भाषा

ENहिગુ
ग्रंथ पाठ

पद्मसंहिता · अध्याय 4.2

4.2.1

ये दीक्षायामधिकृता ये च तत्र बहिष्कृताः ।
ते यथावदशेषेण कथिताः पुरुषोत्तम

4.2.2

दीक्षा स्वरूपविषये बुभुत्सा मम सम्प्रति ।
विजृम्भते तत्स्वरूपमुपदेष्टुं त्वमर्हसि

4.2.3

प्रतिष्ठाविधिवत्सर्वं दीक्षामण्डपमादितः ।
कारयित्वा शुचौ देशे तद्वदेव चतुर्मुख

4.2.4

देशे च पश्चिमे वेद्याः गुण्डं तालत्रयाद्बहिः।
कारयित्वाद्विजेन्द्रादि वर्णानामनुपूर्वशः

4.2.5

अनुकूलं चतुष्कोणं तालद्वयमितान्तरम् ।
वृत्तं गोकर्णयुग्मेन विस्तीर्णं तदनन्तरम्

4.2.6

चापाकारं वितस्तिभ्यां विस्तारायाम सम्मितम् ॥
त्रिकोणमितरत्कुण्डं प्रादेशद्वयविस्तृतम्

4.2.7

आयामस्स्रुक्स्रुवादीनामीदृशो ब्राह्मणादिषु ।
दशम्यां यागसम्भारास्सम्भूर्यान्समिधादयः

4.2.8

एकादश्यां तु सायाह्ने तिथौ स्यादधिवासनम् ।
मण्डपे यजने स्थाप्यं द्वारकुम्भादि पूर्ववत्

4.2.9

धारणाशोधिततनुश्चक्राब्जं वर्तयेद्गुरुः ।
कुम्भं च हेमादिमयं करकं चापि तादृशम्

4.2.10

गालितोदकसम्पार्णं न्यस्तरत्नसुवर्णकम् ।
सूत्रवेष्टितनर्वाङ्ग्रं प्रक्चन्दन परिष्कृतम्

4.2.11

अहताभ्यां च पासोभ्यां च्छादितं दोषवर्जितम् ।
अस्त्रेण शतवारं तु करकं चाभिमन्त्रयेत्

4.2.12

अच्छिन्नधारया सिञ्चे द्वेदिकां परितो गुरुः ।
प्रादक्षिण्येन करकं नीत्वा कुम्भं च पृष्ठतः

4.2.13

ऐशाने चक्रपद्मस्य भागे धान्ये निवेशयेत् ।
दक्षिणे कलशं वामे करकं मूलविद्यया

4.2.14

कुम्भे च हरिमावाह्य पूजयेच्छास्त्रवर्त्मना ।
यजेत देवं चक्राब्जमण्डले कमलासन

4.2.15

साङ्ग्रं सपरिवारं च यथाविधि यथाक्रमम् ।
मथित्वाऽष्टाक्षरेणाग्निं गुण्डे तं विनिवेशयेत्

4.2.16

तत्र सिद्धं चरुं कृत्वा चतुर्धैकं निवेदयेत् ।
मण्डलस्थाय हरये कुम्भे भागमथेतरम्

4.2.17

अग्नौ चैकं स्वयं चैकमुप युञ्जीत देशिकः ॥
समिधश्शतमष्टा च जुहुयाद्देशिकोत्तमः

4.2.18

आज्यहोमोऽपि तद्वत्स्यान्मूलमन्त्रेण मन्त्रवित् ।
चरुं नृसूक्तेन तथा पूर्णाहुत्यन्त मन्यतः

4.2.19

शिष्यं स्नातं जितक्रोधं मदाद्येर्वर्जितं शुचिम् ।
अहतक्षौमवसनं सोत्तरीयमलज्कृतम्

4.2.20

आहूय पाससा बध्वा गुरुर्नेत्रे स्व विद्यया ।
आत्मनो दक्षिणेपार्श्वे निवेश्य प्राङ्मुखं यथा

4.2.21

तेन दर्भैश्छ संस्पृष्टः पुण्डरीकाक्ष विद्यया ।
द्वादशाहुतिमाज्येन जुहुयाच्चरुणा तथा

4.2.22

समित्पुष्पतिलैश्चापि ततः प्रसृति मुद्रया ।
त्रिर्मूर्ध्नि शिष्यमालभ्य प्रादक्षिण्येन देशिकः

4.2.23

अष्टाक्षरेण मन्त्रेण ततो भस्म समिद्भवम् ।
पाण्डरं मूर्ध्नि शिष्यस्य विनिवेश्योर्ध्व पुण्ड्रकम्

4.2.24

अस्त्रमन्त्रेण भध्नीया त्सूत्रं प्रतिसरं करे ।
पीत्वा शिष्यः पञ्च गव्यं प्रणवेन चरुं ततः

4.2.25

भुञ्जीत कायशुद्ध्यर्थं दर्ना काष्ठेन धावयेत् ।
दन्तकाष्ठं च भूभागे निपात्याग्रं विलोकयेत्

4.2.26

नैरृते मारुते याम्ये यद्यग्रमशुभं भवेत् ।
शुभमन्यत्र दिग्भागे काष्ठाग्रे प्रतिते भवेत्

4.2.27

अशुभं शान्तिहोमेन शाम्येच्छु भकरश्चसः ।
नारसिंहेन मन्त्रेण तिलैकष्टोत्तरं शतम्

4.2.28

होमः कार्यस्ततश्शिष्यमाचान्तं देपवन्निदौ ।
करे गृहीत्वा दे वेशं प्रणम्य गुरुरात्मवान्

4.2.29

विज्ञापयेदिमां गाधामुच्चार्य कमलासन ।
संसारपाशबद्धानां पशूनां पाशमोक्षणे

4.2.30

त्वमेव शरणं देव गतिकन्यान विद्यते ।
वाशमोक्षणहेतुर्यस्त्वत्समाराधनात्मकः

4.2.31

तेनेमान् जन्मपाशेन पाशितान् पशुजन्मनः ।
विपाशयादिदेवेश तदनुज्ञातुमर्हसि

4.2.32

इति विज्ञाप्य शिष्यं तं मायासू त्रेणवेष्टयेत् ।
शुक्लं कक्तं च कृष्णं च त्रिवर्णं त्रिगुणीकृतम्

4.2.33

सूत्रं पुनश्चत्रिगुणं कृत्वा सूत्रेण तादृशा ।
शिखां प्रक्रम्य पादान्तं पञ्चविंशति सङ्ख्यया

4.2.34

वेष्टयेन्मूलमन्त्रेण कायं शिष्यस्य सर्वतः ।
जुहुयात्तेन मन्त्रेण शिष्यं संस्पृश्य देशिकः

4.2.35

सर्पिषाष्टोत्तरशतं पारान् पूर्णाहुतिं ततः ।
स्वप्नाधिपतिमन्त्रेण सर्पिषाष्टोत्तरं शतम्

4.2.36

स्वप्नदर्शनसिद्ध्यर्थं जुहुयाद्देशिकोत्तमः ।
माषोदनेन भूतेभ्यो बलिं दद्यात्समाहितः

4.2.37

विमुक्तनेत्रबन्धस्य शिष्यस्य तनुबन्धनम् ।
मायासूत्रं समादाय शरावेन्यस्य निक्षिपेत्

4.2.38

कुम्भपार्श्वेशरावेण पिधायान्येस देशिकः ।
दर्भानास्तीर्य तत्तल्पे शिष्यस्वापनमाचरेत्

4.2.39

मण्डलस्थं च कुम्भस्थं देवं नूद्वास येत्तदा ।
ततः प्रभाते शिष्यस्य शुभं चेत्स्वप्न दर्शनम्

4.2.40

दीक्षेत नूचेदशुभं शान्तिहोमं समाचरेत् ।
स्नात्वा शिष्येण सहितः प्रविसेद्याग मण्डपम्

4.2.41

ध्वाजतोरण कुम्भादिपूजा पूर्ववदिष्यते ।
चतुर्विधं निवेद्यान्नं समस्कृत्य प्रदक्षिणम्

4.2.42

शिष्यं तु पूर्ववन्नेत्रे बध्वा नूतनवाससा ।
निवेश्य वूर्ववत्पार्श्वे जुहुयात्समिधादिभिः

4.2.43

प्रत्येकमष्टोत्तर शतं मूलमन्त्रेण देशिकः ।
मायासूत्रं ततश्छित्वा संहारक्रम मास्थितः

4.2.44

तत्वान्यादिश्य जुहुयात्प्रकृत्यन्तानि देशिकः ।
प्रत्येकमष्टोत्तर शत मष्टकृत्वोऽथवागुरुः

4.2.45

हृत्पद्मे परमं ज्योति र्ध्यात्वा परमपूरुषम् ।
तस्मिन् जीवं च शिष्यस्य संहरेन्मन्त्रवित्तमः

4.2.46

शोषणादीनि देहस्य शिष्यसम्भन्धिन स्तथा ।
कृत्वा तत्र स्मरेदण्डं ततस्स्व हृदयाम्बुजात्

4.2.47

सज्क्रमय्य पुनर्जीवं प्रकृत्यादि क्रमात्सृजेत् ।
सर्गकाले च जुहुयात्तत्वानि क्रम मूस्थितः

4.2.48

सृष्ट्वा स्थूलशरीरान्त मण्डभेदं विचिन्तयेत् ।
तन्मध्ये पुरुषं ध्यात्वा जातमात्मान मात्मना

4.2.49

प्रोक्षयेन्मूलमन्त्रेण नेत्रबन्धं च मोचयेत् ।
शिष्यस्तु परिधायान्यद्वासःपादौ प्रसाद्य च

4.2.50

अचम्य पाससाऽन्येन बद्धनेत्रो न्तिके गुरोः ।
असीत प्राङ्मखस्तस्मिन् शोधयेच्च षडध्वाना

4.2.51

कलाध्वा च पदाध्वा च भुननाध्वातथैव च ।
मन्त्राध्वा मन्त्रवर्णाध्वाषडध्वानः प्रकीर्तिताः

4.2.52

पूर्नमाज्याहुतिं हुत्वा महाव्याहृतिविद्यया ।
हुतशेषेण शिष्यस्य पादौस्पृष्ट्वा ततस्तिलैः

4.2.53

हुत्वा नाभिं समालभ्यततो हुत्वाकुशेशयैः ।
स्पृष्ट्वा च हृदयं हुत्वा चरुणा मूर्धनिस्पृशेत्

4.2.54

अष्टोत्तर शतं होमः प्रत्येकं मूलविद्यया ।
होमन्तेच गुरुश्शिष्यं गृहीत्वा दक्षिणे करे

4.2.55

नीत्वा प्रदक्षिणं कुम्भं मण्डलं च यथोदितम् ।
द्वारे तिष्ठंश्चतुर्णां तु द्वाराणां कमलासन

4.2.56

मणिमुक्ताप्रवालैर्वा पुष्पैर्वाकेवल्तेर्गुरुः ।
अञ्जलिं पूरयेदन्ते ततस्तस्य विकस्वरैः

4.2.57

पुष्पादि विकि रेत्तस्मिन् मण्डले गुरुचोदितः ।
यस्मिन् पतति भूभागे पुष्पाणामुत्करस्स्वयम्

4.2.58

तद्भागाधिपमूर्तीनां नामान्यस्य विनिर्दिशेत् ।
शिष्यस्य केशवादीनि पदं भागवतेति च

4.2.59

नाम्नामन्ते प्रयोक्तव्यं यद्वा भट्टारकेति च ।
ब्राह्मणच्चेत् क्षत्रियस्य देह नं नामनिर्दिशेत्

4.2.60

वैश्यस्य पालशब्दान्तं दासान्तं पादजन्मनः ।
ततो विमुच्य दृग्बन्धं दर्शयेच्चक्रमण्डलम्

4.2.61

शिष्येण सहितो वेद्यां ध्यायेन्ना रायणं गुरुः ।
ध्यात्वाच दक्षिणे कर्णे शिष्यस्य प्रणवान्वितम्

4.2.62

मन्त्रं दद्यादृषिच्छन्धो दैवतं चाङ्ग्रमेव च ।
द्वादशाक्षरमादौ तु पश्चादष्टाक्षरात्मकम्

4.2.63

मूर्तिमन्त्रांश्च तदनु समध्याप्य यथाविधि ।
केवलं वैष्णवं नाम नमः प्रणववर्जितम्

4.2.64

हुं फढादिवषट् स्वाहावर्जितं केशवादिकम् ।
अध्याप्यं स्त्रीषु शूद्रेषु तद्वदेवानुलोमजे

4.2.65

कुम्भस्थं मण्डलस्थं च हरिं शिष्यस्समर्चयेत्

4.2.66

आराध्य हरिमुत्थाय तस्थुषः प्रञ्जले स्तथा ।
मूर्ध्नि शिष्यस्यस गुरु र्हस्तेध्यात्वाब्जमण्डलम्

4.2.67

हस्तं न्यसे द्विष्णुहस्ते ततश्शिष्यस्य देशिकः ।
आचारान्नि यमान् सर्वान् बोधयेदग्नि सन्निधौ

4.2.68

मन्त्रः परस्य नाख्येयो नाक्षसूत्रं प्रदर्शयेत् ।
न च मुद्रां नापि सिद्धिं मन्त्रस्य कथयेत् स्वयम्

4.2.69

आचार्यनाम नवदे न्नि योगान्नास्य लङ्घयेत् ।
शयनादींश्चन गुरोराक्रमेन्न च लङ्घयेत्

4.2.70

न गुरुं दूषयेद्वाचा नाचरेत्तस्य विप्रियम् ।
गुरुवद्गुरुदारेषु वर्तितव्यमसन्निधौ

4.2.71

आचार्यमच्युतं शात्त्रं त्रयं सम्मान येत्सदा ।
नास्तिकान् भिन्नमर्यादान् देव ब्रह्मणदूषकान्

4.2.72

नस्पृशेन्नैव तैस्सार्धं संवसेद्दुर्दशान्वपि ।
प्रसारयेन्नैव पादौ गुरुदेवाग्नि सन्निधौ

4.2.73

वेदितव्यं जगत्सर्वं वासुदेवमयं सदा ।
अनर्चयीत्वा देवेशं नात्मपोषण माचरेत्

4.2.74

जवस्तोत्रप्रणामादीन् सन्ध्याकाले समाचरेत् ।
भगवद्ध्यानतत्कर्म कीर्तनेषु सदा कमेत्

4.2.75

वैष्णवं च यतिं चैव दृष्ट्वातं प्रणमेत् क्षितौ ।
पुत्रदारगृहक्षेत्र पश्वादि धनमात्मनः

4.2.76

व्यपदेश्यमशेषेण नाम्ना भगवतो भवेत् ।
समस्सर्वेषु भूतेषु कामक्रोधौ विपर्जयेत्

4.2.77

शनैश्शनैरिन्द्रियाणि विषयेभ्यो निवारयेत् ।
संसारविमुखैस्सार्धं शास्त्राभ्यासं समाचरेत्

4.2.78

श्रौतस्मार्तादिकर्माणि सदि सेवेत नेतरत् ।
स्वनूत्रोक्तेन विधिना निषेकादिक्रिया भवेत्

4.2.79

कुर्यात्सर्वाणि कर्माणि भगवद्ध्यानतत्परः ।
गुह्यं नाम च गोत्रं च प्रकृतं नान्यदिष्यते

4.2.80

आसीनो वा शयानो वा गच्छन् भुञ्जान एव वा ।
सज्कीर्तयेत् स्मरेद्वापि वासुदेवं सनातनम्

मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc