भाषा

ENहिગુ
ग्रंथ पाठ

पद्मसंहिता · अध्याय 4.28

4.28.1

हेब्रह्मन् यज्ञवपुषमन्त्रस्संप्रति कथ्यते ।
महाफलं प्रोच्यमानमिमं त्वमवधारय

4.28.2

आत्मने इति पर्यन्तमष्टाक्षरवदुद्धरेत् ।
कालाद्यनलमध्यं च विग्रहान्तं पदं ततः

4.28.3

चतुर्थ्यन्तो मूर्तिशीर्षं यज्ञादिपदमन्वतः ।
तद्विभक्त्यन्तमपरं ठठान्तं मनुरीरितः

4.28.4

बी मस्या नलं मुख्यमनुस्वारान्तमुद्धरेत् ।
अङ्गानि चानलादीनि षड्भारान्तान्यनुक्रमात्

4.28.5

सानुस्वाराणि योज्यानि क्रतुर्द्रष्टा विरुट्पुनः ।
छन्धश्च यज्ञमूर्त्यात्मा देवता भगवान् हरिः

4.28.6

लक्षत्रयं जपःकार्यो मन्त्रस्यास्य प्रसाधने ।
फलं प्रसूते धर्मादिपुरुषार्थ चतुष्टयम्

4.28.7

अन्नाधिपतिमन्त्रस्य प्रभापोरूपमेव च ।
कथ्यते संप्रति ब्रह्मन् न वाच्यं यस्य कस्य चित्

4.28.8

प्रणवादिर्मनुस्सर्वो विशेषस्तूच्यतेऽधुना ।
मुख्यमर्णं भद्रपाणिं द्विरुक्तं तदनन्तरम्

4.28.9

आदिदेवं धनपतिं मायामुद्धृत्य पश्चिमम् ।
विष्णुं विजयनामानमाद्यं वायुमनन्तरम्

4.28.10

देवदत्तं च दक्षादिमाद्यं दक्षं पुनस्तथा ।
आदिदेवं मनुष्येशं द्विरुक्तं मुख्यमन्वतः

4.28.11

मन्दरं पापहननमृतधा वैष्णवाक्षरम् ।
शङ्खमादिमचामन्वग्द्विः प्रोक्तं प्रेतनायकम्

4.28.12

प्रणवादिं ठठेत्यन्तमिति मन्त्रं चतुर्मुख ।
बीजमस्य प्रवक्ष्यामि द्वादशात्मानमुद्धरेत्

4.28.13

ज्वलनं वामनं बिन्दुमेतदेवाङ्गमुच्यते ।
आकारादिक्रमाद्दीर्घस्वरभक्तिर्विशेष कृत्

4.28.14

अस्त्रे विशेषो विष्णुश्च विसर्गश्च समिरितः ।
व्यासो द्रष्टास्य मन्त्रस्य छन्दस्तु बृहती तथा

4.28.15

देवतान्नपतिःप्रोक्तो मन्त्रस्यास्य चतुर्मुख ।
अन्यथा शृणु वक्ष्यामि बह्वन्नफलदं शुभम्

4.28.16

नत्यन्तं प्रपणवं पूर्वं वरुणं च त्रिविक्रम् ।
क्रोधरूपं प्रचण्डं च विष्णुं वरुणमन्वतः

4.28.17

माधवं पूर्णचन्द्रं च पीयूषात्मानमेव च ।
आदिं वैश्वानरं मुख्यं पवित्रं प्रणवादि च

4.28.18

एकनेत्रमकारं च श्वसनं माधवं ततः ।
मन्दरं प्रणवाद्यं च दीप्तिमन्त्रं चतुर्मुख

4.28.19

गोपनं जृम्भलं विष्णुं माहेन्द्रं गोपनं ततः ।
वायुवाद्यं ठठान्तं च वर्णोद्धार इतीरितः

4.28.20

बीजमङ्गानि पूर्वोक्तमृषिरस्य पराशरः ।
छन्दश्छ देवी गायत्रं देवतान्नपतिर्भवेत्

4.28.21

पूर्णेन्धुबिम्बमध्यस्थे सितपद्मे विकस्वरे ।
आसीनं धवलाकारं निलकुञ्छितमूर्धजम्

4.28.22

दुकूलक्षौमवसनं बालयोग्य विभूषणम् ।
कलधौतमयं प्रातं वायसान्नेन पूरितम्

4.28.23

बिभ्राणं दक्षिणे हस्ते दध्योदन मथेतरे ।
ध्यायेल्लक्षत्रयं धीमान् जपेत्तद्गतमानसः

4.28.24

अनेन जुहुयाच्चाग्नौ नियतं मन्त्रवित्तमः ।
बह्वन्नत्वमवाप्नोति सर्वमिष्टं लभेति च

4.28.25

शक्तीशमन्त्रमधुना कथयामि चतुर्मुख ।
आदितस्सप्तवर्णानामुद्धारः पूर्वमिरितः

4.28.26

क्रोधनं हृदयाह्लादं भुवनं भास्करं ततः ।
गुहालयमनुस्स्वारं रविमग्निं च मारुतम्

4.28.27

सयष्टिं पीतमाद्यर्णं कमलं क्रोधरूपिणम् ।
माधवीं पञ्चबिन्दुं च हननं चाप्रमेयकम्

4.28.28

वै राजमपप्रमेयं च पुरुषात्माच माधवः ।
नारायणं चतुर्थ्यन्तं ठठेति मनुरीरितः

4.28.29

अंशुमान् वीतिहोत्रश्छ वामनो बिन्दुमस्तकः ।
अङ्गं च बीजं पूर्वोक्तमृषिश्चापि पराशरः

4.28.30

छन्दश्च देवी गायत्रं शक्तीशो देवता तथा ।
जपेद्द्वादश लक्षं तु प्राप्नु यात्सर्वमिप्सितम्

4.28.31

कालनेमिमनुर्ब्रह्मन् कथ्यते सर्वसाधकः ।
आद्यर्णाः पूर्ववत्सप्तपीयूषात्मा त्रिविक्रमः

4.28.32

उग्रदेहः प्रचण्डश्च विष्णुः कलशमाधवौ ।
कमलं गोपनयुतं महेन्द्रं विष्णुमस्तकम्

4.28.33

विघ्नेशं देवदत्तं च दक्षं मायापरिष्कृतम् ।
पतङ्गमृतधामानं वैधरं च चतुर्गतिम्

4.28.34

आद्यं सुधारसं मायामत्रिर्गोपनहव्यवाट् ।
आद्यं सुमुख माद्यं च श्वसनं चाप्रमेयकम्

4.28.35

हुंफडन्तं ठठपरं मनुरेवं समुद्धृतः ।
बीजं वक्ष्ये दिनकरं भुवनं यष्टिमस्तकम्

4.28.36

क्रुद्धादि पूर्ववच्चाङ्गं नारदो मन्द्रदर्शनः ।
छन्धो विराट् देवता च कालनेमिश्छतुर्मुख

4.28.37

जपसङ्ख्याफलं चापि द्विषट्काक्षरवद्भवेत् ।
त्रैलोक्य मोहनं मन्त्रं कथयामि यथातथम्

4.28.38

उद्गीथं कमलं पीतं वामनं ध्रुवमस्तकम् ।
एकाक्षरो मनुरयं देवताङ्गमनुक्रमात्

4.28.39

षड्भिर्युतमचामाद्वैस्यानुस्वारं प्रजयोजयेत् ।
ऋषिर्वृद्धमनुश्छन्धो देवी गायत्रमिरितम्

4.28.40

त्रैलोक्यमोहनो देवो देवता जपतर्पणम् ।
होमश्च फलमप्यस्य निधिस्थानोपलम्भनम्

4.28.41

जपन् भूयस्तथा सर्वं दुर्लभं फलमश्नुते ।
षोडशार्णो मनुर्ब्रह्मन् त्रिलोकीमोहनात्मकः

4.28.42

उच्यते पूर्ववत्सप्तवर्णानाद्यान् समुद्धरेत् ।
त्रैलोक्य मोहनपदं चतुर्थ्यन्तं ततः परम्

4.28.43

तद्विभक्तिपदं विष्णुपदं स्वाहान्तमुद्धरेत् ।
मनुरेष स एवाङ्गं बीजं पूर्ववदीरितम्

4.28.44

मुनिः पुनस्त्यश्छन्दश्च देवता पूर्ववत्तथा ।
जपसङ्ख्या फलं चैव मूलमन्त्रवदिष्यते

4.28.45

मन्त्रो नवाक्षरश्चान्यस्त्रिलोकी मोहनात्मकः ।
त्रैलोक्य मोहनपदं चतुर्थ्यन्तं नमस्तथा

4.28.46

बीजमङ्गमयं चैव सर्वकामफलप्रदम् ।
निगमादिं चतुर्थ्यन्तं पदं त्रैलोक्य मोहनम्

4.28.47

अंशुमालिनमग्निं च पञ्चबिन्दुं सयष्टिकम् ।
शङ्खिनं पुलहं पञ्च बिन्दुयष्टिसमन्वितम्

4.28.48

तद्बीजं च द्विरभ्यस्य नतिश्च तदनन्तरम् ।
द्वादशार्णात्मकोमन्त्रस्त्रिलोकीमोहनात्मकः

4.28.49

प्रत्यक्षरं लक्षजपो द्वादशाक्षरवत्फलम् ।
कामकामेश्वरी नाम मन्त्रस्सर्वफलप्रदः

4.28.50

उद्गीथं पूर्वमुचार्य भास्करं ज्वलनं ततः ।
महामायां यष्टियुतामित्येकाक्षरमुद्धरेत्

4.28.51

एतदेवाङ्गमुदितं शौनको मुनिरुच्यते ।
छन्दश्च देवी गायत्रं देवता पुरुषोत्तमः

4.28.52

लक्षमेकं जपेन्मन्त्री सर्वान् कामानवाप्नुयात् ।
शङ्खकुन्देन्दुधवलं चतुर्चाहुं किरीटिनम्

4.28.53

गरुडारूढमारोप्य देवीं वामोरुविष्टरे ।
दाडिमिकुसुमप्रख्यां सर्वाकल्पपरिष्कृताम्

4.28.54

वाशाङ्कुशधरां लक्ष्मीं कामविह्वाललोचनाम् ।
कामकामेश्वरीमेव ध्यायेदेकाग्रमानसः

4.28.55

त्रैलोक्यमोहनं नाम मनुस्संप्रतिकथृते ।
ब्रह्मकोशमुदीर्यादौ नत्यन्तं तदनन्तरम्

4.28.56

पदानि सम्बुध्यान्तानि क्रमेणोद्धारयेत्सुधीः ।
पुरुषाद्युत्तमपदं रुपमप्रति मेति च

4.28.57

लक्ष्म्यादि च निवासान्तं सकलादिं जगत्पदम् ।
क्षोभणान्तं च सर्वादिपदं स्त्रीहृदयावधि

4.28.58

विदारणशिरश्चापि त्रयादि भुवनावधि ।
उन्मादकरपर्यन्तं सुरासुरपदं ततः

4.28.59

मनुजेति समुच्चार्य सुन्दरीजनमन्वतः ।
मनांसीति समुच्चार्य तापयेति चतुर्मुख

4.28.60

दीपयेति पदं पश्चाच्छोषयेति च मारय ।
स्तम्भय द्रावयाकर्षपर्यन्तं च क्रियापदम्

4.28.61

द्विर्वक्तव्यं ततो ब्रह्मन् परमं सुभगावधि ।
सम्बुध्यन्तं च सौभाग्यं करेति पदमन्वतः

4.28.62

सर्वकामप्रदं प्रोच्य पदं चामुकमित्यतः ।
हनेति द्विस्समुच्चार्य चक्रेण गदयेति च

4.28.63

खड्गेन सर्वबाणैश्च द्विर्भिन्धेति पठेत्ततः ।
पाशेनेति ततो बन्ध बन्धेति च पदद्वयम्

4.28.64

अङ्कुशेनेति संप्रोच्य ताडयेति द्विरभ्यसेत् ।
कुर्वन्ति द्विस्समुच्चार्य किं तिष्ठपदमन्वतः

4.28.65

तावद्यावत्पदे प्रोच्य समीहितपदं ततः ।
मे सिद्धिर्भवतूच्चार्य मे हुंफडिति शीर्षकम्

4.28.66

इत्येष मालामन्त्रस्य समुद्धारः प्रदर्शितः ।
निगमादिरनन्तं च और्वं चन्द्रार्ध शेखरम्

4.28.67

बीजमेवं समुद्धृत्य षडङ्गानि मनुः पुनः ।
षोढा विभज्य कर्तव्या ऋषिस्स्यान्नलकूबरः

4.28.68

छन्दोऽतिच्छन्दनामास्य देवता पुरुषोत्तमः ।
ध्यायेत्तमेव पुरुषं साधयेन्मन्त्रवित्तमः

4.28.69

अष्टबाहुं विशालाक्षं गरुडारूढमच्युतम् ।
अकलङ्कशशिप्रख्यं पूर्णेन्दुसदृशासनम्

4.28.70

सुभ्रूललाटमकुटं लावण्यामृतसागरम् ।
पीतकौशेयवसनं कपोलामृष्टकुण्डलम्

4.28.71

चक्रं च मुसलं बाणमङ्कुशं दक्षिणे भुजे ।
शङ्खं कौमोदकीं शार्ङ्गं पाशं वामेषु बिभ्रतम्

4.28.72

सर्वलक्षणसंपूर्णं सर्वाकल्पपरिष्कृतम् ।
दिव्य चन्दनलिप्ताङ्गं दिव्य स्रग्दामभूषितम्

4.28.73

देव्योऽष्टौ परितस्तस्य वालव्यजनपाणयः ।
वीजयन्ति सदा देवं कामविह्वललोचनाः

4.28.74

एताभ्यो बहिरष्टौ च दिक्षु चक्रादिधारिणः ।
पुरुषा देवदेवेशं प्रणिपत्य बहिस्थिताः

4.28.75

एवं सपरिवारं तं ध्यात्वा देवं समाहितः ।
सप्ताहं मन्त्रजापेन वश्या मनुजयोषितः

4.28.76

दिवसेषु च तावत्सु पुनर्यक्ष्यादियोषितः ।
तिष्ठन्ति संमुखास्सर्वा मन्मथाविष्टचेतसः

4.28.77

भजन्तिमन्त्रिणं मन्त्र वैभवान्मोहयन्ति च ।
जपी भूयास्तथा कामान् सर्वान्विन्दत्यसंशयः

4.28.78

किं पुनर्बहुनोक्तेन देवः प्रत्यक्षतामियात् ।
शान्तिः पुष्टिश्च धर्मश्च कामार्थौ मोक्ष एव च

4.28.79

पातालाकाशगमनमन्तर्धानमदृश्यताम् ।
निधानं फलसिद्धिं च खननं चौषधं तथा

4.28.80

पादुकां गुलिकां चापि रसायनमनुत्तमम् ।
अक्षसूत्रं दरं खड्गं तथा वेतालसाधनम्

4.28.81

फलानि दुर्लभान्येव सिध्यन्ति मनुवैभवात् ।
प्रत्येकं न प्रदर्शन्ते ग्रन्थविस्तरभीरुभिः

4.28.82

फलानां दिगियं प्रोक्ता दुर्लभानां चतुर्मुख ।
त्रैलोक्यमोहनाख्यस्य कामकामेश्वरस्य च

4.28.83

एकाक्षरमुखस्योक्तं फलं मन्त्रस्य पद्मज ।
मन्त्रं यज्ञवराहस्य वक्ष्यामि कमलासन

4.28.84

गृहीत्वा पूर्ववत्सप्त वर्णानाद्याननुक्रमात् ।
स्पर्सान्तं भास्करं चाद्यं कलशं प्रणपादि च

4.28.85

अनलं चादिदेवान्तं भास्करं मधुसूदनम् ।
श्वसनं वर्णमाद्यं च ओषधीशमचां मुखम्

4.28.86

वह्निं प्रचेतसं मुख्यं मारुतं प्रणवादि च ।
मुसलिं चन्द्रधवलमचामादिमनन्तरम्

4.28.87

श्रीवत्समादिमनलं महामायाग्निगोपनम् ।
दरं विष्णुं खड्गधरं विजयं श्रीधरं तथा

4.28.88

पियूषरूपमनलं माधवं वैधरं तथा ।
आदिं पवित्रधृष्टिं च प्रणवादिविभूषितम्

4.28.89

श्वसनं चाप्रमेयं च कलात्मा विष्णुमस्तकः ।
वरुणं दहनाक्रान्तं वैधरं माधवाक्षरम्

4.28.90

वरुणं चादिवर्णं च तथैपोग्रात्म संमितम् ।
अनलं माधवोपेतं मन्दरं प्रथमं मरुत्

4.28.91

मधुसूदनविक्रान्तं पवनं श्वेतरोचिषम् ।
वरुणं वीतिहोत्रं च सुभद्रं च गुहालयम्

4.28.92

वै राजमादिदेवान्तं विजयं मन्दरं तथा ।
भद्रपाणिं मृगेशं च वैधरं यष्टिमस्तकम्

4.28.93

उग्रात्मा पर्वतं चादिमृतधामपरिष्कृतम् ।
विघ्नेशं मारुतं चैकनेत्रं शुक्लशिरस्तथा

4.28.94

सुभद्रं चोर्ध्वलोकेशं नाभिपङ्कजसम्भव ।
माधवीमप्रमेयं च वनमाली झष स्तथा

4.28.95

माहेन्द्रं गोपनयुतं मारुतं प्रथमस्वरम् ।
भल्लायुधं हृषीकेशं सुभद्रं भुवनं वसुं

4.28.96

प्रचेतसं कलात्मान ममृतं सविसर्गकम् ।
पवित्रमादिं वै राजं मुख्यं पवनमादवौ

4.28.97

माकारम्.
सुभद्रमौर्वं दक्षं च मुख द्विपदमिरयेत् ।
शशाङ्कं द्विपदं वह्निभुवनं द्विपदं पठेत्

4.28.98

अचां द्वितीयं दृष्टिं च मायां कमलमादिशेत् ।
हव्यवाड्गोपनयुतं भास्करं मधुसूदनम्

4.28.99

प्रभञ्जनमकारं च सूक्ष्मदृग्भुवनं तथा ।
माधवीं रामसहितं पश्चिमाननमादिमत्

4.28.100

एकनेत्रमिकारं च विजयं कलशं तथा ।
मन्दरं देवदत्तं च वैधरं विष्णुमस्तकम्

4.28.101

द्विर्ब्रूयाद्गापना क्रान्तं पश्चिमाननमादिमत् ।
प्रभञ्जनमकारं चठठान्तो मनुरीरितः

4.28.102

सूक्ष्मदृग्भुवनं सर्गं बीजमेतत्समुद्धृतम् ।
मन्त्रं षोढा विभज्याङ्गकल्पनं काश्यपो मुनिः

4.28.103

छन्दो विराट् स्तोमघोणी देवता कमलासन ।
जपो लक्षद्विषट्कं स्यात्फलं सर्वं यथापुरम्

4.28.104

दरोदरनृसिंहस्य मनुस्संप्रति कथ्यते ।
ओंकारं पूर्वमुद्धृत्य कमलं शत्रुदाहकम्

4.28.105

गुहालयं सयष्टिं च गोपतिं भुवनं ध्रुवम् ।
पुल्ललोचनमाद्यं च हृदया ह्लादनं तथा

4.28.106

भद्रपाणिं स्वरादिं च ज्वलनं चादिमं तथा ।
ओषधीशमिकारं च यष्टिं भास्करगोपनौ

4.28.107

श्वसनं च नतिर्मन्त्रो नारसिंह उदीरितः ।
अयमेव मनुर्भीजं छन्दो गायत्रमिरितम्

4.28.108

देवता नृहरिर्द्रष्टा कपिलो ध्यानमुच्यते ।
दरोदरे सुखासीनं शतपत्रे विकस्वरे

4.28.109

तप्तजाम्भूनदनिभं चतुर्भाहुमुदायुधम् ।
पर्यङ्कबन्धसुभगं प्रसारितभुजद्वयम्

4.28.110

जानुनोरुपरिष्टाच्च सर्वाकल्पपरिष्कृतम् ।
व्यात्ताननं त्रिनयनं सखदम्भोलिभीषणम्

4.28.111

सिंहस्यार्धं नरस्यार्धं मेघगम्भूरगर्जितम् ।
एवं ध्यात्वा जपेदष्टलक्षं मन्त्री समाहितः

4.28.112

सावित्रे मण्डले देवमासीनं सर्वकामदम् ।
ध्यायेल्लभेत धर्मादि पुरुषार्थचतुष्टयम्

4.28.113

बहुनात्रकिमुक्तेन सर्वान् कामानवावप्नुयात् ।
चतुर्णां पुरुषादीनां मनुस्संप्रति कथ्यते

4.28.114

प्रणवादीन् सप्तवर्णान् समुद्धृत्य यथा पुरम् ।
स्वं स्वं नाम चतुर्थ्यन्तं मन्त्रानेषां प्रकल्पयेत्

4.28.115

तेषां बीजानि वक्ष्यामि वर्णोद्धारैः क्रमादहम् ।
तिग्माशुर्गोपनयुतस्सदण्डः पुरुषात्मनः

4.28.116

मार्ताण्डः पञ्चबिन्दुश्च सेन्दुस्सत्यस्स कथ्यते ।
वैराजं पापकं पञ्चबिन्दुं नासिक्य मेव च

4.28.117

त्रयूतनुं हृषीकेशं यष्टिं चानन्तनामनि ।
ऋषिश्छन्दो देवता च फलमष्टाक्षरे तथा

4.28.118

हयग्रीवस्य मन्त्रस्य वर्णोद्धारः प्रदर्श्यते ।
सप्तवर्णान् समुद्धृत्य विजयं बहुलं ततः

4.28.119

कालात्मा चैक दृग्वह्निं गोपतिं विष्णुमस्तकम् ।
श्वसनं प्रणवादिं च लक्ष्मीं बिन्दुमनन्तरम्

4.28.120

ज्वलनं गोपनयुतं शशाङ्कं माधवं तथा ।
स्वाहान्तमश्वशिरसः कथितष्षोडशाक्षरः

4.28.121

स एव बीजमङ्गानि क्रुद्धोल्कादि यथापुरम् ।
ऋषिर्बृहस्पतिर्ह्यस्य च्छन्दो गायत्रमुच्यते

4.28.122

देवो हयशिरा नाम देवता कमलासन ।
दशलक्षं जपेन्मन्त्रं महेत् ज्ञानमवाप्नुयात्

4.28.123

ओंकारपूर्वं नत्यन्तं चतुर्थी देवता क्रमात् ।
ठठान्तो मन्त्ररोजोयं दशाक्षरविदर्भितः

4.28.124

बीजानि पूर्ववत्सर्वं कर्तव्यं कमलासन ।
अतोऽन्यं वाजिशिरसो मालामन्द्रं ब्रवीमिते

4.28.125

अर्णसप्तकमुद्धृत्य पदं हयशिरास्तथा ।
चतुर्थ्यन्तं सर्वविद्यालयेति पदमन्वतः

4.28.126

सकला मरशब्दादि गुरवे पदमुद्धरेत् ।
समस्तप्रतिशब्दादि हन्तानन्तेत्यनन्तरम्

4.28.127

वीर्यं तेजः पदं पश्चात् ज्ञानैश्वर्यपदं ततः ।
शक्तिश्चैव बलं चैव सर्वाद्यावासमन्वतः

4.28.128

तद्विभक्तिं ततः पश्चात्परमात्मपदं ततः ।
चतुर्थ्यन्तं वासुदेवशब्दस्ता दृग्विभक्तिकः

4.28.129

ज्ञानज्ञेयपदं तद्वद्व्यक्ताव्यक्तपराय च ।
सर्वदुष्टासुरं प्रोच्यदुरितं व्रजिनं तथा

4.28.130

प्रमाथि तद्विभक्त्यन्तं तत्सद्रुचिरपूर्वकम् ।
पदं च तुरगायेति ज्ञानमुच्चार्य मूर्तये

4.28.131

इति चोच्चार्य तस्यानु सहस्रं कोटिमन्वतः ।
पदं विद्यादिनिकं मुञ्च गच्छ पदे ततः

4.28.132

स्फोटिर्विजृम्भिर्ल्लोडन्तं द्विर्वक्तव्यं च तिज् पदम् ।
सर्वादितेजोमध्यं च निध्यन्तं च पदत्रयम्

4.28.133

चतुर्थ्यन्तं समुच्चार्य निर्धूत पदमन्वतः ।
विकीर्णपदमुचाचार्य प्राक्प्रदीप्तपदं ततः

4.28.134

केसरं च सटाशब्दं कलापपदमन्वतः ।
प्रदीप्तसूर्यमंशुं च प्रतीकाशपदं ततः

4.28.135

भास्कराकारशब्दं च ऊष्ममूर्ध्वजमन्वतः ।
शङ्खमाभमताङ्घ्रिं ? च प्रसरव्रातदीप्तिमान्

4.28.136

द्रवत्कनकमुच्चार्य पिङ्गलायतमाननम् ।
महास्वरसमाकारं विशुद्धदशनं ततः

4.28.137

पङ्त्किं विनिर्गतां चोक्त्वा विराजितपदं तथा ।
लोकत्रयद्रवद्दीप्तपदं चामिकरादिमत्

4.28.138

पिङ्गलायतमुच्छार्य विष्फारितपदं पठेत् ।
लोचनादि महाशब्दं विभीषण पदान्वितम्

4.28.139

नासिकापुटमद्रीन्द्र शिखराकारसंयुतम् ।
रुचिरं पदमुच्चार्य विकुञ्छितपदं तथा

4.28.140

महाश्रवणसंयुक्तं श्रेयसेति पठेत्पदम् ।
तच्छब्दं च चतुर्थ्यन्तं दुष्टसत्वाननन्तरम्

4.28.141

बिन्दिश्छिन्दि स्तथा मारि र्मर्दिस्त्रासिश्च दातवः ।
लोडन्ता द्विस्समुच्चार्य स्यौं वौ मितिपदद्वयम्

4.28.142

ध्वंसि हन्ति तथाध्मापि हन्ति ग्रहसि ताडय ।
पचि र्मथिश्च ते एते चोडन्ता द्विः कृता स्तथा

4.28.143

परविद्यापदं प्रोच्यच्छिन्धिर्ण्यन्तः प्रयुज्यताम् ।
अमित्युक्त्वा तथा नारी ? लोण्मध्यमशिराः स्मृतः

4.28.144

एह्येहि भगवन् शब्दं वज्रशब्दमनन्तरम् ।
अङ्कुशेनेति तदनुप्रोच्य चाकर्षयेति च

4.28.145

हृदया द्यादिरन्वक्स्याद्भक्ति पूर्वजनेति च ।
जिह्वादिनिलयं प्रोच्य बडबानलमन्वतः

4.28.146

सम्बध्यन्तं विश्वमूर्तिं सौमनस्यमनन्तरम् ।
भगवन्नितिवक्तव्य मोंकारं हृदयं ततः

4.28.147

सदा यद्ब्रह्म सदसदात्मेति च पदं पुनः ।
चिद्घनादि च तुर्थ्यन्तं भगवत्पदमिरयेत्

4.28.148

ठठान्तमुद्धरेदेवं हयग्रीवं चतुर्मुख ।
पूर्वोक्तमेवास्य बीजं पूर्ववच्छाङ्गपद्धतिः

4.28.149

व्यासो मुनिर्हयग्रीवो देवता च्छन्द उत्कृतिः ।
ध्यायन् हयशिरोवक्त्रातुद्वान्तं फेनमुल्बणम्

4.28.150

पिबन्निव सुधीर्मन्त्र राजं मन्त्रविदुच्चरेत् ।
अयुतं नियुतं वापि जपेन्मन्त्रस्य सिद्धये

4.28.151

विद्यापारमवाप्नोति वागीशत्वं च पद्मज ।
व्याख्यातृत्वं च कर्तृत्वं शास्त्राणां बहुवर्त्मनाम्

4.28.152

सकृद्ग्रहणमात्रेण विद्यास्सर्वाः प्रतिष्ठिताः ।
अविस्मृतिश्च तासु स्यात्पुरुषार्थचतुष्टये

4.28.153

नासाध्यं किञ्सिदस्यास्ति दीर्घमायुश्च विन्दति ।
षण्णां मुकुन्दमुख्यानां मनुस्संप्रति कथ्यते

4.28.154

सप्तार्णान् पुर्वमुच्चार्य नामधेयानि षट्तथा ।
चतुर्थ्यन्तानि योज्यानि शिष्टार्णानेवमुद्धरेत्

4.28.155

जीमूतमादिं नासिक्ये वरुणं प्रणवादि च ।
सबिन्दुं भास्करं रेफे पञ्चबिन्दुं सयष्टिकम्

4.28.156

ठठान्तं च मुकुन्धस्य मुनुरेवं समुद्धृतः ।
भास्करं पावकं पञ्च बिन्दुर्यष्टिसमन्वितः

4.28.157

अक्षरं च द्विरभ्यस्येन्मार्ताण्डं च गुहान्वयम् ।
सानुस्वारं द्विरभ्यस्येद्विष्णुशब्दमनन्तरम्

4.28.158

चतुर्थ्यन्तं ठठान्तं च बभ्रोर्मनुरुदीरितः ।
पर्वतं भुवनं भानुमूर्ध्वलोकेशनासिके

4.28.159

भास्करं पावकं पञ्च बिन्दुं नासिक्यमुद्धरेत् ।
फट्कारं च हुतान्तं च मनुश्चैवं वृषाकपेः

4.28.160

खुभदं पावकं चैव पञ्चबि न्दुसदर्थकम् ।
अक्षरं तद्द्विरुच्चार्य ठठान्तो मन्त्र ईरितः

4.28.161

शौरेस्तथापरं वक्ष्ये दशार्हं मनुमब्जज ।
सवितारं बृहद्भानुं सयष्टिं पञ्चबिन्दुकम्

4.28.162

हुतान्तश्च मनुः प्रोक्तो
वैकुण्ठमनुरुच्यते ।
परमात्मा चतुर्थ्यन्तं वरुणं प्रथमं स्वरम्

4.28.163

नासिक्यं कुम्भमाकारमर्धेन्दुं भास्करं ततः ।
हृषीकेशमनुस्वारं नारायणपदं ततः

4.28.164

चतुर्थ्यन्तं ठठान्तं च वैकुण्ठमनुरीरितः ।
ऋषिश्छन्दो देवता च बीजमङ्गानि षट्तथा

4.28.165

अष्टाक्षरवदेतेषां फलानि च चतुर्मुख ।
अथापराजितं मन्त्रं वक्ष्यामि कमलासन

4.28.166

निगमादीन् सप्तवर्णान् गृहीत्वादौ यथापुरम् ।
चतुर्थ्य न्तान न्तपूर्वमन्तश्शब्दं समुद्धरेत्

4.28.167

सहस्रादि च शीर्षान्तं तद्विभक्तिपदं पुनः ।
तत्सुगन्धं तथाक्षीरमुदार्णव पदान्वितम्

4.28.168

शायिनेति पदं प्रोच्य शेषभोजपदं तथा ।
पर्यङ्केति चतुर्थ्यन्तं तद्विभक्तिश्च वाहनम्

4.28.169

गरुडादि पदं पश्चाद्वासुदेवपदं ततः ।
तद्विभक्तिश्च सत्यन्तं वासःपीतादि तादृशम्

4.28.170

संपूर्वं कर्षणपदं सम्बुध्यन्तमनन्तरम् ।
प्रद्युम्नाद्यनिरुद्धं च तद्विभक्तिपदं स्मृतम्

4.28.171

हयादिशीर्षं सम्बुद्धौ वराहं तद्विदिष्यते ।
नृसिंह वामनपदे त्रिविक्रममनन्तरम्

4.28.172

रामशब्दं त्रिरुच्चार्य कृष्णेति पदमुद्दरेत् ।
वरप्रदेति नत्यन्तमस्तीत्यन्वक्क्रियापदम्

4.28.173

तेच शब्दं चतुर्थ्यन्त मसुरेति पदं ततः ।
दैत्ययक्षपदे चोक्त्वा राक्षसेति पदं ततः

4.28.174

भूतं पिशाचं सिद्धं च योगिनी ढाकिनीति च ।
ब्रह्मादि राक्षसपदं विनायक पदं ततः

4.28.175

पूतना रेवतीस्कन्दपुरोगमसमुद्धृतिः ।
गृहीदीति च नक्षत्र गृहीनित्यप्यनुक्रमात्

4.28.176

अन्यांश्चेति महत्पुर्वं गृहानिति पठेत्पदम् ।
हनिं दहिं पचिं चैव मथिह्यन्त ? शबन्वितम्

4.28.177

अनिभिर्द्विः ? पतिं चैव पतिभ्यन्तं ? समन्वितम् ।
आख्यातं द्विस्समुच्चार्य गृहाणेति तथैव च

4.28.178

आविश ध्वं सिरपरास्त्रसिद्रुह्यन्तलोट्पराः ।
चत्वारो धातवो मन्त्रे द्विर्वक्तव्याश्चतुर्मुख

4.28.179

चक्रं गदां च वज्रं च तृतीया न्तमुदीरयेत् ।
भस्मीकुर्वित्यनुक्रम्य बाहुं सम्बद्दिशीर्षकम्

4.28.180

सहस्रारपदं सर्वं मुख्य प्रहरणायुधम् ।
जयेति विजयेति द्वे पदे द्विः प्रोच्य पद्मज

4.28.181

अनन्तमपरा पूर्वजितं प्रतिहतं तथा ।
नङ्पार्वं नेतृपर्यन्तं सहस्रादिपदं ततः

4.28.182

प्रज्वलिर्ज्वलिरित्येते लोडन्तेद्विस्समु द्धरेत् ।
विश्वरूपं समुद्धृत्य मधुसूदनमन्वतः

4.28.183

महापुरुषवैकुण्ठनारायणपदं ततः ।
पद्मादिनाभिपर्यन्तं हृषीकेशपदं ततः

4.28.184

सर्वमुक्त्वा तथा भूतं वशीकरणमुद्धरेत् ।
शङ्खचक्रगदामुक्त्वा धरेति तदनन्तरम्

4.28.185

उद्धृत्य सर्वभूतं च नमस्कृतपदं तथा ।
सर्वमन्वङ्नागपदं प्रमर्दनपदान्वितम्

4.28.186

सर्वं प्रपठ्यानुपूर्वादसुरोत्साधनं ततः ।
सर्वदेवमनुक्रम्य महाश्वरमुदीरयेत्

4.28.187

सर्वं गृहं समुच्चार्य निवारणपदं तथा ।
यन्त्रमन्यं च सर्वादि प्रभञ्जनपदं ततः

4.28.188

सर्वदुःखप्रशमनं सर्वज्वर विनाशनम् ।
सर्वबन्धमनुक्रम्य विमोक्षणपदं तथा

4.28.189

दुस्स्वप्नमध्यं सर्वादिविनाशनमनुद्धरेत् ।
नमस्कृतान्तं सर्वादिभूतमध्यं पदत्रयम्

4.28.190

पदद्वयं पूर्ववत्स्यादपकर्षणमाचरेत् ।
जनार्दनेति सम्बुद्धौ नमश्चास्त्विति ते पदम्

4.28.191

अप्रमेयमनुस्वारसहितं बीजमिरितम् ।
मन्त्रं षोढा विभज्याङ्गमृषिः पद्युन्म उच्यते

4.28.192

छन्धोऽतिच्छन्द एतस्य विश्वरूपश्च देवता ।
साधयेन्मन्त्रविन्मन्त्रमष्टाक्षरसमादिना

4.28.193

अपराजितमन्त्रेण नासाध्यं विद्यते फलम् ।
वश्यमुच्छाटनं चैव तथामारणकर्मच

4.28.194

कृत्यादि भूतदोषाणां निवारणमनुत्तमम् ।
फलानि लिप्सुस्सर्वाणि मन्त्रमेनं समाश्रयेत्

मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc