भाषा

ENहिગુ
ग्रंथ पाठ

पद्मसंहिता · अध्याय 4.25

4.25.1

अष्टाक्षरस्य मन्त्रस्य महिमानमनुत्तमम् ।
शुस्रूषितमतमथच्छन्दो विशेषं सर्षिदैवतम्

4.25.2

फलं तन्मन्त्र जापस्य रूपं वा कीदृशं मतम् ।
देवता साधनं चापि मदन ग्रहकाम्यया

4.25.3

ब्रूहि सर्वमशेषेण मह्यं शुश्रूषवेऽच्युत ।
अष्टाक्षरस्य मन्त्रस्य फलानि न हि शक्यते

4.25.4

वक्तुं वर्षशतेनापि तेषां दिङ्मात्रमुच्यते ।
धर्मार्थकाममोक्षाणामेकान्तफलदं शुभम्

4.25.5

सिद्धयो बहुधा जप्तुर्मन्त्रं चोदितसज्ञ्यया ।
अचिन्तनीयो महिमा देवस्येव मधुद्विषः

4.25.6

शुचौ विविक्ते विजने सर्वदोषविवर्जिते ।
वर्णचक्रं समालिख्य भूमावर्घ्यादिसाधनैः

4.25.7

अभ्यर्च्यच यथान्यायं ततो वर्णान् समुद्धरेत् ।
उद्गीथमादौ विघ्णेशः प्रयोज्यस्तदनन्तरम्

4.25.8

ब्रह्मासाधनसंयुक्तो मन्दरस्स्यादनन्तरम् ।
आदिदेवो व्रतो भद्रबाहुःपश्पादुदीरितः

4.25.9

वह्निर्गोपनसंवीतश्श्वपनो विष्णुशीर्षकः ।
वनमाली ततो योज्यो मधुसूदनसंयुतः

4.25.10

प्रणवादिशिरो वायुरिति वर्णक्रमोदितः ।
बीजं विष्णुरमस्वारस्सामर्थ्यं कथितं पुनः

4.25.11

अङ्गानि षड्द्विषट्कस्य मन्त्रस्येव विदुर्बुधाः ।
छन्दश्च देवी गायत्रमन्तर्यामी मुनस्स्मृतः

4.25.12

देवो नारायणस्साक्षाद्दैवतं क्षेत्रमीरितम् ।
परमव्योम बुद्धिस्स्यात्तत्वं वर्णस्सित स्तथा

4.25.13

प्रत्यक्षरमृषिर्ब्रह्मन् गौतमः प्रथमस्स्मृतः ।
भरद्वाजो विश्वामित्रो जमदग्निरनन्तरम्

4.25.14

वसिष्ठः काश्यपः पश्पा दत्रिस्यात्कुम्भसम्भवः ।
छान्दांसि गायत्र्यादीनि विराडवसितानि च

4.25.15

धरोध्रुवश्च सोमश्च आपश्चाग्निर्जलाधिपः ।
प्रत्यूषश्च प्रभातश्च देवाः प्रत्यक्षरं तथा

4.25.16

आकाशं परमं क्षेत्रमक्षरस्यावसानतः ।
सत्यादि लोकास्सप्तस्युः प्रातिलोम्येन भूमयः

4.25.17

अक्षराणां पृथिव्यन्तास्सप्तानां सप्त पद्मज ।
अग्निर्भूर्वायुराकाशं सूर्यो द्यौरथ चन्द्रमाः

4.25.18

नक्षत्राणि तथा राशिरेते तत्वान्यनुक्रमात् ।
निरुक्तमस्य मन्त्रस्य कथयामि यथातथम्

4.25.19

अविः क्विबन्तो व्याप्त्यर्थःस्मर्यते कर्तृसाधनः ।
ओंकारवर्णव्यत्यासस्स्यादकारस्य पद्मज

4.25.20

मकारवर्णाव्यत्यासो वकारस्याप्ययन्त्विदम् ।
अन्तर्बहिश्च यत्सर्वं व्याप्नोति तदुदीर्यते

4.25.21

अथवा तन्तुसन्तानं वृत्तेर्वाथ भविष्यति ।
टेश्च लोपो वकारस्य प्रसारणमतःपरम्

4.25.22

पूर्वत्वं चोपसर्गेण स्यादन्तश्चाद्गुणः कृतः ।
यस्मिन्नोतमिदं सर्वं तदेवमभिधीयते

4.25.23

अवते रक्षणार्थत्वा दटि लेपे च वर्तते ।
वकारस्योपधायाश्च द्वयो रूढागमःस्मृतः

4.25.24

गुणे च रूपं यत्सर्वं त्रायते तत्परं परम् ।
अभिधेयमितिप्रोक्ता निरुक्तिः प्रणवस्य सा

4.25.25

सम्यते देव एवैक स्तेषामेकं परायणम् ।
नरो देवः परस्स्रष्टा सर्गादौ पाथसामथ

4.25.26

तस्मान्ना राणि पाथांसि तान्येवायनमुच्यते ।
देवस्य हेतोश्चामुष्मान्नारायण समाह्वयः

4.25.27

नारावाऽयनमावासः पुरुषस्य मधुद्विषः ।
अण्प्रत्ययः प्रकृत्यर्थे ततो वाससमाह्वयः

4.25.28

एवं मन्त्रमिमं लब्ध्वा सम्यग्गुरुमुखात्ततः ।
गुरुशुश्रूषणपरस्सर्व मन्द्राणि साधयेत्

4.25.29

ब्रह्मचर्ये स्थितो मौनी मेध्याहाराशनो प्रती ।
अशनीयानि मेध्यानि पक्षामि खृणु तान्यपि

4.25.30

पयोयावकशाकाम्बफलमूलानि सक्तवः ।
आद्यं कुशोदकं मेध्यं दधि भिक्षान्नमेव च

4.25.31

साधने मन्द्रजापस्य शृणु कालं यथोदितम् ।
मूर्गशीर्षे शुभे मासि द्वादश्यां चन्द्रवर्धने

4.25.32

अराध्य परया भक्त्या नारायणमनन्यधीः ।
चाक्राब्जमण्डले देवं द्याये देवं समाहितः

4.25.33

चतुर्भाहुमुदारङ्गं चक्राद्यायुध सेवितम् ।
कालमेघप्रतीकाशं पद्म पत्रायतेक्षणम्

4.25.34

पीताम्बरधरं सौम्यं प्रसन्नेन्दुनिभावनम् ।
चारुहासं सुताम्रोष्ठं रत्नोज्वलितकुण्डलम्

4.25.35

सुभ्रा ललाटं सुमुखं सर्वाभरणभूषितम् ।
ललाटतिलकं सौम्यं दीपवच्छ्वेतमृत्स्नया

4.25.36

धृतोर्ध्वपुण्ड्रतिलकं मण्डितं चण्डभानुना ।
स्फुरत्कटककेयूरहारकौस्तुभभूषितम्

4.25.37

स्फुरद्भास्करवर्णाभं शोभितं वनमालया ।
प्रद्योतनसहस्राभभूषणै रपि भूषितम्

4.25.38

दिव्य चन्दनलिप्ताङ्गं दिव्यमाल्यविभूषितम् ।
श्रीभूमिभ्यां सुखासीनं स्वर्णसिंहासने शुभे

4.25.39

ध्यात्वैवं देवदेवेशं मन्त्राजाप परो भवेत् ।
सुखासीनो यथाकालं शुचिर्भूत्वा समाहितः

4.25.40

मन्त्रं जपेज्जगन्नाथं समाराध्य दिने दिने ।
जपेल्लक्षाष्टकं प्रोक्तं तदर्धं तिलतर्पणम्

4.25.41

तदर्धं जुहुयादग्नौ ततस्सिध्यति मन्त्रराट् ।
अथ संसाधिते मन्त्रेण स्वप्ने जाहरणे तथा

4.25.42

सिद्धिलिङ्गानि मन्त्रस्य मन्त्री पश्यति सन्ततम् ।
ततस्सिद्धेन मन्त्रेण साधयेद्धर्ममुत्तमम्

4.25.43

अथमन्त्रवराद्धर्मसाधनं योऽभिवाञ्चति ।
यः पितृणां च सर्वेषां तर्पणं मन्त्रवित्तमः

4.25.44

ऋणत्रयाद्विनिर्मुक्तिं सर्वस्मादभिवाञ्चति ।
उपोष्य स शुचिर्भूत्वा कुम्भेचक्राब्जमण्डले

4.25.45

आवाह्य देवमाराध्य सम्यगर्घ्यादिसाधनैः ।
गोहिरण्यादिभिर्द्रव्यैस्तितैश्चैव कुशोदकैः

4.25.46

दत्तैर्मन्त्रजपैर्युक्तः प्रापयेल्लोकमक्षयम् ।
पतृन् मन्त्रप्रासान नरकस्थानपि क्षणात्

4.25.47

अतोऽन्यल्लुप्त पिण्डानां पतृणां तृप्तिकारणम् ।
विधिं वक्ष्यामि कल्याणं चतुर्वक्त्र यथातथम्

4.25.48

उपोष्य मन्त्रवित्पूर्वं पूर्वेद्युस्सु समाहितः ।
पञ्चम्यां माघमासस्य मण्डलं चक्रपङ्कजम्

4.25.49

अर्चयित्वा ततस्तस्य मध्ये देवं जगद्गुरुम् ।
यजेत कृसरान्नेन होमं तेनैव कल्पयेत्

4.25.50

समिदाज्यतितानापि मन्त्रेणाष्टोत्तरं शतम् ।
पित्रादि नाम संकीर्त्य तारयेति पदान्वितम्

4.25.51

प्राचीनावितिको भूत्वा होमान्ते दक्षिणामुखः ।
दक्षिणाग्रान् कुशान् भूमापास्तीर्य ध्यानमास्थितः

4.25.52

ध्वात्वा नारायणं देवं तर्पयेच्च तिलोदकैः ।
तदक्षयं जलं दत्तं पितृणां तृप्तिमावहेत्

4.25.53

तर्पयित्वा सदाचारान् ब्राह्मणान् भगवन्मयान् ।
भोजयेत्षड्रसोपेतं भोजनं द्वादशावरान्

4.25.54

दद्यात्तेभ्यस्तिलान्वस्त्रान् गोहिरण्यादिकं ततः ।
ततस्सव्ये भुजे न्यस्य ब्रह्मसूत्रं समाहितः

4.25.55

अग्रे भगवतो दर्भान् दक्षिणाग्रान् धरातले ।
आस्तीर्य साग्रान् सुषमानासीनू दक्षिणामुखः

4.25.56

पात्रस्थमन्नं दधि च तिलांश्चबदरीफलम् ।
कबलीकृत्य तान् पिण्डान् समान्मन्त्रमुदीरयेत्

4.25.57

मधुवातेति तिसृभिरृग्भिर्बर्हिषि निक्षिपेत् ।
गोत्रनाम समुच्छार्य पितृणां सेचनं जलैः

4.25.58

पुण्डान् पितृब्यो मातृभ्यो भ्रातृभ्योगुरवे तथा ।
आचार्यय तथान्येभ्यो बन्धुभ्यो ध्यानमास्थितः

4.25.59

अवसेचनपूर्वं तु मन्त्रेणानेन मन्त्रवित् ।
पिण्डान् दद्यादभिध्यायन् देवं नारायणं हरिम्

4.25.60

आसेचनं प्रकुर्वीत पुनरेव विचक्षणः ।
एवं विधाय विधिवदृणान्मुक्तश्च तत्क्षणात्

4.25.61

विमानं दिव्यमारुह्य याति ब्रह्म सनातनम् ।
उपवानान् बहुविधानक्षमः कर्तुमञ्ञसा

4.25.62

देवं चक्राब्जमध्यस्थं यजेदर्घ्याधिसाधनैः ।
सिद्देनानेन मन्त्रेण नैवेद्यैश्च चतुर्विधैः

4.25.63

हुत्वाघृतेन ज्वलने समिधाष्टोत्तरं शतम् ।
तन्मयान्भोजयेद्विप्रान् दद्याच्च विभपोचितम्

4.25.64

इष्ट्वेवं देवदेवेशं व्रस्थो नियतेन्द्रियः ।
चान्द्रायणं पराकं च कृच्छ्रं सान्तपनं तथा

4.25.65

संवत्सरोपवासं च तथैकादुश्यु पोषितम् ।
कृष्णाष्टम्यां श्रावणे च जयन्त्यादि प्रतेष्वपि

4.25.66

एकादश्युपवासस्य यदुक्तं फलमुत्तमम् ।
तत्तच्छतगुणं विद्यात्फलं पूजाविधेरपि

4.25.67

यज्ञधर्मफलाकाज्क्षीतत्तत्फलमवाप्नुयात् ।
तर्थाभिगमनस्यापि फलं सप्ताहपूजनात्

4.25.68

पवित्रारोहणे वापि प्रतादिपरिपूरणे ।
स्नवने चोत्सवे पञ्चकालाभिगमने तथा

4.25.69

गोपुरालय सालादिनिर्माणे प्रतिमासु च ।
क्षेत्रारामतटाकादि प्रदाने च मधुद्विषः

4.25.70

घृतदीपप्रदाने च यत्फलं तत्सहस्रधा ।
फलत्याराधनाद्विष्णोर्नात्र कार्य विचारणा

4.25.71

सङ्क्रान्तौ मण्डले कुम्भेज्वलने च मधुद्विषम् ।
आवाह्य पूजयेद्देवं परमान्नैश्छतुर्विधैः

4.25.72

जुहुयान्मनुनानेन ज्वलनेऽष्टोत्तरं शतम् ।
तन्मयान्भूजयेच्छक्त्यादद्याच्चैव यथावसु

4.25.73

यस्य यस्य च धर्मस्य फलं यद्यदुदीरितम् ।
तस्य तस्य फलं तत्तन्मन्त्राच्छतगुणं भवेत्

4.25.74

अयने चोत्तरे कुम्भे वह्नौ चक्राब्जमण्डले ।
सोपवासश्शुचिर्भूत्वा समावाह्य जगद्गुरुम्

4.25.75

यजेत पूर्ववत्पश्चाद्धोमं पूर्ववदाचरेत् ।
अथार्थासाधनं मन्त्रमभिवाञ्छति चेन्नरः

4.25.76

भद्रकं मण्डलं कृत्वा तस्मिन्ना राध्य मन्त्रवित् ।
तिलैर्भिल्वैस्तथापद्मैर्निम्बपुष्पैश्च तण्डुलैः

4.25.77

चम्पकै र्मल्लिकाभिश्च मालत्या करवीरजैः ।
नन्द्यावर्तैर्यूधिकाभिः प्रत्येकं शतसङ्ख्याया

4.25.78

जुहुयाद्विद्यया विद्वान् सप्ताहं चतुरासन ।
धनमक्षयमाप्नोति मन्त्रस्यास्य प्रभावतः

4.25.79

चन्दनं कुङ्कुमं कोष्ठं रोचना लक्तकं तथा ।
घनसारं मृगमदं पिष्ट्वा तत्क्षोदवारिणा

4.25.80

धनदं विलिखेद्भूमौ सप्त रात्रमनन्यधीः ।
यजेत गन्धप्रमुखैर्निवेद्य च गुळोदनम्

4.25.81

पादेनाक्रम्य हृदयं धनदस्य जपेत्ततः ।
अयुतं नियुतं वापि मन्त्रराजं जितेन्द्रियः

4.25.82

ध्यात्वा नारायणं देवं तदनैमन्त्रवित्तमः ।
साक्षात्करोति धनदं तथैव धनमक्षयम्

4.25.83

प्रयच्छति धनाध्यक्षैरानीतं स्वाश्रयात्क्षणात् ।
माणिभद्रादिभिर्मन्त्रप्रभावेन चतुर्मुख

4.25.84

सप्ताहमथवा यागं कृत्वा भद्रकमण्डले ।
हुत्वा हुतीस्तदन्ते च कुर्याद्ब्रह्मणतर्पणम्

4.25.85

ध्यात्वा नारायणं देवमात्मानं साधकोत्तमः ।
पश्यन् महीतलं शुद्धमग्रहाराद्बहिस्थ्सितः

4.25.86

भवन्ति चास्य निधयः प्रत्यक्षा बहवस्तथा ।
अञ्जनाञ्चितचक्षुर्वा मन्त्रेणानेन मन्त्रवित्

4.25.87

निधीन् पश्यति दुष्प्रापानभीष्टां स्तत् क्षणादसौ ।
भद्रके मण्डले पूर्वमिष्ट्वा देवं जनार्दनम्

4.25.88

यज्ञदारुं वृषस्कन्धे बध्वा तस्मिन् हलं पुनः ।
कर्षयेद्भूतलं शुद्धं सितासु मणिकाञ्चनम्

4.25.89

महदाप्नोत्यभिप्रेतमथवा कमलासन ।
वल्मीकस्य तथाभ्यर्णे कृत्वा भद्रकमण्डलम्

4.25.90

यजेत पूर्ववद्देवमन्त्रे वल्मीकभूमिषु ।
नालिकेरजलैस्सार्धं पिष्टं नागबलिं क्षिपेत्

4.25.91

खात्वा वल्मीकधिष्ण्यन्तं तत्र पश्येन्महद्धनम् ।
खनित्रं क्षालयित्वा तु निशायामधिवासयेत्

4.25.92

मण्डले स्वस्तिके देवमिष्ट्वा हुत्वा तथाहुतीः ।
अष्टोत्तरशतं भूयः प्रातर्निक्षिप्य भूतले

4.25.93

शुचौ खनेत्खनित्रेण लभते सुमहद्धनम् ।
साधितं पारदं कृत्वा हस्ते जप्त्वा मनुं पुनः

4.25.94

नियुतं प्रयुतं वापि यथाशक्ति समाहितः ।
तद्रसस्पर्शमात्रेण सर्वं काञ्चनतामियात्

4.25.95

पाषाणमथवा लोष्टमग्नितप्तं न संशयः ।
औषधानि च सर्वाणि रसयुक्तानि पद्मज

4.25.96

लोहसंस्पर्शयुक्तानि सुवते कनकं महत् ।
इत्थं धनवतां कामस्समुत्रान्तः प्रवर्तते

4.25.97

तत्प्राप्तये विधायाब्जमण्डलं तत्र संस्मरेत् ।
मन्त्रेशमर्चयित्वाग्रे यथापूर्वमनन्यधीः

4.25.98

जुहुयाच्च यथोक्तेन मार्गेण दिनसप्तकम् ।
पद्मरागरुचं देवं स्मृत्वा मन्त्रं जपेत्सुधीः

4.25.99

पूर्वोक्तसङ्ख्यया स्त्रीणां भोगं चेच्छति दुर्लभम् ।
चिन्तयित्वाफलं होमकर्मण्यवसिते ततः

4.25.100

अभीष्टसाधकं सर्वाः प्रार्थयन्तेवरास्त्स्रियः ।
यावज्जीवं न त्यजन्ति कामार्ता मन्त्रवित्तमम्

4.25.101

कन्याकामः फलैः पक्वैः पुष्पैर्लाजैर्दिने दिने ।
सहस्रं जुहुयाद्देवमाराध्य गरुडध्वजम्

4.25.102

लभते कन्य कामिष्टां तदन्तेन विचारणा ।
यन्त्रं वश्यकरं पक्ष्ये श्रूयतां तद्यथातथम्

4.25.103

भूर्जपत्रे लिखे च्चक्रमष्टारं रोचनादिकैः ।
चन्दनद्वयकाश्मीरशशिकस्तूरिकान्वितैः

4.25.104

हेमसूच्यालिखेदेतैर्गन्धद्रव्यैस्तथापरैः ।
नाभिनेमियुतं चक्रमष्टारं ज्वालयान्वितम्

4.25.105

अष्टस्वरेषु विलिखेदक्षराण्यष्ट पद्मज ।
प्रादक्षिण्येन विस्पष्टं ह्रीङ्कारं मध्यमे पदे

4.25.106

साध्यनामापि तत्रैव सोङ्कारं तदनन्तरम् ।
ह्रीङ्कारं नाभिवलये दिक्ष्वष्टासु समर्पयेत्

4.25.107

ह्रीङ्कारं नेमिवलये वशीकरणमक्षरम् ।
तथैवाशानु सर्वासु वशं कुरु पदान्वितम्

4.25.108

तस्मिन्नावाह्य देवेशमिष्ट्वा मन्त्रं जपेद्बुधः ।
अष्टोत्तरसहस्रं तु हुहुया दाहुती स्ततः

4.25.109

गुलिकां बिभ्रतस्तस्य वश्यं सर्वमनन्तरम् ।
अथवा पादयोः पांसून् रक्तचन्दनमिश्रितान्

4.25.110

आदाय पुरुषाकारां स्त्रीरूपां वा यथेप्सिताम् ।
कृत्वा प्रतिकृतिं तस्मिन्नस्यात्मानं स्मरेद्धरिम्

4.25.111

ताडयेन्मूलमनुना रक्तैस्तु हयमारजैः ।
प्रत्यहं मन्त्रजापस्स्यादष्टोत्तरसहस्रकम्

4.25.112

पश्या नारी पुमान् वापि सप्ताहान्ते जपाद्भवेत् ।
यावज्जीवं धनैर्दत्तैरात्मना वा यथेप्सितम्

4.25.113

तिलतण्डुलदूर्वाणामयुताहुतिभिः क्रमात् ।
ब्राह्मणक्षत्रियविशो वश्यमन्त्र प्रभावतः

4.25.114

अपामार्गसमिद्भिर्वा होमाद्वार्णान् वशं नयेत् ।
औदुम्बरसमिद्भिर्वा पलाशसमिधापि वा

4.25.115

होमेन ब्राह्मणा वैश्याः पूर्वोक्ताहुतिसङ्ख्याया ।
त्रिभिर्मधुरसैस्सिक्तैरपामार्गसमिच्छतैः

4.25.116

दशभिर्जुहुयादग्नौराजा वश्यः क्षणाद्भवेत् ।
अश्वत्थैः खादिरै र्वापि वशीकरणमीरितम्

4.25.117

वटवृक्षसमित्सङ्घैर्वैश्यास्सर्वे वशीकृताः ।
शूद्रस्तु प्लक्षसमिधामाहुत्या स्ववशः क्षणात्

4.25.118

गन्धद्रव्यसमायुक्तमृत्स्नया तिलकं दधत् ।
दृष्टमात्रेण जनतां वशं नयति मन्त्रवित्

4.25.119

ध्यात्वा करतले चन्द्रं तन्मध्ये विष्ठितं हरिम् ।
सुखासीनं पुण्डरीककर्णिकायां सितप्रभम्

4.25.120

ध्यायन् करतलस्प र्शैस्सर्वं वश्यं क्षणाद्भवेत् ।
भक्ष्यं भोज्यं तथा पेयं फलं वा पुष्पमेव वा

4.25.121

स्पृष्ट्वा सहस्रजापेन दत्तं सर्वान् वशं नयेत् ।
अकर्षणविधिं वक्ष्येतं ब्रह्मन्नवधारय

4.25.122

भूर्जपत्रे लिखेच्चक्रमष्टारं पूर्ववर्त्मना ।
गन्धद्रव्यैर्लिखेन्मन्त्रं हेमसूच्या विचक्षणः

4.25.123

वेष्टयेदुक्तसूत्रेण तद्यन्त्रमभिमन्त्रितम् ।
शिखिचङ्चुपुटे न्यस्तं भावयित्वा जपेत्ततः

4.25.124

तन्नामसंयुतं मन्त्रं क्रुद्ध्यन्नाकर्षयेति च ।
युक्तं सहस्रं सप्ताहं जपेत्प्रतिदिनं सीधीः

4.25.125

आत्मानं गरुडारूढं सायुधाष्टभुजं हरिम् ।
बन्धूकपुष्पसदृशं भावयित्वा जितेन्द्रियः

4.25.126

वामोत्सङ्गे हरेर्देवीं निषण्णां कामविह्वलाम् ।
पाशाङ्कुशधरां लक्ष्मीं ध्यात्वा च तदनन्तरम्

4.25.127

नृपं बध्वा गले पाशैस्ताडयित्वाऽङ्कुशादिभिः ।
आयुधैः वृष्ठतो मन्त्रमाकर्षय पदान्वितम्

4.25.128

जप्त्वाऽयुतं सप्तदिनं योजनानां शते स्थितम् ।
अपि भूपं नयत्याशु साधको मन्त्रतेसजसा

4.25.129

धनेन महता युक्तस्स्वयमेवागतोनृपः ।
वश्यो भवति कृत्वैवं विप्रादीनपि वा ऽऽनयेत्

4.25.130

योषिदाकर्षणे चापि कृत्वैवं कर्म मन्त्रवित् ।
पञ्चभाणेषुभिर्विद्धां सर्वाङ्गेषु स्त्रियं स्मरेत्

4.25.131

पाशबद्धं तथैवान्यैरायुधैप्ताडितां भृशम् ।
क्षिप्रमेवानयेन्नारीं सप्ताहाच्छरवेगवत्

4.25.132

दूरस्थितामपि तथा राज्ञो वा महिषीमपि ।
सा सन्निधत्ते कामार्ता मदविह्वाललोचना

4.25.133

समृद्धार्थात्मना वापि धनैर्वापि यथेप्सितैः ।
साधकं तोषयत्येषा मन्त्रजापाद्यथोदितात्

4.25.134

मृतनारीकपाले वा रोचनाद्येन वस्तुना ।
पूर्ववच्च क्रमलिख्य तन्मध्येऽभीष्टयोषितः

4.25.135

लिखित्वा नामधेयं त त्कपाले ज्वलने पुनः ।
तापयित्वा जपेन्मन्त्रं सप्ताहं जूप्वसङ्ख्यया

4.25.136

ततस्सिध्यति सा नारी दूरस्थापि यथेप्सिता ।
यक्षाणामपि यक्षीणां साधनं शृणु कथ्यते

4.25.137

वटवृक्षे कुटिं कृत्वा तत्र चक्रब्जमण्डले ।
आराध्य तेवं जुहुयाद्वटवृक्षसमिच्छतैः

4.25.138

दशभिः प्रत्यहं मन्त्री सप्ताहे परिनिष्ठिते ।
पूर्वमेव वटे यक्षं यक्षीं वा कुङ्कुमादिभिः

4.25.139

लिखित्वा कर्म तत्सर्वं कुर्यादभिमुखे स्वयम् ।
सप्तमेऽह्नि वटे रात्रौ कम्पितेऽभीतवत् स्थितः

4.25.140

गुग्गुलुं घृतमिश्रं च धूपयेन्मन्त्रवित्तमः ।
वटाभिमुखमुत्थाय यक्षीं वा यक्षमेव वा

4.25.141

साक्षात्करोति तां तं वा या चेताभीष्टमुत्तमम् ।
मातृत्वं वा स्वसृत्वं वा भ्रातृत्वं वा यथातथम्

4.25.142

पितृत्वं वाथ भार्यात्वमिप्सितं सर्वमाप्नुयात् ।
प्रयच्छति यथायोगं यक्षी यक्षश्च मन्त्रिणे

4.25.143

माता चेन्मातृवद्रक्षेत्पिताचेत्पितृतत्तथा ।
एवं भ्रात्रादयो प्यन्ये यथास्वत्राणतत्पराः

4.25.144

विद्याधरवशीकारे विधानमपरं शृणु ।
असोकवृक्ष मूलोर्व्यां कुर्यात्पूजादि पूर्ववत्

4.25.145

विद्याधरणे यच्छक्यं कर्तुमस्यापि तद्भवेत् ।
अन्येषां देवयोनीनामेवं कुर्याद्यथाविधि

4.25.146

ते ते सर्वं प्रयच्छन्तिमन्त्रतुष्टा यथातथम् ।
पातालसाधनं चापि शृणु गुह्यं यथातथम्

4.25.147

होमावसानं पूजादि कर्म कृत्वा यथोदितम् ।
बिलद्वारसमीपे तु लक्षमष्टाक्षरं जपेत्

4.25.148

क्षीरवृक्षशमीदुर्वातिलाद्यानामनन्यधीः ।
प्रत्येकमयुतं होमं कुर्याद्वै साधकोत्तमः

4.25.149

निर्गच्छति बिलात्तस्मात्कामार्ता कन्यका स्वयम् ।
सहस्रपरिवारेण सार्धमायतलोचना

4.25.150

गृहीत्वा मन्त्रिणं स्वेषु मन्दिरेषु यथासुखम् ।
रमते दिव्यभोगैस्सा विचित्रैरतिमानुषैः

4.25.151

पातालद्वारपार्श्वे तु कारयेद्यागमण्टपम् ।
ध्वजतोरणसंयुक्तं द्वारकुम्भोपशोभितम्

4.25.152

चक्राब्जं वर्तयेत्तत्र ध्यात्वा नारायणं प्रभुम् ।
यजेत पूर्ववद्धोमं कृत्वा पूर्वोक्तसङ्ख्याया

4.25.153

अष्टलक्षं मिताहारो जितेन्द्रिय अनन्यधीः ।
तत्क्षणादेव नागेन्द्रकन्यका मन्त्रिणः पुरः

4.25.154

स्थिता मनोभववशा सहस्रैः परिवारिताः ।
आत्मतुल्याभिरन्याभिः कन्यकाभिर्वशीकृताः

4.25.155

गृहीत्वा मन्त्रिणं ताश्च नागालयपुरोत्तमे ।
प्रविश्य विविधैर्भोगैर्वशीकुर्वन्तिमन्त्रिणम्

4.25.156

पीत्वा रसायनं चापि यावदाभूतसंप्लवम् ।
रमते भीरुभिस्सार्धं दिवि देवपतिर्यथा

4.25.157

खड्गसाधनमाश्चर्यं शृणु वक्ष्यामि तद्यथा ।
देहजं लोहितं मन्त्रीश्मशानाङ्गारमिश्रितम्

4.25.158

पेषयित्वालिखेद्खड्गं चतुस्तालायतं शुभम् ।
श्मशानदेशे तन्मूलं स्पृष्ट्वामन्त्रं जपेत्सुधीः

4.25.159

निशीथे निर्जने तावद्या वज्ज्वालां विमुंचति ।
ज्वालाभिरस्य शोभन्ते दिशो दश चतुर्मुख

4.25.160

नानाविधानि भूतानि भवन्ति भयहेतवः ।
अभीतो निश्चतो मन्त्रं जपे देवं समाहितः

4.25.161

स्फुरन्तं पाणिना खड्गं गृहीत्वा दृढमुष्टिना ।
मन्त्रं जपेन्नभो याति यत्र विद्याधरादयः

4.25.162

विद्यामहिम्ना तेषां स राजा भवति मन्त्रवित् ।
यक्षराक्षसदैत्यानां जेता मर्त्येषु किंपुनः

4.25.163

खड्गहस्तस्यदा मन्त्रं जपन्याति त्रिविष्टपम् ।
तत्रापि भोगमतुलं लभते चाप्सरोगणैः

4.25.164

खड्गं वाऽऽयसमादाय पर्णैः पिप्फलसंभवैः ।
अन्तर्हितं विधायाशु नियुतं जपमाचरेत्

4.25.165

समिदाज्यैस्तथा बीजैर्जुहुयादयुतावरम् ।
नररक्तं गजमदं पित्तमाक्षं विमिश्रितम्

4.25.166

राजवर्तेन तैः खड्गं विलिप्याराधयेद्धरिम् ।
तस्मिन् पूर्वोक्तमार्गेण खड्गं स्पृष्ट्वा जपःस्मृतः

4.25.167

अष्टोत्तरसहस्रेण पश्चात्तापादिसम्भवः ।
तापे स्यादधमासिद्धिर्मध्यमा धूमजन्मनि

4.25.168

उत्तमा ज्वलने दृष्टे पश्चाद्खड्गधरस्स्वयम् ।
चरेदभीप्सितान् लोकान् भोगांश्चाप्नोति पुष्कलान्

4.25.169

शङ्खकुक्त्यदरे मन्द्रं लिखेद्गोरोचनाम्बुभिः ।
जपेन्मन्त्रवरं स्पृष्ट्वा यावज्ज्वालावलोकनम्

4.25.170

समुत्थिता च तन्मध्ये कन्या सर्ववरप्रदा ।
तिलकं चाक्षमालां च गुलु काञ्जनपादुकाः

4.25.171

दिव्यैषधं रसेन्द्रं च कपालस्थं रसाञ्जनम् ।
ददादि सर्वं सा कन्या मन्त्रिणे मन्त्रवैभवात्

4.25.172

तिलकं भिभ्रत स्तस्य नरनारी मृगादिकम् ।
स्मृतिमात्रेण पूरतो दृष्टं भवति तद्ध्रुवम्

4.25.173

तया क्षमालया जप्तः पुरश्चरणवर्जितः ।
मन्त्रो यथेप्सितान् कामान् तस्मै शीघ्रं प्रयच्छति

4.25.174

निधाय गुलिकामास्ये निर्भयस्सर्वविष्टवे ।
चरत्येष यथाकामं दीर्घमायुश्छ विन्दति

4.25.175

अञ्जनेनाक्तनयनस्स्याददृश्यस्सुरासुरैः ।
पादुकास्पर्शमात्रेण चारयत्यनले जले

4.25.176

दूरं वा गमयेच्छीघ्रं यं यं देशमभीप्सति ।
दिव्यौषधेन भुक्तेन दुर्वाधिर्नश्यति क्षणात्

4.25.177

अचिकित्स्योपि कुष्ठादिर्नात्र कार्या विचारणा ।
पाषाणादि रसेन्द्रिण स्पृष्टमाग्नौ प्रतापितम्

4.25.178

हिरण्यं भवति ब्रह्मन् पीत्वा चापि रसायनम् ।
बलवानपि तेजस्वी वलीपलितवर्जितः

4.25.179

कपाले चाश्म निक्षिप्य शत्रुमूर्धनि निक्षिपेत् ।
उद्वासितो वा म्रियते सान्ववायस्सुहृङ्जनः

4.25.180

दर्शयन्निन्द्रजालं चेन्मायादेवीं लिखेद्भुवि ।
कृष्णां च तुर्भुजां सौम्यां सर्वाभरण भूषिताम्

4.25.181

सर्वाङ्गसुन्दरीं मन्त्री पूजयित्वा जपेत्ततः ।
अयुतं नियुतं वापि मन्त्रमष्टाक्ष रान्वितम्

4.25.182

सिद्धा तदन्ते सा देवी चतुरङ्गबलं महत् ।
भूमौ प्योम्नि बलं स्रवमुद्यतायुधमद्भुतम्

4.25.183

दर्शयत्याशु मन्त्रेण म न्त्रेणे मन्त्रसिद्धदा ।
त्रैलोक्यमपि सर्वं सा प्रदर्शयति तोषिता

4.25.184

गुलिका कध्यते ब्रह्मन् निर्माण मधुनोच्यते ।
मनश्शिला तथा कुष्ठं हलितालं च कुंकुमम्

4.25.185

गोरोचनां च चक्राङ्गं सर्वं पिष्ट्वा मधुत्रिकैः ।
कृत्वा च गुलिकां चक्रपद्ममध्ये निवेशयेत्

4.25.186

एकादशीनिशायां वा यजेत हरिमव्ययम् ।
द्वादश्यामर्चयित्वा तु जपेन्मन्त्रं यथापुरम्

4.25.187

होममग्नौ प्रकुर्वीत सहस्रं सर्पिषा ततः ।
सिद्धेयं गुलिका सर्वं साधयेत्साधकस्य हि

4.25.188

वेतालसाधनं ब्रह्मन् कथयामि यथातथम् ।
ब्राह्मणं क्षत्रियं वापि युवानं निर्व्रणं मृतम्

4.25.189

तत्क्षणादेव सङ्गृह्य शून्यागारे निवेशयेत् ।
क्षालयित्वा मलं सर्वं चक्रपद्मे निवेश्यतम्

4.25.190

हृदयं तस्य चाक्रम्य पादेन ध्यानमास्थितः ।
जपेन्मन्त्रं दिवारात्रं निशीधे कम्पते शवः

4.25.191

निर्भयस्ताडयेद्देहं सिद्धार्धैरभिमन्त्रितैः ।
कम्पमानं शरीरं तदुत्थायाग्रेऽवतिष्ठते

4.25.192

किं करोमिति च ततोमन्त्रिणं संपुटाञ्जलिः ।
ब्रुवाणो मन्त्रिणे तस्मै प्रयच्छति यथेप्सितम्

4.25.193

खण्डमुष्टिं तथा दिव्यमौषधं च रसायनम् ।
गुलिकां पादुके सिद्धं रसं वेणुपुटे स्थितम्

4.25.194

पादलेपं चाक्षसूत्रमन्यद्वा दुर्लभं नृभिः ।
पादलेपेन गमनमाकाशादिषु मन्त्रिणः

4.25.195

खड्गेन शत्रुसैन्यानां वधः केसरिणामपि ।
दिव्यौषधानां सर्वेषां फलं पूर्वमुदीरितम्

4.25.196

आमयानामपस्मारमुखानां शान्तये विधिः ।
भूभागे शल्यरहीते कृत्वा मण्टपमादितः

4.25.197

निर्व्रणान् लक्षणोपेतान्कलशान् पञ्चविंशतिम् ।
पूरितान् द्रोणमात्रेण सर्पिराद्येन वस्तुना

4.25.198

ससूत्रान् सकुशांश्चैव सापिधानान् सवस्त्रकान् ।
द्वारकुम्भान् चतुर्दिक्षु तोरणानि च कल्पयेत्

4.25.199

प्रत्येकं कलशान् सर्वान् मन्त्रेणैवाभिमन्त्रयेत् ।
अष्टाक्षरेण प्रत्येकमष्टोत्तरशतावरम्

4.25.200

निशाम्बना चन्दनेन श्वेतदूर्वाङ्कुरेण च ।
भूर्जपत्रोदरे पद्ममष्टपत्रं सकर्णिकम्

4.25.201

नाभिनेमियुतं चक्रमष्टारं कमलाद्बहिः ।
प्रणवं कर्णिकादेशे साध्यनाम च मध्यतः

4.25.202

अष्टाक्षराण्यष्टदले नाभौ स्पर्शाक्षरं लिखेत् ।
नाभिक्षेत्रे यकारादीनष्टारेषु स्वरान् पुनः

4.25.203

महामायाग्नि संयुक्तं भास्करं दण्डशेखरम् ।
नेमिभागे क्रमाद्दिक्षु विदिक्षु चतुरासन

4.25.204

कृत्वैवं सितसूत्रेण परिवेष्ट्यनिरन्तरम् ।
गुलिकां तण्डुलद्रोणमध्यस्थे कलशे क्षिपेत्

4.25.205

आवाह्य हृदयात्तस्मि न्मन्त्रेशं चक्रपङ्कजे ।
चन्दनाद्यैस्सितैर्वस्त्रैः पुष्पैरन्येश्च तादृशैः

4.25.206

शाल्योदनेन च हरिं यजेत सुसमाहितः ।
पूर्णेन्दुमण्दलान्तस्थमुद्गिरन्तं सुधारसम्

4.25.207

शशाङ्कशतसङ्काशं ध्यात्वा नारायणं हरिम् ।
शान्तिं प्रयच्छ महतीमित्यन्ते समुदीरयेत्

4.25.208

शशिनो दशि वृत्तेऽथ कुण्डे क्षीराज्यतण्डुलैः ।
गुग्गुलुं क्षौद्रबीजां श्चसप्ताहं होममाचरेत्

4.25.209

पूर्वोक्तसङ्ख्यया कुम्भैः स्थापितं चामयाविनम् ।
स्वापयेन्मूलमन्त्रेण ध्यायेच्चैव जनार्दनम्

4.25.210

मूर्णेन्दुशतसङ्काशं स्यन्धमानं सुधारसम् ।
तदीयपादकमलात्सर्वतो व्याधिपीडितम्

4.25.211

प्रविश्य ब्रह्मरन्ध्रेण प्लापयन्तमनन्यधीः ।
ध्यात्वा जपेन्मूलविद्यां मन्त्रविद्व्याधिपीडितम्

4.25.212

उत्थापयति तन्मूर्ध्निन्यस्य तां गुलिकामथ ।
अपस्मारादयस्सर्वे शाम्यन्ति मनुतेजसा

4.25.213

अथादाय च मृत्पात्रं पैत्तलं वाथ काष्ठजम् ।
तस्मिन्निक्षिप्य पीयूषं दधिसर्पिस्समन्वितम्

4.25.214

ओदनं चैत्यवृक्षादिमूले भूतबलिं हरेत् ।
भोजयेद्ब्राह्मणानै दद्यातैभ्यो यथावसु

4.25.215

पौष्टिं वक्ष्यामि ते कर्म मण्टपादि यथापुरम् ।
भूर्जपत्रे लिखेद्यन्त्रं प्राग्वत्पद्मादिसंयुतम्

4.25.216

श्रीभूमिमन्त्रं च लिखेत्केसरेषु दलेषु च ।
गुलिकां वेष्टितां रक्तासूत्रैर्मधुघटे क्षिपेत्

4.25.217

विद्रुमाभं च मन्द्रेशं समावाह्य च सर्वगम् ।
सौम्याशायां पद्मकुण्डं कलशान् रक्तवाससः

4.25.218

वस्तु सर्वं यथोक्तं तद्युक्तं स्यात्सति सम्भवे ।
बलिकर्मच कर्तव्यं कर्मान्ते कमलासन

4.25.219

महती पुष्टिरेव स्यात्कृते कर्मणि शान्तिके ।
आयुष्कामस्तु दूर्वाभिर्घृताक्ताभि र्यथोदितम्

4.25.220

जुहुयान्मण्टपादीनां विधानं पूर्ववर्त्मना ।
कर्मान्ते कलशैस्स्नानं साध्यस्य कमलासन

4.25.221

एवं कृते यथाशास्त्रमायुर्विन्दति पुष्कलम् ।
आरोग्यकामस्सावित्रे मण्डले हरिमर्चयेत्

4.25.222

रुक्माभं विद्ययार्घ्यादि साधनैरुक्तवर्त्मना ।
पूर्ववज्जपहोमादि होमो गुग्गुलुवस्तुभिः

4.25.223

जपान्ते प्रणमेन्नित्यमङ्गैरष्टाभिरात्मवान् ।
यावदायुषमारोग्यं लभते मन्त्रवैभवात्

4.25.224

ज्वरितस्य भवेच्छान्तिरमृताचूतपल्लवैः ।
पूर्वोक्तेन विधानेन सर्वमन्यद्यथोदितम्

4.25.225

ज्वरशान्तिर्भवेदन्ते विद्यावीर्यप्रभावतः ।
चन्दनादिद्रुमैर्लोहैर्यद्वा प्रतिकृतिः कृता

4.25.226

पूजिता पूर्ववत्सर्वान् कामानाशु प्रयच्छति ।
होमश्च कर्मानुगुणैर्द्रव्यैस्स्यात्कमलासन

4.25.227

अश्वत्थं मन्दवारेषु स्पृष्ट्वा दक्षिणपाणिना ।
जपतो नापमृत्युस्स्यात्पूर्वमिरितसङ्ख्याया

4.25.228

घृतमिश्रं वचा चूर्णं यद्वा ब्राह्मीं घृताप्लुताम् ।
ज्योतिष्मतीरसं वापि स्पृष्ट्वा लक्षं जपन् पिबेत्

4.25.229

मुहुर्ते भोभने प्राप्ते वाक्सिद्धिस्तस्य निश्चिता ।
औदुम्बरेऽथवा पात्रे कपिलाज्यं चतुष्पलम्

4.25.230

मिश्रं श्वेतवचाचूर्णं यद्वा चन्ध्रे मघायुते ।
पुण्ये सारस्वते योगे श्वेतवर्णं चतुर्भुजम्

4.25.231

श्वेतपद्मे सुखासीनं चन्द्रमण्डलमध्यगम् ।
इष्ट्वा देवं गोघृतेन जुहुयाच्च यथाविधि

4.25.232

पिबन् स सुस्रवं पश्चाल्लभते वाचमुत्तमाम् ।
अष्टबाहुं चन्द्रनिभमात्मानं शेषविष्टरे

4.25.233

सुखासीनं भावयित्वा कोपिनं प्रतिवादिनम् ।
पिधाय जिह्वा हृदयं मुसलेन शिरोऽङ्कुशैः

4.25.234

ताडयेद्गदया पृष्ठं पाशैर्बध्वा कलेभरम् ।
तस्यैव जिह्वामध्ये च माहेन्द्रं दण्ड शेखरम्

4.25.235

विन्यस्य स्तम्भयेद्वाचमेवं ध्यायन् विचक्षणः ।
आत्मनो वादिनश्चैव मध्ये यवनिका भवेत्

4.25.236

मन्त्रं शतगुणं जप्त्वा वादी वाचं समुत्सृजेत् ।
सद्यः परस्यापजयो विजयश्चात्मनो भवेत्

4.25.237

स्तम्भने नै पदोषस्स्या द्बाह्याश्छेत्प्रतिवादिनः ।
ब्रह्मवर्चसकामश्छेत्समिथो ब्रह्मवृक्षजाः

4.25.238

श्वेतपङ्कजहोमो वा राज्यकामस्य मन्त्रिणः ।
समिथो रक्त वर्णास्स्युर्बिल्वपुष्पाणि पद्मज

4.25.239

लक्ष्मीसुमनसो वापि यद्वा बोधिसमुद्भवाः ।
चन्द्रमण्डलमध्यस्थं श्वेतपङ्कजविष्टरे

4.25.240

स्थितं द्विहस्तं सुभगं बालभूषणभूषितम् ।
बालावस्थं प्रसन्नेन्दुवर्चसं नीलकुन्तलम्

4.25.241

राजतं पात्रमन्नेन पायसेन प्रपूरितम् ।
बिभ्राणं वामहस्तेन दध्यन्न कबलं पुनः

4.25.242

दधानमितरेणापि ध्यात्वा देवं समाहितः ।
अन्नेन जुहुयादग्नौ बह्वान्नत्वमवाप्नुयात्

4.25.243

गोकामो गोमयैः क्षीरैस्तदीयैर्होममाचरेत् ।
लभते धेनुकं सद्यो मन्त्रविन्मन्त्रवैभवात्

4.25.244

भूमिकामो मृदा होमं दुर्लभां लभते भुवम् ।
फलैर्बिल्वसमुद्भूतैर्होमाद्राष्ट्रसमुद्भवः

4.25.245

वस्त्रकामस्सुमनसां कालजानां चतुर्मुख ।
सितासितादिवर्णानां होमान्नियुतसङ्ख्यया

4.25.246

नानाविधानि वस्त्राणि लभते नात्रसंशयः ।
यद्यत्कामयते मन्त्री धान्यजातिमनेकधा

4.25.247

तत्तद्धोमेव तत्सर्वं लभतेमन्द्रवैभवात् ।
मन्त्राभिमन्त्रितं बीजमुप्तं बहुफलं भवेत्

4.25.248

पुत्रकामो हविष्टाशी समाराध्य जगद्गुरुम् ।
चक्राब्जमण्डले कुम्भस्थापनादि विधाय च

4.25.249

यथापूर्वं पायसान्नं होमान्ते स्थापितैर्घटैः ।
अभिषिच्य तदम्भांसि पाययेत् स्त्रियमागताम्

4.25.250

सा पुत्रान् लभते त्विष्टान् बहुन् विद्याविचक्षणान् ।
इष्ट्वा नारायणं देवं चक्राब्जेप्रोक्तवर्त्मना

4.25.251

अनुग्रहे निग्रहे च सर्वेषां शक्तिमान् भवेत् ।
कम्पने वसुधादीनां पर्वतानां च भेदने

4.25.252

शोषणे वा समुद्राणां सर्वेषां स्तम्भने पि च ।
सर्गस्थितिविनाशानामपि कर्ता यथा हरिः

4.25.253

ध्यानाच्च देवदेवस्य जपान्मन्त्रस्य च क्षणात् ।
नश्यन्ति भूतवेतालप्रमुखानि चतुर्मुख

4.25.254

दुष्टसत्वानि मन्त्रस्य प्रभावान्नात्र संशयः ।
विषदष्टमवस्थाप्य ध्यात्वाच गरुडध्वजम्

4.25.255

देवं विद्यां समुच्चार्य तीक्ष्णतुण्डेन ताडयेत् ।
गरुडस्य तु पक्षाभ्यां विषदष्टस्य मूर्धनि

4.25.256

एवं ध्यात्वा विषं सर्वं व्यपोह्योत्थापयेन्मृतम् ।
भुक्तं विषेण संस्पृष्टमन्नं बीजं फलं तथा

4.25.257

जरयेद्विद्यया सद्यस्सर्वदोषं च नाशयेत् ।
अक्षयश्चाभिवृद्धिश्च धनस्य यदि काङ्क्षितः

4.25.258

संस्पृश्य विद्यया सर्वं निक्षिपेद्बहुजप्तया ।
बन्धूक कुसुमप्रख्यमात्मानं भगवन्मयम्

4.25.259

ध्यायन्यायात्सभां तत्र क्रुद्धश्शाम्यति भूमिपः ।
अनुक्तास्सिद्धयः सर्वास्सिध्यन्त्यत्यन्तविस्तृताः

4.25.260

शास्त्रे मन्त्रप्रभावेन देवभूयं प्रपद्यते ।
वृष्टिकामो बहिश्शालां पूर्वोक्तविधिना कृताम्

4.25.261

चक्राब्जमण्ड्लादीनि कृत्वा कर्माणि पूर्ववत् ।
सप्ताहमाज्यसिक्ताभिस्समिद्भिर्जुहुयात्सुधीः

4.25.262

वैतसीभिः प्रतिदिनं नियुतायुतसङ्ख्याया ।
वृष्टिर्भवति तद्राष्ट्रे तद्धेशे वा दिनत्रये

4.25.263

मरीचिक्षुण्णसंमिश्रैस्सर्षपै राजसर्षपैः ।
पूर्वोक्तसङ्ख्यया होमादतिवृष्टिश्च शाम्यति

4.25.264

देवतादिपदं प्रेप्सुर्विद्यया लोकमीप्सितम् ।
स्वर्गाद्यभीष्टरोकस्य महिमानुगुणैर्जपैः

4.25.265

लभते तत्तदाश्चर्यं फलं नैवात्र संशयः ।
चिन्तारत्नं तथैवान् मणिमादि गुणं परम्

4.25.266

लिप्सुर्मन्त्रजपैः कोटिसङ्ख्यैः प्राप्नोति मन्त्रवित् ।
मन्त्राधिदैवतं देवं द्रष्टुकामोजितेन्द्रियः

4.25.267

षष्मासान्मन्त्रमनिशं जपेत्तध्यानमास्थितः ।
आगत्य देवदेवेशः पप्रत्यक्षो भवति क्षणात्

4.25.268

वरांश्च दुर्लभांस्तस्मे प्रददाति यथेप्सितान् ।
मन्त्रिणे मन्त्रमहात्म्यादचिरेण चतुर्मुख

4.25.269

मन्त्रान्तराणां यासिद्धिः कल्पे कल्पे समीरिता ।
सापि प्रसिध्येदस्यैव सकला वीर्यपत्तया

4.25.270

षडङ्गानि च वेदाश्च मन्त्राश्चान्ये परश्शताः ।
अन्यच्च वाङ्मयं सर्वं मन्त्रेऽस्मिन् सुसमाहितम्

4.25.271

अपुनर्भवलिप्सूनां गतिरष्टारं मतम् ।
जन्मन्यस्मिन्नतीते वा यतेनस्सञ्छितं महत्

4.25.272

तन्मन्त्रजापमात्रेण प्रलयं याति निश्चयम् ।
म्रियमाणश्शुचिर्भूत्वामन्त्रमेतमुदीरयन्

4.25.273

प्राप्नोति वैष्णवं स्थानं दुष्प्रापम विनाशनम् ।
किं तस्य बहुभिर्मन्त्रैः किं तस्य बहुभिश्श्रुतैः

4.25.274

यस्यैषा वशमापन्ना विद्या सर्वार्थसाधनी ।
ये मन्त्रमाहात्म्यमिदं शृण्वन्ति च पठन्ति च

4.25.275

तेषामपि फलान्याहुः पूर्वोक्तानि मनीषिणः ।
चतुर्मुखैश्च तुर्वक्त्रफलान्यस्य प्रदर्शयन्

मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc