भाषा

ENहिગુ
ग्रंथ पाठ

पद्मसंहिता · अध्याय 4.20

4.20.1

राजानस्तदमात्या वा ये राज्यधुरि निष्ठिताः ।
भगवन् रक्षणव्यग्राः प्रजानां सततोद्यताः

4.20.2

ब्रह्महत्यादिभिः पापैरभिभूता विगर्हितैः ।
कायक्लेशात्मके शास्त्रचोदिते घोरकर्मणि

4.20.3

पापनिर्हरणोपाये प्रवर्तितुमनीश्वराः ।
ते कथं तानि पापानि निर्धूय सकलन्यपि

4.20.4

कर्माधिकारिणो भूयस्सतां संसदि संमताः ।
कल्पनै भगवद्ध्याने तदर्चनविधावपि

4.20.5

योग्याः प्रकारं तं देव ब्रूहि मह्यं यथातथम् ।
ब्रह्महत्यादिपापानामपनोदनमुत्तमम्

4.20.6

कायक्लेशात्मके कर्मण्यक्षमाणां महीबृताम् ।
विहितं सुकरं तेषां प्रायश्चित्तं चतुर्मुख

4.20.7

हिरण्यगर्भनामैकं कर्म प्रोक्तं यथापरम् ।
तुलाभारसमा ख्यं तद्द्वाभ्यां निर्धूत कल्मषम्

4.20.8

भगवद्ध्यानपूजादिविदौ भूयोऽधिकारिणिः ।
भवन्तिकर्मद्वितयं तदशेषेण कथ्यते

4.20.9

कर्तुं व्यवसितं कर्म वरयेद्गुरुमादितः ।
सर्वशास्त्रार्थतत्वज्ञं मन्त्राणां पारगं परम्

4.20.10

दयालुं सर्वभूतानामक्रोधनमलोलुपम् ।
कर्मद्वयविधानज्ञमृजुं भागवतं द्विजम्

4.20.11

परीक्ष्यैवं विधं यत्नादुपसङ्गम्य पार्थिवः ।
अर्थयित्वा यथान्यायमुपचर्य द्विजोत्तमम्

4.20.12

कर्मारभेत पुण्येषु देशकालेषु यन्त्रितः ।
षट्सुतैष्यादि मासेषु श्रवणे त्वाष्ट्रा एव वा

4.20.13

मैत्रे चाश्वयुजि ब्रह्मन् रोहिण्यां पासवेऽपि वा ।
पुष्ये वा सौम्यनक्षत्रे चोत्तरत्रितयेऽपि वा

4.20.14

देशेतीरे च सरितां समुद्रतटभूषु वा ।
यद्वा सर्वगुणोपेते देशे भगवदालये

4.20.15

नैमित्तिकं चेत्कर्मैतन्न कालादिपरीक्षणम् ।
मण्डपं प्रथमं कुर्यात्प्रतिष्ठायामिवालये

4.20.16

अन्यत्र वा यथोद्दिष्टे देशे शास्त्रोक्तवर्तना ।
सर्वालङ्कारनंयुक्तमन्तः कल्पितवेदिकम्

4.20.17

अङ्कुरानर्पयेत्पूर्वमुक्तेष्वन्यतमे दिने ।
सम्भारास्तत्र सम्भार्या यथाविधि यथावसु

4.20.18

एकाङ्गुलघने तुल्ये कपाले द्वे हिरण्मये ।
अधरं चोत्तरं चापि कर्ये द्वाभ्यां चतुर्मुख

4.20.19

सङ्गताभ्यां प्रविश्यान्तरास्ते गर्भाशये यथा ।
कर्तासुखं तं निर्याय द्वयमण्डसमाकृति

4.20.20

हिरण्यगर्भ संज्ञं तत् यत्रायं जायते पुनः ।
होमपात्राणि सर्वाणि रैमयान्येव कारयेत्

4.20.21

सम्भारेषु समस्तेषु सम्भृतेषु महीपतिः ।
पूर्वेद्यु र्नियतश्चोप्त रोमश्मश्रुनखश्शुचिः

4.20.22

शुद्धदश्शुद्धवसनश्श्वेतमाल्यानुलेपनः ।
उपोषितो घृतं प्राश्य रात्रिं नियमतत्परः

4.20.23

नीत्वा परेद्युः प्रत्यूषेस्नातो नियतमानसः ।
ऋत्विग्भिः कारयेत्कर्म गरुणा चोदितस्स्वयम्

4.20.24

वेदिमध्ये शालिभारैर्नवभिः कृतविष्टरे ।
प्रागग्रेषु च दर्भेषु स्तीर्णेष्वारोप्य रैमयम्

4.20.25

कपालमधरं द्वारतोरणादिसमर्चने ।
यथापुरं कृते नृत्तगेयवादित्रमङ्गले

4.20.26

हिरण्यगर्भमभितश्चतुर्दिक्षु भृतोदकान् ।
संस्थाप्य चतुरः कुम्भान् धान्यपीठेषु तेष्वथ

4.20.27

कुम्भेषु न्यस्तरत्नेषु वेष्टितेषु नवाम्बरैः ।
चतस्रो देवतास्स्वीयैर्नामधेयैरनुक्रमात्

4.20.28

आवह्यः पुरुषस्सत्यः प्राचीदक्षिणयेस्तथा ।
वारुण्यामथकौबेर्यामच्युतोऽनन्त एव च

4.20.29

समुदीर्यार्घ्यपाद्याद्यै र्धूपदीपावसानकैः ।
अन्नं चतुर्विधं चापि कुम्भे कुम्भे निवेदयेत्

4.20.30

पूर्वादि दिक्षु कुण्डेषु प्रतिष्ठायामिवक्रमात् ।
क्लृप्तेषु हावयेदग्नौ समिधाज्येन चक्रमात्

4.20.31

प्रत्येकं मूलमन्त्रेण शतमष्टोत्तरं गुरुः ।
चतुर्विधेन चान्नेन प्रत्येकं षोडशाहुतीः

4.20.32

कुर्यात्पुरुषनोक्तेन ध्यात्वा यष्टव्यदेवताः ।
प्राप्ते मुहुर्ते भूदेवाननुज्ञाप्य गुरुस्स्वयम्

4.20.33

पाणिना भूमिपं हस्ते गृहीत्वा प्रलयक्रमात् ।
देहं संहृत्य भूपालं देहमात्रावशेषितम्

4.20.34

ध्यात्वा प्रवेशयेद्गर्भं रैमयं कमलासन ।
अधरे रैमये भागे सुखासीनं च भूमिपम्

4.20.35

छादयेदुपरिष्टेन भागेनैतत्प्रवेशनम् ।
घृतमिश्रैस्तिलैस्तत्वसंहाराहुतिमाचरेत्

4.20.36

तत्त्वोत्पादनमार्गेण चिन्तयित्वा गुरुः पुनः ।
स्पष्टं शरीरं भूपस्य सृष्टि होमं यथापुरम्

4.20.37

कुर्यात्कुण्डेषु सर्वत्र चतुर्घु चतुरासन ।
आनीय मन्त्रवज्जातं अण्डात्तस्माद्बहिर्नृपम्

4.20.38

वैयाघ्रचर्मण्यारोप्य कलशैरभिषेचयेत् ।
उत्तमाधममार्गेण वेदवित्तन्त्रवित्तमः

4.20.39

तथैव मन्त्रात्स्नपनं द्रव्यजातं च तादृशम् ।
कर्मणा तेन निर्धूतकल्मषः पुण्यकृत्तमः

4.20.40

जातो गुरुप्रसादेन गुरुमग्रे सभाजयेत् ।
सहस्रनिष्टमानेन तपनीयेन भूमिपः

4.20.41

ऋत्विजां चापि सर्वेषां तावती दक्षिणा मता ।
कर्मोपकरणं सर्वं कुर्यादाचार्यसान्नृपः

4.20.42

हैरण्यमण्डं विद्वद्भ्यो ब्राह्मणेभ्यः प्रदापयेत् ।
एवं कृतवतस्तस्य विष्णोराराधनादिषु

4.20.43

संपद्यतेऽधिकारित्वं द्विरेवं कर्म कुर्वतः ।
फलं च विष्णोस्सारूप्यं सायुज्यं त्रिगुणे भवेत्

4.20.44

तुलाभाराह्वयं कर्म द्वितीयं कथ्यतेऽधुना ।
निर्माय मण्टपं प्राग्वत्तस्मध्ये यज्ञदारुजौ

4.20.45

स्तम्भा दृढौ सरवन्तौ हस्तैष्षड्भिस्सम्छृतौ ।
द्विहस्तपरिणाहौ द्वौ सवृत्तौ शिल्पिकल्पितौ

4.20.46

द्विहस्तमानान्तरालौ स्थापितौ भूतले दृढम् ।
कृत्वातयोरुपर्येकं दारु सारव दुत्तरम्

4.20.47

विस्तीर्णं हस्तमानेन तावन्मानघसं धृढम् ।
त्रिहस्तमायतं चैव तुलादण्डमयोमयम्

4.20.48

आयसेनैव पाशेन योजयेदुत्तरेण तु ।
विधायेत्थं तुलामन्यत्सम्भारादि यथापुरम्

4.20.49

कल्पयित्वा यथापूर्वं कर्मचोपरि शास्त्रिकम् ।
होमान्तं सकलं कुर्याद्यथा योगमलोपयन्

4.20.50

स्नातो नरपतिः क्षामवसनाभरणान्वितः ।
शुचिर्ध्यायन् वासुदेवं चर्मखड्गधरस्ततः

4.20.51

परिक्रम्य समस्कृत्य देवांस्तान् पुरुषादिकान् ।
तुलामपि तथा कृत्वा भागे तस्याश्च पश्चिमे

4.20.52

स्थित्वा प्रागाननो भूत्वा आरोहेत्पश्चिमं धटम् ।
स्वस्तिन इत्यृचं सूक्तमधीयानश्च मङ्गलम्

4.20.53

प्राच्ये धटे नृपसमं निक्षिपेद्धाटकोत्तमम् ।
चतुर्दिक्षु प्रवृत्तेषु नृत्तवादित्रगीतिषु

4.20.54

अधीयानेषु विप्रेषु वेदांश्च चतुरस्तदा ।
शान्तिहोमे च कुण्डेषु प्रवृत्ते पार्थिवस्स्वयम्

4.20.55

कञ्चित्कालं धटभुवि ध्यायन् रुक्ममयं हरिम् ।
आसित्वा गुर्वनुज्ञातः पूर्वं धटभुव स्ततः

4.20.56

अवरोहेत्सुवर्णं च भूषणानि च भूपतिः ।
भूसुरेभ्यो यथायोगं विभज्य वितरेत्ततः

4.20.57

आचार्यय शतं निष्कं मूर्तिपेभ्यश्च तत्समम् ।
सर्वेभ्यो ये च तत्कर्मसहकारे नियोजिताः

4.20.58

तेभ्योऽपि दद्याद्दीक्षित्वा तेषां कर्म यथायथम् ।
तुलाभाराह्वयं कर्म कुर्वन्नित्थं महीपतिः

4.20.59

अन्यो वा धनवान् कश्चित्सर्वपापैः प्रमुच्यते ।
प्रेत्य चाभिमतान् भोगानश्नुते दिवि देववत्

4.20.60

असकृत्कर्म कुर्वाणो ब्रह्मलोके महीयते ।
पापापनोदनं कर्म परलोके सुखावहम्

4.20.61

आयुर्वृद्धिकरं सर्वरोगशान्तिकरं परम् ।
संपत्करं यशोवृद्धिकारणं सर्वकामदम्

4.20.62

चतुरानन कर्मान्यत्स्वर्णगर्भादि संयुतम् ।
पुष्याभिषेचनं नाम शृणु गुह्यं सनातनम्

4.20.63

विहितं पृथिवीशानामिन्त्राद्यैरप्यनुष्ठितम् ।
मासितैष्ये प्रोष्टपदे मासे चाश्व युजे शुभे

4.20.64

श्रवणे चैव नक्षत्रे जन्मर्क्षे कर्तुरेव वा ।
महाभिषेचनं कर्म प्रारभेत गुरु स्ततः

4.20.65

पूर्वोकैष्वेव देषेषु कस्मिंश्चिदभिपूजिते ।
पञ्चदण्डायतां भूमिं कृत्वा वै वर्तुलाकृतिम्

4.20.66

तस्यामन्तस्थ्सलं सम्यक्कृत्वा निष्कसमुच्छृतम् ।
तोरणादि चतुर्दिक्षु स्थापयित्वा चतुर्मुख

4.20.67

अलङ्कृत्य यथापूर्वं वितानध्वजमालया ।
तन्मध्ये कल्पयेन्मेरुं मृदङ्गसदृशाकृतिम्

4.20.68

श्लक्ष्णादि च मृदा कार्यं तस्योच्छ्रायं त्रिहस्तकम् ।
मूले चाग्रे च विष्कम्भो हस्तमानस्तथा भवेत्

4.20.69

चतुर्दिक्षु च चद्वारो भागास्तस्य यथाक्रमम् ।
श्वेतोऽरुणस्तथापीतः कृष्णः कल्प्यश्च सर्वतः

4.20.70

कत्नैः स्वर्णैः पूरणीया ष्षट्तथा कुलपर्वताः ।
पूर्वापरायताः कल्प्या हिमवां स्तदनन्तरम्

4.20.71

हेमकूटश्च विषधो नीलश्श्वेतश्च पर्वतः ।
शतशृङ्गश्च विष्कम्भस्तेषां ग्यात्षोडशाङ्गुलः

4.20.72

श्वेतश्च पिङ्गलो रक्तो नीलश्चन्द्रसमप्रभः ।
हेमवर्णः क्रमाद्वर्णैश्चित्रयेद्धातुपांसुभिः

4.20.73

जम्बाद्वीपं लिभैत्वैवं लवणोदधिवेध्टितम् ।
प्लक्षद्वीपं लिखेद्दिक्षु समुद्रपरि वेष्टितम्

4.20.74

शाल्मल्या लक्षितं द्वीपं परीतं मदिराम्बुभिः ।
कुशं परीतमाघारैः क्रौञ्चं दधिसमुद्रितम्

4.20.75

शाकं दुग्धोदधिक्षिप्तं पुष्करं स्वच्छतोयधिम् ।
क्रमाल्लिखित्वा सर्वेषां लोकालोकमहाचरम्

4.20.76

वप्रवत्कल्पयेत्प्राच्यां तस्यान्तरमरावतीम् ।
पुरीमिन्द्रस्य याम्यायां नाम्ना संयमनीमपि

4.20.77

यमस्य वरुणस्यापि प्रतीच्यां नगरीं तथा ।
विभावरीमुदीच्यां तु पुरीं सोमस्य कल्पयेत्

4.20.78

इन्द्रादिलोकपालानां स्थाने स्थाने प्रकल्पयेत् ।
सैकते स्थण्डिले तत्र तानावाह्य समर्चयेत्

4.20.79

महामोरुं च तन्मूर्ध्नि वाराहिं मूर्तिमर्चयेत् ।
मेरोरुत्तरपार्श्वे तु श्वभ्रं कृत्वा प्रमाणतः

4.20.80

अधः कपालं सौवर्णं न्यस्य तत्र समर्चयेत् ।
पूनरुर्ध्वकपालं च न्यस्य तस्योपरि क्रमात्

4.20.81

पूर्वोक्तेन विधानेन पुरोधा नियतस्स्वयम् ।
कुंभान् षोडश संपूर्णान् षोडश प्रस्थपूरणान्

4.20.82

परितोऽण्‍डकपालस्य सूत्रवस्त्रादिवेष्टितान् ।
स्थापयित्वा धान्यराशौ सापिधानानलङ्कृतान्

4.20.83

दिशमैन्द्रीं समारभ्य प्रादक्षिण्येन पूरयेत् ।
पञ्चगव्यादिभिर्द्रव्यैः प्रणवेन प्रपूरयेत्

4.20.84

पञ्चगव्यं च पीयूषं दधि सर्पि स्तथा मधु ।
हरिचन्दनतोयं च वारि चाक्षतसंयुतम्

4.20.85

कुङ्कुमं च तथा तोयं कर्पूरागुरुवारि च ।
कुशोदकं च रत्नाम्भस्सर्व पुष्पोदकं तथा

4.20.86

फलोदकं च धान्याम्भस्सर्वतीर्थोदकं तथा ।
सर्वगन्धोदकं चापि द्रव्याणां क्रम ईरितः

4.20.87

मोरोश्च दक्षिणे भागे कुण्डमग्नेः प्रकल्पयेत् ।
आज्येन जुहुयादग्नौ शतमष्टोत्तरं पृथक्

4.20.88

वराहमूर्ति प्रभृतीरुपक्षिप्त्वा च देवताः ।
अन्याश्च देवताश्शैलान् समुद्रान्विष्टसानि च

4.20.89

भूरादीनि तथा द्वीपभेदांश्चोद्दिश्य नामभिः ।
तेषा माहूय तत्कार्यं गुरुणा सपुरोधसा

4.20.90

भूर्भुवस्स्वरिति ब्रह्मन्ननै च जुहुयाद्घृतैः ।
अग्निं विसृज्य वितरेद्दक्षिणाश्च यथावसु

4.20.91

तदनै यजमानस्तु सर्वालङ्कारसंयुतः ।
शुचिस्समाहितो भूत्वाकृतकौतुकबन्धनः

4.20.92

प्रविश्य तत्र तद्धैममण्डं च प्राङ्मुख स्स्वयम् ।
प्रविश्यासीत देवेशं ध्यायन्नेव सुधाकरम्

4.20.93

यज्ञमूर्तिं धरां देवीं बिभ्राणं निजदंष्ट्रया ।
एवं ध्यायन्तमासीनं नृपं सोपस्क्रियं स्वयम्

4.20.94

आचार्यानुमतः कुम्भैः स्थापि तैरभिषेचयेत् ।
पञ्चगव्यादिभिर्द्रव्यैर्मन्त्रानुच्चार्यमन्त्रवित्

4.20.95

वसोः पवित्रमन्त्रेण पञ्चगव्याभिषेचनम् ।
शं नोदेवीरिति पयस्स्नानं दध्नाऽभिषेचनम्

4.20.96

इषेत्वेति घृतेनाग्न आयाहीति तथा पुनः ।
मधुना चाग्निमीडेति मानस्तोक इति ब्रुवन्

4.20.97

हरिचन्धनतोयेन तथैवाक्षतवारिणा ।
इदं विष्णुरिति प्रोच्य कुङ्कुमक्षोद वारिणा

मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc