पद्मसंहिता · अध्याय 4.27
मत्स्यादिदशमूर्तीनामवतारक्रमान्मसुः ।
उच्यते पूर्ववच्चक्रमक्षराणां समालिखेत्
साधारणान् गृहीत्वार्णान् यथापूर्वं चतुर्मुख ।
असाधारणरूपं तत्संप्रत्युध्रियते क्रमात्
स्पर्शान्तमाद्यं विजयं चन्द्रमन्वक्चतुर्गतिम् ।
आदिमग्निं हृषीकेशं पवित्रं मधुसूदनम्
श्वसनं चाप्रमेयं च द्वादशार्णास्समीरिताः ।
माधवं पुरुषात्मानं हृषीकेशं च बिन्दुमत्
बीजमङ्गेषु यद्रूपमसाधारणमुच्यते ।
सर्वान्तमादिं सर्वत्र षट्सु चाद्यश्च बिन्दुमान्
आदिदेवं महामायां हृषीकेशं च गोपनम् ।
विष्णुमौर्वीं षडङ्गेषु मध्यमार्णं क्रमोदितम्
उद्धृत्यैवं प्रयोक्तव्यमृषिरस्य मनुस्स्मृतः ।
छन्दश्च देवी गायत्रं मत्स्यरूपः परः पूमान्
देवता रूपरहितः पञ्चार्णो वा मनुस्स्मृतः ।
भीजं तदङ्गानि तथा साधनं च यथापुरम्
मूर्तेरनन्तरायास्तु मन्वर्णोद्धारणं शृणु ।
असाधारणरूपस्य स्पर्शनादि गुहालयम्
अनलं मन्दरं विष्णुं पूर्ववद्द्वादशाक्षरम् ।
बीजोद्धारः क्रोडरूपी भूधरश्च गुहालयः
सानुस्वारो बीजमेतत्षडङ्गानि चतुर्मुख ।
ऋषिरेतस्य दुर्वासा श्छन्दः पूर्ववदिष्यते
देवता कमठाकारो देवस्संप्रत्यनन्तरम् ।
वराहवपुषो मन्त्रं वर्णचक्रात्समुद्धरेत्
वरुणो विष्णुरनलश्चादिदेवश्च भास्करः ।
गोपनः पुरुषात्मा च विष्णुरेते समुद्धृताः
अस्याऽसाधारणा वर्णाःप्रोक्तास्साधारणाः पुरा ।
एकादशाक्षरात्मायं बीजं संप्रति कथ्यते
सूक्ष्मदृग्बिन्दुपर्यन्तष्षट्चाचामङ्गपद्धतिः ।
बीजमेव मुनिश्शङ्खश्छन्तो गायत्रमिरितम्
नारायणो देवतास्य नत्यन्तश्च षडक्षरः ।
यद्वा पूर्ववदेवाङ्गं बीजं च कमलासन
त्रयोदशार्णानुद्धृत्य पूर्वोक्तान् व्याहृतित्रयम् ।
उद्धरेत्पतिशब्दं च चतुर्थ्यन्तमनन्तरम्
भूमेः पतित्वमाशास्यं मे देहि तदनन्तरम् ।
दाहयेति ठठान्तस्स्याद्द्वात्रिंशद्वर्णसन्ततिः
छन्दोऽनुष्टुबृषिः पूर्वो देवता सा चतुर्मुख ।
बीजमुक्तं तदङ्गानि भङ्त्क्वा मन्त्रं प्रकल्पयेत्
वर्णान् करनसङ्काशान् न्यसे दङ्गेषु पूर्ववत् ।
ध्यात्वा षोड शलक्षाणि जपेन्मन्त्रमतन्ध्रितः
उर्वरायाः पतिस्सद्यो भवेन्मन्त्रप्रभावतः ।
पातालगमनादीनि फलान्यस्यापि पद्मज
चतुष्षष्ट्यर्णसङ्घातो मालामन्त्रः प्रदर्श्यते ।
त्रयोदशार्णाः प्रथममेकदंष्ट्रपदं ततः
चतुर्थ्यन्तं तथा मेघपदं द्विः प्रोच्य च क्रमात् ।
उल्कावर्ण पदद्वन्द्वं चतुर्थ्यन्तं ततः परम्
छन्दोम यप्रत्ययान्तं सम्बध्यन्तमुदीरयेत् ।
द्विर्लोडन्तो दहिर्वाच्यो हन्तिश्च मथिरेव च
पचिं चमहदाद्यन्तं भौमेति पदयोर्युगम् ।
हुं द्विरुच्चार्यारिशिरस्स्वं तथैव खनिं पुनः
लोडन्तमाय मग्नेयीमिति मन्द्रपदस्थितिः ।
बीजमुक्तं तथाङ्गानि भङ्त्क्वामन्त्रं प्रयोजयेत्
जामदग्न्य ऋषिःप्रोक्तश्छन्दोऽतिच्छ्द ईरितः ।
देवता देवदेवेशः स्थूलघोणवपुस्स्मृतः
लक्षं जपेदिमं मन्त्रं भूमिप्सुश्च चतुर्मुख ।
मृत्स्नया जुहुयात्तावद्द्यावदाप्नोति मेदिनीम्
अष्टाक्षरमनोस्तुल्यफलोयं मनुरीरितः ।
उल्कावर्णं चतुर्थ्यन्तमक्षरस्यावसानतः
चतुष्षष्टि प्रभेदस्य मन्त्रस्य नृहरेर्मया ।
न विस्तारः कथयितुं शक्यते बोद्धुमेव वा
तस्मात्त्रिचतुरो भेदाः कथ्यन्ते कमलासन ।
वर्णचक्रातथोद्धारस्सं प्रत्येकाक्षरात्मनः
मन्द्रस्य कथ्यते ब्रह्मन् ब्रह्मकोशपुरस्कृतः ।
नृसिंहः कर्षणोबिन्दुरित्येकाक्षरमिरितम्
एतदेव भवे दङ्गं छन्दो गायत्रमुच्यते ।
देवो मुनिश्च दुर्वासा नृसिंहो देवता मता
वर्णश्च पाटलो लक्षत्रयं जप्यं विपश्छिता ।
जिगीषुणा चतुर्वर्गफलमन्यच्च काङ्क्षितम्
त्रियक्षरं च नत्यन्तमेत देवाङ्गमप्यतः ।
अष्टाक्षरात्मनोऽस्यैव मन्त्रोस्योद्धारणं क्रमात्
प्रणवो नतिरन्वक्च विघ्नेशो मधुसूदनः ।
अनलश्चादिरिन्दुश्च रामोऽनुस्वार एव च
गोपतिर्गोपनश्शङ्खो विष्णुरष्टाक्षर स्स्मृतः ।
बीजमुक्तं तथाङ्गानि मुनिर्व्यासोऽन्यदीरितम्
जपसङ्ख्या फलान्यस्य तथैव कमलासन ।
सप्ताक्षरं च नत्यन्तमन्यत्प्रणववर्जितम्
बीजादि पूर्ववत्सर्वं पङ्चाङ्गो जप एव च ।
साधारणास्सप्तवर्णाः पञ्चाऽसाधारणा स्तथा
पूर्वोक्तद्वादशार्णात्मा शङ्खोदरसमाह्वयः ।
यथापूर्वं षडङ्गानि बीजं चैव यथापुरम्
प्रत्यक्षरं लक्षजपो होमस्तर्पणमेव च ।
पुरुषार्थस्य सर्वस्य साधकस्साध्वनुष्ठितः
मन्त्रोनृसिंहवपुषो द्वात्रिंशार्णात्मकोऽपरः ।
वक्ष्यते तस्य वर्णानामुद्धारस्सं प्रदर्श्यते
छन्दसामादिरुदयो गदी वह्निरचां मुखम् ।
यष्टिःकुम्भो महामाया ज्वलनो वैष्णव स्तथा
स्पर्शान्तं द्विरचामादि द्वादशात्माच गोपनः ।
पर्जन्तो बिन्दुरुग्रात्मा प्रचण्डश्चोदय स्तथा
मन्दरो जन्महन्ता च पीयूषात्मा सवैष्णवः ।
महेन्द्रो वाङ्मुखं पद्म पाणिर्विजयसंज्ञितः
अर्थचन्द्राकृतिश्शुक्लः प्रणवादिर्विभावसुः ।
वरुणश्चाप्रमेयश्च वै राजो ब्रह्मसाधनः
स्पर्शान्तमुदय स्स्पर्शद्वितीयं विष्णुदैवतम् ।
माधवं भद्रपाणिं च पद्मनाभः कलात्मकः
त्रिविक्रमो ध्रुवः पुषा स्वरादिर्मन्दरस्स्मृतः ।
भल्लायुधो महामाया क्रोधरूपी च वैष्णवः
वनमाली स्वरादिश्च माधवस्सूक्ष्मलोचनः ।
अप्रमेयो वैधरश्च ज्वलनोङ्कारसंयुतः
द्विर्मन्दरः पद्मनाभो विजयश्च चतुर्गतिः ।
उदयो मन्दरशिराः पदमेतदनन्तरम्
वर्णानि सुसमीकृत्य नमाम्यहमुदीरयेत् ।
विराडृषिरनुष्टुप्च छन्दो नरहरिस्स्मृतः
देवता बीजमस्योक्तं मन्त्रं भङ्त्क्वाङ्गकल्पना ।
न्यासश्छाङ्गेषु पूर्वोक्तक्रमेण कमलासन
ध्यायेत्स्फटिकवर्णाभं जपसङ्ख्या च पूर्ववत् ।
मन्त्रोऽयं नारसिंहस्य सकलापन्निवारणः
समस्तसम्पज्जननो वाच्योनैव च कस्य चित् ।
उच्यते नरसिंहस्य मालामन्त्रः श्चतुर्मुख
अधिकं सप्तदशभिर्वर्णैरर्णशत त्रयम् ।
प्रथमं छन्द सामादिर्नतिश्च तदनन्तरम्
चतुर्थ्यन्तं पदं वाच्यं नरसिंहेति मन्त्रिणा ।
तदेव च महत्पूर्वं देवदानवपूर्वकम्
शोणितेति पदं पश्चाद्दिग्धपूर्वं सखोत्तरम् ।
पदमेकं चतुर्थ्यन्तं नमोऽन्तं समुदीरयेत्
पच ग्रनेति च पदं शुषिर्ण्यन्त स्समुद्धृतः ।
ग्रन्थिर्णिजन्तो हन्तिश्च सन्ति ? र्लोण्मध्यमोदयः
हुं फट्तदन्तरं प्रोच्य तथा कलिपदं ततः ।
चरेति च लुपेत्युक्त्वाक्षरेति तदनन्तरम्
हां होंखर चिरं चैव दूं ह्यों ज्वलनमेव च ।
ज्वलिश्शुचिर्द्रविस्स्फोटिर्ण्यन्तो लोण्मध्यमोदयः
भिदिश्छिदिः तं विकरो ? लोण्मध्यमशिरास्ततः ।
हिसिमृङ्भ्यांणिजन्ताभ्यां लोण्मध्यममुदीरयेत्
आंपूर्वो नयतिर्लोटि हुंफडन्तमुदीरितम् ।
द्रवद्रवेति च ततो विपूर्वं तद्वयं पुनः
पातालान्तं सर्वशब्दं वासिनामिति पश्चिमम् ।
हृदयादीनि कथये त्कृषिर्ण्यन्तश्च मध्यमे
अज् पूर्वोविद्विषिर्ण्वन्तो लोटि सम्बुद्धिशीर्षकम् ।
भगवत्पदमुच्चार्य नारायणपदं ततः
वासुदेवहृषीकेशपदद्वितयमिरयेत् ।
दानवादिर्लडन्तश्च जहि राक्षसपूर्वकम्
अन्तकेति पदं पश्चादुक्त्वा कामोदकी धनुः ।
धरेति गरुडादिं च ध्वजान्तं पदमब्जज
त्रिपूर्वधामन्नित्येतन्नतिरस्त्विति ते पदम् ।
त्वां प्रपन्नोऽस्मिति पठेदेवमुच्चार्य ते मनुः
बीजमुक्तं षडङ्गानि प्रोच्यते पदशोऽधुना ।
प्रणवादिश्च सत्यन्तश्चतुर्थ्यन्तश्च विग्रहः
पुरुषादिमुखादिश्च नरसिंहपदं तथा ।
वज्रशब्दं द्विरुच्चार्य क्रमाच्च नखविग्रहौ
वज्रेति नखदंष्ट्रेति चोक्त्वायुधपदं ततः ।
महानरपदं सिंहपर्यन्तं षष्ठमिरितम्
अनिरुद्धो मुनिश्छन्दस्त्वतिपूर्वं च देवता ।
नृसिंहारूपी भगवानिति सर्वमुदीरयन्
बिलद्वारि जपेन्मन्म्रीषोडश प्रयतस्थ्सितः ।
लक्षाणि सद्यः पातालवासिनः कुरुते वशे
लोकान्तरगतानां च वशीकारक्षमो भवेत् ।
एतावन्तिफलान्यस्येत्यभिधातुं न शक्यते
अतोऽन्यं नारसिंहस्य मन्त्रं सर्वार्थ साधकम् ।
चतुश्शताक्षरं तस्य समुद्धारः प्रदर्श्यते
आदावुद्दीथमुद्धृत्य नत्यन्तं ब्रह्मसाधनम् ।
भल्लायुधं गदध्वंसं वारुणं विजयं तथा
माधवं भद्रहस्तं च पावकं श्वेतदीधितम् ।
विक्रमं सध्रुवं ब्रह्मन् भास्करं मधुविद्विषम्
श्वसनं वुरुणं जन्महन्तारमृतधारकम् ।
द्विरदं सर्व दाहं स्याद्वैधरं तदनन्तरम्
अचामादिं सध्रुवं च क्रोधरूपमधोक्षजम् ।
सपर्वतं हुतवह माव्रतं मधुविद्विषम्
मारुतं माधवं ब्रह्मन् धनदं मधुसूदनम् ।
दरं सचन्ध्रं पुल्लं च माधवं नगवारिणम् ?
सविक्रमञ्च कमलं पर्वतं पाशपाणिनम् ।
सबन्धुं कमलं पञ्च बिन्दुमस्तक भूषितम्
सुमुखं चाग्नि शिरसं करालं मृगवल्लभम् ।
क्षपाकरं तथायान्तं यामनीनाथमब्जज
हृदयाह्लोद माकारं चतुर्गतिमनन्तरम् ।
नृहरिं भुवनं सूक्ष्मलोचनं रामर्शीकम्
विजयं पाटलं भानुं सूदनं सुमुखं तथा ।
यान्तं तच्छिरसं पश्चा द्वारुणं गजवाहनम्
वासुदेवं तथाक्रोध रूपमाकारमारुतौ ।
वैधरं सूदनं भद्र हस्तं वारुणमैन्दवम्
वत्सोतदेहं सुमुखं विक्रमं विजयाभिधम् ।
दृष्टिविक्रम पाशान्तसुभागार्पितविघ्नराट्
तद्द्वितीयमचामादिद्वितयं श्वसनं तथा ।
माधवं सद्ध्रुवं भानुमान्तं माधवभास्करौ
रामं भल्लायुधं पञ्च अन्तकं स्यात्सुधारसम् ।
भद्रहस्तमचामादि भान्त माधरासूदनौ
भद्रं वसुं श्वेतरुचिं विक्रमं सद्ध्रुवं तथा ।
मार्ताण्डं माधवं भानुं गोपनं नान्तमाधरौ
यान्तं सश्रीधरं चोग्रं वसुं वारुणगोधनौ ।
कुशेशयं माधवं च सुमुखं कौस्तुभं तथा
विघ्नेशं गोपनं ब्रह्मन् रोहिताश्वं सगोपनम् ।
वसनं सुमुखं पश्चाद्वारुणं मधुविद्विषम्
दाक्षायणीशमुदयं वैधरं माधवं ततः ।
अमृतं वैधरमचां द्वितीयं भान्तमज्जज
ओतदेहं तथा दृष्टिं यान्तमाकारमक्षरम् ।
वक्रतुण्डं गन्धवहं विष्टरं विजयं तथा
अमृतं विक्रमपरं श्रीवत्सं वरुणार्पितम् ।
यान्तं गुहालयं नान्तं षान्तं च मधुसूदनम्
सद्ध्रुवं द्रुहिणं क्रोधं पावकं सुमुखं पुनः ।
सपश्चिमं पद्मनाभं वैधरं च चतुर्मुख
पवमानं सभुवनं भान्तं कुङ्जरगोपनौ ।
भद्रहस्तं सरामं च यान्तं स्याच्छ्रीधरं तथा
भद्रं च धनदं पापहननं जयमन्तरौ ।
विघ्नेशं सूदनं भल्लं भास्करं स्याच्च तुर्गतिम्
शुभदं वामनपरमुग्रं वसुशिर स्तथा ।
प्रद्योतनं तथा यान्तमृतधा मोग्रवामनौ
कमलं माधवपरं सनसीरुहसम्भव ।
वान्तं च शुभदं दण्डं खर्वं घड्गधरं पुनः
सरोजमृतधामानं कतृतीयं च वैधरम् ।
अचां द्वितीयं धनदं बहुलं सौरमाधरौ
नासिक्यं च समुच्चार्य हुंफट् शीर्षाणि योजयेत् ।
त्रयोदशानि बीजानि हुंफडन्तानि योजयेत्
बीजाक्षरेषु प्रत्येकं हुंफट्कारमुदीरयेत् ।
द्वादशाङ्गविदां प्रोच्यं भास्करं सगुहालयम्
नासिक्यं नृहरिं चौर्वं चन्द्रार्धं यान्तमौषधम् ।
सद्ध्रुवं मारुतं चोर्वीं सदण्डं च क्षपाकरम्
समरं सद्ध्रुवं भानुमौर्वं नासिक्यमब्जज ।
प्रद्योतनं सभुवनमर्धेन्दुं सान्तमेव च
साग्निं सवामनं सार्धं चन्द्रं चैव सरोरुहम् ।
वासवं वामनवरं सद्ध्रुवं कतृतीयकम्
महेन्द्रमौर्वं नासिक्यं माधवं द्विरदाननम् ।
सुभद्रं श्रीधरं भद्रहस्तं गारुडमेव च
चित्रभानुं शशधरं पीयूषं वसुशीर्षकम् ।
मारुतं भद्रहस्तं च विजयं वसुसूदनौ
प्रचण्डं बन्धुसहितं व्रकतुण्डं गुहालयम् ।
सुमुखार्णंच सप्तार्चिर्दरं चन्द्रमचां मुखम्
अपामधिपतिं चाग्निं जृम्भलं द्विरदाननम् ।
धनदं वरुणं मायां भान्तं स्याद्ब्रह्मसाधनम्
पन्नगं सुमुखं पापहननं यान्तमब्जज ।
अमृतं विक्रमयुतं वैधरं धूलिकेतनम्
गोपनं सद्ध्रुवं चन्द्रं सार्धेन्दुं भास्करं वसुम् ।
नपश्चिमं हुतवहं मतिमद्वासनं ततः
पाटलं सर्वरोधं स्यात्कुञ्जरं मन्दरद्वयम् ।
लक्ष्मीं सविजयं चाग्निं हृषीकेशं चतुर्मुख
भद्रहस्तं मानुषेखं सूधनं हरिमन्दिरम् ।
शङ्खं कलानिधिमपां नाथं वसुमधुद्विषौ
पश्चिमं विजयं चाग्निं सुभद्रं पुरुषात्मकम् ।
कलानिध्योश्च युगलं वारुणं वसुशीर्षकम्
वैधरं मधुविध्वेषं माधवीं मधुविद्विषम् ।
आर्धचन्द्रं हुतवहमनन्तं च द्विरुद्धरेत्
सान्तं सविक्रमं सेन्द्रं बिन्दुमस्तकभूषितम् ।
दश पञ्छ च बीजानि हुंफदन्तानि पूर्ववत्
मन्दरं विक्रम वशमैन्द्रं त्रैविक्रमं तथा ।
खड्गहस्तं सरामं च वासवं सहविक्रमम्
वैधरं चोर्ध्वलोकेशं श्रीभीजं चानु नासिकम् ।
ओतदेहं सयष्टिं च अचामादिं सयष्टिकम्
अचां द्वितीयमर्धेन्दुं कपिलं सङ्गिणं तथा ।
माठरं गोपनं दण्डं माठरं पञ्चबिन्दुकम्
नासिक्यं भास्करं वीरसेनं यष्टिं च भास्करम् ।
ओतदेहं सयष्टिं च पतनं चौर्वनासिकौ
रोहिताश्वं च कलशं विक्रमं कमलासन ।
वासुदेवं सहृदयाह्लोदनं बन्दुमस्तकम्
शुक्लं सहस्रकिरणमैन्दवं चाग्निमस्तकम् ।
वैरिंचं बन्धुसहितं पावकं सुमुखं तथा
पश्चिमं त्वृतधामानं ककुभा ह्वमनन्तरम् ।
सवारुणं सुरपतिं सबन्धुं विजयं तथा
लक्ष्मीं मधुद्विषमथो एकदंष्ट्रगतिं पुनः ।
अग्निशीर्षं द्वितीयं च झषं पञ्चान्तकं मतम्
द्रुहिणं चोदयं ब्रह्मन् वासवं वामनं ततः ।
शुभदं पश्चिममचां द्वितीयं कमलासन
द्वितीयं सद्ध्रुवं चाब्ज योनिं श्रीधरपङ्कजे ।
श्रीवत्समब्जं विजयं काममस्तक मन्दरम्
उदयं शुक्रशत्रुं च विजयं ब्रह्मसाधनम् ।
मन्दरं यान्तधनदं यान्तं चन्द्रघटं वसुं
भल्लायुधं हृषीकेशमेक नेत्रं घनं पुनः ।
सबन्धुं मन्दरं दृष्टियुगलं चाग्निशीर्षकम्
भद्रं चतुर्गतिमथो फणीन्द्रं यान्तसूदनौ ।
नृहरिं कलानिधिमचा मादिं यान्तं मधुद्विषम्
कतृतीयं गदध्वंसं विघ्नेशं नरवाहनम् ।
अमृतं वसुनामानं धरित्रीं मधुसूदनम्
कमलं विक्रमपरं यान्तं वामनहस्तकम् ।
नास्तं गुणालयं चैव णान्तं ढान्तं मधुद्विषम्
पश्चिमं चैन्दवमथो भान्तार्पितस गोपनम् ।
धनदं चोतवपुषं भद्रं दक्षं च सूदनम्
वैधरं चैन्दिरमचां द्वितीयं कमलासन ।
त्रिविक्रमं भद्रकरं महामायाङ्कितं वसुम्
मृगेशं वरुणं चैव वैराजं पञ्चबिन्दुकम् ।
क्षपारकरं कञ्जभवं ततस्स्याद्विघ्ननायकम्
सदृष्टिं वैधरं देवदत्तं कुम्भं चतुर्मुख ।
गतं सृतधामाह्वं मार्ताण्डं पाशहस्तकम्
समाधवं स्याद्द्विजयं गोपनं विषमध्वनिम् ।
सरसीरुहं सोर्ध्वलोकं सरसीरुहसम्भन
पद्मा स मन्दराकारौ प्रचण्डझषसंमितौ ।
वैधरं वरुणं रामं भूधरं वह्निमस्तकम्
जृम्भलं त्वृतधामा च स्यातां भास्करमन्दरौ ।
आद्यन्तं यान्तमाकारं गारुडं हिमदीधितिम्
ओङ्कारादिं शशधरं स विष्णुं वरुणं वसुम् ।
सुधारसं प्रचण्डाग्निं भवे दृतमनन्तरम्
क्रोधरूपं सरामं च गदं च ऋतधामकम् ।
गोपतिं वारुणपतिं विक्रमं यादसां पतिम्
मधुद्विषं हुतवहं प्रचण्डं यामिनीपतिम् ।
सुधारसं वसुयुतं जन्मध्वंसमपां पतिम्
यान्तं सुधारसं बन्धुं द्विद्विराकारमिन्दिराम् ।
द्विरदं पापहननं मधुसूदनमब्जज
विजयाकार गर्भाश्च आकारविधुमादराः ।
पावकं पीतवर्णाभं ब्रह्मसाधनमब्जज
भद्रविक्रमतोयेशमाकारेन्दुसविक्रमाः ।
इभाकारं ततो द्युम्नभास्करा भूतवैधराः
मारुताकार भद्राश्च मान्ताकारमहोत्पलाः ।
उग्रात्मवसुवायव्यसूदना विधिरब्जज
उग्रशीर्षकमारुत्यौ पश्चिम द्युतिमैन्दवम् ।
वामनं वैधरं सूक्ष्मलोचनं कतृतीयकम्
कुम्भं भद्रकरं चापि माधवीं भास्करं मधु ।
सादनं त्रिदशाहारं विक्रमं चोग्ररूपकम्
प्रचण्डमोतदेहं च शुभदं वित्तवर्धनम् ।
पापकं सुमुखं भद्रहस्तं वै रुहमक्षरम्
कुम्भं सुदर्शनं चैव कपिलाक्षं चतुर्मुख ।
द्विः प्रपन्नोस्मीतिपदं समुच्चार्य पितामह
ब्रह्मकोशं पुरस्कृत्य नृहरिं चानलं तथा ।
ब्रह्मसाधननासिक्यौ भीजं प्रोक्तमतः परम्
निगमादिं सुभद्रं च पाटलं सद्ध्रुवं तथा ।
मन्त्रस्य शक्तिमुद्धृत्य च्छन्दसामादिमुद्धरेत्
गारुडं मधुहन्तारं नासिक्यं विजयं वसुं ।
सपद्मनाभं मायां च सूक्ष्मदृङ्माधवं घटम्
भद्रहस्तं वैधरं च श्रीधरं चाग्निविक्रमौ ।
वैराजं भास्करं यान्तं मधु शत्रु समिरणौ
मन्दरं माठरमचां द्वितीयं विघ्णु पावकौ ।
कलानिधिं सबन्धुं च सार्धचन्द्रं त्विषां पतिम्
सूदनं शङ्खमपरं कतृतीयं चतुर्मुख ।
सान्तं वसुयुतं चैव द्विरुच्चार्य चतुर्मुख
हुंफडन्तं च नत्यन्तं हृन्मन्त्रं परिकीर्तितम् ।
वेदादिं वन्नगं पञ्चबिन्दुभूषितमन्तकम्
वासिक्यं भद्रहस्चं च मधुद्वेषिं वसुं तथा ।
ऐन्दवं विक्रमपरं नासिक्यं भास्करं घटम्
सबन्धुं कमलं पद्मनाभं वामन हस्तकम् ।
पुण्डरीकं सबन्धुं च वै राजं वैधरं ततः
गोधनं विजयं मान्तं वैधरं मधुसूदनम् ।
मानुषं चामृतं भद्रकरं गोपनपद्मजौ
सगोपनदरं चैव माधरं कतृतीयकम् ।
ऋतं च सैन्धवं बन्धुं सध्रुवं माठरं त्वचाम्
द्वितीयं पुरुषं ब्रह्मन् माधवीं माधरं पुनः ।
भृगुखड्गरं चैव द्विरुच्चार्यमतः परम्
हुंफडन्तं शिरोमन्त्रं ठठ इत्यवसानकम् ।
वेदादिमुरगं षष्ठमचामर्धेन्दुमैन्दवम्
पुल्लनेत्रं सभुवनं गर्हितं भूधरात्मकम् ।
कुम्भं सविक्रमं पद्मं खेटकी कलशं त्वचाम्
तृतीयं कमलं पञ्चबिन्दुं सुमुखमब्जज ।
यान्तं च शिरसामब्जयोनिमेणेशमैन्दवम्
स्वाहाधरं शशधरं मुखं भूधरसूदनौ ।
चतुर्गतिं शतानन्दं वासुदेवं नपश्चिमम्
कलानिधिं सरामं च यष्टिं भास्रगोपनौ ।
चतुर्गतिं खर्वदेहं सूदनं भानुविक्रमौ
द्विरभ्यसेद्धुंफडन्तं शिरोमन्त्रमुदीरितम् ।
देवानां दासवचनमन्ते संयोज्य मन्त्रवित्
ओङ्कारं नृहरिं वीनसेनं नासिक्यमैन्दवम् ।
माठरं यामिनीनाथमृतधामसदर्भितम्
आखण्डलेशं सर्पेशमाकारं कतृतीयकम् ।
द्विरदं विक्रमपरं बहुलं घटविक्रमौ
अम्भोरुहं चोतदेहं हृदयाह्लोदविक्रमौ ।
कलानिधिं सुभद्रान्तं सुमुखान्तं समाधवम्
छान्तं शशधरं देवदत्तं चान्तं सकुम्भकम् ।
ऐन्द्रं च कुञ्जरमुखं पीयूषद्युतिविक्रमौ
सयष्टिं द्युमणिं चादि देवं यान्तं हिमालयम् ।
नदण्डं गरुडं बन्धुं पश्चिमं च द्विरुद्धरेत्
हुंपढन्तं च कवचं हुंफट्शीर्षं प्रकीर्तितम् ।
आगमादिं नरहरिं चौर्वं नासिक्य मब्जज
वैधरं गोधनं णान्तं मारुत्यं वैधरं मधु ।
सूदनं भद्रहस्तं च पीयूषं सरसीरुहम्
गोपनं पुलहं चैव सूदनं मुरुतं वसुम् ।
कूटं पुल्लायुधमचां षष्ठं वै राजमेव च
कतृतीयं पद्मनाभं भास्करं मधुविद्विषम् ।
दृष्टिं सवामनं भद्रहस्तं साग्निं समुद्धरेत्
भास्करं भद्रहस्तं च तद्द्विरुच्चार्यमन्त्रवित् ।
पश्चिमं वक्रतुण्डं च मन्दरं सुप्रतिष्ठितम्
तानुदीर्याथमन्त्रज्ञस्सुभद्रं चैन्दवं पुनः ।
सदक्षं वामनशिरा अम्भोरुहनिकेतन
अम्भोरुहं सभुवनं पावकं भुवनं तथा ।
नृहरिं पापहननं विक्रमं विजयं पुनः
वैरिञ्चं वामनं दक्षमौग्रं दक्षं चतुर्मुख ।
गुहालयं सविजयमग्निशीर्षं च मारुतम्
ऐणेशं मन्दरं भानुं सूदनं विघ्ननायकम् ।
यान्तं ताराधिपं मायां सद्ध्रुवं माठरं तथा
मधुद्विषं मारुतं च हुंफ डस्त्रं प्रकीर्तितम् ।
अस्त्रशब्दं चतुर्थ्यन्तं फडन्तं च समुद्धरेत्
उद्गीथं नृहरिं सर्गमन्धरं माठरं त्वचाम् ।
द्वितीयं पश्चिमं पद्मनाभं चादिसमन्वितम्
खड्गहस्तं च सुमुखं मेदिन्याः पदमम्बुजम् ।
सगोपनं सुरपतिं गोपनं खद्वितीयकम्
भद्रहस्तं सरामं च वासवं ब्रह्मसाधनम् ।
खड्गहस्तं गजमुखं सूदनं च चतुर्गतिम्
आचामादिं गजमुखमौषधं ना न्तमब्जज ।
माधवीं मुरुतं यान्तं माधरं पश्चिमं तथा
सबन्धुं सप्रचण्डं चाप्येणेशं पाटलप्रियम् ।
मार्ताण्डं मधुविद्वेषिं भद्रं स्यादृतधामकम्
दाक्षायणीशं रामं स्यादनुस्वारं चतुर्मुख ।
दिवाकरं चादिदेवं दरं वैधरगोपनौ
पावकं पुरुषात्मानं द्विरुक्तं कमलासन ।
हुंफडन्तं च नेत्राभ्यां वौषट्कारं प्रयुज्य च
एवं न्यस्य विधानज्ञो विष्कम्भान्तं सदण्डकम् ।
दिवाकरसहस्राभं हृदयार्णं षडुद्धरेत्
उत्पलं कुमुदं रक्त जपाबन्धूकरिंशुकम् ।
पाटलं हृदयादीनां वर्णष्षण्णां क्रमाद्भवेत्
रक्षामन्त्रं प्रवक्ष्यामि छन्दसामादिमुद्धरेत् ।
विघ्नेशं पद्मनाभं स्याद्द्विजराजं सविक्रमम्
सदण्डं च समार्ताण्डं बहुलं सगुहालयम् ।
पश्चिमं वामनपरं प्रचण्डं हरिणं भवेत्
भल्लायुधं गदध्वंसं लान्तं भद्रकरं तथा ।
आचामादिं दिनमणिं माधवं सौरमक्षरम्
एणेशं धनदं दक्षं वसुशीर्षं च सूदनम् ।
धनाध्यक्षं तथा दक्षं पावकं मस्तकस्थितम्
धान्तं सविक्रमं खान्तं हान्तं स्यात्कपिलं पुनः ।
द्विरदास्यं बन्दुपरं माधवीं यान्तशीर्षकम्
वासुदेवं खड्गधरं चतुर्गतिमनन्तरम् ।
मुखं सवैधरं ब्रह्मन्माठरं तद्ध्विरुद्धरेत्
पवित्रमप्रमेयं स्यात्तुण्डं चादिसमन्दरम् ।
सर्वरोधं द्विरुच्छार्य कमलं सविरोचनम्
यथापुरं सदण्डं च सूदनं यान्तमारुतौ ।
द्विर्वक्तव्यं सुभद्रं च विक्रमं विघ्नवैधरौ
तद्विरुद्धश्छलध्विंसी बन्दुविघ्नं सवैधरम् ।
ऐन्दिरं चोतदेहं च उग्रं मान्तं चतुर्मुख
अत्रिं चाग्निं मधुद्वेषममृतं धूलिकेतनम् ।
तार्क्ष्यं सर्ङ्कणं दण्डं तद्विरुच्चार्य पद्मज
मार्ताण्डमूर्ध्वनासिक्यं तदुदीर्यमतः परम् ।
पावकं चौर्वशिरसं सदण्डं गोपनं तथा
गदध्वंसं छलध्वंसं तदुदीर्य जयं तथा ।
वैराजं यान्तशिरसं शुक्लं वै राजपावकौ
जृम्भलं समता ब्रह्मन् माठरं दक्षसंज्ञितम् ।
प्रचण्डं माधवं चैव कलशं बन्धुशीर्षकम्
कमलां वारुणं यान्तं हृषीकेशं च पश्चिमम् ।
माया जितं प्रचण्डं च माधवं च ठठान्तिमम्
बीजमङ्गानि चोक्तानि दुर्वासा ऋषिरुच्यते ।
छन्दो बस्तं देवता च महानरहरिर्हरिः
मालामन्त्रे त्रिवर्णास्स्युश्शुक्ल पीत सितासिताः ।
तत्वं च परमाप्योम सकलीकरणं तथा
विकलीकरणं चैव मन्त्र स्याप्यायनं भवेत् ।
मोचनं चैव इत्येते कथिताः कमलासन
चतुष्षष्टिविधे मन्त्रे नारसिंहे महानयम् ।
नृसिंहो व्योमचक्राख्यः पातालाख्यश्च सूरिभिः
ध्यायेन्मृत्युभये कृत्याप्रवेशे युधि विद्विषाम् ।
उच्चाटने संहनने भूतानामपनोदने
आख्यायते ध्यानमस्य स्मृतं स वितृमण्डले ।
मध्ये विकस्वरे शुभ्रे पङ्कजे विष्टरोदरे
आसीनं षोडशमुखं भुजै स्तद्विगुणै र्युतम् ।
आयुधैश्शज्ञचक्राद्यैर्दुर्दर्शैरश्मिमालिभिः
परचक्रप्रतिक्षेपे दुष्करेष्वन्यकर्मसु ।
द्वादशाङ्गानि येवेत्तिमन्त्रं सोर्हति वेदितुम्
इत्युक्तं भगवन् भूयो जिज्ञासा तेषु वर्तते ।
बीजं शक्तिस्तथैवाङ्गं हृदयादि च षड्विधम्
ऋषिश्छन्दो देवता च वर्णोद्दीपनमेव च ।
अप्यायनं मोचनं च सकलीकरणं तथा
विकलीकरणं चैव द्वादशैतानि पद्मज ।
तेषां स्वरूपं वक्ष्यामि क्रमात्तदवधार्यताम्
मन्त्रस्य प्रकृतिर्बीजमक्षरं तत्समुद्धृतम् ।
आत्मामन्त्रस्य सा शक्तिर्यथा मन्त्र फलप्रदः
हृदयादीनि मन्त्रस्य षडङ्गानि पितामह ।
देवस्येव मुखादीनि एषु मन्त्रः प्रतिष्ठितः
ऋषिः फलस्य द्रष्टा प्याच्छन्दस्तदभिधीयते ।
अक्षराणामियत्ता या देवता वाच्यमुच्यते
रूपभेदश्च शुक्लादिवर्णः कमलसम्भव ।
संपुटीकरणं रेफलकाराभ्यां तु दीपनम्
यथोदिताक्षरैस्सर्वैस्संस्कारश्शोषणादिभिः ।
मन्त्रस्य देहवत्प्रोक्तं यत्तदाप्यायनं बुधैः
मन्त्रस्य मोचनं नाम प्रयोगस्तम्भनादिषु ।
मन्त्राक्षराणां प्रत्येकं संपुटीकरणं स्मृतम्
सकलीकरणं विद्धि प्रणवेन चतुर्मुख ।
वौषट्कारवषट्कारहुं कारैः पृथगीरितैः
देवतानामभीष्टानां सन्निधिर्यः पुटादिषु ।
प्रार्थ्येते स चतुर्वक्त्र विकलीकरणाह्वयः
एतान्येन प्रयुञ्जीत विद्ययोराद्ययोरपि ।
एकादशाक्षरो मन्त्रो वामनस्य प्रदर्श्यते
पूर्वोदितास्सप्तवर्णाः विशेस्समुदीर्यते ।
पीयूषमादिदेवं च मन्धरं चादिमुद्धरेत्
विघ्नेशं गोपनं वायुमाद्यं चेति चतुर्मुख ।
बीजं शिरस्यूर्द्वलोको यष्टिश्चेति चतुर्गतिम्
अङ्गानि षट्फलादीनि स्वरान्तान्यानुपूर्वशः ।
सानुस्वाराणि योज्यानि काश्यफो मुनिरिष्यते
छन्दश्च दैवं गायत्रं वामनो देवता पुनः ।
लक्षाण्येकादश जपे होमे च जलतर्पणे
ततस्सिध्यति मन्त्रोयं पुरुषार्थचतुष्टयम् ।
फलमन्यच्च यच्चेष्ट मष्टाक्षरवदीरितम्
ओमादिनतिपूर्वाणि चत्वार्याद्यानि पूर्ववत् ।
सप्ताक्षरस्यमन्त्रस्य साधनं च यथापुरम्
सप्तलक्षजापादुक्तं फलमाप्नोति मन्त्रवित् ।
गृहीत्वार्णान् सप्त पूर्वन्वैराजो ग्निस्त्रिविक्रमः
यदाधिपश्च माया च स्पर्शादिरनलोन्मुखम् ।
स्पर्शान्तश्चादिदेवश्च शङ्खो विष्णुरितीरितः
द्वादशार्णात्मको मन्त्रस्तदेव कमलासन ।
त्रिविक्रमस्य बीजं च भास्करो विष्णुरेव च
अर्धचन्द्राकृति श्चेति तदेवाङ्गं च षड्विधम् ।
ऋषिश्च देवता छन्दः पूर्वोक्तान्येव साधनम्
पूर्ववत्फलमस्यापि राज्यादिप्राप्तिरिष्यते ।
न त्वेकं शक्यते वक्तुमानन्त्यात्फलसम्पदाम्
रामस्य जामदग्न्यस्य मन्त्रोद्धारश्चतुर्मुख ।
गृहीत्वा पूर्ववत्सप्तवर्णान् साधारणां स्ततः
असाधारणवर्णानां क्रमादुद्धारणं शृणु ।
जन्महन्ता गोपनश्च माधवी विष्णुर स्वतः
दृष्टिश्छादिर्गदी भद्रपाणिर्वायुश्च गोपनः ।
चतुर्गतिस्स्वरादिश्च वह्निराकार एव च
मन्धराश्छादिदेवश्चश्वसनो विष्णुरब्जज ।
हुंपडन्त इति प्रोक्तामन्त्रस्सप्तदशाक्षरः
अनलः प्रणवादिश्च सयष्टिर्बीजमिरितम् ।
एतदेवाङ्गमावृत्तं षट्कृत्वो गार्ग्यदर्शनः
छन्दश्च दैवं गायत्रं जामदग्न्योस्य देवता ।
जपेद्द्विंशतिलक्षाणि ततस्सर्वार्थसाधनः
दशाक्षरोऽथवा मन्त्रोजामदग्न्यपदं विना ।
भीजादि सर्वं पुर्वोक्तं मन्त्रश्शत्रुक्षयावहः
मन्त्रो रामावतारस्य ब्रह्मन् दाशरथेर्वरः ।
कथ्यते भरतादीनां तद्देवीनां मनुः क्रमात्
द्वादशाक्षरमारभ्य मन्त्रं तदनु पद्मज ।
चतुर्मूर्तिमयायेति पदमुच्चार्यमन्त्रवित्
अभिरामशरीरेति चतुर्थ्यन्तमुदीरयेत् ।
रामेति तद्विभक्त्यन्तं ठठेति तदनन्तरम्
द्वात्रिंशदक्षरात्मायं मनुरुक्तश्छतुर्मुख ।
भीजमस्यानलो विष्णुस्सानुस्वारः क्रमात् स्मृतः
अङ्गानि षट्च तद्बीजमकारादि क्रमाद्भवेत् ।
अपरं राममन्त्रं ते कथयामि चतुर्मुख
प्रथणं प्रणवं प्रोच्य पञ्चबिन्दुं सयष्टिकम् ।
चतुर्थ्यन्तं चतुर्मूर्तिपदमुक्त्वाततः परम्
चतुर्गतिमयायेति शरशार्ङ्गभृदन्वतः ।
चतुर्थ्यन्तं शरत्पूर्वमिन्दीवरपदं ततः
त्विषेति च पदं पश्चात्प्रयोज्यं भगवत्पदम् ।
चतुर्ध्यन्तं समुच्चार्य मभिरामपदं ततः
शरीरायेति च प्रोच्य रामायेति पदं तथा ।
सत्यन्तमिति मन्त्रस्य पदोद्धारः प्रदर्शितः
बीजं तदङ्गषट्कं च तदृषिश्शरभः स्मृतः ।
छन्दश्च पूर्ववद्देवो रामात्मा भगवान् हरिः
जपेदक्षरलक्षं तु ततस्सिध्यति मन्त्रराट् ।
फलं चाभीष्टमचिराल्लभते दुर्लभं महत्
मातृका च क्रविन्यस्तानर्णषण्डान् समन्त्रितान् ।
अभ्यर्च्य कुसुमैस्तस्मिन्नुद्धरेद्भगवन्मयः
अतो न्यं मन्त्रसङ्घातं मालामन्त्रं यथातथम् ।
वक्ष्यामि संप्रति ब्रह्मन् यधा वदवधार्यताम्
आदौ नादं सप्तवर्णं वसुं मधुनिघादनम् ।
स्पर्शान्तं गोपनं शङ्खं मुखं विष्णुं जयं तथा
अचां पञ्चममाहेन्द्रा नादादिं घटविक्रमान् ।
शङ्खिनं शिखिनं दक्षं करालं वसुनिष्ठितम्
हस्तं मधुद्विषं ब्रह्मन् धूलिकेतनमदिमम् ।
नान्तयान्तौ सदक्षाह्वा पश्चिमोदयमक्षरम्
अत्रिं रमाधरं क्रोधरूपिणं चानलाह्वयम् ।
अचां द्वितीयं पवनं कलशं बन्धुमस्तकम्
उग्रात्मसुमुखौ स्यातां यादोनाथमृगाधिपौ ।
दिनेशमादिं नासिक्यं शशाङ्कं मधुविद्विषम्
वैराजं माधवीं भद्रकरं माधवमब्जज ।
वक्रतुण्डमचामादिं विजयोदयसंज्ञितम्
पञ्चान्तकं तथा यान्तकं मन्तकस्थं जयं पुनः ।
राममन्दरशङ्खास्स्युर्गोपनं पवनं मुखम्
आदिभल्लायुदौ रामवसुगोपनपाटलौ ।
श्रीवत्समादिमनलं वामनाग्नि मधुद्विषम्
चितुर्गतिं खड्गधर मेकदृद्वैधरं तथा ।
दक्षं चाग्निं हृषीकेश विजयद्वयमन्वतः
यान्तं तच्चिरसं पश्चात्पवनं मृगवल्लभम् ।
ऋक्षेशमेकनयनदरगोपनविघ्नराट्
बन्धुयान्तौ च भुवनं वैधरौ पुण्यभास्करौ ।
श्वसनं दक्षभुवनौ चक्रविघ्नेशसप्तमम्
अचां कारणमेणेशकलात्मवसुविक्रमाः ।
करालगोपनौ पापहननौ विक्रमं तथा
महेन्द्रकुम्भावनलो मधुसूदन भास्करौ ।
यान्तगोपनसप्तार्चिर्मधुसूदनमारुताः
प्रचण्डगोपनौ खड्गधर श्रीधरवैजयाः ।
पीयूषगोपनौ पद्मश्रीधरौ वनमालिनौ
मेघपञ्चात्मद्विरदकमलामधुविद्विषः ।
पितो मृगेशपवनगोपनाश्शुक्ल श्रीधराः
पावकस्थान्तगोविन्दवै राजदरवैधराः ।
मधुसूदनविघ्नेशसुधारस समाह्वायाः
ब्रह्मसाधनसप्तार्चिर्गतिभास्करसप्तमाः ।
अचा मादिं धरो वेधाः ब्रह्मसाधनखेटकी
अग्निश्च कपिलं ब्रह्मन् भल्लायुधसविक्रमम् ।
विघ्नेशं वैधरं प्रेतनायकं रामश्रीर्षकम्
भद्रपाणिं तथा दृक्छ सरसीरुहसम्भव ।
दक्षादि देवहुतभुक्चतुर्गतिमनन्तरम्
श्रीवत्सवासु देवौ द्वौ क्रोधरूपसमिरणौ ।
करालं च ऋतं भद्रपाणिं वै राजमारुतौ
पश्चिमं वसु कूर्मं च विक्रमं दृष्टिगोपनौ ।
विघ्नेशच्छलविध्वंसमाधवा वैधरात्मकम्
जलजं पापहन्तारं हुतभुक्कमलं घटम् ।
वक्रतुण्डं तथा द्युम्नं द्विरदाननविक्रमम्
भान्तमग्निं चोतदेहं वक्रतुण्डं चतुर्गतिम् ।
पश्चिमाननयान्तौ च ओतदेहसमन्वितौ
वै राजद्वितयं दक्षं गोपनं नासिकोद्भवम् ।
गदध्वंसं च कपिलमत्रिं मधुनिघादनम्
यान्तं चतुर्गतिं शुक्लं वारुणाग्नि समिरणाः ।
एकदन्तं चैकदृष्टिं बहुलं मधुविद्विषम्
प्रचण्डं विक्रमं वक्रतुण्डं च सगुहालयम् ।
सुमुखं हुतभुक्छङ्खमनलं मधुविद्विषम्
यष्टिं दक्षं तथाकारं नासिक्यं धूलिकेतनम् ।
ध्रुवं माहेन्द्रमाकार मर्धांशुं कुम्भगोपनौ
सद्ध्रुवं जन्महन्तारं वारुणं पुलहं तथा ।
मुसली कुम्भमाकारं पीतवायुधनप्रदाः
श्रीधरं भद्रहस्तं च हरिं स्वाहामयावहम् ।
हुंफडन्तं नवैतानि बीजानि कमलोद्भव
पद्मपाणिं पद्मनाभं वनमालां त्रिविक्रमम् ।
श्रीवत्सं शङ्खिभुवनं भद्रहस्तास्सविक्रमाः
अग्निं मृगेशं वरुणं वैराजं बन्धुमस्तकम् ।
दरं तार्क्ष्यं तथाचादिदेवं शुक्लं श्रियः पतिम्
वसुगोपनशीतांशुभुवनानलवारुणाः ।
मृगेशविजयाकार विष्कम्भाश्शुक्ल विक्रमौ
दृक्पुण्यमादिपदेवं च भास्करं ऋतधामकम् ।
सूक्ष्मदृक्छङ्खदक्षौच वैधरोऽग्निश्छतुर्गतिः
पश्चिमं त्रितदक्षादि अग्निवायुसरोरुहाः ।
ऋतधामा जया गोपा पश्चिमा ? शुक्लमब्जज
भानुगोपनसप्तार्चि र्भल्लायुधगुहालयाः ।
नै राजककुभौ कुम्भहव्यवाट्कपिलाह्वयाः
वैधरं भास्करं पापहननं वक्रतुण्डकम् ।
गदिनं ऋतधामानं भास्करं सुमुखं तथा
कुम्भविक्रमजन्माह्वपद्मनाभास्सदेवराट् ।
सुभद्रसङ्खदक्षाह्वमोतदेहोऽथ भास्करः
पवनं पापहननं गोपनौ विजयो दरः ।
उदयं पीतकमलं मधुसूदनविघ्नराट्
माहेन्द्रश्शुभदो वह्निगोधनौ कुम्भविक्रमौ ।
अग्निरत्रिः कुम्भधरौ लक्ष्मीखर्वाश्चतुर्मुख
शुक्लोदयं तथा दृष्टिश्श्रीवत्सं वसुशीर्षकम् ।
विघ्नेश शुभदौ स्यातां सरसीरुहसम्भव
मधुसूदश्शार्ङ्गपाणिः पञ्छान्तकविधी पुनः ।
और्वदक्षौतदेहश्च दृष्टिं सरसिजं तथा
वामनो धनदो यान्तस्सुभगाग्नि वनस्रजः ।
रामपुण्याग्नि गरुडविक्रमौ जयविक्रमौ
सुभगोऽग्नि रादिदेवः कुञ्जरेण मुखाक्षरः ।
करालं कपिलं पापहननं पवनात्मजम्
श्रीधरं दृष्टिधनदं पञ्चबिन्दुं सविघ्नराट् ।
शुभोत देहावुग्रात्मा चतुर्गतिमचां मुखम्
शैलद्वयं द्वादशात्मा गोपनश्शुक्ल पश्चिमौ ।
श्रीधरस्सुमुखो भूमिरनलः पञ्च बिन्दुकः
करालाग्निं महामाया सुभगो बन्धुरन्वतः ।
वैराजं विक्रमं पुपहननं बन्धुमस्तकम्
प्रचण्डं पुण्डरीकाक्षं वासुदेवं जयं वसुम् ।
सूक्ष्मदृक्कुम्भवरुणपश्चिमाननमाधराः
उग्रात्ममृगदक्षाह्व गोपना धनदः कुटः ।
दक्षः पुण्योदयश्शुक्ल श्शुभदृष्टिर्विनायकः
वैधरो मधुहन्ताच मन्दरं ब्रह्मसाधनम् ।
अत्रिरग्निपवित्राह्वा वैधरस्पर्शपश्चिमाः
भद्रादिदेवभल्लाह्वमुग्रभूमिं मधुद्विषम् ।
एकदृग्दक्षविघ्नेशमाधवा मृगवल्लभाः
भास्करं देवदत्तं च भानुं बन्धुं सुभद्रकम् ।
गदध्वंसं तथा कुम्भं द्विरदं पश्चिमाननम्
और्वाग्नि भुवनावुग्रयष्टिर्वेधाश्श्रियः पतिः ।
अग्निं रमाधरं द्विश्च अग्निकूट विगर्हितम्
तथा भद्रमधुद्वेषिदृष्टिगोपनमस्तकान् ।
वैराजदक्षकमलगोपनाविन्दुपक्षिराट्
मनुं ध्रुवाग्नि माकारं बिन्दुश्छन्द्रमदुद्विषः ।
नासिक्य मादिरत्रिश्च बन्धुमन्दरविष्टपाः
वै राजरेफशङ्खाह्वमाधवावादिविघ्नराट् ।
मृगेशकमलौ दक्षं गुहमम्भोरुहासन
जयोऽग्निर्वायुरैणेशमुखो गरुडवाहनः ।
बन्धुपीतपवित्राह्वमधुसूदनवैजयाः
गोपनो भार्गवाकारशुक्लोदयहुताशनाः ।
पीतोतदेहकमलविघ्न विक्रममाधवाः
गोपनं सोमबन्धुश्च करिगोपनयष्टयः ।
दिनेशमृतधामाह्व दृष्टिशङ्खमधुद्विषः
विघ्नवायू तथा गोपकमलौ सत्रुदाहकः ।
धान्तसङ्खा मधोर्हन्ता पद्मक्रोधाग्नि मारुताः
आदिश्चक्री सुबन्धुश्च पीतस्सर्वपुरान्तकः ।
उदयो यान्तरामौ च वैराजतपवनाग्नयः
आदिः खर्वतनुर्बन्धु पीतपद्ममधुद्विषः ।
पाटलं पश्चिमं पद्मनाभं वैधरमाधवौ
भल्लायुधं गदी कुम्भ वैराजमृगवल्लभाः ।
श्रीवत्समग्निमिकारं कुम्भं पीतद्वयं तथा
सुभद्रगोपनौ शङ्खमन्तरौ दिनकृत्तथा ।
अचां चतुर्दशं जन्मशशाङ्कमृगवल्लभाः
हुताशगोपदक्षाह्वमाधव्यश्च गुहालयः ।
वै राजयुगसप्तार्चिर्दर देवहुतान्तिमाः
असलो यष्टिसहितो बीजमस्य समिरितम् ।
शरभङ्गऋषिस्तस्य वरिवं छन्द ईरितः
जपो लक्षत्रयस्तस्मिन् चतुश्शतमिताक्षरे ।
पुंसो रामावतारस्य परस्य परमात्मनः
चतुश्शतार्णरूपोऽयं मालामन्त्रस्समुद्धृतः ।
यथापुरं पुरश्चर्या सिद्धश्चैव यथापुरम्
अन्वेषां भरतादीनामितरप्यूहनामभिः ।
आत्मशीर्षैश्छतुर्थ्यन्तैर्नामानि सहितानि च
चतुर्थ्यन्तानि वाच्यानि मन्त्ररूपाणि पद्मज ।
बीजान्याद्यक्ष राण्येव सानुस्वाराणि योजयेत्
सीतादीनां च देवीनां चतुर्थ्यन्तास्समाह्वयाः ।
मन्त्रष्ठठेतिपर्यन्तो बीजान्याद्यक्षराणि च
श्रीमन्त्रवत्पुरश्चर्या तद्वच्च फलसम्भवः ।
रामस्य बलभद्रस्य मनुस्संप्रति कथ्यते
सप्तार्णं पदमुच्चार्य ततः पश्चादुदीरियेत् ।
रामायेति चतुर्थ्यन्तं बलभद्रपदं तथा
बीजमस्योच्यते ब्रह्मन् जृम्भलं पुलहं तथा ।
सानुस्वारो हृषीकेशः पैङ्गलस्यादृषिः स्मृतः
छन्दः पूर्ववदेवस्याद्देवता मुसलायुधः ।
रामः कमलपत्राक्षो बीजमेवाङ्गपद्धतिः
लक्षाण्यक्षरसङ्ख्यानि भवेन्मन्त्रस्य सिद्धये ।
फलमिष्टमवाप्नोति पातालगमनादिकम्
चतुर्वर्गफलावाप्तेः फलमस्य करेस्थितम् ।
यादवस्याथ कृष्णस्य मन्त्रस्संप्रति कथ्यते
उद्गीथमुच्छार्यमुखे स्पर्शादि तदनन्तरम् ।
ऋतधामा ततः पश्चात्क्रोधरूपमनन्तरम्
वनमालिनमाकारं श्वसनं विष्णुमस्तकम् ।
सत्यन्तमिति षड्वर्णा मन्त्रस्य कथिता मया
बीजं कमलमाद्यं स्यात्सप्तार्चिस्तदनन्तरम् ।
और्वः पश्चात्सयष्टिस्स्यादेतेनैवाङ्गकल्पना
सनकोऽस्य भवेद्द्रष्टा छन्दो गायत्रमुच्यते ।
देवता भगवान् कृष्णः पुरश्छर्या च पूर्ववत्
फलानि पूर्वमुक्तानि नानन्त्यादुच्यते पुनः ।
गोवर्धनाख्यमन्त्रन्य वर्णोद्धारः प्रदर्श्यते
वेदादिं पूर्वमुच्चार्य प्रथमे स्पर्शपञ्चके ।
तृतीयं यादिषु तथा स्वरेषु च चतुर्मुख
सद्ध्रुवं गदिनं ब्रह्मसाधनं च सुधारसम् ।
आदिं सप्तार्चिषं पुण्यं मकरं तदनन्तरम्
भद्रबाहुं द्वितीयं च श्वसनं मुखमन्वतः ।
सत्यस्तमेवमुद्धारः कथितो सववर्णकः
मन्त्रस्तदेव बीजादि साधनं फलमीरितम् ।
गोपालमन्त्रस्योद्धारः कथ्यते कमलासन
छन्दसामादिमुच्चार्य तृतीयं स्पर्शसंज्ञितम् ।
ओतदेहं पवित्रं च वामनं ककुभं ततः
अनिरुद्धं विघ्णु राजमकारं यादसांपतिम् ।
आद्यं पुलहमावृत्तं स्पर्शोपान्तं च गोपनम्
प्रभञ्जनं स्वरेष्वादिं ठठान्तो मनुरीरितः ।
बीजं तृतीयं स्पर्शानं पीतं तुर्यमचामतः
नासिक्यमङ्गानि पुनर्गोपनं खड्गसंज्ञितम् ।
मुख्यं स्पर्शादिमनलं गोपनं स्पर्शनं तथा
आद्यं ठठान्तं प्रथमं तदेवाङ्गमनन्तरम् ।
विपूर्वमधिकं पश्चादङ्गं त्रैलोक्यपूर्वकम्
रक्षणेति चतुर्थ्यन्तं तद्विभक्त्यन्तमन्वतः ।
असुराद्यन्तकपरं पदं सर्वाद्यनन्तरम्
ग्रहं निवारणायेति हुंफडन्तमितीरितम् ।
मन्त्रस्य नारदो द्रष्टा विराट्छन्दश्च देवता
कष्णावतारो भगवान् जपस्थानं पुरोदितम् ।
सहस्रशः प्रतिस्थानं जपः प्रोक्तश्चतुर्मुख
जपात्सिध्यति मन्त्रोऽयं साधयत्यखिलं फलम् ।
अश्चर्यमपरं मन्त्रं वक्ष्यामि कमलासन
उच्चार्य प्रणवं पूर्वं माधरं तदनन्तरं ।
चतुर्थ्यन्तमुदीर्याथ तद्विभक्त्यन्तमद्भुतम्
भोगेश्वरपदं तद्वत्तद्व च्च क्रिपदं ततः ।
सुपर्णादिध्वजान्तं च पदं तादृग्विभक्तिकम्
पीतादिवासश्शब्दान्तं वासुदेवपदं ततः ।
तद्विभक्तिशरो योज्यं नत्यन्तो मनुरुद्धृतः
पूर्वमङ्गानि योज्यानि पूर्ववन्नातिरिच्यते ।
ऋषिश्छन्दो देवता च पूर्वत्फलमेव च
धर्मार्थकाममोक्षादि नेहभूयः प्रतन्यते ।
मालामन्त्रं तावदर्णं देवस्य मधुविद्विषः
कृष्णावताररूपस्य चतुर्वर्गफलप्रदम् ।
उद्धरामि यथा तत्वं यथा तदवधार्यताम्
निगमादि द्विषट्कार्णं सरोजमृतधामकम् ।
क्रोधं प्रचण्डं मधुभिच्छङ्खकुम्भृतान्विताः
क्रोधश्चण्डक्रमः कुम्भशङ्काग्नि मधुसूदनाः ।
दरश्रीवत्स एणेश क्रोधस्सूक्ष्म मतः परम्
वासुदेवो गदी पापहननं च चतुर्गतिम् ।
अग्निबिन्धु र्विरिञ्च्यादि देवाश्शङ्ख मचां मुखम्
पवित्रमग्निमधुभि द्भद्रपाणिद्वयं पुनः ।
वैधरं पश्चिमवसुं दक्षेन्दु भुवनात्मकम्
सूक्ष्मचक्षु गर्तिस्सोमः कुम्भाग्नि सगुहालयौ ।
पवित्रगोपनौ वायुं पश्चिमाग्निं मधुद्विषः
वैराज माधवीविघ्नस्सारङ्गासिधराः परः ।
बन्धुवै राजहुत भुक्पङ्छात्मद्विरदा सनाः
गोपनश्शङ्खदिनकृदृत वैधरमारुताः ।
अब्जोतदेहावद्रिश्च यान्तभद्रत्रिविक्रमाः
महेन्द्रशङ्ख मधौभिन्मारुताः ककुभाह्वयाः ।
भ्रुगुगोवनविघ्नेशजन्म हन्त्रेणसंहिताः
मारुतो गोपनो वायुरिन्दु भास्रमैन्दवम् ।
ऋतं लक्ष्मीं महामायां क्रोधाग्नि वरुणाह्वयाः
अत्रिर्विघ्नद्वयं शङ्खो द्विरदस्सूक्ष्मलोचनः ।
श्रियः पतिं तथाजन्महन्तारं वक्रतुण्डकम्
हुताशचण्डमधुभिद्दरशुक्लदिनेश्वराः ।
कालात्मा प्रतिमाकारजयपावकभद्रकाः
उदैकश्चक्षुरमृतविक्रमा विधिपावकौ ।
दक्षो विधिश्चर्तधामा दक्षगोपनमब्जज
शङ्खमादिं गदध्वंसं माहेन्द्रं पञ्चबिन्दुकम् ।
सध्रुवं चेन्दिराबीजं पुष्टिबीजं ततः परम्
कामबीजं पाशबीजं श्रीवत्सं बिन्दुमस्तकम् ।
चक्रखड्गधरो ब्रह्मा पद्मनाभोऽथ पश्चिमः
वै राज दक्षकमल श्रीधराः पीतवामनाः ।
इन्दिरापापहनना गोपना वित्तवर्धनाः
मधुसूदन नासिक्यकुशेशयरमाधराः ।
श्रीवत्सद्वन्द्वबहुलवित्तेशमधुविद्विषः
कपिध्वजो गदी यान्तदक्ष श्रीधर चन्द्रमाः ।
पीतादिदेवश्शीतांशुर्माया कमलमब्जज
मनुर्दक्षौतदेहौ च दृष्टिश्शङ्खघटाह्वयः ।
माया करालामिकार चण्डार्णवसुमस्तकम्
नादादिं पश्चिं पद्मनाभं वै राजविक्रमौ ।
पावकं छोर्ध्वलोकेशं पश्चिमं चा प्रमेयकम्
खर्वविक्रममाहेन्द्रभल्लायुधसुधारसाः ।
विघ्नमन्दरविघ्नेशमाधवीसुप्रतिष्ठिताः
कुम्भोदरामशुभद पीयूषाग्नि गुहालयाः ।
पश्चिमानविघ्नेश मायामन्धर युग्मकाः
वसुमूर्धा महेन्द्रादि देवाः कपिलसंयुताः ।
जृम्भलो यान्तसुभग हुताशधनदाः परः
गोविन्द विघ्भुवन विधिः पश्चिमसंक्षिताः ।
सप्तार्चिः पीतवर्णाभं देवरो मतिमां स्तथा
शङ्खगोपनवैराज श्रीधरो धनदाभिधः ।
मधुद्विट्कुञ्जर मुखचतुर्गतिसपन्नगाः
भद्रहस्तो मधुद्वेषी गदध्वंसी द्वयान्वितः ।
भद्रपाणिस्तथापुण्यं सनसीरुहसम्भव
सुधारसो वसुर्भूमिर्गोपनाख्यमतः परम् ।
करालबिन्दुविघ्नेशौ पञ्च बिन्धु शुभाह्वयाः
मधुहन्ता तथा ब्रह्मा माया विघ्नाश्च वामनाः ।
यान्तमाधवपीयूषवै राजाः पञ्चबिन्दुकम्
शशाङ्ककमलौ भद्रपाणि दृग्वैधरान्विताः ।
एणेशकुम्भदृक्सश्री श्रीधराश्चान्तयादिकाः
गदी च ऋतधामा च दिनकृद्वरुणोमृगः ।
वैराजं मधुहन्तारं विष्ण्वाभं ब्रह्मसाधनम्
मानुषेशं तथा दक्षं मधुसूदनवैधरौ ।
ऋक्षेशभुवनौ यान्तं मधुशत्रु हिमालयाः
उदयोऽग्नि पवित्राश्च बन्धुश्रीमधुविद्विषः ।
वक्रतुण्ड विरिञ्चौ द्वौ हृषीकेश शुभाभिधौ
भान्तादि देवसुमुखौ पुण्डरीक विदर्बितौ ।
पुर्णचन्द्रं सरामं च वैधरं मोहनाशनम्
पीयूषरामदृक् शङ्ख मधुशत्रु धनाधिपाः ।
स्वाहाधरं वैधरं च गोविन्दं विजयाभिधम्
श्वसनो दृष्टि मदुभिद्धेरम्बमकरालयाः ।
कुकेशयमदुद्वेषि पीतमाधवमारुताः
अचां द्वितीयं नृहरिं वसुमस्तकमब्जज ।
सूक्ष्मदृक् सोर्ध्वलोकेश वै राजमधुविद्विषः
पापहन्ता तथा सोमदक्षाकरविदर्भितौ ।
अचां द्वितीयमनलं कमलामृतवैजयाः
द्वयं बन्धुं तथा दक्षं स्कन्धनाग्नि त्रिविक्रमम् ।
स्वयम्भूर्जन्महन्ता च पियूषाग्निमदुद्विषः
दृष्टिविक्रम यान्तौ च कुम्भबन्धुं चतुर्मुख ।
अत्रिमारुतमाकार भद्रहस्तास्सविक्रमाः
वक्रतुण्डानिलौ विघ्नदृग्दिनेशद्वयं तथा ।
कुञ्जरास्यं पश्चिमास्यं वक्रतुण्डं तथाक्षरम्
मन्दरस्सर्वरो धश्छ गदी च ऋतधा रविः ।
प्रचण्डपि ण्डमाकार मधुभिद्वरुणाभिधम्
अचामेकादशं लक्ष्मी मुद्धृत्य कमलासन ।
समिर कलशौ बन्धुसुभगौ मकरालयम्
सकविं पुण्डररुचिं मारुतामृतविक्रमाः ।
एकादश्यान्तमदुभिच्छुक्लशङ्खेन्दवस्तथा
पुल्ललोचन मोकारखेटकी मारुताभिधः ।
सुभद्रवसुविघ्नेशवैधराः प्रेतनायकाः
सरामविघ्नदृग्दक्ष मधुसूदनमन्वतः ।
यान्तवायुधनाध्यक्षरमाधरगणाधिपाः
भुजङ्गहुतभुक्पुण्य दक्षद्विवसुगोपनाः ।
सुभगोमन्दरद्वन्द्व मग्नि भद्रक राह्वयम्
बन्धुमस्तकपञ्चान्ता विष्कम्भद्विरदाननाः ।
विक्रमो दक्षहुतभुग्भ्रह्मसाधनमब्जज
वक्रतुण्डधरौ शुक्ल कुम्भाग्निद्विरदासनाः ।
मधुसूदनपञ्चान्त पश्छिमा ऋतमन्दराः
वैधरोग्नि शिराश्शङ्ख शुक्लकुम्भवपुश्शिराः ।
सूक्ष्मदृक्चोर्ध्वविजय वरुणा वित्तवर्धनाः
यष्टिं सरोरुहं यान्तं पश्चिमाग्निस्समन्दराः ।
द्युमणिस्सध्रुवं शुक्लं वरुणो दरमन्वतः
ओतदेहं तथा दक्षं वक्रतुण्डं करालकम् ।
अग्निरेणेश श्रीवत्स कुम्भाग्नि सहपश्चिमौ
ऋतं भल्लायुधं गोपपाशपाणिजनार्दनाः ।
अत्रिं श्रीवत्समनलं वायुं शुक्लं जलाशयम्
वसुं मधुद्विषं चन्द्रं श्रीधरोग्निश्चतुर्मुख ।
संप्रसारणवैराजवसुशुक्लमदुद्विषः
वैधरो भद्रचण्डांशु श्वसनौ दक्षश्रीधरौ ।
चक्री समन्दरमचां पञ्चमं कमलोद्भव
उदयं विघ्ननयनावादिखड्गधरा रमा ।
वै राजपद्माहुतभुक्पञ्च बिन्दुधनाधिपाः
अग्निरुग्रात्ममधुबिद्धृदया ह्लादमक्षरम् ।
गदध्वंसं श्रियः कान्तं वनस्रक्ससमिरणम्
कुम्भविक्रम पञ्चान्त ऋतभास्करवैजयाः ।
भुवनोऽमृतवै राज वसुभल्लकरालकाः
वै राज जन्महन्तारं द्विरदः कुम्भवैजयाः ।
स्वशिरोग्निं तथा शुक्लपीतकुम्भास्सयामिनी
नाधं रमाधरं विघ्नुमायां चैव सरोरुहम् ।
हुता शकपिलाक्षौ द्वौ पश्चिम व्रतधानिलौ
छलध्वंसी पवित्राह्व हृषीकेशहुताशनम् ।
कान्तादिपीतफणबृद्दक्षवामनमस्तकान्
हौरम्भोऽग्नि र्मधुद्वेषी शुभदोदरमैन्दवम् ।
पाटलद्वन्द्वमोङ्कारचण्डांशुकपिलाक्षरम्
कमलोग्निस्सभुवन दक्षगोपनयष्टिकाः ।
हुताशतार्क्ष्यमधुभि न्नासिक्यं चतुरासन
श्रीबीजंच गदध्वंसं पीतौर्वंध्रुवमादिमत् ।
पाटलोबन्दुविजय वै राजमृगवल्लभाः
ककुभो माधवपरं ठठान्तो मनुरीरितः ।
नारदोऽस्य मुनिर्द्रष्टा वरिवं छन्ध ईरितः
देवता देवदेवेशः कृष्णः कमलसम्भव ।
अङ्गानि पूर्ववच्छास्य पुरश्चर्या च पूर्ववत्
जातिपुष्पौर्बिल्व फलैस्समिद्भिर्होममाचरेत् ।
छायायां बिल्ववृक्षस्य जपहोमादिकं भवेत्
आणिमादिकमैश्वर्यं पुरुषार्थ चतुष्टयम् ।
फलं ददाति मन्त्रोऽयं मन्त्रविद्भस्सुसाधितः
मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0