पद्मसंहिता · अध्याय 4.23
संज्ञाभेदस्तु वर्णानां मन्त्रोद्धारस्तु कीदृशः ।
प्रयोजनं वा किं तस्य कथ्यतां तदशेषतः
अहं ते कथयिष्यामि शृणु सर्वं यथातथम् ।
ह्रस्वदीर्घविभागेन भिन्नाः पद्मज मन्मुखात्
अकाराद्यास्स्वरा जाताः क्रमादन्येऽर्धमातृकाः ।
ककाराद्याश्च चक्रेते न्यस्य पूज्याः परिष्कृते
प्रशस्ते निर्जने गुप्ते भूभागे शोभने समे ।
हस्तद्वयेन विस्तीर्णं स्थण्डिलं चतुरश्रकम्
दर्पणोदरसङ्काशमुन्नतं चतुरङ्गुलैः ।
मृद्भिः पिधाय सुषिरं गोमयेनोपलिप्य च
प्रोक्ष्य चक्रं विधातव्यं षोडशारपरिष्कृतम् ।
नाभिनमिसमायुक्तं चन्दनक्षोदरेखया
तन्मध्ये छन्दसामादिररभूषु स्वरा स्तथा ।
स्पर्शाक्षरं नाभिमध्ये नेमिमध्ये च यादयः
एवं न्यस्तेषु वर्णेषु द्वादशाक्षरविद्यया ।
अर्घ्याद्यैस्सकलैर्भोगैर्वर्णात्मासं समर्चयेत्
चक्रसंस्थितवर्णानां नामभेदः प्रदर्श्यते ।
उद्गीथश्छन्दसामादिः प्रणवस्तारक स्तथा
ब्रह्म च ब्रह्मकोशश्च व्यापी चोङ्कार इत्यपि ।
नामानि प्रथितान्यष्टावकारो विष्णुरुच्यते
ओङ्कारादिश्चाप्रमेय आकारो मधुसूदनः ।
आदिदेवो गोपनश्च स्यादिकारस्त्स्रिविक्रमः
माया बन्धुश्च रामश्च कथ्यते तदनन्तरम् ।
पञ्चबिन्दुर्महामाया वामनस्स्मर्यते तथा
उकारो भुवनाह्वानश्श्रीधरश्चोदय स्तथा ।
ऊकाराश्चोर्ध्वलोकेशो हृषीकेशो गुहालयः
ऋकार ऋतधामा च पद्मनाभस्तथोच्यते ।
ऋकारः पीठनामा स्याद्योगी दामोदर स्तथा
लृकारः केशवो गोप्ता प्रज्ञाधारो महेश्वरः ।
लृकारो दीर्घ घोणश्च नारायणसमाह्वयः
संप्रसारणनामास्यादेकारो माधवाह्वयः ।
देवदत्तो मृगेशस्स्यादैकारो गोधनः स्मृतः
गोविन्धो वीरसेनश्च स्यादोकारश्चतुर्मुख ।
ओतदेहो वासुदेवो ब्रह्मसाधन इत्यपि
औकार औषधाह्वान और्वस्सङ्कर्षणो मनुः ।
अंकारः कपिलाक्षश्च प्रद्युम्नो देवता स्मृतः
अःकारश्चानिरुद्धाह्वः कलान्त स्सर्गिसंज्ञिकः ।
ककारः कमलो ब्रह्मा करालश्शङ्खिनःस्मृतः
खकारः खर्वदेहश्च चक्री गरुडवाहनः ।
गदध्वंसी गकारश्च गदी पङ्चात्मकस्सृतः
पद्मपाणिर्शकारस्तु पञ्चात्मा गजवाहनः ।
ङकारश्शार्ङ्गपाणिश्च एकदंष्ट्रः कपिध्वजः
वक्रतुण्डः खड्गधरश्चकारः प्रेतनायकः ।
छकारश्छलविध्वंसी स्वच्छन्दः कुण्डली स्मृतः
मुसली जन्महन्ता च जकारः ककुभः स्मृतः ।
झकारस्सामवेदात्मा झषाशी च गुवर्णभाः
ञकारश्चन्द्रधवलः पाशपाणिर्भृगुःस्मृतः ।
टकारो हृदया ह्लादी खेटकी पर्वतः स्मृतः
ठकारः कौस्तुभो मेघी तोमरो दुस्सहः स्मृतः ।
डकारः पुण्डरीकाक्षो झषो भूमिर्वनालयः
ढकारः पुष्पभद्रा च दृढकर्मा प्रतर्दनः ।
णकारो वनमाली स्यात्प्रचण्डस्सुमुखः स्मृतः
एकनेत्र स्तकारस्याद्वैराजो विजयः स्मृतः ।
थकारस्सर्व रोधश्च रसात्मा सुप्रतिष्ठितः
दकारो वैधरो दृष्टिरत्रि स्स त्रिपुरान्तकः ।
धकारो धनदः पुण्यस्सुभगो मोहनाशनः
नकारो भद्रपाणिस्स्याद्विघ्नेशो मानुषेश्वरः ।
पकारः पापहननः पवित्रः पश्चिमानवः
पकारः पुल्लनयनश्शिखण्डी स्याद्विकर्मणः ।
बकारो जृम्भलो ह्रस्वो मतिमान् कालनेमिजित्
भल्लायुधो भकारश्च सुभद्रस्सूक्ष्मलोचनः ।
मकारो मन्दरो दक्षो माधवी पाटलक्रियः
यकारः पुरुषात्मा स्याद्वायु श्शङ्खश्चतुर्गतिः ।
रेषोऽनलो महाज्वालो विश्वात्मासर्वदाहकः
लकारःपीतवर्णाभो महेन्द्रः पुलहः स्मृतः ।
वकारो वरुणः कुम्भः पीयूषात्मा सुधारसः
शकारश्शुभदो लक्ष्मीः श्रीवत्सो वित्तवर्धनः ।
षकारः क्रोधरूपी स्यादुग्रात्मा शत्रुसूदनः
पूर्णचन्द्रः कलात्मा स्यात् सकारश्शुक्लसंज्ञितः ।
द्वादशात्मा हकारास्स्याद्दीप्तिमान् भास्करः स्मृतः
ळकारोडुण्डभो भर्गो विष्कम्भो विषमध्वनिः ।
क्षकारो गरुडोऽ नन्तः कूटो नरहरिःस्मृतः
अनुस्वारो द्रुवो बिन्दुर्यष्टिश्चन्द्रार्ध उच्यते ।
स्वाहाकारो हुतान्तश्च टठेति परिकीर्तितः
नमस्कारो नतिर्वर्णसंज्ञा इत्यादयः स्मृताः ।
चक्रसंस्थितवर्णानां देवता कथ्यते क्रमात्
सर्वेषामपि वर्णानामकारः कारणं यतः ।
सर्वकारणरूपत्वा द्विष्णुस्तस्याधिदेवता
आकारस्य मधुद्वेषी स्यादिकारस्त्रि विक्रमः ।
ईकारो वामनो देवस्तथोकारश्श्रियः पतिः
ऊकारस्य पृषीकेशो वर्णस्य स्यादनन्तरम् ।
पद्मनाभस्त्वृकारस्य देवो दामोदरो भवेत्
ॠकारस्य स्थितश्शम्भुः लृकारस्य च देवता ।
नारायणोऽधिदेवस्स्यात् लृकारस्य चतुर्मुख
माधवोऽनन्तरार्णस्य गोविन्दो देवता भवेत् ।
ऐकारस्य तथार्णस्य स्यादोकारस्य देवता
वासुदेवस्तथार्णस्य स्यादौकारस्य देवता ।
सङ्कर्षण स्तथाङ्कारो भवेत्प्रद्युम्न देवता
अःकारस्यानिरुद्धस्स्याद्देवा इत्थं क्रमादचाम् ।
देवताः कथिता ब्रह्मन्
हलां संप्रति कथ्यते
ककारस्य विधिर्देवः खकारस्य सुदर्शनः ।
गकारस्य घकारस्य वाणी शार्ङ्गश्च देवता
ङकारस्य चकारस्य देवो नन्दक इष्यते ।
छकारस्य यमो देवो जकारस्य च देवता
मुसली स्यात् झकारस्तु भवेदङ्कुशदैवतः ।
ञकारस्य भृगुर्देवः टकारस्य महीधरः
मेरुः कौस्तुभदैवत्यः ठकारो डस्तु पार्थिवः ।
ढकारो मातृदैवत्योणकारो वानमालिकः
तकारस्य तथा दृष्टिः थकारो रसदैवतः ।
अत्रिर्दकारस्य भवेद्धकारस्य धनेश्वरः
लम्भोदरो नकारस्य पकारस्य पवित्रकः ।
शिखण्डवान् फकारस्य बकारस्य तु देवता
जृम्बलो भाक्षरस्य स्यात्सुभद्रो देवता तथा ।
दक्षो मकारस्य भवेद्यकारो वायुदैवतः
धूमध्वजस्स्याद्रेफस्य लकारस्य दिवस्पतिः ।
पकारो वरुणेशान श्शकारो माधिदैवतः
क्रोधाकारः षकारस्य सकारश्चन्द्रदैवतः ।
सहस्रांशुर्हकारस्य ळकारो भर्गदैवतः
नरसिंहः क्षकारस्य कथिताः कादिदेवताः ।
वर्णानां चक्रनिष्ठानां नामान्यपि च देवताः
यो वेत्ति तस्य फलदा मन्त्रिण श्चतुरानन ।
यावतो यस्य वर्णस्य यन्नक्षत्रं विदुर्बुधाः
स च तावां स्तत्र वर्णः क्रमादिह निगद्यते ।
आद्यं विना स्वरं वर्णावाद्यावाश्वयुजौ स्मृतौ
इकारस्यापि भरणी कृत्तिकात्रयमुत्तरम् ।
चतुष्टयमृकारादि रोहिण्ये कमथेडका
रौद्रमप्येक मेवस्यात्पुनर्वस्वोर्द्वयं मतम् ।
द्वयमेव तथा पौष्णमाद्यन्तं वा मता न्तरे
कादिषु प्रथमं पुष्यं द्वयं सार्पं द्वयं मघा ।
एकमर्यमणं युग्मं भर्गदैवतमुच्यते
युग्ममेव तु सावित्रं द्वयमिन्द्राधिदैवतम् ।
एकं निष्ट्या विशाखे द्वे त्रयं मैत्रमनन्तरम्
ऐन्द्रमेकं त्रयं मूलं पूर्वमाषाढमेककम् ।
आषाढमुत्तरं चैरमेकमेवाभिजिन्मतम्
द्वयं वैष्णवमेकं तु श्रविष्ठा शततारकम् ।
एकमेव त्रयं शादि वर्णस्स्यादज एकपात्
अहि र्बुध्न्यस्त्रयो वर्णा इति वर्णेषु तारकाः ।
आदौ चतुष्टयं मेषो वर्णानामृषभस्त्रिकम्
तथैव मिथुनं युग्मं कुलीरं मृगराट् तथा ।
शिष्टद्वयं शादयस्तु कन्या कुः प्रथमं तुला
चवर्गो वृश्चिकश्चापः टवर्गस्सद्भिरुच्यते ।
तवर्गो मकरः कुम्भः पवर्गोऽ न्त्यस्य यादयः
नक्षत्रं यत्साधकस्य मन्त्रस्याद्यक्षरस्य यत् ।
नरनार्योरिवतयोर्योगायोगौ परीक्षयेत्
चतुष्पदं लिखित्वोर्वां तत्राकारादि निक्षिपेत् ।
यर्स्मिपदे साधकस्य नामाद्यर्णलिपि स्तथा
तत्रैव चेद्भवेस्मन्त्र स्याध्यं वर्णमवस्थितम् ।
तत्सिद्धं स्याद्द्वितीये तु साध्यं विद्यादनन्तरे
पदे सिद्धं तुरीये तु वैपरीत्याय कल्पते ।
सिद्धे सिद्धं जापाद्यैस्तु साध्ये साध्यं सुसिद्धके
अधितमात्रे महते फलाय भवति ध्रुवम् ।
पदे तु वैरिणस्स्याच्छेल्लिपिरध्येतृनाशनम्
आनुगुण्यं परीक्ष्येत निमित्तानि परीक्ष्य च ।
साधकस्साधयेन्मन्त्रं देवस्य कुटिला गतिः
चतुर्षुमूलमन्त्रेषु नानुगुण्यं परीक्षयेत् ।
तारमष्टाक्षरं चैव द्वादशाक्षरमेव च
विष्णुगायत्र्यपि तथा चत्वारः प्रथमे मताः ।
द्वात्रिंशदक्षराधिक्ये मालामन्त्रादशादिखे
बीजमन्त्रा
स्समस्तेषु पूर्वे वार्धिक्यशोभनाः ।
इतरे यौव्वने तद्वत्सर्वे बाल्येपि शोभनाः
स्त्रीवुन्न पुमिति त्रैधं भजन्तेमन्त्रजातयः ।
संस्त्यानमन्त्रास्स्वाहान्ता मनोन्तास्तु नपुंसकाः
शेषाः पुरुषमन्त्रास्स्युरिति त्रिविधमीरितम् ।
उच्चाटने च वश्ये च विद्वेषे क्षुद्रकर्मसु
स्त्रियः प्रशस्ता नब्लिङ्गाः कर्मस्वन्यत्र पूजिताः ।
पुल्लिङ्गेषु तु मन्त्रेषु दिङ्मीत्रं किञ्चिदुच्यते
फडन्ता मरणाद्यर्थे शस्ता भूताद्युपद्रवे ।
हुङ्कारान्ताः प्रशस्यन्ते वौषडन्तास्तु ते पुनः
आप्यायने नियुज्यन्ते धर्मकामार्थमूर्तिषु ।
चतुर्थ्यन्ताः प्रशस्यन्ते ओमन्तास्सर्वसिद्धिदाः
सर्वमन्त्रास्सर्वफला गुरुवक्त्रद्यदि श्रुताः ।
यदृच्छया श्रुतो मन्त्रश्छ न्नेनाथच्छलेन वा
पत्रेक्षितो वा व्यर्थस्स्यात्प्रत्युतानर्थदः स्मृतः ।
एकस्सुसाधितो मन्त्रोजपहोमादितर्पणैः
स साधकस्य सर्वार्थं प्रसूते नात्र संशयः ।
सम्यक्सिद्धैकमन्त्रस्य नासाध्यमिहा किञ्चन
किंपुनर्बहपो यस्य का कथा हरिरेव सः ।
कुशेषु कृष्णत्वचि वा ब्रुस्यामेकान्तभूमिषु
प्रागादिदिङ्मुखो भूत्वा न तु याम्यमुखः क्वचित् ।
उपविष्टो जपेन्मन्त्रं सपवित्रकरश्शुचिः
धृतोर्ध्वपुण्ड्ररचनो नान्यां वा चमुदीरयन् ।
गुरुं प्रणम्य प्रथमं प्रणवप्रमुखं जपेत्
देवतायतने नद्या शैले सागररोधसि ।
वने वा तीर्थदेशे वान्यग्रोधाश्वत्थयोरधः
अन्यत्र वा शुचौ देशे कुटिं कृत्वारभेत सः ।
अनश्नन् वायुभक्षो वा यद्वाब्भक्षो जलाप्लुतः
जीर्णपर्णाशनश्शाकभोजनो वा फलानि वा ।
वक्वानि मूलान्यथवा भुञ्जानो लवणं विना
यपोष्टि कालाजदुग्ध भिक्षाहोरो जितेन्द्रियः ।
पूर्वं पूर्वं प्रशस्तं स्यादशनीयं विशोधनम्
मन्त्रस्य देवता तारतिथिवारेषु साधकैः ।
द्वादश्यां पौर्णमास्यां वा ग्रहणे कर्म शस्यते
विशेषयजनं कुर्वन् चक्राब्जे जपमाचरेत् ।
शिखी वा जटिलो वापि वल्कलाजिनकर्पटः
त्रिसन्ध्यं स्नाननियतस्तैलाभ्यङ्गविवर्जितः ।
यावदुक्तं कृतयुगे मन्त्राभ्यसनमिष्यते
त्रेतादिषु त्रिषु प्रोक्तं द्विगुणं त्रिगुणं क्रमात् ।
चतुर्गुणं परं वापि ततो मन्त्रफलेच्छया
सर्वसिद्धिकरोमन्त्रस्सिद्धस्सिद्ध्येत्क्रियावशात् ।
क्रियाधिगम्यते शास्त्राच्छास्त्रं देशिकपूरुषात्
मननं सर्वसत्वानां त्राणं संसारसागरात् ।
मननत्राणसंयोगान्मन्त्र इत्युच्यते बुधैः
अथवा गोपनीयत्वा द्धातोर्मन्त्रयते रयं ।
रप्रत्ययान्तः पुल्लिङ्गस्तथायं लोकवेदयोः
मन्त्रेण स्थाप्यते देवो मन्त्रेणैव विसृज्यते ।
ज्ञानानां तत्परं ज्ञानं मन्त्रज्ञानं विदुर्बुधाः
ऐहिकामुष्मिकं सर्वं मन्त्रेणैव प्रसिध्यति ।
छन्दो मन्त्राक्षरे यत्तद्दर्शनादृषिरुच्यते
दर्शनं च फलस्याहुर्नपुनर्मन्त्रदर्शनात् ।
देवता मन्त्र फलदा मन्त्रेण प्रतिपादिता
ब्रुवन्ति निलयं क्षेत्रं तत्वं तत्वमिदं विदुः ।
मन्त्राक्षराणां शुक्लादि मन्त्रभेदः प्रकीर्तितः
मूलमन्त्रादिमन्त्राणां साधनं शुणु सांप्रतम् ।
विधाय यागयोग्यानि पुष्पामूलफलानि च
शाकादीनि तु वर्ज्यानि वर्जयेदितराणि तु ।
गृह्णाया द्यानि वर्ज्यानि तानि वक्ष्यामि पद्मज
उग्रगन्धान्यगन्धानि दुर्गन्धानि परित्यजेत् ।
वस्त्रार्कपर्णस्पृष्टानि पुष्पाण्यारधने हरेः
उन्मत्त शाल्मली बीजपूर धुत्तूरिकाजपाः ।
बन्धूकीसितकोरण्डद्रोणकन्यापराजिताः
हृहत्यगस्त्यकूश्माण्डपटोल्यारग्वथैस्समाः ।
मिर्गुण्डी दमयन्ती च रिंशुकं पारिभद्रकम्
कोशातकी प्रायालुश्च तपस्वी गिरिमल्लिका ।
निम्बव्याघ्री करञ्जश्वी षण्ड पाषण्डपट्टिका
विभीतकिङ्किण्यङ्कोललाङ्गलीशङ्खपुष्पिणी ।
नारङ्गनन्दिकावर्त वल्लि काक्षीरिकादिषु
पुष्पाणि वर्जनीयानि शाकान्यपि तथा शृणु ।
शृङ्गाष्टं ग्रञ्जनं शिग्रू नालिका सुनिषण्णकम्
सौभाञ्जनं रक्तभाष्पं ग्रामभाष्पं त्रिकण्टकम् ।
द्रोणपत्रं लिलिङ्गा च तण्डुलीयं तपस्विनी
कोशातकी च वर्ज्यानि मूलेषु त्याज्यमुच्यते ।
छत्राकं लशुनं तालफलमूले पटोलिका
बिम्बकुम्भाण्डनारङ्गफलानि परिवर्जियेत् ।
बिल्वोदुम्बर भोध्यर्क वटपत्रेषु भोजनम्
वर्जयेत्साधको यत्नादालस्यं दीर्घचिन्तनम् ।
विवादनिद्रा निर्वेदनिग्रहानुग्रहंस्त्यजेत्
पद्माक्षमालां ग्रीवायां लम्बयेत्साधकश्शुचिः ।
धारयेद्रैमयं चक्रं सर्वविघ्नोपशान्तये
जपकालेऽथवा चक्रं शङ्खाकृति यथातथा ।
शार्ङ्गखड्गदाकारं लाञ्छनं लाञ्छयेत्सुधीः
शरीरावयवे बाह्वोर्वक्षोभुवि चतुर्मुख ।
चक्रादिपञ्चाभिज्ञान लक्षिताङ्गपरिष्कृतम्
पुरुषं दूरतो दृष्ट्वा भूताद्या भयविह्वलाः ।
विद्रवन्ति तथा घोराः पापिष्ठाः क्षणमात्रतः
विनश्यन्ति तथा पुण्यपुञ्जानि प्रविशन्तिच ।
प्रणमन्ति तथा देवा देवर्षिप्रवरास्तथा
अकृत्यमपि कुर्वाणो भुज्जानो वा यत स्ततः ।
पापैर्नलिप्यते देही चक्राद्यायुधलाञ्चितः
हव्यं कव्यं च दातव्यं तस्मै तद्दानमक्षयम् ।
अविधाय शिखाबन्धमकृत्वा तिलकं मृदा
अधारयंस्ततो दर्भान् सूत्रै रनुपवीतयन् ।
कुर्वन् कर्माणि न फलं प्राप्नुयात्पुरुषाधमः
नग्नो मुक्तशिखाबन्धो वाससा वावकुण्ठितः ।
गच्छन् शयानः प्रलपन् न जपात्फलमश्नुते
जपेन्मौनं समास्थाय सहसंभाषणादिकम् ।
प्रतिलोमादिभिर्नीचैर्नकुर्यान्मन्त्रवित्तमः
व्याहरेदपि कार्यार्थं नित्यं तद्गतमानसः ।
द्वादशाक्षर मन्यं वा जपेदक्षरलक्षकम्
तदर्धं जुहुया दग्नौ होमशालां प्रकल्पयेत् ।
धूमनिर्गमनोपेतां चतुरश्रां मनोरमाम्
तन्मध्ये कल्पयेत्कुण्डमाहुत्यसुगुणं शुभम् ।
वृत्तं वा चतुरश्रं वा मेखलात्रयसंयुतम्
यो निमन्मृत्स्नया ब्रह्मन् मानं कुण्डन्य कथ्यते ।
अयुताहुतिपर्यन्ते होमे हस्तप्रमाणकम्
द्विहस्तं नियुते कुण्डं त्रिहस्तं प्रयुते तथा ।
शङ्कुहोमे चतुर्हस्तं महाशङ्का तु षट्करम्
नृन्दाहुतौ सप्तहस्तं महाबृन्देऽष्टहस्तकम् ।
अर्बुदे नवहस्तं स्यान्निर्बुदे दशहस्तकम्
एकादशकरं खर्वे परार्धे द्वादशायतम् ।
त्रयोदशकरं मध्ये अन्तकेतु चतुर्दश
पद्मे कराः पञ्चदश महापद्मे तु षोडश ।
समुद्रे विंशतिकर मोघे द्वाविंशतिः स्मृतम्
इतोऽधिकाहुतिविधौ चतुर्विंशतिहस्तकम् ।
प्रसङ्गादुच्यते सङ्ख्या तां क्रमेणावधारय
एकं दश शतं सङ्ख्या सहस्रमयुतं तथा ।
नियुतं प्रयुतं शङ्कुर्महाशङ्कुस्ततः परम्
नृन्दं तथा महाबृन्दमर्बुदं न्यर्बुदं तथा ।
खर्वं परार्धं मध्यान्ते पद्मं तन्महदादिकम्
पद्मोत्तरं समुद्रं स्यान्महौघं चोत्तमं भवेत् ।
एकमारभ्य गणयेत्प्रयुतान्तं यथाक्रमम्
स्थानात् स्थानं दशगुणं वर्धयेत्प्रयुतावधि ।
लक्षस्य नियुतं सङ्ख्या कोटिः प्रयुतमिष्यते
शङ्कुमारभ्यगणयेन्महौघान्तं क्रमाद्यथा ।
शतं कोटिसहस्राणां शङ्कुसङ्ख्या निगद्यते
तथैव स्यान्महाशङ्कुरेवं बृन्दं प्रकीर्तितम् ।
तद्वदेव महानृन्द मेवमेवार्बुदं स्मृतम्
इत्थं निर्बुदमाख्यातमेवं खर्वमुदाहृतम् ।
एवमेव परार्धं स्यान्मध्यमित्थं चतुर्मुख
एवमन्तं तथा पद्मं महापद्मं तथैव च ।
सागरप्रलयावेवं सङ्ख्या नास्ति ततः परम्
यत्र काष्ठं तु तच्छ्रोत्रं यत्र धूमस्तु नासिका ।
यत्राल्पज्वलनं नेत्रं यत्र भस्मतु तच्छिरः
यत्र सम्यके स्थिता दर्भास्तत्र केशाः प्रकीर्तिताः ।
यत्र प्रज्विलितो वह्निर्जिह्वातत्रैव कीर्तिता
अग्निकर्णे हुती रोगो नासिकायां मनोव्यथा ।
चक्षुषोर्निधनं कुर्यात्केशे दारिद्र्यं भवेत्
हुतं शिरसि पापं स्यात्तस्माज्जिह्वासु होमयेत् ।
समिद्भिर्याज्ञियैर्बीजैर्घृतैर्गव्यैस्तथा दलैः
सुमनोभिस्समिद्धेग्नौ जुहुयादग्निमाहरेत् ।
आरण्यं मणिजं लौहं कुण्डमध्ये परिष्कृते
योगासनं चाग्नि मध्ये कल्पयित्वा हरिं पुनः ।
आवाहयेत्तत्र देवं होमान्तं तत्र सन्निधिम्
प्रार्थयेत समाराध्य होमं कुर्याद्दिने दिसे ।
आहोमकालमर्यादं रक्षेदग्निमतन्द्रितः
न दहेत्परिधीन् दर्भानुपस्तीर्णानुपक्रमे ।
एवमुक्तेन मार्गेण जपतो मन्त्रमुत्तमम्
साधकस्य पुनस्स्वाप्नास्सम्भवन्त्यविचारिताः ।
मन्त्रसिद्दिमसिद्दिं च सूच यन्तश्शुभाशुभम्
आचार्यं प्रतिमां देवीं पूजोपकरणानि च ।
विप्रं भागवतं भूपं छत्रचामरदन्तिनः
सिंहासनमपां कुम्भं पुर्णं कन्यां मधूजनम् ।
दीपं शङ्खं तथा यानां श्रीवत्सं पादुकां तथा
श्वेतं वस्त्रं च माल्यं च चन्दनं भूषणानि च ।
रत्नानि काहलादीनि पायसं दधि पालिकाः
तांबूलं पुस्तकं घण्टां तण्डुलानवगाहनम् ।
समुद्रतरणं शैलारोहणं द्रुमरोहणम्
भूमिलाभं मृदां लाभं तटकुपादिदर्शनम् ।
प्राङ्कुखोदुङ्गुखो वापि यात्रां कुर्वन् स्वयं यदि
विमानदर्शनं विष्णोर्दीप्तौ च शशिभास्करौ ।
नक्षत्राणि गृहादीनि ज्योत्सां च ध्रुवमण्डलम्
दीप्तमग्निं वेदघोषं सिद्धविद्याधरादिकम् ।
देवता समितिं चैव पश्यन् मूलफलानि च
अपूपादीनि भक्ष्याणि कुशयष्टिं कमण्डलम् ।
यज्ञोपवीतं पात्राणि स्रुक्स्रुवादीनि लोकयन्
अक्षमालामेव माद्यैश्शुभैस्स्वप्नैर्विनिर्दिशेत् ।
मन्त्रसिद्धिं बहु मुखां
दुस्स्वप्नाश्चाप्यशोभनाः
कथ्यन्ते मुण्डितैस्सार्धं सम्भाषा सहवर्तनम् ।
स्वयं मुण्डश्छभिभ्राणो जीर्णं नीलं तथाम्बरम्
कन्थां कर्तां तथा नीलां पुष्पमालां च मूर्धनि ।
गर्दभारोहणं भग्नयानाधिष्ठानमब्जज
छिन्नच्छत्रधरो वापि महिषारोहणं तथा ।
दक्षिणाभिमुखो गच्छन्नुष्ट्रवाहादिरोहणम्
दष्टश्च कपिभिर्देहे सृगालैर्वा वृकै स्तथा ।
कर्णपादशिरश्छेदो दन्तानां पदनं तथा
नववस्त्रधरः पीडा भडैः पाशेन बन्धनम् ।
विधवालिङ्गनं नीचैः पाषण्डैः प्रतिलोमजैः
वर्तनं गोपुरादीनां पतनं शाखिनामपि ।
तुरगारोहणं भुक्तिर्बौद्धाद्यालयसेवनम्
मदिरापायिभिः पापरोगिभिःकितवैस्सह ।
वर्तनं दीपनिर्वापं देवानामुत्सवं तथा
ग्रामादिदाहो भक्ष्याणां फलादीनां च भक्षणम् ।
मधूच्छिष्टं प्रतिच्छाया यात्रा युद्धोद्यमं भटैः
अभ्यङ्गं तैललाभं च मरीचं लवणं तथा ।
लोकयन्नेवमादीनि स्वप्ने शान्तिं समाचरेत्
जपहोमादिभिर्विद्वान् जाग्रतः प्रत्ययां स्तथा ।
वक्ष्यामि साधकस्याग्रे जातानब्युदयावहान्
प्यूम्नि देवगाणान्नेमि घोषं दुन्दुभिनिस्वनम् ।
स्द्दैस्संभाषणं चापि विमानानां च दर्शनम्
भूतप्रेतपिशाचादिदशर्नं भूतले तथा ।
होमकाले च सप्तार्चिस्त्रिशिखः परिदृश्यते
शुद्धस्फटेकसङ्काशो दक्षिणावर्त शोभितः ।
दिव्यगन्धोपलम्भश्च छत्रबिम्बध्वजादिकम्
शङ्खदुन्दुभिवीणादिवेदघोषश्रुतिं पुनः ।
पूर्णाहुतिविधौ सिद्धिलिङ्गान्येतानि लोकयेत्
साधकस्तानि लिङ्गानि कथयेन्न गुरुं विना ।
होमान्ते भोजयेद्विद्वान् वैष्णवान् द्वादशावरान्
यावच्च मन्त्रसिद्धिस्स्यात्तावदाराधयेद्धरिम् ।
कामनानुगुणाकारं दार्वाद्यैः परिकल्पितम्
दिने दिने जपेन्मन्त्रं जुह्वान्नग्नौयथापुरम् ।
प्रणवस्य शृणु ब्रह्मन् पुरश्चरणमुत्तमम्
बीजं साङ्गं समुद्धारं यथावदवधारय ।
अप्रमेयादिमुदयं मध्ये मन्दरपश्चिमम्
समाहृत्य त्र्यवयवं त्रीन् वर्णान् वाचकं हरेः ।
प्लुतोदात्तस्वरं ब्रह्मन् चक्रमध्ये प्रतिष्ठितम्
उद्धरेद्बीजमस्याद्यं प्रतीकं दण्ड शेखरम् ।
वैष्णवं दण्डयेद्वैषा शक्तिस्सर्वत्र कीर्तिता
बीजशक्त्यङ्गहीना ये मन्त्र्यासुसै निरर्थकाः ।
तस्मात्साङ्गं बीजयुक्तं शक्तियुक्तं फलप्रदम्
बीजं शक्तिश्च कथिता श्रूयतामङ्गजातयः ।
ऋषिर्ब्रह्मस्य छन्दस्तु देवी गायत्र मुच्यते
प्रतिपाद्यः परोदेवः परमात्मा स देवता ।
बुद्धिस्तत्वं परं प्यूम क्षेत्रं वर्णस्सितच्छविः
ज्ञानं बलं तथावीर्यमैश्वर्यं तेजसा सह ।
शक्तिरेते चतुर्थ्यन्ता नमस्स्वाहा वषट् तथा
हुं फट् वौषट् क्रमादेत दवसानाश्शुभावहाः ।
अङ्गानि हृदयाद्येषु षट्सु स्थानेषु मन्त्रिणा
प्रयोज्यानि प्रयुक्तेषु मन्त्रस्साङ्गः कृतो भवेत् ।
देहे करतले चैव स्थानेषु द्वादशस्वपि
द्वादशाक्षरवन्न्यासः प्रणवस्स्फटिक प्रभः ।
न्याने नमोन्तस्स्वाह्न्तू जपपूजाहुतिष्वपि
वश्ये चाकर्षणविदौ उच्छाटे हुङ्कृतिर्भवेत् ।
मारणे फट्कृतिर्ज्ञेया स्तम्भ विद्वेषमोहने
सतिं विनाङ्गमन्यस्स्याद्धर्मादौ नतिरेव सा ।
शाकयावकभैक्षाशी जपेल्लक्षत्रयं शुचिः
तदर्धं तर्पणे सङ्ख्या तदर्धं होमकर्मणि ।
होमान्ते सिद्धयस्तस्य जायन्ते यावदीप्सिताः
ऐहिकामुष्मिकं सर्वं प्रणवाल्लभ्यतेऽ खिलम् ।
प्रणवान्न परोमन्त्रः कश्चिदस्ति चतुर्मुख
शान्तिपुष्ट्यभिचारेषु किमन्यैस्सिद्धिवर्णनैः ।
अन्त्यकाले च मां ध्यात्वा व्याहरन् प्रणवाक्षरम्
योगाभ्या सोक्त विधिना जीवमारोहयेद्धृदि ।
भ्रुवो र्मध्ये ततोजीवं ततो ब्रह्म बिलं ततः
उच्चरन् प्रणवं भित्वा भिलं ब्रह्मणि लीयते ।
यावत्प्राणविनिर्मोकमभ्यस्येत्प्रणवाक्षरम्
सर्वपापविनिरिमुक्तो याति ब्रह्म सनातनम् ।
प्रोक्तः प्रणवकल्पस्ते समासेन चतुर्मुख
मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0