतां कठिनात्मताम्

4.33.149

अद्यापि प्रलयावस्थामुन्मज्जन निमज्जने ।
खड्गादिभि रभङ्गं च जङ्गमं स्थावरं तथा

4.33.150

आचेतनेषु चैतन्यं चेतनेषु विचेतनाम् ।
रूपदर्शनमन्धस्य मूकस्य मधुरां गिरम्

4.33.151

श्रवणं बधिरस्यापि पज्गोर्गमसमद्भुतम् ।
प्रदर्शनं विमानानां भुवि सूर्येन्दुमण्डलम्

4.33.152

शिलावर्षं महाघोरं राहुग्रासमपर्वणि ।
एतस्थानप्रविष्टानि भुवनानि चतुर्दश

4.33.153

आसनस्थस्य पतनं तुमुलं च परस्परम् ।
प्रतीपगमनं सिन्धो रासनं हव्यवाहने

4.33.154

तत्क्षणेपि प्ररूढानां वृक्षाणां पल्लवं फलम् ।
सेचनं हव्यवाहेन ज्वलनं वयसा तथा

4.33.155

मध्याह्नसमये ज्योत्स्नांदिङ्मोहं वातसम्ब्रमम् ।
चित्तादिधातु सङ्क्षोभं प्रत्यक्षस्याप्यदर्शनम्

4.33.156

शैलशृङ्गा द्यपतना द्गव्यनस्य प्रदर्शनम् ।
इत्थं भूतानि चित्राणि कुर्यान्मायानुभावतः

4.33.157

इदानीं सप्तयक्षीणां मन्त्राणि कथ यामिते ।
आगच्छ सुन्दरी स्वाहावसानं प्रणवादिमम्

4.33.158

इत्येष सुन्दरी मन्त्रो मन्त्रादेः कार्यमाचरेत् ।
प्रणवं प्रथमं सर्वं मनो हर नमो ठठ

4.33.159

इत्थं मनोहरी मन्त्रः प्रियमिष्टं प्रयच्चति ।
उद्गीथं कनकं ब्रह्मन् पक्ष्यते मैधुनप्रिय ?

4.33.160

ठठः कनकवत्यास्स्यान्मन्त्रः कामुकसिद्धिदः ।
ममागच्छ चतुर्वक्त्र कामेश्वरि ठठान्तिमम्

4.33.161

इति कामेश्वरीमन्त्रः सर्वां सिद्धिं प्रयच्छति ।
आरुह्य शयनं नक्तमे काकि पुष्पगन्धवान्

4.33.162

ध्यायेत्कामेश्वरिं यक्षिं सा तस्य भवति प्रिया ।
यदान्यां कामयेन्मन्त्री सा तस्य वशमाचरेत्

4.33.163

स्वाहान्तः कथितो मन्त्रो ब्रह्मात्पाते रतिप्रिये ।
प्रिता रतिप्रिया यक्षी साधकस्य प्रयच्छति

4.33.164

दिव्यान्योदनवासांसि कुसुमाद्यनुलेपनम् ।
पादुकाञ्जन खड्गादीन् भाषणानि रसायनम्

4.33.165

ओं पद्मिनि ठठो मन्त्रं पद्मिनि यस्य देवता ।
ओं श्रीं ह्रीं द्वयमागच्छ द्वयं यक्षि ठठान्तिमम्

4.33.166

प्रणवद्वितयं पुष्टिबीजं पश्छान्नति स्तथा ।
वातादिदेवौ दक्षाद्यं बन्धुं विघ्नेशमारुतौ

4.33.167

वीरसेनमथो शुक्लं कुम्भं वह्निं च पश्चिमम् ।
हृषीकेशं जयं कुम्भं श्रीद्धुवौ कमलासन

4.33.168

पञ्चबिन्दुं ठठान्तं च यामिनीमन्त्रमुद्धरेत् ।
एतज्जपेन पुरुषो विभवं लभते परम्

4.33.169

द्वन्द्वानि पुंसां स्त्रीणां च रहितान्यपि योजयेत् ।
यद्यद्वस्तु तथान्येषां स्त्रियो वा पुरुषोऽपि वा

4.33.170

ताम्भूलं कुसुमं वापि तद्वान्वहमुपानयेत् ।
यस्यैते मनवस्सप्त सिद्धाः पुंसश्चतुर्मुख

4.33.171

यक्ष्यस्तस्य भविष्यन्ति किङ्कयन् इति देवताः ।
मेरुमन्धरविन्ध्यादिशिखरेषु यथातथम्

4.33.172

साधकं रमयिष्यान्ति कल्पं भोगै रमानुषैः ।
ब्रह्मन् पिशाचमन्त्राणि श्रुणुष्व गदतो मम

4.33.173

सप्ताक्षराणि सप्तार्कगोपनाः कुम्भविक्रमौ ।
क्रोधप्रचण्डौ वरुणमृगेशौ विपुलस्तथा

4.33.174

द्विकुण्डसस्पमिस्वाहा मनुरेष प्रकीर्तितः ।
बद्नि यादमुना ब्रह्मन्नाविष्टस्य शिखां पुनः

4.33.175

सप्ताक्षरं पुरस्कृत्य चतुर्थ्यं विष्णुमस्तकम् ।
गुरुर्बन्धुःपिता कामो मन्दरं विक्रमं तथा

4.33.176

पुलहं विक्रमं पश्छाद्भल्लायुधगुहालयौ ।
वै राजपापहननौ विजयं बन्धुमस्तकम्

4.33.177

हुताशगोपनौ ब्रह्मन् ककुभं ब्रह्मसूदनौ ।
पवित्रशङ्खौ विजयं मायां स्वाहावसानकम्

4.33.178

इतिमन्त्रं प्रकल्प्‌याथ बलिमेतेन दापयेत् ।
पूर्वं मन्त्रदशार्णानि महेन्द्रो राममस्तकः

4.33.179

पवित्र पापनौ पीतगौपनौ पश्चिमाननौ ।
वह्न्यन्तसूदनौ विघ्नगोपनौ पपनं तथा

4.33.180

गदी हुतवहस्सूर्यो वनमालि पितामह ।
मानं शब्द शिरस्स्वाहा गन्धमन्त्रः प्रकल्पितः

4.33.181

द्वादशार्णमुखं पूर्वं वह्निं सुमुखविक्रमौ ।
माहेन्द्रविक्रमौ भानुर्दक्षं विजययोर्द्वयम्

4.33.182

द्विर्वारिशब्दं कमलं देवदत्तं विनायकम् ।
स्वाहान्तमिरयेन्मन्त्र मावेशे विनियोजयेत्

4.33.183

स्तम्भे वा पुरुषे वापि पयस्तेनाभिमन्त्रितम् ।
विक्षिपेदथ भूतानि स्तम्भ मप्याविशन्तितम्

4.33.184

अष्टाक्षरमुखस्सूर्यो वह्निर्दिः कमलासन ।
व्यस्तौ पुनस्तयोर्वह्नावुभयत्र त्रिविक्रमौ

4.33.185

आदित्यरामं नासिक्यं घटसं वावकप्रियाः ? ।
येन साग्रहमन्त्रस्य पिशाचादिभयावहम्

4.33.186

भूतप्रतिकृतिं कृत्वा शालिपिष्टैर्महोदरीम् ।
भित्वा तीक्ष्णेन शस्त्रेण भूतं साक्षाद्भविष्यति

4.33.187

भूतग्रहपिशाचादीनपस्मारमथापि वा ।
कूश्माण्‍डयक्षगन्धर्वब्रह्मरक्षस्सुरासुरान्

4.33.188

आवेशयेद्धरेच्चापि मन्त्रैरेतैश्चतुर्मुख ।
यद्यदेभिरशक्यं स्यात्तत्तत्कुर्याद्विचक्षणः

4.33.189

सुदर्शनस्य मन्त्रेण नारसिह्मेन वा पुनः ।
त्रैलोक्यमोहनेना पि साक्षा दष्टाक्षरेण वा

4.33.190

इति मन्त्रप्रभावस्ते कथितः पद्मसम्भन ।
चर्या च विधिवत्प्रोक्ता धर्मकामार्थमुक्तिदा

4.33.191

इदं हि पावनं शास्त्रमधीते यस्समाहितः ।
त्रिष्वप्यमुष्य लोकेषु ज्ञेयमन्यन्नविद्यते

4.33.192

इत्युक्त्वा ब्रह्मणे शान्त्रं भगवान् भूतभावनः ।
वासुदेवः परं ब्रह्मतत्रैवान्तरधीयत

4.33.193

अथ विस्मयमानात्मा ब्रह्मालोकपितामहः ।
अजगाम स्वकं लोकं स्तूयमानो महर्षिभिः

4.33.194

कपिलाय ददौ ब्रह्माशास्त्रमेतन्महर्षये ।
स चापि भगवान्मह्यं मयाते कथितं पुनः

4.33.195

तत्पाताल मिदं हित्वा जम्भूद्विपमितो व्रज ।
हिमवत्सर्वते रम्ये समाधाय मनश्शुभम्

4.33.196

आराधय हृषीकेशं विधानैः पाञ्चकालिकैः ।
इति ब्रुवाणे पद्मे तु लब्ध्वा हृष्टेन चेतसा

4.33.197

अयोग्याज्ञानतिमिरं शास्त्राञ्जनशलाकया ।
निवृत्य पातालतलात्कृत्वा पद्मं प्रदक्षिणम्

4.33.198

अमुष्मिन् शैलशिखरे देवदारुभिरावृते ।
महाभागवतैः पुण्यैः पञ्चरात्रविशारदैः

4.33.199

तपस्वाध्यायनिरतैस्सेविते परमर्षिभिः ।
हृदयेभ्यस्समाहृत्य हृदयं संयमादिभिः

4.33.200

अराधयामि विश्वेशं वासुदेवं जगद्गुरम् ।
अन्यमानीय तद्वाचा तं ध्यायन्मनसा पुनः

4.33.201

कालेनाराधनं कुर्वन् भजामि परमेश्वरम् ।
त्वमप्याराधय क्षिप्रं चतुर्प्योहमधोक्षजम्

4.33.202

मया ते कथितं शास्त्रं सावधानेन किं श्रुतम् ।
इदं ते नातपस्काय नाभक्ताय कदाचन

4.33.203

न चाशुश्रूषवे वाच्यं न च मां यो भ्यसूयति ।
तन्त्राणां चैवरत्नानि पञ्चाहुः परमर्षयः

4.33.204

पाद्मं सनत्कुमाराख्यं तथा परमसंहिता ।
पद्मोद्भवं च माहेन्ध्रं कण्वतन्त्रामृतानि च

4.33.205

तदा प्रभृति ये शिष्टास्ततो हं हिमवत्तटे ।
आराधयं चतुर्बाहुं नियतः पुरुषोत्तमम्

4.33.206

भवन्तोपि यतात्मानो भक्तिमन्तो जनार्दने ।
केन वा कथितं शास्त्रमृषयः कल्मषापहम्

4.33.207

इदं महोपनिषदं श्रद्धधानशश्रुणोति यः ।
स याति शाश्वतं स्थानं दुष्प्रापमकृतात्मभिः

4.33.208

येन मां प्रथमामान यथा पद्म गुरोर्गुरुः ।
तेनेदं श्रीयते ? पुण्या मतनोत्पद्म संहिताम्

4.33.209

ऋषयस्तं भवन्तोपि भगन्तु पुरुषोत्तमम् ।
प्रदास्यति स युष्मभ्य मपवर्गं तपोधनाः

मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc