भाषा

ENहिગુ
ग्रंथ पाठ

पद्मसंहिता · अध्याय 4.29

4.29.1

देवीनां च श्रियादीनां मन्त्रान् विष्टरकल्पनम् ।
मन्त्रांश्च परिवाराणां प्रथमावरणादिषु

4.29.2

अनुक्रमेण वक्ष्यामि यथा तदनधारय ।
छन्दसामादिराद्यर्णं तुर्यमग्नेरनन्तरम्

4.29.3

अग्निश्च महती मायामनुस्वारश्च पश्चिमः ।
एकाक्षरो मनुर्ब्रह्मन् श्रियस्सर्वफलप्रदः

4.29.4

ऋषिर्मङ्कणकः प्रोक्तश्छन्दो गायत्रमुच्यते ।
श्रीरस्य देवताऽङ्गानि स्वेन रूपेण कल्पयेत्

4.29.5

बिल्वानोकहमूले तु लक्षजापेन साधयेत् ।
समिद्भिश्च तदीयाभिर्जुहुयाल्लक्षसङ्ख्यया

4.29.6

श्रीपुष्पैः पायसान्नैश्च जुहुयादुक्तसङ्ख्यया ।
श्रियमाप्नोति महतीं श्रीकामो नात्र संशयः

4.29.7

प्रणवादि चतुर्थ्यन्तं नाम नत्यन्तमिरितम् ।
चतुरक्षरमन्त्रोयमपरश्श्रीसमाश्रितः

4.29.8

ऋषिरस्य धनाध्यक्षश्छन्दश्श्रीर्देवता तथा ।
प्रत्यक्षरं जपेल्लक्षं साधको मन्त्रसिद्धये

4.29.9

प्राग्वच्च बीजमङ्गानि फलमप्यस्य पूर्ववत् ।
निगमादिं भद्रहस्तं हैरम्बं मन्दरा दिपम्

4.29.10

शुभदं दहनं मायां मारुतं माधवं तथा ।
सप्ताक्षरोऽयं श्रीमन्त्रस्सर्वमन्यद्यथापुरम्

4.29.11

गृहीत्वैकाक्षरं पूर्वं भानु मग्निं च वामनम् ।
भल्लायुधं च महेन्द्रं हृषीकेशं सयष्टिकम्

4.29.12

शशाङ्कमौर्वं नासिक्यं सुभद्रं गदिनं परम् ।
जलाधिदैवमाद्यर्णं वै राजं गोधनं धरम्

4.29.13

पुलहं कमलं शक्रं दहकं पाटलप्रियम् ।
गोधनं कमलं चित्रभानुं मायाविभूषितम्

4.29.14

प्रभञ्जनं मृगेशं च स्वाहायां विरमेत्ततः ।
षोडशाक्षरमन्त्रोऽयं श्रियः कमलसम्भव

4.29.15

ओङ्कारपूर्वं नत्यन्तं कमलं मन्दरं तथा ।
माहेन्द्रं वरुणं चादिदेवं चन्द्रं त्रिविक्रमम्

4.29.16

विघ्नेशं पञ्चबिन्दुं च हुतान्तं त्विदमिरितम् ।
बीजाति पूर्ववत्सर्वं परिगृह्य चतुर्मुख

4.29.17

पूर्वोक्तांश्चतुरोवर्णान् गृहीत्वातदनन्तरम् ।
देवानां दानवचनं हुमान्तं तदनन्तरम्

4.29.18

इत्युद्धृतो मनुश्चान्यश्श्रियः कमलसंभव ।
उद्धृत्य पूर्वमुद्गीथं श्रीवत्समनलं तथा

4.29.19

वामनं यष्टि शिरसं दिनेशं यान्तमब्जज ।
पञ्चबिन्दुं सयष्टिं च शुभदं वसुमस्तकम्

4.29.20

महामायाङ्कितं दण्डं ठ ठ इत्यवसानकम् ।
मङ्कणोऽस्य ऋषिश्छन्दो गायत्री श्रीश्च देवता

4.29.21

जपेल्लक्षत्रयं मन्त्रं बिल्वारण्येऽथ साधयेत् ।
वश्याकर्षणभूलाभ खनिरत्नादिसिद्धयः

4.29.22

ध्यानमस्य प्रवक्ष्यामि श्रियो महेन्द्रमण्डले ।
आसीनायाः परिजनानिन्द्रादीनर्चयेत्क्रमात्

4.29.23

चतुर्थ्यन्तं स्वनामोक्त्वा सत्यन्तं मन्त्रमब्जज ।
मण्डले तत्र पद्मस्य पूर्वादिषु दलेषु च

4.29.24

वासुदेवादयो प्योहाश्चत्वारो दिक्ष्ववस्थिताः ।
तेषां नाम चतुर्थ्यन्तं सत्यन्तं प्रणवान्वितम्

4.29.25

गग्गुलुश्च कुरण्डश्च दमक श्शललस्तथा ।
कोणवर्णेषु संस्थ्यप्य मन्त्रांस्तन्नामपूर्वकम्

4.29.26

रतिस्सरस्वती भूमिः प्रितिः कीर्तिश्चतुर्मुख ।
शान्तिः पुष्टिश्च तुष्टिश्च श्रियोऽधस्ताच्च शक्तयः

4.29.27

नामानि तासां मनवो यथापूर्वमुदीरिताः ।
पार्श्वे च दक्षिणे तस्याश्श्रियः पद्मनिधिस्थ्सितः

4.29.28

वामे शङ्खनिधिर्नाम तयोर्मन्त्रं यथापुरम् ।
धनदो माणिभद्रश्च जृम्भलो नलकूभरः

4.29.29

पूर्णभद्रश्चलेन्द्रश्च कलिस्रक्शिबिकुण्डलः ।
पूर्वादिदिक्षु भविनामेताषां मनुरुच्यते

4.29.30

निगमादिं सुभद्रं च एकदन्तं सयष्टिकम् ।
धनदस्य मनुः प्रोक्तो नाम नत्यन्तमेव च

4.29.31

भल्लायुधं पद्मनाभं पञ्चिबिन्दुं सदण्डकम् ।
नलकूबरमन्त्रश्च कथितः कमलोद्भव

4.29.32

ककुभं पद्मनाभं च नासिक्यं जृम्भलो मनुः ।
स्पर्शान्तं पुलहं चोर्ध्वलोकेशं तदनन्तरम्

4.29.33

माणिभद्रस्य सदृशो मनुस्सर्वार्थसाधकः ।
पश्चिमं पीतवर्णाभं भुवनं यष्टिमस्तकम्

4.29.34

पूर्णभद्रस्य कथितो मनुरेवं चतुर्मुख ।
वक्रतुण्डं च भुवनं पुलहं भुवनं पुनः

4.29.35

नासिक्यं मनुरेतस्मिन् शिभिकुण्डलनामनि ।
ब्रह्माणमादिं पुलहं गुहालयसयष्टिकम्

4.29.36

उद्धारश्च मनोरेवं कथितः कलिमालिनः ।
वक्रतुण्डं पीतवर्णं हृषीकेशं च तद्ध्रवम्

4.29.37

चरेन्द्रमन्त्रः कथितः पूर्वादिषु यथाक्रमम् ।
मन्दरं पुलहंचैव गुहालयविदर्भितम्

4.29.38

माहेन्द्रस्य मनुः प्रोक्तस्सुभगः पुलहोदयः ।
धनाध्यक्षस्य मन्त्रोऽयं कथितः कमलासन

4.29.39

पार्श्वेच दक्षिणे पूज्याश्श्रियः परिजना स्थिताः ।
खड्गदामोदरं चैव महामायां सबिन्दुकम्

4.29.40

चिन्तारत्नस्य कथितो मनुः पूर्वदलाश्रयः ।
श्रीवत्समग्निं भुवनं सदण्डं च चतुर्मुख

4.29.41

कथित श्छ बलामन्त्रस्तार्क्ष्यस्थाने समर्चनम् ।
इन्द्रादयो लोकपालास्स्वाशासु परितस्थ्सिताः

4.29.42

तृतीयावरणे चापि बलाकी वनमालिनी ।
विभीषी शाङ्करी चैव दिक्षु पूर्वादिषु स्थिताः

4.29.43

सकञ्चुका वेत्रहस्ता मन्त्रास्तासां समाह्वयाः ।
विष्वक्सेनपदे पुष्पदारिणि मर्चयेत्ततः

4.29.44

कल्पकं पारिजातं च हरिचन्दनभूरुहम् ।
सन्तानमन्दरौ चैव द्वारभूषुनिवेशयेत्

4.29.45

बिल्वं च सरसीं चैव शतपत्रसमाकुलाम् ।
श्रियं परिगतां पक्षि सङ्घातकलनिस्वनाम्

4.29.46

परिवारान् प्रकल्प्यैपं तत्तन्नामभिरर्चयेत् ।
चतुर्थ्यन्तैर्नतिपरैः प्रणवप्रमुखैस्तथा

4.29.47

मालामन्त्रं प्रवक्ष्यामि श्रियः कमलसम्भव ।
उद्गीथमुक्त्वा प्रथमं नतिश्चतदनन्तरम्

4.29.48

उक्त्वा भगवती शब्दे श्रीचतुर्थ्यन्तमन्वतः ।
धीरापदं च सम्बुद्धौ श्रीपूर्वं निलयं तथा

4.29.49

आकारपूर्वं भरणं शतमण्डित मन्वतः ।
शरीरेति च सम्बुद्धिः पदान्येवं समुद्धरेत्

4.29.50

भास्करं चानलं पञ्च बिन्दुं चन्द्रार्धशेखम् ।
कलात्मानं विसर्गान्तं बीजयेतत्समुद्धरेत्

4.29.51

द्विरुच्चार्यं भरपदं पापशब्दादनन्तरम् ।
अलक्ष्मीमितिवक्तव्यं नाशयेति द्विरीरयेत्

4.29.52

भास्करं चानलं पंच बिन्दुं यष्टिमनन्तरम् ।
त्रिरभ्यसेत्तथा सप्तजन्मपूर्वर्जितं तथा

4.29.53

अखलं प्रोच्य दारिद्र्यं पदं दूरात्तथा पदम् ।
उत्सारयेति द्विः प्रोच्य चन्द्रमादि विसर्गितम्

4.29.54

त्रिस्त्रिः प्रोच्यं त्वदभक्त ? जनशब्दमनन्तरम् ।
वसुं नियोजयेत्युक्त्वा धारयेति पदं पुनः

4.29.55

पूरयेति द्विरुच्चार्य पदमम्भोरुहासन ।
प्रपन्नलोकं ह्रीङ्कारं त्रिरुच्छार्य हयं गजम्

4.29.56

विविधं पशुमुच्चार्य निचयं तदनन्तरम् ।
दासीदासं परिजनं तदन्तं द्विर्विलोकय

4.29.57

मां च सौम्येति चेत्युक्त्वा अवलोकनसंयुतम् ।
लक्ष्मीमग्निं विक्रमं च श्रीधरं यष्टिमस्तकम्

4.29.58

त्रिरुच्चार्य यजेति द्विर्भवतीति च पद्मज ।
सुरासुरेत्यनुगुणं सिद्धगन्धर्वराक्षसम्

4.29.59

यक्षविद्याधरवदं निखिलं जन्तुशब्दकम् ।
मनोभिरिति चाराङ्क्ष्य समागममनन्तरम्

4.29.60

प्रियेति सम्बुद्धिपदं भास्करं सगुहालयम् ।
सार्धचन्द्रमिदं बीजं त्रिरुच्चार्य परादिते

4.29.61

वरं विविधमुच्चार्य सितमालाम्बरं तथा ।
धारणीति समुच्छार्यं निखिलं रोचिषं वसु

4.29.62

निचया भवती पद्मा सम्बुद्धौ तत्त्रयं पदम् ।
श्रीपदं चापि नत्यन्तमस्त्वित्यतत्क्रियापदम्

4.29.63

युष्मच्छब्दं चतुर्थ्यन्तं ठठान्तो मनुरीरितः ।
पूर्ववद्बीजमस्यापि मन्त्रं भङ्त्क्वाङ्गकल्पना

4.29.64

छन्दोऽतिच्छन्द एतस्य देवता श्रीर्धनादिपः ।
द्रष्टा फलं जपश्चास्य द्विषट्काक्षरवत्फलम्

4.29.65

अधुना वसुधामन्त्रं प्रवक्ष्यामि चतुर्मुख ।
ब्रह्मकोशं मुखं तस्य श्रीवत्सं ज्वलनं तथा

4.29.66

वामनं माधवं देवदत्तं श्रीबीजमेव च ।
कमलं बहुलं पञ्चबिन्दुं सुभगमन्वतः

4.29.67

भद्रहस्तं विधातारमनलं वामनं तथा ।
सुभगं गोपनयुतं विघ्नेशं च समिरणम्

4.29.68

करालमग्निमिकारं ठठान्तं षोडशाक्षरम् ।
तारादिवसुमध्यं च ठठान्तं हृदयादिषु

4.29.69

अङ्गेषु योजयेन्मन्त्रं नमस्कारपदं शृणु ।
सामाया च तथा सौम्या सम्बुद्धौ तत्पदद्वयम्

4.29.70

समयंकरि चेत्यचुक्त्वा महाशब्दमनन्तरम् ।
टाबन्तस्समयाशब्दस्सम्बुद्धौ च ठठावधि

4.29.71

ह्यान्तमेति तथा पूर्वं गच्छेति पदमन्वतः ।
दिर्वक्तव्यं पदद्वन्द्वं भगपूर्वावधीति च

4.29.72

वसुशब्दं देही शीर्षं ठठान्तं तेन चाह्वयेत् ।
देवीं च वसुधां ध्यायेत्तप्तहालकरोचिषम्

4.29.73

सिंहासनस्थामाकल्पैरनेकैर्भूषितां सदा ।
गृहीतदाडिमिनालवामहस्तां तथेतरे

4.29.74

हस्ते दधानां सुभगं चिन्तारत्नं चतुर्मुख ।
पूर्णं नानाविधैरत्नैः कुम्भं चोर्ध्वमुखं स्थितम्

4.29.75

दक्षिणे चरणाङ्गष्ठे पश्चिमामरभूरुहम् ।
पार्श्वयोरुभयोश्चापि वालव्यजनपाणिभिः

4.29.76

अन्याभिश्शुक्ल ताम्बूलधारिणीभिश्च सेविताम् ।
शङ्खपद्मनिदी चापि वमन्तौ विपुलं धनम्

4.29.77

परस्परमुखप्रेक्षौ परिवाहौ स्थितौ पुनः ।
अनुक्तपरिवाराश्च ग्राह्याश्श्रीमनुवर्त्मना

4.29.78

समुद्रगायास्सरितस्स्रोतसि प्राङ्मुखस्थ्सितः ।
मस्तदघ्ने जपेल्लक्षं मन्त्रसिद्धौ समाहितः

4.29.79

वैशाखे मासिशुक्ले च पक्षे मासर्क्षपश्चिमे ।
व्रतं समापये च्चक्रे पूजयेच्च महानिशि

4.29.80

मल्लिकावकुलैश्चान्यैस्सुगन्धैः कालजैश्शुभैः ।
गोघृतैश्च तिलैरन्यैर्यथाभिलषितैरलम्

4.29.81

तर्पणं मन्त्रजापं च नित्यमेतत्समाचरेत् ।
एवमाचरतस्सम्यङ्मन्त्रिणो यावदायुषम्

4.29.82

वसति श्रीर्गृहे तस्य सप्तजन्मसु निश्चला ।
मनुं धरण्या वक्ष्यामि साधनं च यथातथम्

4.29.83

छन्दसामादिमुद्धृत्य सूक्ष्मादृक्पुलहं तथा ।
हृषीकेशं विसर्गान्तं मनुरेकाक्षरः स्मृतः

4.29.84

गोपनं पञ्चबिन्दुं च ऊर्ध्वलोकेशमन्वतः ।
वीरसेनं कलान्तं च सङ्कर्षणसमाह्वयम्

4.29.85

सबिन्दुं गदिनं तानं ? कल्पयेद्धृतयादिषु ।
पैठरोस्य मुनिश्छन्दो दैवं गायत्रमिरितम्

4.29.86

देवता धरणी देवी जपेल्लक्षमतन्त्रितः ।
मनुर्धरण्यास्सप्तार्णः कथ्यते कमलासन

4.29.87

धनदं पावकं चादिं सुमुखं गोधनाह्वयम् ।
नत्यन्तमेवं सप्तार्णो धरण्यास्संप्रदर्शितः

4.29.88

मनुश्चतुस्त्रिंशवर्णः कथ्यते कमलोद्भव ।
आदाय चादौ सप्तार्णान् कुम्भमादि मचामनु

4.29.89

शशाङ्कमादिं भुवनं सुभगं दत्तसंज्ञितम् ।
सुभद्रमूर्ध्वलोकेशं विजयं विष्णुशीर्षकम्

4.29.90

मोहनाशं तथाकारं वै राजं चाग्निविक्रमम् ।
भल्लायुधं च महेन्द्रं हृषीकेशविगर्हितम्

4.29.91

सानुस्वारं च कमलं पावकं सगुहालयम् ।
नासिक्यं त्रिदशाहारं त्रिविक्रमसमाह्वयम्

4.29.92

क्रोधरूपं च सुमुखं सोदकं कलशं ततः ।
प्रणवादिं च महेन्द्रं वर्णानां च समुद्धरेत्

4.29.93

सुभद्रं देवत्तं च भास्करं यष्टिमस्तकम् ।
पावकं पाटलं ब्रह्म माहेन्द्रं च गुहालयम्

4.29.94

प्रभञ्जनं पूर्णचन्द्रमौषधं यष्टिसंयुतम् ।
स्वाहायां विरतिर्मन्त्रः कथितः कमलासन

4.29.95

पूर्वोक्तं बीजमङ्गानि ऋषिश्छन्धश्च देवता ।
सारस्वतं मनुवरं प्रवक्ष्यामि यथा तथम्

4.29.96

निगमादिं श्वेतरश्मिं मनुमर्धेन्दुशेखरम् ।
इत्युद्धरेत्स्वयं गां च द्रष्टा कश्यपनन्दनः

4.29.97

छन्दश्च देवी गायत्रं देवता भारती स्वयम् ।
लक्षमेकं नियमवान् जपेन्मन्त्रमतन्द्रितः

4.29.98

अतुला वाग्निभूतिस्स्याल्लभते ज्ञानमुत्तमम् ।
सकृद्ग्रहणमात्रेण ग्रहणं दृढमश्नुते

4.29.99

स्मृतिप्रमोषो नैवास्य सभायां न पराभवः ।
अन्यं सारस्वतं मन्त्रमधुना कथयामि ते

4.29.100

मुखमस्य ब्रह्मकोशं गोधनं चेन्दुशेखम् ।
कमलं पुलहं मायामनुस्स्वारपरिष्कृताम्

4.29.101

यष्टिं यष्ट्याविसर्गान्तः पूर्वोक्तं मन्त्रमन्वतः ।
त्रियक्षरस्य चोद्धारः कथितः कमलासन

4.29.102

द्रष्टा वसिष्ठो मन्त्रस्य विराट् छन्दस्सरस्वती ।
देवता जपनङ्ख्या च लक्षत्रयमुदाहृतम्

4.29.103

परापरज्ञो पाग्मी च सप्तकृतोऽभिमन्त्रितम् ।
जलं पिबेद्ध्रुवं तस्य कल्याणी वाग्भविष्यति

4.29.104

षडक्षरगणो मन्त्रः कथ्यते कमलासन ।
तारकं वरुणं चादिं नासिक्यं ज्वलनाह्वयम्

4.29.105

मधुसूदनमन्वक्छ हुंफडन्तं नमस्कृतिः ।
ऋषिर्महेश्वरश्छन्दो विराट् सैव च देवता

4.29.106

दशाक्षरं मन्त्रराजं वर्णोद्धारेण चोच्यते ।
व्यापी सुधारसश्चापि वैधरो विष्णुमस्तकः

4.29.107

वर्णा स्त एव चत्वार स्समनन्तरमिरिताः ।
ईरयित्वा तथा कुंभं मधुसूदनमन्वतः

4.29.108

पञ्चान्तकः पाशपाणिं मधुसूधनपश्चिमम् ।
वैधरं रामसहितं विघ्नेसं बन्धुमस्तकम्

4.29.109

हुतान्तमर्णानुद्धृत्य मनुरेष समिरितः ।
अङ्गानि रूपं मन्त्रस्य बीजमेवं विभाजितम्

4.29.110

चन्द्रमण्डलमध्यस्थां तुषारनिचयप्रभाम् ।
वमन्तीममृतं वक्त्राज्जिह्वामध्यगतां स्मरेत्

4.29.111

ध्यायतो मन्द्रिणस्तस्य वाक्सिद्धिरतुला भवेत् ।
निगमादिं च नत्त्यन्तं सुभद्रं गदिनं तथा

4.29.112

कुम्भमादिं च विजयं गोविन्दं मधुकेतनम् ।
विजयं माधवयुतं ठठान्तं मनुमुद्धरेत्

4.29.113

ज्वलनं चादिमर्धेन्दु बीजमेवं समुद्दरेत् ।
द्रष्टास्य देवलश्छन्दो विराट् देवी रति स्तथा

4.29.114

दश लक्षं जपेन्मन्त्रं ततस्सिध्यति मन्त्रिणः ।
वश्याकर्षण विद्वेषमुखा च फलसन्ततिः

4.29.115

दूरादागमनं चापि प्रोषितस्याऽचिराद्भवेत् ।
सप्तवर्णान् समुच्चार्य पूर्वोक्तान् समनन्तरम्

4.29.116

पवित्रं पीठमन्वक्छ पञ्चबिन्दुमनन्तरम् ।
वैराजं गोधनं वायुं ठठान्तं मनुमुद्धरेत्

4.29.117

एकचक्षुश्च पीठं च हृषीकेशं सबिन्दुकम् ।
बीजमुक्तं मनोरस्य मुनिरङ्गिरसः स्मृतः

4.29.118

छन्दश्च देवी गायत्रं देवता प्रीतिरुच्यते ।
साधयित्वा यथापूर्वं धर्मादिफलभाग्भवेत्

4.29.119

सप्तार्णाः पूर्व वद्ग्राह्याः करालं वामनं ततः ।
एकदृग्गोधनं चित्रभानुं च मधुसूदनम्

4.29.120

यष्टिं करालमग्निं च ध्रुवं चाग्नेश्च योषितम् ।
तदेव बीजं द्रष्टा च मनुः कीर्तिश्च देवता

4.29.121

छन्दश्च देवी गायत्रं पूर्ववत्सिद्धिसाधने ।
वर्णानादाय सप्तादौ परिशिष्टान् समुद्धरेत्

4.29.122

श्रीवत्सं गोपनं भद्रपाणिं च विजयं तथा ।
स्पर्शनं वीरसेनं च शुभदं दहनं मनुम्

4.29.123

यष्टिं च भास्करोपेतं पावकं बिन्दुपञ्चकम् ।
सयष्टिं बीजसहितं श्रियस्स्वाहापदावधि

4.29.124

छन्दो विराट् गौतम र्षिर्देवता शान्तिरुच्यते ।
मनुना साधयेद्ब्रह्मन् पादुकादिफलं महत्

4.29.125

सप्तवर्णा यथापूर्वं नृहरिं पावकं तथा ।
महामायामनुस्वारं विजयं प्रणवादिकम्

4.29.126

उदयं क्रोधरूपं च भूधरं गोपनं तथा ।
ठठान्तमेवमुद्धृत्य मनुर्ज्ञेयो विचक्षणैः

4.29.127

द्रष्टा व्यासो विराट्छन्दो देवता तुष्टिरुच्यते ।
लक्षत्रयजपेनैव तुष्टिश्च महती भवेत्

4.29.128

सप्तार्णाः पूर्ववद्ग्राह्याश्शिष्टार्णस्योद्धृतिः क्रमात् ।
भास्करं पावकं पञ्चबिन्दुं यष्टिसमन्वितम्

4.29.129

पवित्रं भुवनं क्रोधरूपं भूधरमन्वतः ।
गोविन्दमाग्नेयी मन्वगुद्धृत्य मनुरीरितः

4.29.130

द्रष्टेरितस्तथेशाना पुष्टिश्छन्दो विराडभूत् ।
अष्टलक्षं जपेन्मन्त्रं पुष्टिकामस्समाहितः

4.29.131

भुक्त्वा भोगांश्च विपुलान् रसायनपुरोगमान् ।
अतलादिषु लोकेषु मन्त्री चरति देववत्

4.29.132

योगासनाङ्गा न्याधारशक्त्यादीनि चतुर्मुख ।
यानि तेषां कल्पनेषु वर्णोद्धारपुरस्सरम्

4.29.133

मन्त्रान्वक्ष्याम्यानुपूर्व्यायथावदवधारय ।
ब्रह्मसोशमुखं विद्यात्पवित्रमृतधाम च

4.29.134

हृषीकेशं बिन्दुपरं प्रतर्दनमतः परम् ।
पद्मनाभं च नासिक्यं गोपनं सुभगं पुनः

4.29.135

आदिदेवं हुतवहं श्रीवत्सं कमलाह्वयम् ।
वैराजं वीनसेनं च नतिमेवं समुद्धरेत्

4.29.136

आधारशक्तिमन्त्रोयं कथितः कमलासन ।
चतुर्मुखं चतुर्भाहुं शुद्धस्फटिकवर्चनम्

4.29.137

किरीटहारकेयूरप्रमुखाकल्पभूषितम् ।
श्रीवत्साङ्कं शङ्खचक्रगदापद्मायुधैर्युतम्

4.29.138

तेजोमण्डलमध्यस्थं ध्यायेदाधाररूपिणम् ।
ब्रह्मकोशं दिनकरं भुवनं पापकाह्वयम्

4.29.139

गुहालयं ध्रुवं भूयः कमलं सगुहालयम् ।
पावकं मन्दरं पद्ममाकारं विपुलं तथा

4.29.140

गोपनं च गदध्वंसं विनायकमनन्तरम् ।
प्रभञ्जनं माधवं च सत्यन्तं मनुमुद्दरेत्

4.29.141

एकवक्त्रं चतुर्भाहुं जपापुष्पसमद्युतिम् ।
शङ्कचक्रधरं क्रुद्धं पद्मकौमोदकीधरम्

4.29.142

वह्निमण्डलमध्यस्थं ज्वलनापीतविग्रहम् ।
सकलाभरणोपेतं ध्यायेत्कूर्ममनन्तरम्

4.29.143

उद्गीधं भानुमाकारं यष्टिमादिं विनायकम् ।
द्विरदं विजयाकारं श्वसनं प्रथमं स्वरम्

4.29.144

नतिं चोद्धृत्य मन्त्रोऽयमनन्तस्य प्रदर्शितः ।
स्फटिकाद्रिप्रतीकाशं चतुर्भाहुं किरीटिनम्

4.29.145

पूर्णचन्द्राननं सौम्यं सितपुष्पौर्विराजितम् ।
लाङ्गलं मुसलं मुख्यकरयोर्दधतं शिवम्

4.29.146

जघन्यकरयोश्शङ्खचक्रद्वन्द्वं यथायथम् ।
नीलाम्बरधरं दंष्ट्राकरालवदनैर्युतम्

4.29.147

प्रशान्तवपुषा युक्तं सहस्रफलमुन्नतम् ।
फणामणिसहस्रांशु नीराजनविराजितम्

4.29.148

अनन्तवक्त्रकुहरैरुद्वमन्तमुदर्चिषम् ।
मण्डलीकृतनागेन्द्र भोगवेष्टन विग्रहम्

4.29.149

ध्यायेदनन्तमुभयोः पार्श्वयोर्नागयोषितः ।
देव्यस्तस्य सुखासीनाः फणामण्डल मण्डिताः

4.29.150

ध्यात्वा भुवो मनुः पश्चाद्वर्णोद्धारेण वक्ष्यते ।
तारं सुभगनामानमर्चिष्मन्तं चतुर्मुख

4.29.151

सुमुखं गोधनं वायुं नत्यन्तमिति कल्पयेत् ।
तस्योपरि फणीन्द्रस्य तपनीयनिभां शुभाम्

4.29.152

चतुरश्रां महापीठिं कल्पयेन्मधुविद्विषः ।
धर्मादीनां चतुर्णां त्वधर्मादीनां च तावताम्

4.29.153

पादानां कल्पनामन्तरा वक्ष्यन्ते कमलासन ।
आद्यर्णान् प्रणवादीं श्च सानुस्वारान् यथायथम्

4.29.154

चतुर्थ्यन्तानि नामानि प्रोच्यान्ते नतिमिरयेत् ।
मथ्ये सदाशिवपदं पादत्वेन प्रकल्पयेत्

4.29.155

तच्चतुर्थ्यन्तमादौ च भास्करं सगुहालयम् ।
नत्यन्तं चैव पादानां नवानां कल्पयेन्मनून्

4.29.156

ऋगादयश्चतुर्वेदा स्तेषां तु मनवः पुनः ।
सानुस्वारां स्तदाद्यर्णान् प्रोच्यादौ कमलासन

4.29.157

चतुर्थ्यन्तानि नामानि ऋगादीनां सतीः पुनः ।
मनून् प्रकल्पयेदेवं भौतिकादिरहंकृतिः

4.29.158

तिस्रः प्रकल्पयेत्पश्चात्तासां मन्त्रान् ब्रवीमि ते ।
प्रणवादीन् पुल्लनयनानचामादिं सदण्डकम्

4.29.159

भौतिकादिरहङ्कारश्चतुर्थ्यन्तो नति स्तथा ।
पश्चिमं मारुतं चोर्ध्वलोकेशं बिन्दुमस्तकम्

4.29.160

पदं च तैजसं शिष्टं पूर्ववन्मनुरीरितः ।
कुम्भमौर्वं सनासिक्यं वै कारिपदमन्वतः

4.29.161

शिष्टं यथापुरं सर्वं मनुरन्यस्समिरितः ।
सत्वं रजस्तमश्चेति गुणान् पश्चात्प्रकल्पयेत्

4.29.162

सानुस्वारंस्तदाद्यर्णान् चतुर्थ्यन्तांस्तदाह्वयान् ।
मनून् प्रकल्पयेदेवं मह्याद्यैस्तत्प्रकल्पनम्

4.29.163

आत्मशब्जं चतुर्थ्यन्तं मह्यादि पदपूर्वकम् ।
हुंफढन्तं च सत्यन्तं प्रयुञ्जीत मनुं पुनः

4.29.164

प्रणवं मन्दरं यष्टिं मुसलं पञ्चबिन्दुकम् ।
अमृतं गोपनयुतं विजयं माधवीं तथा

4.29.165

भद्रहस्तं मृगेशं च नतिमुद्धृत्य मन्त्रवित् ।
मन्त्रेणास्तरणाध्यासो वह्न्यादेर्मण्डलत्रयम्

4.29.166

तस्यो परि ष्टादध्यासान् मन्त्रान् सर्वान्यथाक्रमम् ।
पावकं शशिनं सूर्यं त्रयमाकारबिन्दुकम्

4.29.167

मनुमेवं समुद्धृत्य पद्मं चोरिकल्पयेत् ।
प्रणवं पश्चिमं यष्टिं पवित्रं विजयं तथा

4.29.168

दक्षं च गोपन परं श्वसनं च विनायकम् ।
विष्णुं च मन्दरं स्वर्गमुद्धृत्या जमनुः स्मृतः

4.29.169

श्रीवत्सादिद्वादशानां शक्तीनां तत्समाह्वयाः ।
चतुर्थ्यन्तास्सना सिक्यास्तदाद्यर्ण पुरस्कृताः

4.29.170

मन्त्रोभद्रासनस्यैष कथितः कल्पाना क्रमः ।
ब्रह्मादय स्ततः पश्छात्सनकादित्रयं पुनः

4.29.171

विनायकश्च दुर्गा चमन्त्रिणो गुरुरस्वतः ।
प्रणवाद्याश्चतुर्थ्यन्ता नत्यन्ताश्च तदाह्वयाः

4.29.172

तानर्चयेच्च ब्रह्मदीन् परिचर्यामुखे हरेः ।
अष्टौ व्याप्त्यादिकाश्शक्तीः प्रथमावरणे जयेत्

4.29.173

पूर्ववत्तत्समाख्याभिर्मन्त्रैः पञ्चायुधान्यपि ।
दिव्यानि दिक्पतीन् सर्वानिन्द्रादीन् विहगाधिपम्

4.29.174

सेनेशं च चतुर्थ्यन्तैर्नत्यन्तैश्च स्वनामभिः ।
पूर्ववत्पूजयेद्प्रह्मन्
द्वितीयावरणे ततः

4.29.175

चण्डप्रचण्डावन्तस्थ्सौ द्वार्स्थौ च मनुना जयेत् ।
निगमादिं खड्गधरमृतमोतं सयष्टिकम्

4.29.176

वक्रतुण्डं प्रचण्डं च पुण्डरीकाक्षगोपनौ ।
प्रभञ्जनं चाप्रमेयं नत्यन्तो मनुरीरितः

4.29.177

प्रथमं छन्द सामादिं पश्चिमं ऋतधामकम् ।
सदण्डं पापहननं दहनं वक्रतुण्डकम्

4.29.178

प्रचण्डं पुण्डरीकाक्षं चतुर्थ्यन्तं तथा नतिः ।
चण्डप्रचण्डयोर्मन्त्रस्समुद्धृत्यार्णमिरितः

4.29.179

उदुम्बुरस्य सत्यन्तं शान्तिमादिविभक्तिकम् ।
उदीरयेदधिष्ठात्री तस्य शान्तिश्च देवात

4.29.180

सरस्वति दक्षिणस्यां रतिश्चोत्तरदारुणि ।
श्रीः पश्चिमादधस्तस्य शान्तिर्भवति देवता

4.29.181

चतुर्थ्यनं च तन्नाममन्त्रश्चोक्तश्चतुर्मुख ।
कवाटे दक्षिणे विश्वनेत्रस्याद्देवता तथा

4.29.182

उत्तरे विश्ववक्त्रश्च देवता वेत्रदारुषु ।
वसन्ति वेदशास्त्राणि नाराचेषु तथा मराः

4.29.183

ऋषयः कीरदेशेषु भूतेशः पट्टिका भुवि ।
विश्वभावनवासस्स्यात्कन्दपट्टद्वयं तथा

4.29.184

नाम तेषां चतुर्थ्यन्तं मनुर्वास्तुपतेस्तथा ।
क्षेत्रेशस्य मनुर्ब्रह्मन् छन्दसामादिमुद्धरेत्

4.29.185

नृसिंहमुदयं दक्षमृतधामसदण्डकम् ।
चतुर्थ्यन्तं नमोन्तं च तार्क्ष्यमग्रेहरेस्थ्सितम्

4.29.186

द्वारपार्श्वे शङ्खचक्रद्वयं तत्संज्ञयार्चयेत् ।
वच्मि धामार्चने मन्त्रं छन्दसामादिमुद्धरेत्

4.29.187

वरुणं बन्धुशिरसं क्रोधरूपं वनस्रजम् ।
वरुणं देवदत्तं च पश्चिमं वह्निगोपनौ

4.29.188

शशाङ्क मादिदेवान्तं वैधरं दहनं ततः ।
हृषीकेशं पश्चिमं च रामं सुमुखमन्वतः

4.29.189

माधवं हुंफडन्तं च स्वाहान्तावधिको मनुः ।
दिङ्मार्तयश्चानुपूर्व्या कथ्यन्ते कमलासन

4.29.190

इन्द्रेशानौ नृसिंहश्च विरिञ्चश्च क्रमाद्भवेत् ।
दिङ्मार्तयोऽथवा शक्तिधरः पशुपति स्तथा

4.29.191

श्रीधरो धनदश्चेति यद्वाक्रोडाकृतिर्हरिः ।
नृसिंहश्श्रीधरश्चेति हयशीर्षाकृति स्तथा

4.29.192

अपि वा स्याच्चतुर्वक्त्र नरनारायणावुभौ ।
हरिः कृष्णश्च कथितो यद्वा सत्यादयः क्रमात्

4.29.193

वासुदेवादयो प्योहा यद्वा दिङ्मार्तयः क्रमात् ।
क्रमाच्च तोरणायान्ते पूर्वपश्चिमधामयोः

4.29.194

चतुरश्रायते धाम्नि पूर्वपश्चिमनासयोः ।
पूर्णश्च पुष्करश्छद्वावधिष्टाने पुनः क्रमात्

4.29.195

आग्नेये हस्तिवदनो याम्ये पशुपति स्तथा ।
वारुणे दक्षिणामूर्तिः कौभेरे विश्वरूपधृक्

4.29.196

शाङ्करे च चतुर्वक्त्र तस्मिन् भगवती तथा ।
अन्तर्मण्डलसम्बन्धिगोपुरोभयपार्श्वयोः

4.29.197

चन्द्रादित्यौ तथोर्व्यां तु इन्द्रदिक्षु विदिक्षु च ।
मन्मथश्च विधाता च वि श्वेशष्षण्मुख स्तथा

4.29.198

दुर्गाधनदरुद्राश्च क्षेत्रेश स्तदनन्तरम् ।
सोमेशानान्तरे चैव विष्वक्सेनः प्रतिष्ठितः

4.29.199

दक्षिणोर्वीतले सप्तमातरो वीरभद्रकः ।
विघ्नेशः पार्श्वयोस्तेषां ज्येष्ठां निरृतिभूतले

4.29.200

इन्ध्रादयस्स्वासु दिक्षु द्वितीयावरणे पुनः ।
भगवत्प्रमुखे तर्क्ष्योद्वितीयावरणे ततः

4.29.201

तदीयगोपुरद्वारपार्श्वयोः पुरषाच्युतौ ।
खलुरिकाधरित्रीषु वह्न्यादीनां दिशि क्रमात्

4.29.202

हयशीर्षः कर्षणश्च क्रोडाकृतिरनन्तरम् ।
प्रद्युम्नोऽनन्तनामानावनिरुद्धोनृकेसरी

4.29.203

चक्रं च मुसलं शङ्खं खङ्गं कौमोदकीं धनुः ।
वज्रं पद्ममिति प्रोक्तं प्रागादिषु तृतीयके

4.29.204

गोपुरोभयपार्श्वस्था द्वादशाश्शीतरश्मयः ।
यमाग्निमध्ये पसवः पितरो यमरक्षसोः

4.29.205

विश्वे देवाश्च मध्यस्था निरृतेर्वरुणस्य च ।
मरुतः पाशहस्तस्य श्वसनस्य च मध्यमाः

4.29.206

पाशिमारुतयोर्मध्ये मुनयस्सप्त च स्थिताः ।
कुबेरेशानयोर्मध्ये रुद्राश्चैकादवस्मृताः

4.29.207

क्षेत्रपालश्चतत्रैव प्राच्यादौ कुमुदादयः ।
मर्यादाह्वयसालस्य द्वारि पुर्णश्च पुष्करः

4.29.208

उर्वीतले समाराध्याः प्राङ्कणेक्लृप्तपीठके ।
स्थाप्याश्चै पोत्तमगणाः प्राच्यादिष्वष्टनु क्रमात्

4.29.209

तथोपेन्द्रादयस्थ्साप्या महत्यावरणे ततः ।
महीतले मध्यगणा विश्वे शाद्या दिशि क्रमात्

4.29.210

जयादयो गोपुराणां बहिर्भूमौ व्यवस्थिताः ।
बलिपीठेषु सर्वत्र प्रथमावरणादिषु

4.29.211

आद्याश्छ कामजाश्चैव ये भूताः प्राग्दिशि स्थिताः ।
प्रसन्नाः परितुष्टास्ते गृह्णन्तु बलिकाङ्क्षिणः

4.29.212

भूमौ प्योम्नि तथा वृक्षपर्वतादिषु विष्ठिताः ।
विनायक क्षेत्रपालाश्शूराश्च कुमुदादयः

4.29.213

सर्वैः पारिषदैश्चान्यैप्सार्धं गृह्णन्तु ते बलिम् ।
चण्डादयोथ द्वारस्थाश्चतुर्थ्यन्तैस्स्वानामभिः

4.29.214

प्रणपाद्यैश्च नत्यन्तैर्देवीपरिजनान्विताः ।
सवाहनास्ते संपूज्यास्स्वे स्वे देशे चतुर्मुख

4.29.215

बलिपीठेषु सर्वेषां बलिग्रहणकाङ्क्षिणाम् ।
तत्तन्नामसमुच्चार्य बलिर्देयो विचक्षणैः

4.29.216

धामेशानं विना तेन बलिदानेन योऽर्चति ।
हरन्ति राष्ट्रं राजानं धाम चात्मानमेव च

4.29.217

परिवारानसभ्यर्च्यतथैवाग्नेस्समिन्धरम् ।
भोगैरकृत्वा देवस्य पूजा स्यान्निष्प्रयोजना

4.29.218

तस्माद्यथोक्तमार्गेण पूजनं स्थानवृद्धिदम् ।
वर्धनं राजराष्ट्राणां प्रजानां वृद्धिकाङ्क्षिणाम्

4.29.219

दृश्यादृश्येन रूपेण स्थितानां बलिकाङ्क्षिणाम् ।
भूतानां भूतिकामेन देयोऽवश्यं बलिस्सदा

मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc