पद्मसंहिता · अध्याय 4.26
गायत्रीं वैष्णवीं ब्रह्मन् चतुर्विंशाक्षरात्मिकाम् ।
शृणु वक्ष्यामि परमं रहस्यं कथ्यतेऽधुना
मातृकाचक्रमभ्यर्च्यछन्दसामादिमुद्धरेत् ।
आदिदेवशिराश्चात्र विघ्नेशं तदनन्तरम्
वह्न्यन्तं गोपनं पश्चाच्छङ्खं विष्णुशिरः स्मृतम् ।
सुमुखं गोपनयुत मन्यच्च मरुदादिमत्
मायाश्रितं सुधाधाम वैधरोऽन्वकच्छ मन्दरम् ।
विष्णुशीर्षो भास्करोऽथ माथवाधिष्ठितः क्रमात्
आदिदेवसमाक्रान्तः कुम्भशुक्लोदयावहौ ।
वैधरो देवतान्तश्च पीयूषरुचिराशिराः ?
अनिलः प्रणवाद्यन्तो महामायाशिराः क्रमात् ।
धनदोनु ततो दक्षो विष्णुमूर्धाथ भास्करः
मायाशिराश्च वैराजो विष्ण्वन्तो भद्रपाणियुक् ।
ओतदेहः परः कुम्भस्त्रिविक्रमपरस्स्मृतः
क्रोधनं वनमाल्यन्तं तद्वयं भुवनावधि ।
वसर्गः पापहन्ता च वह्निश्चाद्यर्णसंयुतः
चकारश्चोतदेहश्छ द्वौ दृष्टिर्विष्णुमूर्धकः ।
दरश्च गोपनश्चोभौ विजयोर्णस्समुद्धृतः
चन्दश्छ देवी गायत्रमृषिर्ब्रह्माधिदैवतम् ।
विष्णुष्षडङ्गानि तथा क्रुद्धोल्कादीनि पद्मज
मूर्धादिपादपर्यन्तमक्षरन्यसनं मतम् ।
मूर्ध्निफाले नयनयोर्नासिकापुटयोस्तथा
श्रोत्रयोरास्यगलयोर्हृदये बुहुमूलयोः ।
न्यासः कूर्परयोश्चैव तथैव मणिबन्धयोः
हस्तयोः कुक्षिमध्ये च गुह्येचोर्वोश्च जङ्घयोः ।
पादयोश्च क्रमादेवं न्यासःप्रोक्तश्चतुर्मुख
पीतं कक्तं च धूम्राभं श्वेतं कृष्णं च लोहितम् ।
वलर्क्षं पीतकं रक्तं श्यामं शङ्खनिभं तथा
पाटलं स्फटिकाभं च पीतं रजतसन्निभम् ।
चन्द्रदीधितिसङ्काशं पद्मकिञ्जल्कसन्निभम्
ताराभं बन्धुजीवाभं नक्षत्राभं च पाटलम् ।
जपाकुसमसङ्काशं तप्तजाम्बानदप्रभम्
रविप्रभं चाक्षराणां वर्णभेदः प्रदर्शितः ।
कालमेघनिभं सौम्यं चतुर्बाहुं किरीटिनम्
शङ्खचक्रगदापाणिं गरुडारूढमच्युतम् ।
एवं ध्यात्वाऽर्चयेद्देवं प्रातः काले समाहितः
स्फटिकोपलसङ्काशं गरुडारूढविग्रहम् ।
मध्यन्दिनेऽर्चयित्वा तमाचरेज्जपमात्मवान्
प्रदोषेषु चतुर्हस्तं वैनतेयोपरिस्थितम् ।
श्यामलं पुण्डरीकाक्षं ध्यायन्मन्त्र मुदीरयेत्
कुर्यात्त्रिषवणस्नानं व्रतस्थस्संयतेन्द्रियः ।
चतुर्विंशति लक्षेण मन्त्रजापेन सिध्यति
मन्त्रवित्साधकोवारितर्पणं होमकर्मच ।
कुर्वन्नाप्नोति सकलां सिद्धिमिष्टां सुदर्लभाम्
गोमूत्रयावकाहारो जपेल्लक्षमतन्द्रितः ।
पातकेभ्यो महद्भ्योपि मुच्यते नात्र संशयः
ब्रह्मकूर्चं पिबन् लक्षत्रयं मन्त्रं जपन्सुधीः ।
तत्समेभ्यः पातकेभ्यो विमुक्तोमन्त्रवित्तमः
ब्रह्मादि देवतास्सर्वा निनीषुर्वशमात्मनः ।
अणिमादिफलं प्रेव्सुस्तथैवाकर्षणोद्यतः
वशीकारे च सर्वेषां पातालगमने तथा ।
गन्धर्वयक्षप्रमुखान् प्रमुखानात्मनस्सदा
चिकीर्षुरष्टाक्षरवदनुतिष्ठेच्छतुर्मुख ।
सकृदुच्चारयन्मन्त्रं विष्णुगायत्रिसंज्ञितम्
वेदानामसकृत्सर्व शाखाध्ययनपुण्यभाक् ।
केशकीटादिदुष्टानि हवींषि ध्यानमास्थितः
स्पृष्ट्वा जपेन्मन्त्रमिदं सद्यः शुद्धानि पद्मज ।
चतुर्णां मूलमन्त्राणां फलमेतेन सिध्यति
श्रीकरं मन्त्रमपरं वक्ष्ये सर्वार्थसाधनम् ।
अष्टाक्षरं चतुर्वक्त्र रहस्यं परमं शृणु
वर्णचक्रं लिखित्वादौ समभ्यर्च्य ततः पुनः ।
उद्धरेच्छ्रीकराष्टार्णं मन्त्रं मन्त्रप्रभाववित्
आदौ समुद्धरैत्तारमुदयं तदनन्तरम् ।
द्विरेकनेत्रमायान्तं क्रोधनं कौस्तुभाक्षरम्
विष्णुशीर्षं ततो लक्ष्मीमनलं तदनन्तरम् ।
महामायायुतं पद्ममप्रमेयमनन्तरम्
अग्निमादिं चतुर्वक्त्रठठेति श्रीकराह्वयम् ।
भीजमस्य प्रवक्ष्यामि यथातत्वमुदीर्यते
दीप्तिमाननलः पञ्च बिन्दुरर्धेन्दुनिष्ठिता ।
बीजमङ्गानि षट्चापि क्रुद्दोल्कादीनि पूर्ववत्
छन्धश्च देवी गायत्रमृषिरस्य प्रजापतिः ।
देवता देवदेवेशः प्रत्यर्णं पूर्ववत् स्मृतम्
ऋषिश्छन्दोदैवतं च
ध्यानं संप्रति कथ्यते ।
कल्पकानोकहच्छायामाश्रित्य सुखशीतलाम्
गरुडस्य चतुर्बाहोस्सर्वालङ्कारधारिणः ।
स्कन्धदेशे सुखासीनमष्टबाहुं किरीटिनम्
कुन्देन्दुधवलं सौम्यं सर्वाकल्पपरिष्कृतम् ।
दिव्यगन्धविलिप्ताङ्गं दिव्यमालाविभूषितम्
पीताम्बरधरं नीलकुन्तलैरुपशोभितम् ।
चक्रं च मुसलं भाणमङ्कुशं दधतं भुजैः
चतुर्भिर्दक्षिणैरन्येश्शङ्खं कौमोदकीं तथा ।
शार्ङ्गं पाशंच कल्याणैः प्रसन्नेन्दुनिभाननम्
गरुडोपि च हस्ताभ्यामुभाभ्यां पादपङ्कजे ।
देवस्य धारयन् कुम्भं पूर्णं पीयूषवारिणा
इतराभ्यां च हस्ताभ्यां स्पृशन्नास्ये स्थितं तथा ।
श्रियं च वामोरुतले रुक्माभां क्षौमवासिनीम्
दिव्यगन्धविलिप्ताङ्गां सर्वाकल्पपरिष्कृताम् ।
सुभ्राललाटमुकुटां कर्णविश्रान्तलोचनाम्
लावण्यामृततोयेन वर्षन्तीमिव सर्वतः ।
पाशाङ्कुशधरां लक्ष्मीं कन्दर्पशरपीडिताम्
ध्यात्वैवं पूजयित्वातु व्रतस्थस्संयतेन्द्रियः ।
द्वादशाहं जपेन्मन्त्रं ध्यात्वा पार्श्वे निधिद्वयम्
ऊर्ध्वबाहुर्जलेतिष्ठन्नुरोदघ्ने समाहितः ।
आदित्याभिमुखो मन्त्री जुहुयाच्च समिच्छतम्
बिल्वोद्भवैस्तथालक्ष्मीं कुसुमैः पायसोदनैः ।
शुद्धोदनैर्घृताक्तैश्च अष्टोत्तरसहस्रकम्
एवं कृते विधानेन पुष्टिरुत्पद्यतेऽचला ।
पौष्टिकादि च पूर्वोक्तफलं पूर्वोक्तसङ्ख्यया
शान्तिकं पौष्टिकं कर्ममन्त्रेणानेन साधयेत् ।
लक्ष्मीनारायणाह्वानं मन्त्रं परमदुर्लभम्
तस्योद्धारं प्रवक्ष्यामि शृणु वर्णक्रमेण तम् ।
उद्गीथं मनुजेशानं विष्णुं मन्दर मेव तत्
सूक्तीन्दुमुख्यमपरं गदिनं कुम्भमर्पितम् ।
आद्यन्तं विजयं दत्तं माहेन्द्रं चाप्रमेयकम्
गरुडं दक्षमपरं महामायां विनायकम् ।
आदिदेवं ततो वह्निं गोपनं च चतुर्गतिम्
आद्यं प्रचण्डमाकारं शङ्खमादिं ठठेति च ।
उद्दृत्य षोडशार्णं तन्मन्त्रं बीजश्च कथ्यते
द्युमणिं बिन्दुमपरं वामनं बिन्दुमुद्धरेत् ।
अङ्गानि पूर्वमुक्तानि छन्धो गायत्रमुच्यते
विद्धि शुक्रो मुनिर्देवो लक्ष्मीनारायणस्स्मृतः ।
जपष्षोडशलक्षं तु तदर्धं वारितर्पणम्
होमस्ततर्धोमन्त्रस्य फलान्याहुर्यथा क्रमम् ।
सङ्कर्षणादिमूर्दीनां तिसृणां मनुरुच्यते
आदितः पूर्ववत्सप्त वर्णानाममनुपूर्वशः ।
उद्धारश्शिष्टवर्णानां ब्रह्मन् संप्रति कथ्यते
दीप्तिमान् वह्निरौर्वश्छ द्रुवश्शुक्लस्तथादिमान् ।
बिन्दुः प्रजापतिश्चाद्यो वह्निरुग्रो मुखं ततः
सुमुखं गोपनयुतं वायुराद्यं ठठान्तितम् ।
द्वादशारोणात्मको मन्त्रोबीजमङ्गं च पूर्ववत्
छन्दश्च देवी गायत्रमृषिस्यान्नीललोहितः ।
देवस्सङ्कर्षणो वर्णो देवता तत्वनिर्णयः
द्वादशाक्षरवत् ज्ञेयः पुरश्चरणमीरितम् ।
फलानि पूर्वमुक्तानि वाक्सिद्धिर्महती भवेत्
ज्ञानं च महदाप्नोति यच्चान्यदधिकाङ्क्षितम् ।
तत्सर्वमचिरादेव सिध्येन्मन्त्रप्रभावतः
शङ्खगोक्षीरधवलं चतुर्भाहुं किरीटिनम् ।
वसानं वसनं क्षौमं पूर्णचन्द्रनिभावनम्
मुक्तां भूयिष्ठमाकल्पं सौवर्णमतिशोभनम् ।
दधानं मुख्यहस्तेन ज्ञानमुद्रासमन्वितम्
पुस्तकं वामहस्तेन बिभ्राणं भुजयोर्द्वयोः ।
ऊर्ध्वयोस्स्फाटिकं शङ्खमक्षमालां यथातथम्
धवलैः कालजैः पुष्पैश्शोभितं वनमालया ।
श्वेतपद्मे सुखासीनमेवं ध्यायीत मन्त्रवित्
ध्यायतो बुद्धिरतुला भवेत् ज्ञानं च पुष्कलम् ।
शान्तिकं पौष्टिकं कर्म कुर्यादेतेन पद्मज
बहुना किं प्रलापेन द्विषट्काक्षरवत्फलम् ।
सर्वमाप्नोति मनुना साधकः कमलासन
प्रद्युम्नमन्त्रमधुना सर्वकामफलप्रदम् ।
ब्रवीमि तस्य चोद्धारं कथ्यतेऽक्षरशः क्रमात्
आदित स्सप्तवर्णानामुद्धारः पूर्वमीरितः ।
अस्यासाधारणार्णानां संप्रत्युद्धार उच्यते
पाप्मानमनलं विष्णुमन्त्रं वायुमुकारवत् ।
मन्दरं भद्रपाणिं च मधुसूदनमारुतौ
आग्नेयी दश चैकं चाप्यर्णस्संहननं मतम् ।
अनुस्वारपरो विष्णुर्भीज मङ्गं च पूर्ववत्
ऋषिस्सनत्कुमारस्स्याच्छन्दो गायत्रमुच्यते ।
प्रद्युम्नो देवता मन्त्रस्साधनं फलमेव च
पूर्वोक्तम्
मन्त्रमपरमानिरुद्धमतः परम् ।
शृणु ब्रह्मन् यथापूर्वं सप्तार्णानामनुक्रमात्
उद्धारः परिशिष्टानामार्णानां कथ्यतेऽ धुना ।
प्रणवाद्योभद्रहस्तोमाया सप्तार्चिरेव च
उदयौ द्वौ च सुभगो गोपनो वायुरादिमान् ।
बीजमस्याप्रमेयश्च विसर्गश्छावसानतः
ऋषिश्च सनकश्छन्दः पूर्ववद्देवता तथा ।
अनिरुद्धो द्वादशार्णः क्रमेण समुदीरितः
यथापुरं षडङ्गानि साधनं फलमेव च ।
चतुर्विंशतिमूर्तिनां समाख्या द्वादशादिभिः
मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0