पद्मसंहिता · अध्याय 4.21
सिद्धान्तानां श्रुतो भेदश्चतुर्णां भगवन्मुखात् ।
इदानीं शोतुमिच्छामि व्यवस्थामधिकारिणाम्
अहं ते नियमं तेषां कथयिष्यामि शास्त्रतः ।
जातेषु सर्वविप्रेषु मन्मुखात्कमलासन
नानाचरणगोत्रेषु नानाकर्मपरेषु च ।
तेषां मध्ये महाभागा ऋषयोऽष्टसहस्रिणः
औपगायनपूर्वास्ते नानागोत्रा मुमुक्षवः ।
अधीयानाःकण्वशाखां तथा माध्यन्दिनाह्वयाम्
तेषां बुद्धिस्समुत्पान्ना मोक्षैकफलदायिनी ।
ते सर्वे सह सङ्गम्य ब्रह्माणं प्रोचुरव्ययम्
मोक्ष्यमाणा वयं ब्रह्मन् मोक्षो पायविवित्सया ।
शरणं त्वामिहप्राप्ता जन्ममृत्युजिगीषवः
औपगायन मुख्यांस्तानुपासन्नां श्चतुर्मुख ।
इति ब्रुवाणानाहूय तदनुग्रहकाम्यया
पञ्चरात्रोक्त मार्गेण मन्त्रसिद्धान्तवर्त्मना ।
दीक्षयित्वा यथान्यायं चक्रवारिज मण्डले
आहुतान् दीक्षितान् ब्रह्माकर्तव्यमिदमादिशत् ।
काण्वीं माध्यन्दिनीं शाखां शाखास्वन्तर्हिते उभे
अधीध्वं मूलशाखे ते निषेकादींश्च संस्कृतीः ।
ताभ्यामेव त्वनुष्ठध्वं सोमयागादिकर्मच
भगवद्ध्यानसहितं तत्समाराधनात्मकम् ।
कर्तव्यत्वेन वेदोक्तमित्येवं फलवर्जितम्
कृषीध्व मिति कुर्वाणैः कर्मनिश्रेयसं परम् ।
प्राप्यतेऽनेन युष्माभिर्मन्त्रसिद्धान्तवर्त्मना
पञ्चकालं यथाशास्त्रं गृहे वा मन्दिरेऽपि वा ।
भगवत्पूजनं कार्यमद्यप्रभृति नान्यथा
यूयं भागवतास्तेन जाता भगवदर्चनात् ।
भगवद्भक्तिकरणात् वंशजाताश्चतुर्मुख
नाम्ना भागवतास्सन्तो दीक्षयित्वा यथाविधि ।
यथोक्तं कर्म कुर्वाणाः प्राप्नुवन्ति परं पदम्
शाखान्तरेषु ये मन्त्राः पापनाः परमर्षयः ।
तानप्यधीध्वं तैर्मन्त्रै रर्चयध्वमधोक्षजम्
आत्मर्थयजनं विष्णोः कल्प तेऽभ्युद यावहम् ।
तथा परार्थयजनं ग्रामे वा पत्तने पुरे
स्वगृहे वा स्वतन्त्रे वा कार्यं भागवतैर्नरैः ।
आत्मनश्च परेषां च तन्नि श्रेयसकृद्भवेत्
अभागवतवंश्यैस्तु दीक्षितैरपि मानवैः ।
आत्मार्थमेव यजनं न परार्थं कदाचन
परार्थयजनं तेषां गर्हितं विप्रसत्तमाः ।
अभागवतवंश्योपि दीक्षितश्शास्त्रावर्त्मना
परार्थयजनं कुर्यादपि भागवताज्ञया ।
भगवानेव गोविन्दस्साक्षाद्भागवतस्म्सृतः
तं दृष्ट्वा विद्यया हीनमपि दुष्कृतकारिणम् ।
निर्गुणं गुणिनं वापि प्रत्युत्तिष्ठेत्कृताञ्जलिः
तानयाचत विश्वात्मा महर्षिरमितौजसः ।
यष्माभिः क्षितिलोकेषु कार्यं भगवदर्चनम्
स्वार्थं परार्थमथ वा कर्तव्यं मम शासनात् ।
इति ब्रुवाणिस्तान् ब्रह्मा तत्रैवान्तरधीयत
ध्येयं वस्तुप्रवक्ष्यामि मन्त्रसिद्धान्तिनां नृणाम् ।
द्विभुजं चेद्वासुदेवं रेखाभिस्तलयोः करे
लाञ्चितं शङ्खचक्राद्यैर्ध्यायेत्तद्द्विगुणैः पुनः ।
द्वाभ्यां कराभ्यां बिभ्राणं शङ्खचक्रे गदाम्बुजे
मुख्याभ्या मथवाभीति दानं कट्यवलम्बनम् ।
इतोऽधिके भुजगमे बह्वायुधधरं हरिम्
वर्णेन श्यामसुभगमथवा धवलद्युतिम् ।
शैलादिवस्तुभिः क्लृप्तं बेरं चादिपदेस्थितम्
आसीनं वा शयानां वा गरुडारूढमेव वा ।
ध्यायेयुरर्चयेयुश्च त्रयूमन्त्रैस्त्रयीविदः
ध्यायेत्वागमसिद्धान्तस्थिते लम्बभुजद्वयम् ।
वासुदेवादयस्सर्वे निराकल्पा निरायुधाः
सि तास्सिताम्बरधराश्च त्वारस्समदिङ्मुखाः ।
एकविष्टरनिष्ठास्ते शयनासन वर्जिताः
देवीभ्यां परिवारैश्च हीना योगासनेन च ।
समप्रधानषाड्गुण्य भाजो मन्त्रैर्बलादिभिः
प्रभवाख्यक्रमात्यूज्या नित्यं कमलसम्भव ।
बलिप्रदानरहिता नित्योत्सवविवर्जिताः
पवित्रारोपणस्वाप शयनोत्थान वर्जिताः ।
कर्तव्यत्वेन भवने प्रासादे वा चतुर्मुख
काल्ये मध्यन्दिनेऽच्छिद्रपञ्च कालपरायणैः ।
निराशैः कर्मसन्यासकारिभिर्देवपूजनम्
बलादिमन्त्रैरच्छिद्र पंचकालपरायणैः ।
एकाध्वना निषेकादि संस्कारैश्च बलादिभिः
चतुर्णां ब्राह्मणादीनां विहितं नयकर्मच ।
द्वादशाक्षरविद्यैव तेषां विद्या न च त्रयी
न सावित्री न मन्त्रोन्यस्स्वाध्यायजप कर्मणोः ।
बीजशक्त्यङ्गरहितमृषिच्छन्दोविवर्जितम्
स्वरूपमेव मन्त्रस्य जपस्वाध्यायकर्मणोः ।
चतुर्णामपि वर्णानां संज्ञास्तेषां क्रमोदिताः
भागो हि द्विजमुख्यस्य संज्ञा वा विप्रवन्नृपे ।
वैश्यस्य वर्धिनी संज्ञा मौद्गली वृषलस्य च
सर्वे समानाश्चत्वारो गोत्रप्रवरवर्जिताः ।
उत्कर्षो नापकर्षश्च जातितस्तेषु संमतः
फलेषु निस्पृहास्सर्वे द्वादशाक्षरचिन्तकाः ।
मोक्षैकनिश्चया श्शावसूतकाशौ चवर्जिताः
नाधिकारो स्ति सर्वत्र कर्षणादिषु कर्मसु ।
मोहात्तानि प्रयुञ्जानाः पतन्त्यकृत बुद्धयः
राजराष्ट्रमनुष्याणां यजमानस्य सद्मनः ।
क्षयो भवति तेनै ते न कुर्युः कर्षणादिकम्
याचेत मन्त्रसिद्धान्ते दीक्षितं विप्रसत्तमम् ।
पूजर्थमात्मनो बिम्ब प्रतिष्ठाकरणादिषु
सोपि बीजादिरहितं द्वादशा क्षरविद्यया ।
कुर्यात्प्रतिष्ठामाचार्यः पूजार्थं मन्त्रवित्तमः
एकायन स्तुतां मूर्तिं प्रतिगृह्य समर्चयेत् ।
अर्चनं च चतुस्थ्साने वारिस्रग्बिम्बवह्निषु
नाधिकारो स्तिमन्त्रेषु बीजषिण्डपदादिषु ।
चतुर्णां मौद्गलादीनां विदुषां द्वादशाक्षरम्
प्राणानामपि निर्याणे नस्पृशेन्नदहेच्छवम् ।
पुत्रपौत्रादिरहितं सन्त्यजेत्काष्ठवद्बहिः
मूर्त्यन्तरार्चनं तेषां प्रत्यवायाय कल्पते ।
सिद्धान्तान्तरमार्गेण स्थापितं बिम्बमालये
अज्ञानादथ वा मोहादेकायनविधानतः ।
अर्चयन्नापदं सर्वामाप्नोतीह परत्र च
प्रदक्षिणप्रणामादि राद्धान्तेन्यत्र केवलम् ।
विहितं नार्चनं कार्यं राजराष्ट्रक्षयावहम्
न दीक्षा नैव देहस्य दहनादिविशोधनम् ।
नाङ्गन्यासादि सकलं नेष्टमेकायनाध्वनि
एकायने प्रविष्टानां त्रैविद्यानामयं क्रमः ।
तन्त्रसिद्धान्तमार्गेतु संप्रत्याचार उच्यते
चतुर्णामपि वर्णानामितरेषां च तद्भुवाम् ।
दीक्षासमैव सर्वेषा माचारस्तन्त्रवर्त्मना
निषेकादिश्च संस्कारस्तेषां तन्त्रोक्तवर्त्मना ।
त्यक्त्वा त्रयीं तन्त्रमेव प्रपद्य शरणं स्थिताः
सान्तरालमनुष्ठानं पंचकालोदितं तथा ।
यतस्तन्त्रान्तरभुवां नृणां कमलसम्भव
तत्वसंहारजनने न्यासश्च करदेहयोः ।
योगविष्टरक्लृप्तिश्च नवपद्मप्रकल्पनम्
मूर्तयो नवपद्मेषु तास्वधिष्ठानमध्यमे ।
तामीक्षन्तेदिशो वापि मूर्तयोऽष्टौ यथायथम्
यां दिशं मध्यमा मूर्तिरीक्षते सैश्वरीमता ।
यां च वा ऽऽ लोक्य पुरुषस्समाराधनकर्मणि
आस्तेऽसौ पौरुषी ज्ञेया प्राजापत्याच वासवी ।
योगविष्टरपादानां धर्मादीनां प्रकल्पने
अथान्तः परिवाराणां सुपर्णीतनयस्य च ।
बलिप्रदानपीठस्य गोपुरस्य चतुर्मुख
बाह्यनामपि चै तेषां प्राची स्यादैश्वरी हरित् ।
बाह्यानां परिवाराणामन्येषां परिकल्पने
प्राजापत्यैव दिक्प्राची दिक्समूहे तु पौरुषी ।
प्राच्यादिकां समाश्रित्य परिवारप्रकल्पनं
द्विषट्काक्षरपूर्वाणां बीजशक्त्यङ्गसंयुतम् ।
ऋषिच्छन्दो विहीनश्च मन्त्राणां जप इष्यते
वर्णानामितरेषां च सममाराधनक्रमः ।
सवानामपि मूर्तीनां मूर्त्यन्तरगणस्य च
प्रादुर्भावगणस्यापि वर्णास्त्रीव्यक्तयो मताः ।
न ध्वजारोहणं नापि मासाद्युत्सवसम्भनः
केवलं शयनोत्थाने बलिहोमादिवर्जितः ।
प्रादक्षिण्येन गमनं ग्रामादेः कौतुकोत्सवः
नैमित्तिकं चतुस्थ्साने स्वातन्त्र्येणार्चनं हरेः ।
चक्राब्जमण्डले कुम्भे प्रतिमायां च पावके
तन्त्रान्तरे च सिद्धान्ते संप्रत्याचार उच्यते ।
त्रिवक्तं वा चतुर्वक्त्रमधिकाननमेव वा
योगपीठेस्थितं देवं परिवारैश्च सेवितम् ।
पिण्डमन्त्रैः कलामन्त्रेर्भीजशक्त्यङ्गसंयुतैः
ऋषिच्छन्दोविहीनश्च चत्वारो ब्राह्मणादयः ।
समर्चयेयुस्सर्वेषां निषेकाद्यखिलक्रियाः
तन्त्रान्तरोक्तमार्गेण कार्या त्रैय्यात्मनापि च ।
सिद्धान्तनां चतुर्णां तु साङ्कर्यं व्यवसावहम्
सिद्धान्तेषु चतुर्ष्वेकं पूवैन् र्नृभिरनुष्ठितम् ।
त्यक्त्वा समाश्रयेदन्यं नरो भवति किल्बिषी
तस्माज्जन्मप्रभृत्येकराद्धान्तनियतो भवेत् ।
अन्यथा कुलमात्मानं सर्वं नाशयति स्वयम्
मन्त्रमण्डलकुण्डादि क्रियामुद्रोपचारकैः ।
योगं नयति यो मोहत्स्वसिद्धान्तोक्तवर्त्मना
मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0