पद्मसंहिता · अध्याय 4.30
तिथियागं चतुर्वक्त्र ब्रवीमि सुखपाधनम् ।
काम्यस्य कर्मणः कालश्शुक्लपक्षस्तथा तिथिः
जपहोमार्चनैस्सम्यक्कालेष्वाराधयेत्सुधीः ।
अग्निर्ब्रह्माधनेशानौ विघ्नेशश्श्रीष्षडाननः
भानुर्वृषध्वजो दुर्गा यमो वलनिघादनः ।
विष्णुः कामोऽश्विनौ चन्द्र इत्युक्तास्तिथि देवताः
प्रणवं नवबिन्दुं च वरुणं श्रीधरं ततः ।
गदध्वंसं भद्रहस्तं पावनं माधवं ततः
ठठान्तमुद्धृत्य मनुः कथितो जातवेदसः ।
अग्निमाद्यमनुस्वारं बीजं तेनाङ्गपद्धतिः
छन्दो विराट् देवलश्च द्रष्टाग्निरथिदेवता ।
चतुर्थ्यन्तं स्वाभिधानं नत्यन्तमसरो मनुः
ऋषिश्छन्दो देवतापि मनोरस्यापि पूर्ववत् ।
प्रत्यक्षरं लक्षजपस्साधनं मन्त्रयोर्द्वयोः
काम्यस्य लाभस्सर्वस्य फलमत्यन्तदुर्लभम् ।
निगमादिं कालनेमिमृतधामविदर्भितम्
मार्ताण्डमन्दरयुतं प्रचण्डं माधवं नतिम् ।
इत्युद्धरेद्ब्रह्ममनुमुद्धारोऽन्यस्य कथ्यते
चतुर्थ्यन्तं ब्रह्मपदमाग्नेयीनिष्ठितं मनुः ।
वै राजमक्षप्रथमं विजयं रोहिणीपतिम्
अकारमेकनेत्रं च बीजं प्रणवसंयुतम् ।
एतदेवाङ्गसन्तानस्स्वरश्छन्दश्छलोहितः
मुनिर्ब्रह्माच देवश्च यष्टव्यं पङ्कजोतरे ।
प्रणवं सूक्ष्मदृष्टिं च भद्रपाणिं सबिन्दुकम्
उद्धृत्यैकाक्षरो मन्त्रः कुबेरस्य समिरितः ।
उष्णिक्छन्दो मुनिर्वह्निर्धनेशानश्च देवता
आरम्भं नतिमन्वक्च सुभगं विघ्ननायकम् ।
पवित्रं विजयं पश्चाद्ध्वंसनं माधवं तथा
कमलं चोदयं प्रोच्य जृम्भलं मृगवल्लभम् ।
पावकं गोपनयुतं सदागतिमनन्तरम्
कुम्भं शशाङ्कं भुवनं हेरम्बं रामसंयुतम् ।
वक्रतुण्डं जगत्प्राणं मन्दरं पश्चिमाननम्
आग्निमाद्यं मारुतं च प्रथमं प्रेतनायकम् ।
अचामादि मथाग्नेयीमुद्धृत्य मनुरीरितः
धनदस्य नभो द्रष्टा छन्दोगायत्रमिरितम् ।
दैवं धनाधिपो देवो बीजं पूर्ववदीरितम्
अङ्गष्ठे माणिभद्राख्यं तर्जन्यां पूर्णभद्रकम् ।
कलिमालिं मध्यमायां विकुण्डलमनामिकाम्
मूले कनिष्ठकायां च मध्ये च मणिबन्धयोः ।
मखेन्द्रं पाणितलयो रङ्गन्यासे धनाधिपं
स्नात्वाजृम्भलमन्त्रेण प्रक्षिपेदुदकाञ्जलिम् ।
अम्भोजकर्णिकामध्ये महाकायं महोदरम्
द्विभुजं पीतवसनं चिन्तारत्नं रके स्थितम् ।
धारयन्तं मनः कान्तं मन्त्रिभ्यो पीप्सितं वसु
यक्षयक्षीपरिजनं ध्यायन्नर्घ्यादिभिर्यजेत् ।
ऋद्धिं गुप्तिं च तत्पार्श्वे चतुर्थ्यन्तं स्वसंज्ञया
अर्घ्याद्यैरर्चयित्वातु ततो जृम्भलमब्जज ।
कलिमालिं माणिभद्रं चरेन्ध्रं पूर्णभद्रकम्
मुखेन्द्रं शिखिपूर्वं च कुण्डलं नलकूबरम् ।
अम्भोजकर्णिकामध्ये दलेष्विन्द्रादिषु क्रमात्
अर्चयेत्पुरतश्शङ्खनिधिं पद्मनिधिं तथा ।
शबलां पुरतो न्यस्येत्पृष्ठतः कल्पकद्रुमम्
जपहोमौ तर्पणादि फलं मूलमनोर्यथा ।
वक्ष्यामि जृम्भलमनुमर्णोद्धारेण संप्रति
ओमादिं सुभगं भद्रहस्तं वैधर मक्षरम् ।
आदिदेवं मारुतं च धनदं भद्रबाहुकम्
पवित्रं विजयं चैव मारुतं माधवं तथा ।
जन्महन्तृ तथाम्नायं माधवं सूक्ष्मदर्शनम्
विक्ष्कम्भमादिदेवं च स्पर्शं स्वाहया युतम् ।
बीजमाद्यक्षरं भर्गो द्रष्टा च्छन्दो विराण्मनोः
देवता जृम्भलः कार्यः फलं सर्वं प्रयच्छति ।
विघ्नेशमन्त्रमुद्धृत्य वर्णान् वक्ष्याम्यनुक्रमात्
उद्गीथं च तृतीयं च स्पर्शेषु पुलहं मनुमम् ।
दण्ड इत्युद्धृतो मन्त्रो गणिकाष्षड्विराट्तथा
देवता विघ्नु राजश्च जपो लक्षत्रयं स्मृतम् ।
भूतं भव्यं भविष्यं च स्वप्ने पश्यति मन्त्रवित्
आरब्धं कर्मनिर्विघ्नं फलं दुग्धे यथेप्सितम् ।
तृतीयादिं च सुमुखमाद्यं पश्चिमसंज्ञितम्
अचां मुखं च विजयं प्राणं माधवमन्वतः ।
सत्यन्तमादौ पूर्वोक्तं मनुं च मनुरीरितः
अजो मुनिश्छन्द उष्टिग्देवता विघ्ननायकः ।
सप्तलक्षं जपेन्मन्त्रं सिद्धयः पूर्वमिरिताः
एकाक्षरं नतिशिरो मनुरन्यस्समिरितः ।
निगमादिं दिनकरं ज्वलनं पञ्छबिन्दुकम्
सानुस्वारं गदध्वंसं पद्मनाभं च वामनम् ।
यष्टिं सहस्रकिरणं पावकं दण्डशेखरम्
त्रियक्षरमनुर्ब्रह्मन् कथितस्सर्वसाधनः ।
अङ्गादि गदितं वर्णमकारादिस्वरान्तकम्
प्रयुञ्जीत मनुश्चान्यो वक्ष्यते कमलासन ।
उद्गीथमादिं कमलं पावकं पञ्चबिन्दुकम्
अर्धेन्दुसहितं भद्रमनलं बिन्दुवामनम् ।
सरोरुहं समाहेन्द्रं महामया सयष्टिकम्
बीजं च तत्स्वराद्यर्णं गदध्वंसं प्रचण्डकम् ।
पश्चिमाननवैराजौ मायां च वसुधारसं
आदिमग्नि मकारं च फट्पदद्वयमिरयेत् ।
शशिनं वरुणं वह्निं ककुभं भद्रबाहुकम्
मन्दरद्वयमेकारं वरुणं कमलामुखम् ।
अचां दक्षं गोपनं च विघ्नेशं श्वसनं तथा
ठठान्तमत्थमुद्धारो बीजादि कथितं पुरा ।
ऐहिकामुष्मिकफलं सर्वमेतेन साधयेत्
श्रियं पूर्वोक्तमार्गेण देवीमर्घ्यादिभिर्यजेत् ।
तत्कटाक्षनिपातेन लभते श्रियमुत्तमाम्
तारं नतिं क्रोधरूपं प्रचण्डं दक्षमन्वतः ।
उदयं खर्वदेहं च गोपनं च प्रभञ्जनम्
शशाङ्कं श्रीधरं ह्रस्वमृतधामसमाह्वयम् ।
दिनेशं माधवीमन्वक्प्रचण्डं मधुसूदनम्
श्वसनं स्वाहया सार्धं मनुरेषसमिरितः ।
जृम्भलं पुलहं चोर्ध्वलोकेशं यष्टिमस्तकम्
एतद्बीजसमुद्धारस्तदेवाङ्गमृषिः पुनः ।
वर्णात्मा कथितश्छन्दो गायत्रं देवता गुहः
दाडिमिकुसमप्रख्यां तन्मन्त्रेण समर्चयेत् ।
एवं कृतवतो वंशे सुब्रह्मण्यादयो ग्रहाः
न पीडयन्ति तद्वंश्यान् भवन्ति चिरजीविनः ।
निगमादिं चोषधीशमनुनासिक्यमुद्धरेत्
एकाक्षरोऽयं कथितो मन्त्रस्सर्वार्थसाधकः ।
हारितो मन्त्रदृच्छन्दो विराट् सूर्यश्च देवता
ब्रह्मकोशं पद्मपाणिमृतं सुमुखसंज्ञितम् ।
रामबिन्दुं हृषी केशमग्निं वायुमचां मुखम्
वैधरं बिन्दुवैराजं वायुं तारं समुद्धरेत् ।
इत्थमष्टाक्षरो मन्त्रो बीजमेकाक्षरं स्मृतम्
ऋषिकत्रिश्च देवश्च पूषा चैवाधिदेवता ।
परं सप्ताक्षरं मन्त्रं मन्त्रैरुद्धृत्यवर्ण्यते
सप्तार्णाः पूर्ववद्ग्राह्यस्सुभद्रं मधुसूदनम् ।
भद्रहस्तं च कलशं माधवं पूर्वमिरितम्
बीजमभ्यन्तरीकृत्वा द्विरुक्तं ककुभं तथा ।
अप्रमेयं गन्धवहमाद्यमेतदनन्तरम्
पादद्वितयमापाह्य मादिदेवमनन्तरम् ।
पावकं विक्रमयुतं वैधरं ऋतधाम च
मारुतं चापि नासिक्यं विघ्नेशं गोपनाह्वयम् ।
कमलामादिपवनमाद्यं द्विः पदमिरियेत्
माधवीमादिसहितमक्षरं द्विरदं पठेत् ।
पवित्रं गोपनयुतं पठेमं ? स्वरसंयुतम्
विघ्नेशं दहतिं धातुं लोडन्तं द्विस्समुद्धरेत् ।
शान्तरोगं सुखपदं पूर्वलोडन्तमध्यमम्
यमं चण्डं द्विरुच्चार्य त्रिरन्वक्प्रणवं पदम् ।
स्वनाम्ना प्रणवान्तेन मनुरेवं समुद्धृतः
बीजमङ्गानि चोक्तानि सिन्धुद्वीपश्च दृष्टवान् ।
अतिच्छन्दस्स्वयं छन्दस्सूर्यश्चानेन कथ्यते
पद्म मध्ये कर्णिकायामादित्यं दलभूमिषु ।
प्राच्यादिषु ग्रहानन्यां स्तदानीं बिम्बमर्चयेत्
क्रमात् षडृतवस्सर्वे गृहास्सानुग्रहास्तदा ।
आयुरारोग्यसौन्दर्य समृद्धि मुखसंपदः
सप्तजन्मसुवंशेऽस्य भवन्तिनि रवग्रहाः ।
प्रणवं नतिमन्वक्च शुभदं च त्रिविक्रमम्
वरुणं गोपनं वायुमादिमुद्दृत्य मन्त्रवित् ।
मनुः पञ्चाक्षरः कार्यो बीजं संप्रति कथ्यते
गोपतिं विष्णुसहित मनुस्वारं समुद्धरेत् ।
बीजमेतच्चतुर्वक्त्र षडङ्गानामुदाहरेत्
उपमन्युऋषिश्छन्धो देवं गायत्रमुच्यते ।
प्रतिपाद्यो महाशानो जपस्स्याल्लक्षपञ्छकम्
अष्टाक्षरवदस्यापि फलसाधनमेव च ।
रक्ताम्बुजासनासिनमर्चयेत्तद्दलेषु च
प्रागादिषु षडङ्गानि पार्वतीनन्दिकेश्वरौ ।
क्रमाद्विन्यस्य पुरतो वाहनं सम्यगर्चयेत्
दिक्ष्वष्टानु सुरेन्द्रादीनष्टावर्घ्यादिनार्चयेत् ।
सृष्ट्यादिन्यसनं कृत्वा प्रथमं तदनन्तरम्
अक्षरस्यसनं कुर्यात् स्थानेष्वेतेषु पद्मज ।
मूर्ध्नि चास्ये च हृदये गुह्ये पादतले तथा
वर्णानां क्रमशो वर्णाः पञ्चानां कथ्यतेऽधुना ।
स्फटिकं पाटलं पीतं श्वेतं नीलमितिस्मरेत्
शिवोऽहमिति चात्मानं भावयेन्मन्त्रवित्तमः ।
ध्यायन्तं देवदेवेशमाराध्य वृषभध्वजम्
त्यक्त्वा संसारिकं दुःखमेति स्थानमनश्वरम् ।
भोगानप्यैहिकान् भुक्त्वा दुर्लभानमरैरपि
ओमादिसप्तवर्णानामुद्धारः पूर्वमिरितः ।
वैधरं नृहरिं मायां प्रचण्डं मधुसूदनम्
मन्दरं चोर्ध्वलोकेशं वैराजं द्विश्चतुर्मुख ।
पावकं पवनं देवदत्तं पाटलमन्वतः
गोपतिं मारुतमथो मन्दरं माधवीं तथा ।
माधवं धनदं ब्रह्मन् मधुसूदनसंज्ञितम्
नासिक्यं पश्चिमं पद्मनाभं च पवनाह्वयम् ।
खड्गं द्विरुच्च रेत्स्वाहा इति मन्द्रं समुद्धृतम्
मनुमन्यं प्रवक्ष्यामि तमर्णैरुद्धराम्यहम् ।
तारमत्रिं गरुत्मन्तं रामं सुमुखमन्वतः
गोपवं मन्दरं चोर्ध्वलोकेशं विजयं पुनः ।
तमर्णं चाभिशङ्खं च माधवं वारुणाभिधम्
गोपनं च करालं च कमलं जृम्भलं ततः ।
श्रीधरं सुभगं मायां जन्मध्वंसमनन्तरम्
पाशपाणिं चादिदेवं भद्रहस्तं च पश्चिमम् ।
ऋताह्वयं वैधरं च मधुभिन्मारुतं ततः
सतिमुद्धृत्य कथितो वर्णान् षोडश संज्ञितान् ।
मन्त्रयोरनयोर्ब्रह्मन् जीवो द्रष्टाभिधीयते
धर्मवर्त्तीमहेशानो देवता दक्षिणातनुः ।
दिनेश रामसहितं श्वसनं मतिबिन्दुमत्
बीजमेतदतो ध्यानमिशानस्य ब्रविमिते ।
कुन्देन्धुमुक्ताशङ्खाभं सर्वाकल्पपरिष्कृतम्
वैयाघ्रचर्मवसनं जटामण्डलमण्डितम् ।
नासाग्रन्यस्तनयनं शशिखण्डविराजितम्
प्रसन्नवदनं देवं चतुर्भुजमभीष्टदम् ।
वामजानुनि विन्यस्तवामेतरपदाम्बुजम्
प्फटिकामक्षमालां च बिभ्राणं दक्षिणेकरे ।
वामे कराम्बुजे स्वीये धृतविज्ञानपुस्तुकम्
दर्शयन्तं ज्ञानमुद्रां महर्षिगणसेवितम् ।
ध्यायतो मन्त्रिणस्त्वैवं सिध्वन्ति सकलाः कलाः
गङ्गाप्रवाहवत्तस्य वाक्प्रसारः प्रवर्तते ।
चतुर्वर्गफलावाप्तिस्तस्य हस्ते स्थिता ध्रुवम्
जपभूयस्तयो कामान् दुर्लभान् सुखमश्नुते ।
तिथौ भगवतीं दुर्गां नवम्यां सम्यगर्चयेत्
निगमादिं वैधरं च भुवनं च विसर्जनम् ।
मनुरेकाक्षरः प्रोक्तस्समुद्धृत्य यथातथम्
स्वीकृत्यैकाक्षरं पूर्वं गदध्वंसं हुताशनम् ।
स्पर्शनं गोधनाह्वानं नतिं च मनुरीरितः
बीजमस्योद्धरिष्यामि गोपतिं पावकं ततः ।
वामनं यष्टिशिरसमस्य कात्यायनो मुनिः
छन्दश्च देवि गायत्रं वनदुर्गा च देवता ।
मन्त्रमन्यं प्रवक्ष्यामि दुर्गाश्रयमनुत्तमम्
निगमादिं विष्णुसंज्ञं कपिलं जृम्भलाह्वयम् ।
माधवं च सुरेन्द्रादिं प्रद्युम्नं कालनेमिजम्
मधुसूदननमानं पुलहं माययावृतम् ।
करालं देवदत्ताख्यं शशाङ्कं कमलानुगौ
पवित्रमादि देवान्तं नृहरिं स्पर्शनं तथा ।
ब्रह्मणमग्निं चोद्धृत्य पञ्चबिन्दुमनन्तरम्
आदिं श्रीवत्समुदयं सुभद्रं नासिकाह्वयम् ।
भास्करं भद्रबाहुद्वौ वैधरं गोपतिद्वयम्
पवित्रखड्गनामानौ द्वौ च दक्षमनन्तरम् ।
सुप्रतिष्ठं द्विरुच्चार्य दिनकृन्माधवीध्रुवौ
फट्कारमग्न्यादिमन्वगित्युद्धृत्य जपेन्मनुम् ।
अर्णोद्धारक्रमादन्यं मन्त्रं वच्मि चतुर्मुख
प्रणवं वैधरं पश्चाच्छ्रीधरं गदिनं तथा ।
वैश्वानरं मृगपतिं तमेवार्णमनन्तरम्
यान्तं नृसिंहं सुमुखं रामं स्वाहं समुद्धरेत् ।
उद्धृतोऽयं मनुश्चान्यो बीजमङ्गानि पूर्ववत्
ऋषिर्जयमतिश्छन्दो गिरिदुर्गाच देवता ।
उद्गीथं श्रीधरं चैव दृष्टिद्वन्द्वं त्रिविक्रमम्
क्रोधरूपि च जीमूतं पश्चिमं भुवनाह्वयम् ।
बहुलं श्रीधरं क्रोधं विक्रमं सरसीरुहम्
विक्रमं धर्मशीतांशुं शशाङ्कं च सुधामयम् ।
पश्चिमं रामशिरसं क्रोधरूपं सविक्रमम्
भल्लायुधं तथा शङ्खमाधवीद्वयमाधवम् ।
शुक्लमादिं मृगपतिं श्रीधरं पश्चिमाननम्
नीहारदीधितिं सर्वरोधं विक्रमशीर्षकम् ।
वैराजं कपिलं शङ्खं वैधरं बन्धुमस्तकम्
शुभदं कमलं वायुं मन्दरं वित्तवर्थनम् ।
आदिं करालमनिलं नासिक्यं यादसां पतिम्
गोपनं विजयं विघ्नुनायकं दक्षमाधवौ ।
सुभद्रं च गदिं कुम्भं वैराजं बन्धुशीर्षकम्
शुभदं मन्दरं शङ्खं ठठान्तो मनुरीरितः ।
षोढा विभज्य तं मन्त्रं हृदयाद्यङ्गकल्पनम्
द्रष्टा वरेण्यको नाम ह्यनुष्ठुप्छन्द ईरितः ।
देवता वनदुर्गास्यात्तदष्टाक्षर वत्फलम्
सर्वदाह्वयदुर्गाया मन्त्रमुद्धारयामि ते ।
उद्गीथं नतिमन्वक्च सूक्ष्मदृग्दृष्टिशीर्षकम्
गदध्वंसमकारं च कुम्भनाद्यं चतुर्मुख ।
वैराजं राजमानं वै वैधरं श्रीधराह्वयम्
गदिनं बन्धुसंज्ञं च स्वाहाशीर्षं श्रियः पतिम् ।
गदिनं पावकं चैव दृष्टिमिकारमन्वतः
देहं च विक्रमं चण्डं रामं मन्दरसंज्ञितम् ।
मधुसूदं गन्धवहं माधवं माधराह्वयम्
आदित्यं गोपनं दक्षमादिदेवं च मारुतम् ।
मृगेशं मन्धरं भानुं मधुसूदनसंज्ञितम्
पुलहं देवदत्तं च दक्षं च यदभास्करम् ? ।
राम मुग्रात्मनात्मानं मधुसूदनमन्वतः
शशाङ्कं श्रीधरं सप्त जिह्वं कुम्बं त्रिविक्रमम् ।
कजाननं गोपतिं च लक्ष्मीं भद्रं त्रिविक्रमम्
वैधरं भुवनाह्वानमुग्ररूपं च खेटकम् ।
भल्लायुधं तथा ब्रह्मन् श्वसनं नासिका भुवम्
विधातारं हुतवहं विक्रमं च सुधारसम् ।
रामं च भद्रं सुभगमनिलं विघ्ननायकम्
रामं महेन्द्रसुभगं महेशं गगनाह्वायम् ।
मार्ताण्डमादिदेवं च शशाङ्कं श्रीधरं तथा
चित्रभानुं तथा दक्षं वैधरं हव्यवाहनम् ।
विघ्नेशं विक्रमं दृष्टिं देवदत्तमपां पतिम्
मधुसूदननामानं कलात्मानमतः परम् ।
भुवनं पावकं दृष्टिं गोपनं विजयं तथा
वायुं पवित्रमाकारं मुसलं विक्रमं पुनः ।
एकनेत्रं माधवं च कलशं पापकाह्वयम्
वैधरं देवदत्तं च विघ्नेशं मधुसूदनम् ।
दहनं गोपनं चैव मारुतं वनमालिनम्
मायां च वैधराह्वानं मधुसूदनमन्धरौ ।
ओतदेहं दृष्टिमग्निं पश्चिमाननमन्वतः
ऋतधामं विक्रमं च श्वसनं मृगनायकम् ।
पुष्टिभीजं त्रिरुच्चार्य सहस्रकिरणाह्वयम्
गुहालयमनुस्वारं बीजमेतत्त्रिरुद्धरेत् ।
भद्रं गुहालयं चैव विजयं गदिनं तथा
पद्मनाभं गोपतिं च कलशं मृगराट् तथा ।
वै राजमादिदेवं च डुण्डुभं लोचनोदयौ
उग्रात्मखेटकौ वह्निं गोपतिं विहगाधिपम् ।
श्वेतांशु पश्चिमं लक्ष्मीमादिदेवमनन्तरम्
वक्रतुण्डं गोपनं च भद्रपाणिमनन्तरम् ।
विजयाकारमादिं च शशाङ्कं च सदागतिम्
द्विरभ्यसेत्कालनेमिं भद्रं पुण्यं द्विरुच्छरेत् ।
मन्दरं चादिदेवं च दहनं श्वसनं तथा
द्विर्ब्रूयात्सूक्ष्मदृग्ब्रह्मन् करालं विजयं पुनः ।
पीयूषमादिं विजयं वसुमस्तकनिष्ठितम्
निहारदीधितिमचामादिं पीतं समाधवम् ।
सुभद्रं कमलं चैकदृष्टिं च चतुरासन
पवित्रमृतधामानं त्रिविक्रममतः परम् ।
पुरुषात्मानमेणेशं पश्चिमं पुरतस्तथा
ध्रुवं ध्रुवं तथा ह्रस्वं माहेन्द्रं मन्दरं ततः ।
सर्वरोधं गजास्यं च मायां कमलमन्दरौ
एकनेत्रमृतं शुलं बहु कुक्षिं त्रिविक्रमम् ।
करालं पद्मनाभाख्यं विघ्नेशं विजयं तथा
भद्रहस्तं तथा रामं शशाङ्कं मनुमन्वतः ।
सुभद्रं गोपनं पश्चात्पञ्चान्तिकमथानिलम्
पश्चिमं पद्मनाभाख्य मृतधामानमस्वतः ।
जृम्भलं पुलहं पापहननं पद्मनाभकम्
दृष्टिं मृगेशममृतमार्यां च द्विर्गुहालयम् ।
पवित्रमृतधामानं वैधरं माधवं ततः
मारुतं कमलां पद्मपवित्रमृतधाम च ।
अत्रिं मृगपतिं लक्ष्मीं बहुलं पञ्चबिन्दुकम्
पवित्रमृतधामानं वै राजं विक्रमं तथा ।
पश्चिमं पद्मनाभाख्यं वैधरं मृगवल्लभम्
दक्षं रविं गोपनाख्यं सुभद्रं भुवनं तथा ।
ककुभं माधवं पश्चान्माधवीं भास्कराह्वयम्
गोपनं मतिमन्तं च पुलहं माधवं रविम् ।
यष्टिं च व्याहरेद्ब्रह्मन् तथैव मधुसूदनम्
ध्रुवं नभोमणिं गोपं बिन्दुं च चतुरासन ।
एवं त्रि र्व्याहरेदर्णं सुगतं सागरोत्तमम्
मन्दरं भास्करं पश्चाद्गोपनं माधवीं तथा ।
आदिदेवं जगत्प्राणं माधवं नतिमुद्धरेत्
इत्येवमुद्धृतो मन्त्रो ब्रह्मन् सर्वार्थसिद्धदः ।
शतेन संमितो वर्णो रश्मीत्यादिभिरेव ? सः
भास्करं मन्धरं पञ्चबिन्दुं यष्टिमनन्तरम् ।
उद्धृत्य बीजमेतेन षडङ्गानि प्रकल्पयेत्
द्रष्टा ककुत्स्थश्छन्दस्स्यादतिच्छन्दो त्र देवता ।
सर्वदाह्वानमन्त्रस्य चतुर्लक्षोजपःस्मृतः
ज्ञानाद्ध्यानाज्जपान्मन्त्रस्सिद्धिं सर्वां प्रयच्छति ।
मन्त्रिणो नित्ययुक्तस्य प्रत्यहं प्रयतात्मनः
आमुष्मिकं चैहिकं च फलं सर्वं प्रयच्छति ।
दशम्यामर्चयेद्ब्रह्मन् कृतान्तमभयप्रदम्
निगमादिं गन्धवहं हृषीकेशमन्तरम् ।
दण्डं प्रभञ्जनं दक्षं चादिदेवं सदागतिम्
नितिमुद्धृत्य कथितो मनुर्वैवस्वता श्रयः ।
बीजमर्णान् समुद्धृत्य श्वसनं यष्टिशीर्षकम्
उदितं तेन बीजेन हृदयाद्यङ्गकल्पनम् ।
ऋषिस्सत्यतपाश्छन्दो गायत्रं दैवमिरितम्
मन्त्रश्च पितृदैवत्यो जपः स्यात्पञ्चलक्षकः ।
तेनाराध्य श्राद्धदेवमभीष्टं सर्वमश्नुते
प्रथमं छन्दसामादिं विक्रमं मानुषेश्वरम् ।
वैधरं वह्निमपरं गोपनं पवनं मुखम्
सतिमुद्धृत्य माघोनः कथितो मनुरब्जज ।
वैधरं चोर्ध्वलोकेशं नासिक्यं बीजमुद्धृतम्
ऋषिर्देवो विराट् छन्दो देवता वलसूदनः ।
एतेनेष्ट्वा तुरासाहं साम्राज्य फलमश्नुते
द्वादश्यां मालमन्त्रेण पूजयेदुक्तवर्त्मना ।
भगवन्तं श्रियः कान्तं फलमिप्सन् सुदुर्लभम्
निगमादिं च नत्यन्तं पश्चिमोदयनं तथा ।
क्रोधरूपं पवित्रं च श्रीवत्सं पावकं ततः
आदिदेवं च पननं गोपनं यष्टिमन्वतः ।
गोपतिं बहुलं पञ्छबिन्दुं नरहरिं ततः
और्वं यष्टिं च कमलं गोपनं मन्दराह्वयम् ।
वैधरं देवदत्तं च कमलं गोपनं तथा
शङ्खं ठठान्तमुद्धृत्य मनुरेष समिरितः ।
स्वर्गादिं पुलहं बन्धुं नासिक्यं बीजमुद्धरेत्
ऋषिश्श्रीनिधिरस्योक्तो विराट् छन्दश्च देवता ।
मन्मथस्तेन यष्टव्यस्स सर्वफलकाङ्क्षिभिः
एकार्णमपरं मन्त्रमुद्धरिष्यामि पद्मज ।
तारं गरुडमौर्वं च सबिन्दुं मनुरीरितः
लक्षमेकं जपेन्मन्त्री कर्मण्याकर्षणादिके ।
समर्थं कामदैवत्यं मनुमन्यं ब्रवीमि ते
उद्गीथं कमलं पीतं मायामर्धेन्दुशेखम् ।
करालं गोपनं दक्षं वैधरं तदनन्तरम्
मृगेन्द्रं वरुणं चादि देवं श्वसनसंज्ञितम् ।
शुक्लं सुधामयं वह्निं ककुभं सविनायकम्
शशाङ्खं माधवं ब्रह्मसाधकं भास्कराह्वयम् ।
हैरम्बं गोपनं वायुं ककुभं यादसां पतिम्
पुलहं निगमादिं च तद्द्वयं तद्विरुच्छरेत् ।
पश्चिमं त्वृतधामानं पूर्णं पर्वभिरुच्छरेत्
शशाङ्कमादिं जलजं पीतं वरुणमब्जज ।
ककुभं विष्णुविघ्नेसौ प्रथमं तग्मदिधितिम्
पद्मनाभं वैधरं च वायुमाद्यं च मन्दरम् ।
मन्दराद्यद्वयं भूयस्तदेव समनन्तरम्
वरुणं विष्णुमब्जां च यष्टि मब्जोदयौ तथा ।
दहनं श्रीधरं वर्णं पुलहं ब्रह्मसाधनम्
करालमाद्यं कलशं मुखं श्रीवत्समन्वतः ।
प्रभञ्जनं गोपनं च स्पर्शमाद्यमपां पतिम्
ठठास्तमुद्धृत्य मनुः कथितः कमलासन ।
ऋषिः कलिङ्गोऽतिच्छन्धश्छन्दः कामश्च देवता
जपेद्द्विरष्टौ लक्षाणि नासाध्यं तेन मन्द्रिणा ।
रतिश्च विरतिश्चोभे तस्य पार्श्वे स्थिते सदा
मन्त्र स्तयोश्छतुर्थ्यन्तं नाममात्रं त्रिशीर्षकम् ।
मदनः प्रथमो भाणस्तथैवोन्मादनोऽपरः
मोहनं द्वेषणं च द्वे दीपनं पञ्चमं स्मृतम् ।
मल्लिका केतकी जातिः पङ्कजं यूधिका तथा
पुष्पाणि क्रमशो भाणान्या हुस्तेषां मनुः पुनः ।
संविद्यर्णाश्च सहिताश्चतुर्थ्यन्तास्समाह्वयाः
तेषां सत्यन्तसहितं तैस्तेषामर्चनं विधुः ।
धनुरङ्कशपाशाश्च तस्यास्त्राणि मनोभुवः
मन्त्राश्च पूर्ववत्तेषां नामान्येव चतुर्मुख ।
कल्पकानोकह प्राय पुष्पितद्रुमशोभिते
उद्याने मञ्जु शिञ्जानपक्षिसङ्घिनिषेविते ।
मध्ये महाह्रदे पूर्णे सरोजैश्च विकस्वरैः
विष्टरे काञ्चने न्यस्ते शुभा स्तरणसंयुते ।
आसीनं सह देवीभ्यां सर्वाभरणभूषितम्
रक्तचन्दनलिप्ताङ्गं रक्तमाल्योपशोभितम् ।
चारुकुण्डलिनं कान्तं युवानं क्षौमवासनम्
वसानमप्सरोमुख्यै स्त्रीगणैः परितो वृतम् ।
ध्यायन्ननेन मनुना क्रमादर्घ्यादिभिर्यजेत्
कामगायत्रिया वापि यजेत मकरध्वजम् ।
जपादि पूर्ववत्सर्वं वश्यं च भुवनत्रयम्
मन्त्रिणो नित्ययुक्तस्य किमन्यैरतिसिस्तरैः ।
अश्विनोर्मन्त्रमधुना ब्रवीमि कमलासन
उद्धृत्य पूर्वमुद्गीथं विघ्नेशं पाटलप्रियम् ।
ब्रह्मसाधननामानं श्रीवत्सं च सुधामयम्
मायां सुभद्र माकारमश्विनोरीरितो मनुः ।
आदिमर्धेन्दुसहितं बीजं तेनाङ्गकल्पना
भृगुर्द्रष्टा बृहच्छन्दः प्रतिपाद्यौ तथाश्विनौ ।
जपन्वैपञ्चलक्षेण सिद्धिस्सर्वार्णसाधनः
राजयक्ष्मादयो रोगा न तिष्ठन्ति तदन्वये ।
औषधानि च दक्षाणि व्याधीनामपनोदने
तत्करस्पर्शमात्रेण सर्वं वस्त्वौषधंभवेत् ।
पौर्णमास्यां तथा सोमं यजेत मनुवित्तमः
निगमादिं पूर्णचन्द्रमोतदेहं समन्दरम् ।
मधुमारुतविघ्नेशं माधवीं च विसर्जनम्
सोमस्य कथितो मन्त्रो बीजमुद्धारयामिते ।
सितमादिमनुस्वारं कुर्यात्तेनाङ्गसन्ततिम्
द्रष्टा कौमोदको नाम पङ्त्किच्छन्दस्स देवता ।
जपः पूर्ववदेवास्य गायत्र्या वा समर्चयेत्
फलं च सर्वं पूर्वोक्तं चन्द्रसालोक्यमप्यथ ।
इत्युक्तास्तिथमो देवास्तेषां मन्त्रास्समर्चनम्
फलानि च समस्तानि क्रमेणाप्युदितानि ते ।
नाराध्यं तिथियोगैस्तैरैहिका मुष्मिकात्मकम्
फलं मन्त्रप्रसाधेन तद्देवानां महत्तया ।
नुकृतान्यपि कर्माणि विना विघ्नेशपूजया
न फलन्त्यन्तरायेण निहतानि चतुर्मुख ।
तदादौ कर्मकुर्वाणैराराध्यो विघ्ननायजः
मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0