पद्मसंहिता · अध्याय 4.1
॥ ब्रह्मणा भगवदाराधन विधानप्रश्नः ॥
कर्षणादि प्रतिष्ठान्तं कर्म यस्य प्रसिद्धये ।
तं समाराधनविधिं श्रोतुमिच्छामि साम्प्रतम्
आराधनविधिः कीदृगधिकारी च कीदृशः ।
भगवंस्तदशेषेण ब्रूहि मे भक्तवत्सल
॥ भगवता स्वाराधनाधिकारि निरूपणम्.॥
श्रूयतामभिधास्वामि पृष्टं निरवशेषतः ।
चतुर्णां ब्राह्मणादीनां वर्णानां कमलासन
अधिकारोऽनुलोमानामपि नान्यस्य कस्य चित् ।
पूजाविधौ भगवतः परस्य परमात्मनः
प्रतिलोमभुवां सूतः प्रथमस्तत्र शस्यते ।
॥ एकायनशाखाध्यायिनां मुख्योऽधिकारः ॥
आद्यमेकायनं वेदं सद्ब्रह्म प्रतिपादकम्
तेनैव संस्कृता विप्रा मुख्य कल्पाधिकारिणः ।
॥ अन्येषां ब्राह्मणादीनां दीक्षयानुकल्पाधिकारः ॥
अन्येषां ब्रह्माणादीनां वर्णानां दीक्षया क्रमात्
त्रयाणां क्षत्रियादीना मनुलोमभुवामपि ।
॥ सूतस्य स्वार्थमात्र यजनेऽधिकारः ॥
सूतस्य च विशेषेण दीक्षा चात्मपराऽनिशम्
॥ विप्राणां मुख्यानुकल्पयोरपि परार्थयजनेऽधिकारः ॥
परार्थयजनं कुर्युर्वप्रा मुख्यानुकल्पयोः ।
॥ दीक्षा हीनाना मनधिकारः ॥
नैवाधिकारिणस्तेच दीक्षा संस्कारवर्जिताः
॥ दीक्षया अधिकारलाभः ॥
यथैव दीक्षणीयेष्ट्या जायन्ते ब्राह्मणादयः ।
तथैव दीक्षाविधिना जायामाना यथोदिताः
पूजाविदौ भगवतः प्रकल्पन्तेऽधिकारिणः ।
॥ ब्राह्मणादीनां जन्मकर्मणोर्निरूपणप्रश्नः ॥
भगवन् ब्राह्मणादीनां जन्म कर्म च भावुकम्
विहितं च विवाहं च यच्च यावच्च यादृश्यम् ।
मह्यं जिज्ञासमानाय भक्ताय परमेश्वर
तदशेषं यथातत्वमुपदेष्टुं त्वमर्हसि ।
॥ भगवता तन्नि रूपणम्.॥
सत्वं कजस्तमश्चेति स्त्रेगुण्यं कमलासन
तन्मयीं तनुमास्थाय ससर्जाहं पुरा प्रजाः ।
॥ सत्वप्रथानू विप्रसर्गः ॥
सत्वेऽधिके मुखे विप्रानसृजं विथुनात्मकान्
॥ रजः प्रधानः क्षत्रियसर्गः ॥
रजोगुणेऽतिशयिते बाहुभ्यां क्षत्रियां स्तथा ।
॥ गुणसाम्ये वैश्यसर्गः ॥
ऊरुभ्यां गुणसाम्येतु असृजं मिथुनं विशाम्
॥ तमः प्राचुर्ये शूद्रसर्गः ॥
आधिक्ये तमसः पर्द्भ्यां शूत्रान् मिथुनरूपिणः ।
॥ वर्णेषु पूर्वपूर्वश्श्रेयान् ॥
एतेच वर्णाश्श्रेयांसः पूर्वेपूर्वे यथोदिताः
॥ श्रेयस्त्वे जन्मकर्मणोर्हेतुभावः ॥
हेतुभ्यां जन्मकर्मभ्यां श्त्रेष्ठ्यमेषु प्रकल्पते ।
॥ द्विजानामाश्रय चतुष्टयम्. ॥
त्रयस्तेषु द्विजाः पूर्वे मौञ्जबन्धनकर्मणा
चत्वारश्चाश्रमा ब्रह्हन् सर्वएव द्विजन्मनाम् ।
॥ प्रथमः ब्रह्मचर्याश्रमः ॥
उपनीय गुरोः पार्श्वे व्रतानुष्ठान पूर्वकम्
वेदाध्ययनमादौयत्स श्रेयान् प्रथमाश्रमः ।
॥ द्वितीयः गृहस्थाश्रमः ॥
भार्यासङ्ग्रहणं स्नात्वा प्रजायै तदन न्तरम्
तया च धर्मचरणं द्वीतीयश्चाश्रमस्मृतः ।
॥ तृतीयः वानप्रस्थाश्रमः ॥
गत्वा सभार्योविपिनं यथोक्तेनैव वर्त्मना
वने वन्य फलहारो विहितेन्द्रिय निग्रहः ।
वसेत्तृतीयो विज्ञेयश्चाश्रमः कमलासन
॥ तुरीयस्सन्न्यासाश्रमः ॥
पुत्रे दारान्विनिक्षिप्य शिखी मुण्डी त्रिवण्डवान् ।
यद्वैकदण्डनियतो ब्रह्मध्यानपरायणः
निवृत्तसर्वकामस्तु वसेत्तुर्याश्रमे द्विजः ।
॥ क्षत्रियस्य पूर्वेत्रय आश्रमाः ॥
क्षत्रियस्याश्रमाः पूर्वे सन्न्यासाश्रमवर्जिताः
॥ विशः आद्यैद्वा ॥
विहिता विश एकस्य द्वावन्यैनतु पश्चिमौ ।
॥ शूद्रस्य द्वितीय एकः ॥
एक एव चतुर्थस्य दारसङ्ग्रहणात्मकः
॥ ब्राह्मणस्य षट्कर्माणि.॥
षष्कर्मा ब्राह्मणो ज्ञेयः कर्मणाध्यापनादिना ।
अध्यापनं चाध्ययनं यजनं याजनं तथा
दानं प्रतिग्रहश्चेति षट्कर्माण्यग्रजन्मनः ।
॥ क्षत्रियस्य त्रीणिकर्माणि.॥
दानमध्ययनं यज्ञोवृत्तिस्त्रय्येव भूभुजाम्
॥ विशामपि त्रीणि शूद्रस्यैकम्.॥
विशां च सैव शूद्रस्य शुश्रूषैकैव वर्तना ।
॥ विप्रस्य सहजा गुणाः ॥
आस्तिक्यमार्जवं शौचं तपश्शान्तिर्दमः क्षमा
ज्ञानं विज्ञानमित्येते विप्रस्य सहजा गुणाः ।
॥क्षत्रियस्य सहजा गुणाः ॥
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम्
दानमिश्वरभावश्च क्षात्रं कर्म स्वभावजम् ।
॥ विशस्सहजा गुणाः ॥
कर्षणं चैव वाणिज्यं गवां रक्षणमेव च
स्वाभाविकं विशां कर्म
॥ शूद्रस्य सहजो गुणः ॥
शुश्रूषा पादजन्मनः ।
॥ चतुर्णां वर्णानां दारसङ्ग्रहतारतम्यम्.॥
शुद्रा शूद्रस्य भार्यैकासा च स्वाच विशस्म्सृता
तेच स्वा च क्षितीशस्य ताश्च स्वा चाग्रजन्मनः ।
॥ सजातीय विजातीय प्रजास्वरूपम्.॥
स्वासु प्रजास्सजातीया श्चातुर्षर्ण्यमितीरितम्
अपरे जारजाती च कुण्डगोलकसंज्ञिते ।
॥ गुण्डगोलक निरूपणम्.॥
जारै रुत्पादिता वर्णास्सवर्णास्वेव भीरुषु
सभर्तृकासु कुण्डोसौ गोलको विधवासुतः ।
॥ कुण्डगोलकयोरध्यापनादित्रिके अनधिकारः.॥
तयोर्विप्रजयोर्नेष्टं त्रयमध्यापनादिकम्
॥प्रसङ्ग्रादनुलोमविलोम जातिपृत्तिनिरूपणम्.॥
॥ तत्रानुलोमः ॥
सवर्णः क्षत्रियायां तु विप्रेणोढश्चिकित्सकः ।
आयुर्वेदमधीयूत मन्त्रवच्छोपनीय सः
तत्र चौर्येण सम्भूतो ज्योतिर्वेदाभिजीविकः ।
ज्योतिर्विद्यां समभ्यस्ये दुपनीय समन्त्रकम्
ब्राह्मणाध्यूढ वैश्यायामम्बष्ठश्शल्यकृन्तकः ।
चौर्यात्कुलालः कुम्भूदि निर्माणं तस्य जीविका
मृण्मयू प्रतिमा चापि कार्या शोस्त्रेक्तवर्त्मना ।
नाभेरूर्ध्वं तु वपवनं पृत्तिरस्य विधीयते
ब्राह्मणाध्यूढशूद्रायां जातःपारशवस्म्सृतः ।
अर्चनं सप्तमात्रूणआं पाद्यपादनमेव च
तस्य वृत्तिर्निषादस्तु चौर्यात्स्यान्मृगघौतुकः ।
पट्टबन्धोचितौ चोभौ नृपजौ गुण्डगोलकौ
क्षत्रियाद्विन्नवैश्यायां गोष्ठी पण्योप जीवनः ।
चौर्येण जातो माहिष्यस्तुरङ्ग्रमवणिग्भवेत्
शूद्रायां क्षत्रियादुग्रो विन्नायां करिबन्धकः ।
चौर्येण शूलिको ज्ञेयश्शूलारोपणवृत्तिकः
मणिकारश्शङ्खकारो वणिजौ गुण्डगोलकौ ।
करणो विन्नशूद्रायां वैश्याद्द्यूतादिजीवनः
यौर्या त्कटङ्करस्तस्य वृत्तिरेव कटक्रिया ।
मालवश्चाश्वपालश्च शूद्रजावश्वपौ सदा
गवादिपालकोऽम्बष्ठ्यामाभीरो ब्राह्मणाद्भवेत् ।
विलोको वधकृत् क्षत्ता विप्रात्पार शवस्त्रियाम्
माहिष्येण करण्यां तु रथकारो रथादिकृत् ।
शिल्पवित्सर्व शिल्पानामाचार्यस्स च उच्यते
॥ प्रात्यानां ब्राह्मणादीनां वृत्तिः .॥
प्रात्यानां ब्राह्मणादीनां त्रयाणां वृत्तिरुच्यते ।
मारणं मण्डनं क्षेमं समुद्रतरणं तथा
॥ विलोमनिरूपणम्.॥
ब्राह्मण्यां क्षत्रियात्सूतो विवाहात्स्रतिलोमजः ।
सारथ्यं वृत्तिरेतस्य धर्माणां चैव बोधनम्
उपवीतोपनयने प्राप्नोत्येव समन्त्रकम् ।
चौर्या त्तत्रैव सूतोऽन्यस्सोन्यसंस्कार कारकः
तस्यां वैदेहको वैश्या द्विवाहाद्व्रस्त्रशुद्धिकृत् ।
मागधस्तद्र चौर्येण जङ्घाकरिक वृत्तिकः
शूद्राद्ब्राह्मण येषायां विवाहाच्चौर्यतोऽपिवा ।
चण्डालो झुल्लरीकाक्षो मलनिर्ह रणादिकृत्
आयोगवस्तन्तुवायो वैश्यादूढ नृपस्त्रियाम् ।
तत्रैव चौर्या दारण्यपुलिन्दो मृगघातुकः
शूद्रान्नृपायां विन्नायां पुल्कनो लाक्षमद्यकृत् ।
वैश्येन तत्र चौर्येण जृम्भनृत्तादिवर्तनः
वैश्यायां शूद्रविन्नायां तक्षा स्यात्तक्षणादिकृत् ।
सोऽयं कांस्य स्वर्णकृत्स्यात् त्वष्टा च भ्रमिजीवनः
नैल्यकृच्च स विज्ञेयो नीलवस्त्रादि चत्रकृत् ।
एवं च जातिपालस्स्या च्चौर्याच्चक्रीतु तैलिकः
शूद्रात्करण्यां वै जातः कूटकृच्छन दाहकः ।
ब्राह्मणान्नापितोऽम्पष्ठ्यामधोम पनवृत्तिकः
प्रतिलोमानुलोमाभ्यां प्रतिलोमानुलोमतः ।
बहवस्सङ्करा जाता यथाभीरादि जातयः
मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0