भाषा

ENहिગુ
ग्रंथ पाठ

पद्मसंहिता · अध्याय 4.22

4.22.1

कीदृशी भगवन्मूद्रा तद्भेदाश्चापि कीदृशाः ।
प्रयोजनं वा किं तस्याः कथ्यतां तदशेषतः

4.22.2

श्रीभगवान्.
अङ्गुलीरचना भेदो मुद्रायस्मात्प्रदर्शितात् ।
हिंसकानामशेषाणां मुदं द्रावयति क्षणात्

4.22.3

ततो मुद्रा निरसनं तेषां तस्याः प्रयोजनम् ।
प्रीणनं चापि देवानां कर्मणा सोपिदर्शितः

4.22.4

प्रयोक्तव्यश्च रहिसि न बहिर्जनसंसदि ।
मन्त्रमण्डलमुद्राणां गुप्तिरेषा सनातनी

4.22.5

गन्धलिप्तौ करौ कृत्वा मुद्रादर्शनमाचरेत् ।
अनामि कामध्यमयोः प्रवेश्याङ्गुष्ठमायतम्

4.22.6

विधाय मुष्टिं हृदये न्यसेद्धृदयमुद्रिका ।
सैषा मुष्टिमधो बध्वा स्तापयित्वा च मूर्धनि

4.22.7

अङ्गुष्ठाग्रेण हननं तर्जन्या शीर्षमुद्रिका ।
उर्ध्वाङ्गुष्ठं धृढं मुष्टिं बध्वान्यस्येच्छिखापदे

4.22.8

शिखामुद्रेयमुदिता
वर्ममुद्रातु कथ्यते ।
प्रवेश्याभ्यन्तरांगुष्टं बध्वा मुष्टिप्रवेशनम्

4.22.9

उन्नम्यकिञ्चिदग्रे च विततान्तेन मुष्टिना ।
भावयेद्वर्मणो बन्धं सैषा कवचमुद्रिका

4.22.10

तर्जन्यंगुष्ठसिरसि स्फोटयेच्चक्रवत् स्मरन् ।
दिक्षु सर्वासु शेषाभिर्मुष्टिं बध्वा चतुर्मुख

4.22.11

सैषास्त्रमुद्रा विज्ञाया
शिखामुद्रामधोमुखीम् ।
विन्यनेत्तां भ्रुवोर्मध्ये नेत्रमुद्रेयमीरिता

4.22.12

षडङ्गमुद्रास्वेतानु हस्तस्सर्वत्र दक्षिणः ।
कनिष्ठादित्रिभिर्बध्वा मुष्टिं साङ्गुष्ठमुन्न ताम्

4.22.13

विधाय तर्जनीं तेन भ्रामयेदाशु चक्रवत् ।
अग्नि प्राकारमुद्रेयं तयैवात्माभिरक्षणम्

4.22.14

नाभेरधस्ताद्विन्यस्य सव्यं करतलं पुनः ।
उत्तानमितरं तस्य विन्यसेदुपरी दृशी

4.22.15

योगमुद्रा
करतलं सव्यं नाभेरधस्ततः ।
अवाङ्मुखं तदुपरि सव्येकरतलं पुनः

4.22.16

समाङ्गुष्ठं विरचयेद्योगसम्पुटमुद्रिका ।
योगाभ्यासे च तत्वानां संहारोत्पादनेपि च

4.22.17

मुद्राद्वयमिदं ब्रह्मन्कथितं योगिनां हितम् ।
योगसंपुट मुद्रेयमुच्चिता घटवत्कृता

4.22.18

ऊर्ध्वं स्यात्कुम्भमुद्रैषातया स्नानं समाचरेत् ।
तर्जन्या नामिकाग्रं तु विष्टयित्वा क्रमेण तत्

4.22.19

तथाङ्गुष्ठकनिष्ठौ तु ज्ञेया संहारमुद्रिका ।
तत्वानां सहृतौ चैव देवतोद्वासने तथा

4.22.20

एषा मुद्रा प्रयोक्तव्या सर्वकर्मसु सर्वदा ।
संहताभि श्च तिसृभिरङ्गुलीभिश्चसंगतिः

4.22.21

विमुक्ततर्जनी भूयस्सृष्टि मुद्रेति कीर्तिता ।
आवाहने तत्वसृष्टौ मुद्रैषा परिकीर्तिता

4.22.22

अङ्गुष्ठतर्जनीभ्यां तु संयोगस्तत्वमुद्रिका ।
तत्वन्यसनकाले च मुद्रैषा परिकीर्तिता

4.22.23

ज्ञानमुद्रा पि सैवैषा स्यादज्ञानतमोपहा ।
ऊर्ध्वयोः करयोर्मध्यं मध्यमाभ्यां तु स्स्पृशेत्

4.22.24

उत्तानितौ करौ कृद्वा न्यास मुद्रा निगद्यते ।
देवात्मदेहयोर्मन्त्रं न्यासमुद्रेयमीरिता

4.22.25

अङ्गुष्ठाभ्यां तु करयोस्तर्जन्योरुभयोरपि ।
मध्यमाभ्यां स्पृशेदन्यां विस्तृतानि यथा तथा

4.22.26

जपमुद्रेति विज्ञेया जपकाले प्रदर्शयेत् ।
अङ्गुलीभिस्समस्ताभिर्दक्षिणेतरहस्तयोः

4.22.27

संपुटीकरणं ब्रह्ममुद्रा संशब्दिता बुधैः ।
अङ्गुष्ठे द्वे कनिष्ठे द्वे तथास्यात्तर्जनी द्वयो

4.22.28

सहयुक्ताग्रतश्शिष्टा विष्णुमुद्रेति कीर्तिता ।
सा चैव शेषिताङ्गुष्ठासमस्तेन परस्परम्

4.22.29

उभयाङ्गुष्ठमुद्रा सा रुद्रस्य कथिता तव ।
श्रोत्रे पिधाय पाणिभ्यां दण्डपद्दक्षिणं करम्

4.22.30

प्रसारयेद्गुरूणां तु अभिवादनकर्मणि ।
सर्वहस्ताङ्गुलीस्सव्यकर्णेन्यस्य तथेतरम्

4.22.31

प्रसरेद्विघ्नराजस्य मुद्रा विघ्नविनाशिनी ।
अन्तस्तु तर्जनीयुग्मं संहताङ्गुष्ठकद्वयम्

4.22.32

मुद्रा भागवती सास्यात्
करयुग्मं तु सम्पुटे ।
कृते वराहमुद्रा सासर्वसिद्धिकरी शुभा

4.22.33

गुरुपङ्क्तिक्रमे ब्रह्मन् सैषामुद्रा प्रदर्शिता ।
अपसव्ये करतले संस्मरेद्रक्तपङ्कजम्

4.22.34

तन्मध्ये चिन्तयेदग्निं त्रिकोणं तेससां निधिम् ।
अवाङ्मुखं करतलं कृत्वा द्रव्योपरि न्यसेत्

4.22.35

ज्ञेया दहनमुद्रैषा द्रव्यशुद्धि प्रदा सदा ।
सव्ये करतले श्वेतपङ्कजं षोडशच्छदम्

4.22.36

कलाषोडश संयुक्तं शशिनं पङ्कजासन ।
तन्मध्येचिन्तयित्वातु स्रावितं चामृतं स्मरेत्

4.22.37

तेनामृतेन तद्भस्म क्षालितं तूत्थितं स्मरेत् ।
आप्यायनन्य मुद्रैषा कथिता कमलासन

4.22.38

अंगुष्ठे द्वे कनिष्ठे द्वे तथास्यात्तर्जनी द्वयोः ।
शिष्टं प्रसारयेद्ब्रह्मन्नंगुलानि करद्वये

4.22.39

मध्यमां दक्षिणकरेऽनामिकां च तथेतरे ।
संहृत्य प्रसरेच्छेषं करयोरुभयोरपि

4.22.40

ज्ञेया सुरभिमुद्रा सा याग द्रव्यविशोधिनी ।
हस्ताभ्यामञ्जलिं कृत्वा ईषद्विकसितं स्फुटम्

4.22.41

अवाहनस्य मुद्रैषा दर्शनात्स न्निधिं भजेत् ।
हृदये शिरसि द्वेपि सम्पुटाञ्जलिरूर्ध्वागा

4.22.42

प्रणाममुद्रासाज्ञेया क्षिप्रं देवप्रसादिनी ।
सा ज्ञेया वासुदेवादिमूर्तिनां कमलासन

4.22.43

चतुर्विंशतिमूर्तीनां मीनादीनां तथैव च ।
मुद्रैषा चा न्यमूर्तिनां कथिता कमलासन

4.22.44

प्रसार्यकरजान् सर्वान् मणिबन्धौ समेत्य तौ ।
अन्तः प्रविश्य चांगुष्ठौ तयोः पृष्ठमनुस्पृशेत्

4.22.45

प्रसारयेत्पद्ममुद्रा मासने तु प्रदर्शयेत् ।
श्रियादीनां च सर्वासां देवीनां चतुरासन

4.22.46

प्रोक्ता कमलमुद्रा सा सर्वकामफलप्रदा ।
निबध्य दक्षिणांगुष्ठं वामहस्तस्य मुष्टिगम्

4.22.47

कृत्वा चांगुष्ठतर्जिन्यौ संयुक्ते प्रसृते समे ।
त्रिप्रस्तु दक्षिणन्यासा बध्नी युर्मुष्टिमूर्ध्वगाः

4.22.48

शङ्खमुद्रेयमुदिता ज्ञानदा मोक्षदाऽचिरात् ।
मणिबन्धसमौ हस्तौ तिर्यक्सं भ्राम्य च क्रमात्

4.22.49

पर्यायेण प्रयोक्तक्या चक्रमुद्रा महोदया ।
मुष्ठिं कृत्वा तु हस्ताभ्यामंगुष्ठौ विनतावुभौ

4.22.50

मध्यमांगुलियुग्मं तु ऋजुमूर्ध्वं प्रसारयेत् ।
शेषाभिरंगुलीभिस्तु बन्धयेयुः परस्परम्

4.22.51

संश्लिष्टौ कूर्परौ द्वौ तु गदामुद्रेयमीरिता ।
तर्जन्यग्रं मध्यमया संस्पृशे च्चापमुद्रिका

4.22.52

मुष्टिं कृत्वा वामहस्त मंगुष्ठमृजुमूर्ध्वतः ।
अपसव्यकरेणै तदंगुष्ठं तु बन्धयेत्

4.22.53

प्रसार्य दक्षिणांगुष्ठं ज्ञेया मुसलमुद्रिका ।
कनिष्ठांगुलिपूर्वं तु संहृत्यांगुष्ठकेन तु

4.22.54

निबध्य तर्जनीं भूयस्तदग्रं नतमेव च ।
खड्गमुद्रा तुसा ज्ञेया सर्वदुष्टभयङ्करी

4.22.55

हस्ताभ्यां लम्बयेद्ब्रह्मन्नंगुल्यग्रैः परस्परम् ।
बन्धयेद्वन माला स्यादंगुष्ठौ द्वौ तु संहरेत्

4.22.56

आखण्डलादिदेवानां मुद्रा चाञ्जलिसंज्ञिता ।
उभौ करतले पृष्ठौ संश्लिष्टौ तु कनिष्ठकौ

4.22.57

बन्धयेत्तर्जनीयुग्मं प्रसरेत्तुण्डवत्क्रमात् ।
अंगुष्ठौ द्वौ पादयुग्म मधस्ताल्लम्बयेत्क्रमत्

4.22.58

मध्यमानामिकाभ्यां तु करयोरुभयोरपि ।
पक्षवच्चलनं कुर्याज्ज्ञया गरुडमुद्रिका

4.22.59

कनिष्ठादित्रयं ब्रह्मन् संहृत्यागुष्ठकेन च ।
निबध्य तर्जनीं भूयो निष्वक्सेनस्य मुद्रिका

4.22.60

प्रसार्य करजान् सर्वान् विरलानूर्ध्वगामिनः ।
कृत्वाहस्तस्य चायामं तदग्रान् कुञ्चयेत्क्रमात्

4.22.61

फणिफणाग्रसदृशाज्ञेयाऽनन्तस्य मुद्रिका ।
चण्डादीनां भ वेन्मुष्टिमुद्रैषा बलिमुद्रिका

4.22.62

अङ्गुष्ठानामिकाभ्यांतु तथा स्यादस्त्रमुद्रिका ।
मुष्टिमुद्रा तु मुष्टिस्स्यादंगुष्ठेन तु वेष्टिता

4.22.63

ज्ञानमुद्रेति विज्ञेया सैव मुक्तकनिष्ठिका ।
गन्धमुद्रेति विज्ञेया विमुक्तानामिका च सा

4.22.64

पुष्पमुद्रेति विज्ञेया विमुक्ता मध्यमा तथा ।
मध्यमाङ्गुष्ठशिरसि सङ्गतिर्ह्यग्रपर्वणा

4.22.65

यज्ञोपवीतमुद्रा स्या
दंगुष्ठेन कनिष्ठिका ।
आकल्पमुद्रिका ज्ञेया विष्णोः प्रीतिकरी शुभा

4.22.66

संहृताग्राङ्गुलीनां तु कृत्वा व्यतिकराङ्गुलीः ।
सहैवोर्ध्वीकृतांगुष्ठौ कराभ्यां धूपमुद्रिका

4.22.67

ऊर्ध्वंतु मध्यमां कृत्वा संहृत्यांगुष्ठमेव च ।
तर्जन्या नामिकाभ्यां तु संहृत्य तु कनिष्ठिकाम्

4.22.68

तेनैव वामहस्तेन दक्षिणेन कृता तु या ।
दीपमुद्रेति सा प्रोक्ता देवदेव प्रयाधिका

मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc