भाषा

ENहिગુ
ग्रंथ पाठ

पद्मसंहिता · अध्याय 4.19

4.19.1

नित्यं नैमित्तिकं काम्यं निपतेद्युगपद्यदि ।
कृत्वानैमित्तिकं नित्यमाचार्य स्तदनन्तरम्

4.19.2

गृहार्चास्नपने प्राप्ते विस्तारे सति वेश्मनि ।
तत्रैव स्नपनं कार्यं सङ्कटे तु बहिर्भवेत्

4.19.3

पर्वतादौ शुचौ देशे प्रपानिर्माणपूर्वकम् ।
स्नपनं देवदेवस्य कार्यं भागवतेन तत्

4.19.4

आलये स्थापितं बिम्बं न कदाचिच्चतुर्मुख ।
निर्गमय्य बहिस्स्नाप्य मन्तरेण तु सर्वदा

4.19.5

तीर्थावधृथवेळायां सद्यादीनां तटे भवेत् ।
अन्यथा चेच्छान्तिहोमं कुर्यात्सर्वसमृद्धिदम्

4.19.6

अङ्कुरार्पणहीने च स्नपने कौतुकेऽन्विते ।
अधिवासविहीने च कलशैस्स्नपने सति

4.19.7

शान्तिहोमो विधातव्य स्सर्वदोषापनुत्तये ।
सङ्कल्पितस्नानहानौ द्विगुणं स्नपनं भवेत्

4.19.8

अकृते राजराष्ट्रस्य भवेद्विभवसङ्क्षयः ।
यजमानस्य धाम्नश्च प्रजानां च धनक्षयः

4.19.9

अकाले तु कृते स्नाने विषुवादौ यथोदिते ।
शान्तिः कार्ययने चैव दक्षिणे प्रागुपक्रमः

4.19.10

उत्तरे चैव पाश्चात्ये उत्तमं नैव दूषणम् ।
चैत्रे च विषुवे तद्वत्क्रमादाश्वयुजेऽपि च

4.19.11

स्थापितानां च कुम्भानां भेदने पतने तथा ।
कालादिदोषदुष्टे च क्रिमिकेशादिदूषिते

4.19.12

लङ्घितेऽशुचिसंस्पृष्टे वायसाद्यैश्छ दूषिते ।
गर्हिते श्वापदाद्यैश्च स्पृष्टे चाशुचिभिस्तथा

4.19.13

पाषण्डैः प्रतिलोमैश्च तथोदक्यादिदूषिते ।
कलशं तं तमुद्धृत्य स्थापयित्वा परान् पुनः

4.19.14

तद्दैवत्यान् जपेन्मन्त्रा नष्टोत्तरशतावरम् ।
स्नपनं यदि तैःकुर्याच्छान्तिहोमं समाचरेत्

4.19.15

अक्रमेण समुद्धृत्य स्नपने विहिते सति ।
जपःपञ्चोपनिषदां कर्तव्यस्तत्समाचरेत्

4.19.16

देवतामन्त्रभूभागद्रव्याणां व्यत्यये सति ।
पूर्ववन्मन्त्रजापस्स्यात्प्रतिद्रव्यमनर्चिते

4.19.17

अर्घ्यादिभिर्जपस्तद्वन्महिषाजोष्ट्रसम्भवैः ।
क्षीरादिभिस्तथा द्रव्यै स्स्नपने स्नापयेत्पुनः

4.19.18

समद्भिर्मूलमन्त्रेण जुहुयात्कमलासन ।
अद्भिःपर्युषिताभिश्चेत्स्नपनं स्नापयेत्पुनः

4.19.19

शान्तिहोमो मूलविद्या जपश्चाष्टोत्तरं शतम् ।
आराधनाङ्गवैकल्ये नृत्तवाद्यादिभि स्सह

4.19.20

शान्तिहोमो भवेद्वेद्यां स्नपने चलने सति ।
प्रतिमापतने तद्वत्प्रायश्चित्तं चतुर्मुख

4.19.21

स्नपने वर्तमाने तु चरने पतनेऽपि वा ।
यथापूर्वमवस्थाप्य स्नापयित्वा यथीविधि

4.19.22

शान्तिहोमश्च कर्तव्यः पीठादीनां च भञ्ङने ।
सहजानां तथा हस्तपादादीनां चतुर्मुख

4.19.23

भङ्गेतु तेषामावाह्य कूर्चादौ तद्गतं हरिम् ।
क्रियां समापयेद्भ ग्नां प्रभापीठादिकं पुनः

4.19.24

समाधाय यथापूर्वं संप्रोक्षणविधिर्भवेत् ।
वस्तुषु स्नपनाङ्गेषु आधिक्यं हानिरेव वा

4.19.25

यदि स्यान्मूलमन्त्रास्य जपश्चाष्टोत्तरावरः ।
मोक्षमाणस्सदा कुर्यात्स्नपनं निशि वाऽहनि

4.19.26

रिपुक्षयार्थीदिवसे धर्मार्थी दिनमध्यमे ।
दिनान्ते सर्वभोगार्थी प्राय श्चित्ताय सर्वदा

4.19.27

बद्धप्रतिसरे बिम्बे स्नपनार्थं तु मन्त्रिणा ।
स्नपनान्तरसं प्राप्तौ न च प्रतिसरान्तरम्

4.19.28

मण्डूकमूषिकासर्पचुचुन्दर्यादिजन्तुभिः ।
स्पृष्टे विलङ्घिते नष्टे स्थापिते कलशे तथा

4.19.29

त्यक्त्वान्यं तु तथा कृत्वा मूलमन्त्रं जपेद्गुरुः ।
स्थापितं कलशं तद्वत्पाषण्डैः प्रतिलोमजैः

4.19.30

आशौचवद्भिरपरैःकलश स्पर्शने सति ।
सद्रव्यं कलशं त्यक्त्वा तथान्यं तत्र निक्षिपेत्

4.19.31

वाचयित्वाथ पुण्याहं शान्तिहोमं समाचरेत् ।
कर्मणिस्नपनादौ तु प्रवृत्ते देशिकोत्तमः

4.19.32

सूतकं मरणाशौचं शृणुयान्नाशुचिर्भवेत् ।
उत्सवे तु यथाशात्रचोदिते स्खलने सति

4.19.33

शान्तिस्तथोच्यते ब्रह्मन्निदानीमवधार्यताम् ।
विमानस्थापनाहीने न कुर्यदुत्सवं हरेः

4.19.34

कुर्याद्वा ध्वजमुद्धृत्य उत्सवं च क्रमेण वा ।
वायवीये धामकोणे विधिना शान्तिमाचरेत्

4.19.35

संवत्सरान्तं तत्रैव ध्वजयष्टेः स्थितिर्भवेत् ।
हीननित्योत्सवे धाम्नि ध्वजारोहणपूर्वकम्

4.19.36

नोत्सवं कारये त्काम्यं कारिते शान्तिमाचरेत् ।
प्रमाणहीने पक्षीन्द्रे ध्वजे स्तम्भादिकेऽपि वा

4.19.37

शान्तिःकार्य तथा हीने मूषिकाद्यैश्च दूषिते ।
अशुचिद्रव्यसंस्पर्शे त्यक्त्वा कोप्यध्वजान्तरम्

4.19.38

शान्तिहोमश्च कर्तव्यो ब्राह्मणानां च भोजनम् ।
ध्वजारोहण कर्माङ्गं ध्वजं वा स्तम्भमेव वा

4.19.39

सकृन्नियुक्तं त्यक्तव्यं ध्वजयुष्टिं तु न त्यजेत् ।
सकृन्नियुक्तेस्तम्भादौ भूयोऽपि विनियोजिते

4.19.40

प्रायश्चित्तं तु तत्र स्यात्स्नपनं चोत्तमोत्तमम् ।
शान्तिहोमश्च कर्तव्यो ब्राह्मणानां च भोजनम्

4.19.41

स्थापिते विहगेशानध्वजे वातातपादिभिः ।
वर्णहानौ न दोषस्या त्समाराधनमिष्यते

4.19.42

पतिते वातवेगेन हेतुना येन केन चित् ।
उद्धृत्य बध्वा भूयोपि स्नपनं मध्यमोत्तमम्

4.19.43

वर्णहानौ तथा भिन्ने ध्वजे च्छिन्नेऽपि वा क्वचित् ।
ध्वजान्तरं समुत्पाद्यत्यक्त्वा निपतितं ध्वजम्

4.19.44

यष्टिं वाकल्प्यमेवास्यं न तु कालप्रतीक्षणम् ।
विपरीतं ध्वजपटं प्रमादाद्यदिबन्धयेत्

4.19.45

तन्मोचयित्वा यद्वान्यं बध्वास्नपनमाचरेत् ।
ध्वजस्तम्भे तथा भिन्ने भग्ने वा सुषिरेऽपि वा

4.19.46

स्तम्भान्त रमपस्थाप्य शान्तिस्स्नपनपूर्विका ।
पतने भ्रमणे वापि पतिते वा यदृच्छया

4.19.47

शान्तिहोमो भवेत्प्राग्वन्मूलमन्त्रजपस्तथा ।
पक्षीशाधिष्ठिते कुम्भे भिन्ने नष्टेऽथ वा तथा

4.19.48

अस्पृश्यैः प्राणिभिः स्पृष्टे स्थाप्य कुम्भान्तरं पुनः ।
आवाह्य तत्र विहगं कर्मशेषं समापयेत्

4.19.49

ध्वजस्तम्भे च संस्पृष्टे चण्डालाद्यैर्विगर्हितैः ।
स्तम्भान्तरमवस्थाप्य शान्तिहोमं समाचरेत्

4.19.50

सूतकैः प्रेतकैश्चैव प्रतिलोमै सथाविधैः ।
स्पृष्टे प्रोक्ष्य ध्वजस्तम्भं पुण्याहोक्तिपुरस्सरम्

4.19.51

सकृन्नियोजितं त्यक्त्वामृण्मयं पालिकादिकम् ।
अङ्कुरानर्पयेन्नूचेत् शान्तिहोमादिकं चरेत्

4.19.52

अङ्कुरेष्वपि रक्तेषु श्यामवर्णयुतेषु वा ।
अप्ररूढेषु सर्वेषु तथा तिर्यग्गतेषु च

4.19.53

अस्पृश्यस्पर्शने तेषां भिन्नच्छिन्नेषु वा पुनः ।
पालिकादिषु नष्टेषु पतितेषु यथातथा

4.19.54

वल्मीकादिप्ररोहे च मूषिकाद्यैश्च भक्षिते ।
शान्तिहोमश्च कर्तव्यो ब्राह्मणानां च भोजनम्

4.19.55

प्रारब्धकर्ममध्ये चेत्कर्मनैमित्तिकं पुनः ।
आपतेदर्पयेद्भूय स्ततर्थां श्चङ्कुर्रा गुरुः

4.19.56

अर्पितेष्वङ्कुरेषु स्याद्दैवाद्वा यदि मानुषात् ।
कर्मलोपस्तदा त्यक्त्वा कल्पितानङ्कुरानपि

4.19.57

शान्त्यर्थं जुहुयादग्नौ मूलमन्त्रजपस्तथा ।
बद्धप्रतिसरे बिम्बे कर्मार्थमपरं यति

4.19.58

अन्तरा कर्म निपतेद्बध्नीयात्कौतुकं पुनः ।
अन्तरा पतिते स्नाने समाप्ते स्नपनं पुनः

4.19.59

पूर्वारब्धमनुष्ठेयं यथाशान्त्रं चतुर्मुख ।
ग्रामादिषु स्याच्छून्येषु न बलिर्वीधिकोत्सवः

4.19.60

धामन्येव भवेत्कामं यदि स्याद्वीधिकोत्सवः ।
सहस्रकलशैस्स्नानं प्रयश्चित्तं तदिष्यते

4.19.61

उत्सवे वर्त माने स्यान्महावातादिना यति ।
ग्रामादौ शिथिले कृत्वा प्रयश्चित्तं पुनर्महः

4.19.62

कार्योन लोप्यो लोपे तु कुम्भैरष्टोत्तरै र्हरेः ।
स्नपनं कारयेद्धोमो जपश्चार्थैर्द्विजार्चनम्

4.19.63

मुहूर्तातिक्रमे शान्तिस्सर्वेषां कर्मणामपि ।
कार्याहोमादिभिः पश्चात्कर्मारम्भो यथोदितः

4.19.64

कर्मण्यधिकृते पूर्वं देशिको मूर्तिपेषु वा ।
दैवाद्वा मानुषाद्वापि विघ्नितेष्वधिकारिषु

4.19.65

प्रारब्धं कर्म कर्तव्यं तादृग्भिरपरैर्द्विजैः ।
उत्सवे विघ्निते दैवान्मानुषाद्वा यथोदिते

4.19.66

बलिमेव क्षिपेद्धाम्नि ग्रामादौ विधिकास्वपि ।
बलिप्रदाने प्यकृते कस्मिंश्चिद्दिवसे पुनः

4.19.67

कुर्वन् बलिमतिक्रान्तं कृत्वैवं बलिमाचरेत् ।
उत्सवाङ्गेषु हीनेषु कलितेषु यथापुरम्

4.19.68

उद्यानयानमृगया जलद्रोण्यादि कर्मसु ।
शान्तिःकार्या भोजनं च ब्राह्मणानां जपस्तथा

4.19.69

हीनायां तीर्थयात्रायां पुनरुत्सवमाचरेत् ।
उत्तमोत्तममार्गेण कृत्वा स्नपनमादितः

4.19.70

मासे यथोक्तेऽतिक्रान्ते नक्षत्रादौ यथोदिते ।
उत्सवोऽनन्तरे मासि यद्यर्वाग्वत्सराद्भवेत्

4.19.71

ऊर्ध्वं संवत्सरा त्कुर्वन् शान्तिं कृत्वासमाचरेत् ।
सहस्रकलशैस्स्नानं शान्तिहोमं जपादिकम्

4.19.72

लुप्ते पर्पोत्सवे शान्ति स्स्नपनं शक्त्यपेक्षया ।
अन्येषु विष्णोर्लुप्तेषु श्रवणाद्युत्सवेषु च

4.19.73

उत्तमोत्तममार्गेण स्नपनं तस्य निष्कृतिः ।
व्यत्यासे बलिवस्तूनां जुहुयात्सर्विषा शतम्

4.19.74

वाताद्युत्पात संस्पृष्टे बिम्भे स्नपनमुत्तमम् ।
आचरेद्यागशालायां प्रपादिषु महोत्सवे

4.19.75

अग्निदग्धेषु तत्सर्वं समाधाय यथापुरम् ।
शान्तिहोमो द्विजेन्द्राणां भोजनं दानमेव च

4.19.76

कुर्यात्सुदर्शनप्लोषे कुम्भैर्नवभिरुप्लवः ।
कार्यो बिम्बादिदाहेऽपि तथा स्नपनमाचरेत्

4.19.77

श्वसृगालादिभिर्यागमण्टपादि प्रवेशने ।
संस्पर्शे पुर्वक्लप्तानि त्यक्त्वान्यानि निधाय च

4.19.78

शान्तिहोमोद्विजेन्ध्राणां भोजनादि यथापुरम् ।
चण्डालादिप्रवेशादौ त्यक्त्वा तद्वस्तु दूषितम्

4.19.79

उत्सवार्थानि वस्तूनि शान्ति होमं समाचरेत् ।
उत्सवाग्नौ स्वयं शान्ते शान्तिं कुर्याद्यथाक्रमम्

4.19.80

विषुवे चायने चैव तीर्थयात्रा न दोषकृत् ।
--ततोऽन्यत्र कर्तव्या ह्न्येव सा भवेत्

4.19.81

प्रमादाद्यदि यात्रास्यात्स्नपनं चोत्तमोत्तमम् ।
उत्सवे होमविच्छेदे द्विगुणं होममाचरेत्

4.19.82

बिम्बे चोरादिभिर्नष्टे वर्तमाने महोत्सवे ।
कर्मार्चादिषु बिम्बेषु बिम्बं चोत्पाद्य पूर्ववत्

4.19.83

आराधयेन्निपतिते बिम्बे यानान्महोत्सवे ।
आरोप्य पूर्ववद्यानं रथ्यासु पतितं नयेत्

4.19.84

एकाधिकाशीतिकुम्भैस्स्नापयेच्छान्तये पुनः ।
अङ्गहानौ कौतुकस्य बिम्ब मन्यं नयेत्तदा

4.19.85

हीनाङ्गं चेत्समाधाय सद्यस्सं प्रोक्षणं चरेत् ।
स्नपनं शान्तये कुर्याद्ब्राह्मणानां च तोषणम्

4.19.86

यानभङ्गे नयेद्देवं यानेनाऽन्येन वीधिकाम् ।
शान्तिश्च कार्या पतनभ्रमणादौ च सारथेः

4.19.87

पुण्याहवाचनादीनि कार्याणि कमलासन ।
अस्पृश्या यदि यानानि वहेयुर्भिम्बमेव वा

4.19.88

क्षालयित्वा तु यानानि बिम्बं च स्नापयेद्घटैः ।
पुष्पयागो निशि भवेच्छान्तये भुक्तये पि वा

4.19.89

अभावे पुष्पयागस्य स्नपनं चोत्तमोत्तमम् ।
आरभ्य तीर्थदिवसादूर्ध्वं पञ्चदिनावधि

4.19.90

ध्वजावरोहणं कार्यं पश्चाच्चेदवरोहणम् ।
दोषस्स्याद्दोषशमनं स्नपनं मध्यमोत्तमम्

4.19.91

अपरोप्य ध्वजपटं स्नपनान न्तरं पुनः ।
उद्वास्य देवतास्सर्वाश्शकटाद्बलिकर्मणा

4.19.92

महोत्सवान्तः पतितं कर्म वैशेषि काह्वयम् ।
कार्यमेव न लोप्यं तल्लोपे स्नपनमाचरेत्

4.19.93

पवित्रारोपणे प्रायश्चित्तमन्यत्प्र दर्श्यते ।
हीनमाने पवित्रे वा कुण्डे वा मण्डलेऽपि वा

4.19.94

अस्त्रमन्त्रं शतं जप्त्वा पूजये दस्त्रवर्धिनीम् ।
त्यक्त्वा पवित्रं केशादिदूषितं पुनरेव तत्

4.19.95

कृत्वा पूर्ववदारोप्य ततश्शान्तिं समाचरेत् ।
अस्पृश्यस्पर्शने कुम्भे भिन्ने नष्टेऽपि वा पुनः

4.19.96

कुंभान्तरे समावाह्य मूलमन्त्रं जपेत्पुनः ।
अस्थाने स्थापितं शूल मन्यत्र प्रतिमादिकम्

4.19.97

स्थापयित्वा यथास्थानं स्नपनादि समाचरेत् ।
माने न्यूनाधिके वापि वेद्यादीनां प्रकल्पिते

4.19.98

शान्तिराज्याहुतिः कार्या पंचोपनिषदा शतम् ।
तेषामभावे च तथा शान्तिर्नयनमोक्षणम्

4.19.99

अकृत्वास्थापने शान्तिं कृत्वा नयनमोक्षणम् ।
तोयाधिवासाकरणे प्रतिष्ठायां मधुद्विषः

4.19.100

स्नपनं शान्तिहोमश्च तद्वदेवाङ्गहानिषु ।
अनाचार्यप्रतिष्ठायां पुनस्थ्सापनमाचरेत्

4.19.101

आचार्यपदमारूढो वैधुर्याद्यल्पदोषवान् ।
अधिकार्येव विज्ञानपारं यातो यदि स्वयम्

4.19.102

ज्ञानाधिकेन देवेशे स्थापिते ज्ञान रूपिणि ।
न दोषो ज्ञानदहनस्सर्वदोषान् दहेत्खलु

4.19.103

यावत्कालं स्थितिर्भालमन्दिरे प्रार्थिता पुरा ।
तावत्यतीते समये स्नपनं मधुविद्विषः

4.19.104

कार्यं पुनश्चतत्रैव स्थितिकालं परीक्षयेत् ।
अन्यत्र वा बालगेहे यद्वा मूलालये भवेत्

4.19.105

कर्मार्थपीठिकायां तत् स्थापयित्वा समर्चयेत् ।
गोपुरे वालये यद्वा प्राकारे मण्टपेऽथवा

4.19.106

शिथिली सरघातुम्बावल्मीकादिसमुद्भवे ।
उद्धृत्यतत्तत्संशोध्य देशं कृत्वा यथापुरम्

4.19.107

स्नपनं देवदेवस्य कुर्यादुत्तममध्यमम् ।
शान्तिहोमो द्विजेन्द्राणां भोजनं दानमेव च

4.19.108

सिद्धान्तसङ्करे जाते प्रमादात्तत्र सङ्करे ।
कृत्वा संप्रोक्षणं पूर्वं सहस्रकल शाप्लवः

4.19.109

सिद्थान्तं नाम किं को वा भेदस्तस्य जनार्दन ।
श्रोतुमिच्छामि तत्सर्वं न रहस्यमिदं यदि

4.19.110

महोपनिषदं नाम सिद्धान्तपदशब्दितम् ।
मीमांसादिषु शात्रेषु ये सिद्धार्था मनीषिणः

4.19.111

तेषामन्तेऽधिकारोस्मिन्नितिसिद्धान्त शब्दितम् ।
तच्चतुर्धास्थितं शास्त्रमृगादिवदनेकधा

4.19.112

एकैकं भिद्यते तन्त्रं शाखाभेदेन भूयसा ।
प्रथमंमन्त्रसिद्धास्तं द्वितीयं चागमाह्वयम्

4.19.113

तृतीयं तन्त्रसिद्धान्तं तुर्यं तन्त्रान्तरं भवेत् ।
एकैव मूर्तिराराध्या प्राधान्येनेतराः पुनः

4.19.114

देव्यश्श्रिय्रादयश्चापि संपूज्याः परिवारवत् ।
आयुधैश्शङ्खचक्राद्यैश्श्रीवत्साद्यैश्चभूषणैः

4.19.115

मूर्तिमद्भिः परिवृता केवला वाम्बुजासन ।
कथ्यते यत्र तत्प्रोक्तं मन्त्रसिद्धान्तमग्रिमम्

4.19.116

वासुदेवादयो व्यूहाश्चत्वारस्साधकैरपि ।
क्रमागतैस्तुल्यकक्ष्याः पूज्यास्तत्प्रभवाप्यये

4.19.117

कर्मणामपि सन्यासः कथ्यते यत्र चागमे ।
तन्त्रमागमसिद्धान्तं तदुक्तं कमलासन

4.19.118

नवानामपि मूर्तीनां प्राधान्यं यत्र कथ्यते ।
मूर्तयो द्वादशाङ्गानि तेषामेव तथापरे

4.19.119

प्रादुर्भाव गुणाश्चान्ये मूर्त्यन्तरगुणा अपि ।
प्रादुर्भावान्तरयुतास्स दिग्देवैस्सहायुधैः

4.19.120

मूर्तिमद्भिश्छ देवीभिर्लक्ष्म्यादिभिरपि स्फुटम् ।
तत्तन्त्रसिद्धान्ताह्वानं---
चतुर्थं परमं पुनः

4.19.121

सौम्यसिंहादिभूयिष्ठं वक्त्रेभैदैश्चतुर्मुख ।
द्वित्रादिमुखभेदा वा मूर्तिरेकैव पूज्यते

4.19.122

परिवारैन्संवृता वा विना वा सर्वकामदा ।
यत्र तन्त्रान्तरं तत्स्याच्चतुर्थं कमलासन

4.19.123

येन सिद्धान्तमार्गेण कर्षणादिक्रिया कृता ।
आदौ तेनैव सकलं नान्यसिद्धान्तवर्त्मना

4.19.124

तन्त्रेणापि तथा येन कर्षणादिक्रिया कृता ।
तेनैव सकलं कार्यं न तन्त्रान्तरवर्त्मना

4.19.125

तन्त्रान्तरेऽपि कथितमनुक्तं ग्राह्यमेव हि ।
सिद्धान्त सङ्करस्तस्मात्तन्त्रसङ्कर एव च

4.19.126

दोषाय कल्पते राजराष्ट्र धामक्षयात्मने ।
सिद्धान्तसङ्करे जाते प्रमादात्तस्य शान्तये

4.19.127

कृत्वा संप्रोक्षणं पूर्वं सहस्रकलशाप्लवः ।
कर्तव्यस्स्नपनं कुर्या त्तन्त्रसङ्करसम्भवे

4.19.128

अन्तेमहोत्सवं कुर्यात् ध्वजारोहणपूर्वकम् ।
स्थापिते पञ्चरात्रेण देवे षड्भिरथाध्वभिः

4.19.129

पत्रिष्ठाने कृते मोहाद्दोषस्सर्वक्षयात्मकः ।
शान्तिश्च तस्य भूयोऽपि पञ्च रात्रोक्तवर्त्मना

4.19.130

प्रतिष्ठाप्य सहस्रेण कलशैस्स्नपनं हरेः ।
महोत्सवश्च कर्तव्यो ध्वजारोहणपूर्वकः

4.19.131

एकत्र दीक्षितस्तन्ते वा द्विजोत्तमः ।
क्रियां न कुर्यादन्यत्र कर्षणादि चतुर्मुख

4.19.132

आचार्यत्वमथार्त्विज्यं पूजायां मधुविद्विषः ।
तन्त्रभेधे च सिद्धान्तभेदे चापि न युज्यते

4.19.133

ब्रह्महत्यादिपापानां निष्कृतिस्म्सृतिचोदिता ।
मृतानां विषशस्त्राग्नि प्रायैरुग्रैश्च कर्मभिः

4.19.134

नारायणबलिर्नाम समाराधनमुत्तमम् ।
गतिहेतुर्विना तेन गतिरन्यान विद्यते

4.19.135

पुनर्दहनमारभ्य कर्म स्मार्तमशेषतः ।
कृत्वा सपिण्डीकरणपर्यन्तं तदनन्तरम्

4.19.136

देवदेवं समाराध्य वक्ष्यमाणेन वर्त्मना ।
विष्ण्वालये नदीतीरे पर्वते वा वनेऽपि वा

4.19.137

आन्यत्र वा पुण्यदेशे कर्तुर्वा भवने शुभे ।
यष्टव्यं कृष्णपक्षस्य द्वादश्यामयनद्वये

4.19.138

उपोषितस्सन् पूर्वेद्युःकर्तानियतमानसः ।
ब्राह्मणान्भगवद्भक्तान्व्रतस्वाध्यायशालिनः

4.19.139

आमन्त्र्यमन्त्रविद्बध्वा केशवादि यथास्वयम् ।
शोधिते गोमयाम्भोभिर्भूतले कुशविष्टरे

4.19.140

उपवेश्य वृतानेव प्राङ्मुखान् कमलासन ।
अर्घ्यादिभिस्समभ्यर्च्य सामभिः केशवदिभिः

4.19.141

नमोन्त्रैर्नागवल्ल्यादि दत्वा चाभ्यञ्जयेद्द्विजान् ।
स्नातानां सन्निदौ तेषां होमं चौपासनेऽनले

4.19.142

कृत्वाग्नि मुखमग्नेश्च प्राग्भागे चक्रपङ्कजे ।
स्थण्डले कुशकूर्चे वा देवमावाहयेदिति

4.19.143

पुष्पाञ्जलिस्समुत्थाय नृसूक्ताद्या ऋचो जपन् ।
ओं पूर्वाभिर्व्याहृतिभिरावाह्य पुरुषोत्तमम्

4.19.144

मूर्तिभेदान् केशवादीन्नामभिस्तैरनन्तरम् ।
आवाह्यार्घ्यादिभिष्टद्भिरुपचर्य पृथक्पृथक्

4.19.145

तर्पयित्वा तिलाम्भोभिः केशवादीन् स्वनामभिः ।
उपचर्य च दीपान्तं पुरुषं पुरुषात्मना

4.19.146

सूक्तेन केशवादींस्तु नामभिस्तैर्यथाक्रमम् ।
अग्नौ पद्मासनासीनं ध्यात्वा परमपूरुषम्

4.19.147

अनूच्य पायसं विष्णोर्नुकमित्यृचमब्जज ।
पश्चात्परोमात्रयेति याज्यया जुहुयाद्धविः

4.19.148

केशवाद्यैर्नामधेयैस्सर्पिषा जुहुयात्ततः ।
चतुर्थ्यन्तैर्द्वादशभि र्नामभिर्ध्यानमास्थितः

4.19.149

क्षीराज्यगुडमिश्रान्नं तेभ्य एव निवेदयेत् ।
देवस्य त्वा सवितुरिति महाविष्णोर्नवेदनम्

4.19.150

सप्तव्याहृतिभिर्भूयो जुहुयात्सर्पिषानले ।
दर्भासनेषु भूदेवानाहुतानुपवेशितान्

4.19.151

वस्त्राङ्गुलीयकच्छत्रकुण्डलोपानहादिभिः ।
यथाशक्ति समभ्यर्च्य मन्त्रेणाष्टाक्षरेण तान्

4.19.152

तिलाज्यमिश्रहस्तेन तदनुज्ञानपूर्वकम् ।
जुहुयादनले हव्यं विद्यया वक्ष्यमाणया

4.19.153

पितृभ्यस्तत्पितृभ्यश्च तत्पितृभ्यः पुनस्तथा ।
मातृभ्यः पितृमातृभ्य स्तत्पितृभ्यःपुनस्तथा

4.19.154

मातामहेभ्य स्तेषां ये पितरस्तेभ्य एव च ।
मतामहीभ्यो मातुश्च पितृमातृभ्य एव च

4.19.155

पितुः पितामहीभ्यश्च तथाचार्येभ्य एव च ।
तत्पत्नीभ्यो गुरुभ्यश्च गुरुपत्नीभ्य एव च

4.19.156

सखिभ्यस्तत्पुरन्ध्रीभ्योज्ञातिभ्या याश्चतत् स्त्रियः ।
ताभ्यश्छामात्यतत् स्त्रीभ्यस्सर्वाभ्यस्तत् स्त्रियश्चयाः

4.19.157

ताभ्यश्चेति समुच्चार्य स्वधा नम इति ब्रुवन् ।
नारायणाय स्वाहेति प्रत्येकं पृथगाहुतिः

4.19.158

अग्निबद्दं चतुर्थ्यन्तं कव्यवाहनमित्यथ ।
तदन्तेस्विष्टकृच्छब्धमनुषङ्गश्च पूर्ववत्

4.19.159

हुत्वैवं सर्पिषा पश्चाद्द्वादशाक्षरविद्यया ।
प्रत्येकं शतमष्टा च द्वादशाक्षर विद्यया

4.19.160

विष्णुगायत्रिया तद्वद्ब्राह्मणान् षड्रसान्वितम् ।
भोजयेद्दक्षणां तद्यात्तान् प्रणम्य प्रदक्षिणम्

4.19.161

ताननुज्ञाप्य शिष्टान्नं यथेष्टं क्रियातामिति ।
दक्षिणेनानलं दर्भान् प्रागग्रान् शोधिते स्थले

4.19.162

संस्तीर्य तेषु दर्भेषु बलिं दद्यात्समाहितः ।
विश्वेभ्यश्चैव देवेभ्यस्साध्येभ्यस्तदनन्तरम्

4.19.163

सर्वेभ्यश्चैव देवेभ्यो विष्णुर्नारायण स्तथा ।
सहस्रशिरसे चैव यज्ञात्मपदमेव च

4.19.164

पुरुषं यज्ञपूर्वं च सर्वेश्वरपदं तथा ।
चतुर्थ्यन्तं समुच्छार्य नमस्स्वा हेत्यनस्तरम्

4.19.165

सर्वत्रैवानुषङ्गं च स्विष्टकृद्यजनादिकम् ।
आधेनुवरदानान्तं कृत्वा प्रेतं निवेदयेत्

4.19.166

मूर्तिषु द्वादशस्वेनं यज्ञशर्माणमाख्यया ।
निवेदयामि देवाय केशवायेत्यनुक्रमात्

4.19.167

द्वादशभ्योनिवेद्यैवं परमान्नं निवेदयेत् ।
नारायणबलिर्ह्येष द्विजानां समुदीरितः

4.19.168

एवं यस्य कृते दत्तो बलिर्दे वार्चना त्मकः ।
स याति निखिलं पापं निर्धूय ब्रह्म शाश्वतम्

4.19.169

पापानामितरेषां च बलिः पुण्यकृतामपि ।
परमात्मपदप्राप्त्यैकल्पते नात्र संशयः

मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc