पद्मसंहिता · अध्याय 4.3
श्रूयतामभिधास्यामि ब्रह्मन्नाराधनं हरेः ।
येन विष्णोः पदं मर्त्यः प्रोप्नोत्यमरदुर्लभम्
स्नानमूलाः क्रियास्सर्वाः स्नानं च बहुधा श्रुतम् ।
वारुणं दिव्यमाग्नेयं वायव्यं पार्थिवं तथा
मान्त्रं मानसमित्येवं स्नानं सप्तविधं स्मृतम् ।
निरीक्ष्य चात्मनश्शक्तिं समयं देशमेव च
एतष्वेकतरं कुर्यात्समाराधनतत्परः ।
अवगाहन मप्स्वन्तर्वारुणं स्नानमिष्यते
सहातपेन वर्षेण स्नानं दिव्यमनन्तरम् ।
समिधां दीपितानां च गोमयस्य हुतस्य च
सितेन भस्मनाऽङ्गेषु ललाटादिषु चक्रमात् ।
यदूर्ध्वपुण्ड्रकरणं मन्त्रोच्चारणपूर्वकम्
तदाग्नेयं भवेत् स्नानं शोधनं परमं स्मृतम् ।
गच्छत्सु गोषु पादोत्थैरजोभिर्भूमिसम्भवैः
स्पर्शनं वपुषस्स्ननं वायव्यं तदुदाहृतम् ।
प्रशस्ते वर्वताग्रादौ जातया स्वेतमृत्स्नया
उच्चार्य केशवादीना नामान्यङ्गे यथाक्रमम् ।
ललाटादौ यद्विधान मुर्ध्वपुण्ड्रस्य तद्भवेत्
पार्थिवं स्नानमब्लिङ्गैर्मन्त्रैर्विप्रकरेरितैः ।
अम्भोभिः प्रोक्षणं ब्रह्मं स्तन्मास्त्रं स्नानमिष्यते
त्रिराचम्याऽहतं वासः परिधाय सुखानसः ।
प्राणान यम्य मां ध्याये द्धृदयाम्भोरुहे स्थितम्
ध्यानेनानेन निर्द्धूतकल्मषो जायते पुमान् ।
स्नानं मानसमेतत्स्यात् स्नतश्च हरिमर्चयेत्
आजानु पादौ प्रक्षाल्य हस्तौ चामणि बन्धनात् ।
आचम्य च द्वारपार्श्वं गत्वाङ्गन्यासपूर्वकम्
तालत्रयं च हस्ताभ्यां कृत्वाऽभिवलजं स्थितः ।
कवाट मुद्घाट्य ततो वायमन्त्रेण मन्त्रेवित्
साम्ना देवव्रतेनान्तः प्रविशेद्दक्षिणाङ्घ्रिणा ।
प्रणमेच्छिरसा देवं पुण्डरीकाक्ष विद्यया
आरोपितेषु दीपेषु माल्ये चापि निरासिते ।
वेद्यां पात्रेषु बिम्बेषु शोधितेषु यथातथम्
द्वारपूजामुखे सर्वपरिवारसमर्चने ।
कृते शिष्येण वाऽन्येन परिचारपरेण वा
पूजकोऽलङ्कृतस्स्रग्वीशुक्लाम्बरधं श्शुचिः ।
शुक्लोपवीतोत्तरीयश्च न्दनाद्य नुलेपनः
चन्दनश्वेतमृत्स्नाम्बु तल्पिता ग्रोर्ध्वपुण्ड्रकः ।
आरभ्य नासिकामूलं ललाटान्तं लिखेत्क्रमात्
देवपार्श्वां समासाद्य पार्श्वे सव्येतरे स्वयम् ।
आसीनो विष्टगे शुद्धे ॠस्यादौ स्वस्ति कासने
बध्वा पद्मासनं वापि दूर्याघोषे प्रवर्तिते ।
तिरस्करिण्याच द्वारे निश्छिद्रं च्छादिते ततः
अस्त्रमन्त्रेण ककुभो बध्वा धूमध्वजं बहिः ।
प्राकारवत् स्थितं ध्यायेत्तेजो मन्त्रेण मन्त्रवित्
चक्रमुद्रां च खे न्यस्य चक्रमन्त्रेण साधकः ।
गोपयन्नित्थमात्मानं प्राणायामैस्त्रिभिः क्रमात्
युक्तः कृत्वा योगमुद्रां नाभिकन्टे स्थितं पुनः ।
वेद्याकारं वायुबीजं ध्यात्वा तज्जेन वायुना
धूम्रेण देहपाप्मानं शोषयित्वा निरन्वयम् ।
त्रिकोणमग्निभीजं च रक्तवर्णं हृदम्बुजे
ध्यात्वा तदुत्थसप्तार्चिश्शिखाभिः कल्मषं दहेत् ।
माहेन्द्र बीजं विन्यस्य पीताभं चतुरश्रकम्
कण्ठे सहस्पर्शनेन स्तम्भयेदग्निमुत्थितम् ।
वायुना कुम्भकेनैव वृत्तं स्फटिकसन्निभम्
विन्यस्य वारुणं बीजं मूर्ध्नि तज्जामृताम्भसा ।
क्षालयेत्सर्वतो देहमापादतलमस्तकम्
पृथिव्यादीनि तत्वानि समाधिपरया धिया ।
परमात्मनि संहृत्य प्रलयक्रममास्थितः
पृथिवीं पञ्चगुणकां पीताभां चतुरश्रकाम् ।
घ्राणोपस्थेन्द्रिययुतां तन्मात्रालक्षणे ततः
गन्धे संहृत्य योगेन गगनेन विचक्षणः ।
कसना पाय्वीन्द्रियाभ्यां सहापश्च चतुर्गुणाः
अर्धचन्द्राकृति श्चैता स्तन्मात्रालक्षणे कसे ।
गन्धं च तन्मात्रात्मानं ततोग्निंत्र्यश्रपाटलम्
त्रिगुणं दृष्टिचरणस्त्रोतोभ्यां सुसमाहितः ।
तन्मात्रालक्षणे रूपे रसं तन्मात्रया सह
संहरेद्द्विगुणं वायुं स्पर्शेतन्मात्रलक्षणे ।
धूम्रं वृत्तं तत्कराभ्यां रूपं तन्मात्रया सह
वायुना संहरेद्योगी खं च शब्दगुणं पुनः ।
तन्मात्रालक्षणे शभ्दे नीलोत्पल दलप्रभम्
स्पर्शं च तन्मात्रात्मानं श्रुतिपाक्सहितं ततः ।
संहृत्य शब्दतन्मात्रां स्वान्ते स्वान्तमहङ्कृतौ
अहङ्कृतिं बुद्धितत्वे बुद्धिं च प्रकृतौ पुनः ।
जीवे च प्रकृतिं जीवं वासनाविवशं ततः
सुसूक्ष्मं नाभिचक्रे स्वे भास्कराभमवस्थितम् ।
नुषुम्नया नाडिकया पद्मसूत्रसुसूक्ष्मया
उपर्यारोहयेद्देहे कुम्भकेन सभस्वता ।
भित्वा च ब्रह्मणो रन्ध्रं बहिर्देहाद्विनिर्गतम्
प्रविश्य भास्करस्यापि मण्डलान्निर्गतं बहिः ।
अशरीरं तथा जीवं परस्मिन् ब्रह्मणि द्रुवे
स्थितं ध्यायेत् स्थितं तत्र स्वदेहं योनिजं दहेत् ।
न्यस्तेन शिखिभीजेन पादाग्रेज्वलनं द्विषा
पादादिमूर्धपर्यन्तं दग्धे देहे निजे ततः ।
निवृत्तिबीजं खे ध्याये त्पूर्ण चन्द्रायुतो पमम्
तदुत्थपीयूषनिधौ जा ते पाण्डर पङ्कजे ।
स्मरेज्जीवं समुत्पन्नं सकाशाद्भ्रह्मण स्तदा
जीवात्प्रधानं तस्माच्च बुद्धिं बुद्धेरहङ्कृतिम् ।
ततो मनस्ततश्शब्दं तन्मात्रां खं ततस्सह
पाक्छ्रुतिभ्यां शब्धगुणं तन्मात्रां स्पर्शलक्षणाम् ।
वायुं स्पर्शगुणं सार्धं त्वचा हस्तेन चस्मरेत्
तन्मात्रां स्पर्शरूपां तां ततोग्निं सह चक्षुषा ।
पद्भ्यां रूपगुणं रूपतन्मात्रां च रसं ततः
अपो रसगुणाः पायुरसनाभ्यां सहाब्जज ।
गन्धं च तन्मात्रात्मानं सहगन्धगुणां भुवम्
समुत्पन्नं स्मरेद्विद्वान् फ्राणोपस्थयुतं तथा ।
इत्थं शरीरमात्मीयं सृष्टं मह्यादिभूतजम्
विचिन्त्य पङ्कजं बुध्या प्रबुद्धं तद्विनिस्सृतैः ।
शातकुम्भमयैःकुम्भैः पूर्णैरमृतवारिभिः
स्नापितं शुद्धमनघं चिन्तयित्वा निजं वपुः ।
आराधने हरे र्योग्यं परस्य परमात्मनः
ध्यायन्नष्टाक्षरं मन्त्रं द्वादशाक्षरमेव वा ।
सृष्टिस्थितिलयव्यासै र्हस्तन्यास पुरस्सरम्
न्यस्येदङ्ग्रषु मूर्धादि पादान्तेषु यथा तथम् ।
तलं पृष्ठं चकरयो श्शोधयुत्वास्त्र विद्यया
अङ्ग्रलीनां च सर्वासां पर्वस्वाद्यन्तवर्तिषु ।
इष्यते प्रणवन्यासो मध्यमेषु च पर्वसु
मन्त्राक्षराणि विन्यस्ये न्न्यास एष सनातनः ।
पर्वदक्षिण तर्जन्याः प्रक्रम्याङ्गुलिपर्वसु
दक्षिणेतरतर्जन्याः पर्वान्तं साधकोत्तमः ।
सृष्टिन्यासमिमं कुर्या द्व्यत्यासेन तु संहृतौ
प्रक्रम्य तर्जनीपर्व कनिष्ठापर्व विश्रमः ।
स्थितावष्टाक्षरस्येष मन्त्रस्य न्यास ईरितः
द्वादशाक्षर मन्त्रस्य न्यासस्सम्प्रति कथ्यते ।
न्यासस्तवले मध्यमया तर्जन्याऽङ्गुपर्वणि
कृत्वा प्रदक्षिणं पर्नस्वङ्गुष्ठेनेतरेषु तु ।
सव्ये तले तु विश्रान्ति स्सृष्टानपरधा लये
तलयोःप्रक्रमस्थाने दक्षिणेतरयोर्द्वमयोः ।
कनिष्ठयोश्च विश्रान्तिः पर्वणो रुभयोरपि
द्वादशाक्षर मन्त्रस्य न्यासोऽयं कमलासन ।
हृदयादीनि चाङ्गानि ध्यात्वाऽङ्गुष्ठादि पञ्चसु
न्यस्येन्नखमुखे नेत्रे तले सव्ये गदा धरौ ।
सव्येतरे पद्मचक्रेन्यस्येस्न्यासः करद्वये
ईरितस्तलयोर्मन्त्रं ध्यात्वा तेजोभिरु ज्वलम् ।
ताभ्यां मूर्द्धादिपादान्तं देहे न्यस्ये त्समूहितः
व्यापकं कञ्चुकं यद्वा मन्त्रमक्षरशस्ततः ।
मूर्द्निनेत्रे मुखे चित्ते नाभ्यां गुह्ये च जानुनि
चरणौ क्रमशस्सृष्टौ न्यासो मन्त्रस्य इष्यते ।
विपरीतक्रमोज्ञेय स्संहृतौ पालने पुनः
नाभ्यादि पृदयान्तेषु न्यासोङ्गेषु प्रकीर्तितः ।
अष्टाक्षरस्य मन्त्रस्य स्थानान्येतानि तानि च
शिरसः पश्चिमं पूर्वं दक्षिणं चोत्तरं ततः ।
चत्वारि च चतुर्वक्त्रस्थानानि द्वादशाक्षरे
मूर्ध्नि मध्यमयाऽङ्गुल्या तर्जन्या सह चक्षुषोः ।
न्यस्येन्मुखेऽनामिकया साङ्गुष्ठेन च मन्त्रवित्
अङ्गुष्ठ तर्जनीभ्यां तु हृदये न्यसनं भवेत् ।
तथाङ्गुष्ठ कनिष्ठाभ्यां नाभौ न्यासः प्रशस्यते
विनाङ्गुष्ठेन शेषाभिर्गुह्ये जानुनि चोभयोः ।
समस्ताभिश्चरणयो रित्यष्टाक्षरभूमयः
प्राग्भागे शिरसोङ्गुल्या न्यासोऽङ्गुष्ठेन दक्षिणे ।
तर्जन्या पश्चिमे भागे न्यासोऽनामिक योत्तरे
कनिष्ठयातधैतास्स्युर्द्वादशाक्षरभूमयः ।
रूपं क्रम्णाक्षराणां न्यासकाले विचिन्तयेत्
शुक्लं हिरण्ययं कृष्णं रक्तं कुङ्कुम सन्निभम् ।
पद्मकिञ्जल्क सदृशं सर्ववर्ण कमष्टकम्
सितं कृष्णं च धूम्राभं श्यामं तारानिभं ततः ।
स्फटिकाभं च शज्खाभं कक्तं शुक्लं च लोहितम्
तमोरूपं पीतवर्णं ध्वात्वामन्त्रद्वयाक्षरम् ।
स्थाने यथोक्ते विन्यस्य षडङ्गन्यासमाचरेत्
हृदयं च शिरश्चेव शिखा कवच मेव च ।
नेत्रमस्त्रं षडेतानि हृदये मस्तके तथा
शिखायामानुपूर्व्येण स्कन्थस्योभय पार्श्वयोः ।
नेत्रयोर्दिक्षु सर्वासु न्यसनीयानि भूमिषु
रूपाणि षण्णां कुमुदं बन्धूक मसितोत्पलम् ।
अब्जकेसर मम्भोज मतसी सून सन्निभम्
दिव्यायुधधरं दिव्यवस्त्रमाल्यानु तेपनम् ।
कौस्तुभं वनमालां च श्रीवत्सं दिव्यलक्षणम्
बिभ्राणं भावयेत्साक्षादात्मानं परमेश्वरम् ।
अर्चयेन्न्यासबीजानि गन्दपुष्पादिभिः क्रमात्
मानसैरूप चारैश्च हृदयाम्भोरुहे स्धितम् ।
होमान्तमर्च येत्पूर्वं पासुदेवं सनातनम्
आत्म शुद्धिरियं प्रोक्ता मन्त्रशुद्धिस्तु कथ्यते ।
षद्विंशे नार्णबीजेन मन्त्रबीजानि शोषयेत्
सप्तविंशेन बीजेन दहेदेतानि वर्णशः ।
अष्टाविंशेन बीजेन खे च स्तम्भ नमाचरेत्
एकोनत्रिंशबीजेन तान्येव क्षा लयेत्पुनः ।
हुङ्कारेण प्रबुद्धानि फट्कारेण विचक्षणः
कुर्यादभिमुखान्य न्वक्प्रणवेन विशोधयेत् ।
तमक्षमालया शुद्धं जपेन्मन्त्रं समाहितः
अष्टोत्तर शतं वारा नष्टाविंशति मेव वा ।
अष्ठौ वामन्त्रविन्मन्त्रं बीजाद्यन्त पुठीकृतम्
पूजाद्रव्याणि सर्वाणि क्षालयेच्चाम्बु पूरिताम् ।
दक्षिणे वामपार्श्वेवा विनिवेश्य गल न्तिकाम्
अर्घ्यादि पात्राण्यादाय गायत्र्या विष्ठुपूर्वया ।
प्रक्षाल्य पादेष्पादध्याद्देवस्याग्रेऽथ पद्मज
पाद्यं मध्ये दक्षिणेऽर्घ्यं पामे चाचमनीयकम् ।
तस्य पार्श्वस्य पार्श्वेतु वामे स्नानीयपात्रकम्
पूर्णानि गालिताम्बोभिः पात्राणि निगमादिना ।
संस्पृश्यार्घ्यादि पात्रेषु द्रव्याणि विनिवेशयेत्
कुशाग्रमक्षतं पुष्पं फलं मलयजं तथा ।
तिर्ला सिद्धार्थसहितान् यवा न र्घ्यस्य भाजने
तिलान् दूर्वां विष्णुपर्णीं श्यामाकं पद्ममक्षतम् ।
प्राद्यपात्रे षडेतानि द्रव्याणि विनिवेशयेत्
एलालवङ्गकर्पूरं जातीतक्कोल चन्दनम् ।
पुष्पाण्याचमनीये तु पात्रे द्रव्याणि कल्पयेत्
सन्धं सर्वैषधी रत्नफलबीज कुशानि च ।
तिलानि चाक्षतं चैव दधिक्षीरघृतानि च
रजनी द्वादशाङ्गानि स्नानीये च विनिक्षिपेत् ।
कोष्ठं मांसीहिरिद्रे द्वे मुराशैलेयचम्पकाः
वचाकचोरमुस्ताश्च सर्वौषध्यः प्रकीर्तिताः ।
तिलानि तुलसी चैव निक्षिपेच्छान्ति वारिणि
द्वादशारं भासमानं चक्रं मध्येतु भास्करम् ।
हस्ते पामेतरे ध्यात्वादीप्तौस्तद्रश्मिभिः पुनः
द्रव्याणि दग्ध्वानिश्शेषं भस्मीभूतानि तानि च ।
दक्षिणेतरहस्तस्थेसिते पद्मे विकस्वरे । 3.97 ॥
दलैष्षोडशभिर्युक्ते चन्द्रं पीयूषकश्मिभिः ।
ह्लौदयन्तं स्थितं ध्यात्वा तदुत्थैरमृताम्बुभिः
सिक्तानि जातानि पुन र्यागयोग्यानि भावयेत् ।
हस्तयोरुभयोर्देवं ध्यायेन्ना रायणं प्रभुम्
ताभ्यामर्घ्यादिपा त्रेषु स्पृष्ट्वा द्रव्याणि विश्वतः ।
सकृत्सकृत्सम्भृतानि गायत्र्या विष्णुपूर्वया
अभिमन्त्र्य ततो मुद्रां सौरभेयीं प्रदर्शयेत् ।
तद्दुग्धेन च पात्राणि पूरितानि विचिन्तयेत्
ओमर्घ्यमित्यादि पूर्वं कल्पयामीति चोच्चरन् ।
स्पृशेत्पात्राणि हस्तेन पात्रेऽन्यस्मिन्नन न्तरम्
अर्घ्यपात्राज्जलं किञ्चद्गृहीत्वा विनिवेशयेत् ।
दक्षिणएतरहस्ते तत् पात्रं संस्थाप्य मन्त्रयेत्
मन्रैण मूलभूतेन वारान् सप्ततदम्बना ।
पठंसैनास्त्र मन्त्रेण द्रव्याण्यात्मानमेव च
प्रोक्ष्य कूर्चेन देवस्य योगपीठं प्रकल्पयेत् ।
अभिन्ने सहजे पीठे प्रतिमायाश्चतुर्मुख
आधारं प्रथमं रूर्मं कालाग्निं तदनन्तरम् ।
उपरिष्टाच्च भोगीन्द्रं पणाभिर्भूमिमण्डलम्
चतुरश्रं सहस्रेण बिभ्राणं बलवत्तरम् ।
भुवश्चोपरि धर्माद्याः कल्प्या योगासनाङ्घ्रयः
आग्नेयादिषु चत्वारश्चतसृष्वेव पद्मज ।
अधर्माद्याश्च तावन्तः प्रागाद्यासु यथाक्रम्
आशासु तावतीष्वेव पुरुषाकृतयस्थ्सताः ।
चतुर्भुजास्सिंहवक्त्रास्सिताः पूर्वऽरुणाः परे
हस्ताभ्यामपि मुख्याभ्यां रचिताञ्जलि सम्पुटाः ।
अवराभ्यां च बिभ्राणा हस्ताभ्यां योगपीठिकाम्
मध्ये सदा शिवो देव स्तद्वदेव प्रतिष्ठितः ।
अथवा पुरुहूताद्या दिक्षु प्रागादिषु क्रमात्
अष्टावष्टनु पीठस्य पादरूपेण धारकाः ।
ईषाश्चतस्रः पूर्वाद्याः तस्य वेद चतुष्टयम्
अहङ्कारास्त्रयः पाशा गुणास्सत्वादयो गुणाः ।
तूलिका पञ्चभूतात्मा जीवात्मास्तरणं तथा
अग्ने स्सोमस्य सूर्यस्य मण्डलान्यु परिक्रमात् ।
अम्भोजमुपरिष्टाच्च वलर्क्षंद्वादशच्छदम्
स्मेरकेसरसम्पूर्णं मध्ये विपुलकर्णिकम् ।
भद्रासनं कल्पयीत्वा यथो क्तेनैव वर्त्माना
अर्चयेद्गन्धपुष्पाद्यैः पीठपार्श्वैतु दक्षिणे ।
ब्रह्माणं विष्णु मीशानं समाराध्य तथोत्तरे
सनत्कुमारं सनकं सनन्दं च सभाजयेत् ।
पार्श्वेच पश्चिमे दुर्गां विघ्नेशं नारदं तथा
आत्मनश्च गुरून् ध्यात्वा प्रारभेताच्युतार्चनम् ।
आवाहनपदं पात्रं प्रक्षालितमथाम्बभिः
पूरमेस्मूलमन्त्रेण हस्ताभ्यां च समुद्धरेत् ।
ललाटसममेतस्मिन्नन्तरावाह्य केशवम्
मूलबिम्भा द्यथादीपं दीपादविकृतं तथा ।
यतुरुच्छारयेन्मन्त्रमागच्छ पदसं युतम्
तेनतोयेन कर्मार्चांसिञ्केत्कूर्चेन मूर्धनि ।
तत्र सन्निहितं देवं कर्मार्चायां विचिन्तयेत्
प्रणम्यकिञ्चदुत्थाय स्वागतो कैरनन्तरम् ।
दर्शयेत्प्रतिमामुद्रां कल्पयीत्वा च सन्निधिम्
यागावसानिकीं तत्र प्रार्थयेत हरेः स्थितम् ।
सम्मुखीकरणं कुर्यात्पुण्डरीकाक्षविद्यया
दद्याच्च मूलमन्त्रेण सपर्यासनमादितः ।
यथा देहे तथार्चायां मन्त्रन्यासं समाचरेत्
हस्तन्यासं विना शङ्खचक्रमुद्रां प्रदर्शयेत् ।
नावाहयेदेकबेरे सुरसिद्धावतारिते
ऋषिभिर्मनुजैर्वापि स्थापिते निश्चले हरै ।
सुस्थतेऽभिमुखीभावस्त देवावाहनं हरेः
यथाग्निमाहितं कुण्डे यथा वा पुरुषं स्थितम् ।
काले प्रबोधयेदेवमर्चने बोधयेद्धरिम्
कल्पनं योगपीठस्य मन्त्रन्यसनमेव च ।
बिम्बे स्थिरे सदा कार्यं पूजारम्भे चतुर्मुख
अर्घ्यवस्त्राम्बराकल्प पुष्पगन्धानुलेपनैः ।
प्रत्यर्चितं स्थितं ध्यायेत्पाद्यचमनयोःपुनः
आसीनं स्नानकाले च पद्मासनसुखासने ।
नैवेद्यधूपदीपादापासीनं स्वस्तिकासने
उपचारेषु चान्यत्र तत्तत्कर्मानुसारतः ।
स्थितमासीनमथवा देवं ध्यायेत पूजकः
अर्चयामीति साम्नातु क्षिपेत्पुष्पाञ्जलिं हरेः ।
विभो सकललोकेश विष्णो जिष्णो प्रभो हरे
त्वां भक्त्या पूजयाम्यद्य भोगै रर्घ्यूदिभिः क्रमात् ।
दिव्येनार्घ्योपचारेण यथाशक्ति यथाविधि
अर्चयिष्यामि समये भगवन्तं जनार्दनम् ।
इति विज्ञाव्य देवेशं यजेदर्घ्यादिभिःक्रमात्
भक्तिनम्रेण शिरसा दद्यादर्घ्यंच मूर्धनि ।
पादारविन्दयोर्दद्यात्पाद्यं पाद्यप्रतिग्रहे
ध्यायेदाचमनीयस्य दानकाले जगर्दुरुम् ।
आचामन्तमिवाम्भोभि स्साक्षादम्भः प्रतिग्रहे
उपचर्योपचारेण मधुपर्कादिना हरिम् ।
हस्ताभ्यां शिरसा पद्भ्यां मनसा चधिया तथा
अहङ्कारेण चात्मानं निपात्य धरणी तले ।
अनेन प्रणिपातेन प्रणिपत्य जनार्दनम्
दसोऽहं ते जगन्नाथसवुत्रादिपरिग्रहः ।
प्रेष्यं प्रशाधि कर्तव्ये मां नियुङ्क्ष्वहिते सदा
इति विज्ञाप्य देवेशं परिवाराम् प्रकल्पयेत् ।
योगासनाब्जपत्रेषु पूर्वादिषु यथाक्रमम्
द्वादश द्वादशस्वेव शक्तीश्श्रीवत्सपूर्विकाः ।
श्रीवत्सं वनमालां चमायां योगात्मिकां तथा
वैष्णवीं विमलां सृष्टिं शक्तिमुत्कर्षिणीमपि ।
प्रज्ञां सत्यां तथेशानामनुकम्पांपितामहीं
प्रथमावरणे चापि दक्षु प्रागादिषु क्रमात् ।
व्याप्तिं कान्तिंचतृप्तिंचश्रद्धां विद्यां जयां क्षमाम्
शान्तिंच शक्तीरष्टैताः कृत्वा चामरधारिणीः ।
ततो द्वितीयावरणे सङ्खद्यायुधधारिणः
पुरुषानष्ट पूर्वादिष्वानु पूर्व्येण कल्पयेत् ।
तृतीयावरणे स्वासु दिक्ष्विन्द्रादीन् प्रकल्पयेत्
बहिरावरणे तार्क्ष्यं भगवत्प्रमुखं तथा ।
विष्वक्सेसं तधै शान्यां द्वितीयावरणाद्बहिः
परिवारा निरीक्षेरन् सर्वे प्राञ्जलयो हरिम् ।
दद्याच्च पादुके स्नातुमुत्थानसमये हरेः
इदंविष्णुरिति द्वाभ्यां पादुकारोहणं हरेः ।
उद्धरेच्च हरिं स्नातुमुत्तिष्ठ ब्रह्मणस्स्पते
इतिमन्त्रेण देवेशं प्रापयेत् स्नानपीठिकाम् ।
मन्त्रस्तु भद्रंकर्णेभिरिति स्नानासनासने
सावित्र्या वितरेदर्घ्यं पाद्यं त्रीणिपदेति च ।
आपः पुनन्त्वित्येतेन मन्त्रेणाचमनक्रिया
दन्तधावन काष्ठं च तद्विष्णोरिति निर्वपेत् ।
अभ्यङ्गं पामदैव्येन कुर्यादुद्वर्तनं पुनः
कार्यं विष्णोर्नुकमिति मन्त्रेणामलकादिकं ।
प्रतद्विष्णुरिति क्षाल्यमभिषेक विधिस्ततः
अपाहिष्ठेति तिसृभिरतोदेवा अवन्त्विति ।
कङ्कतेन मृजेत्केशान् कलशैस्स्नपनं ततः
हिरण्यवर्णां हरिणीमिति लेपो हरिद्रया ।
हिरण्यवर्णां श्शुचयःपावकेति चतसृभिः
क्षाल्यो सन्धाम्बुना देहः पुनस्तं कुञ्कुमेनतु ।
आलिप्य विष्णुगायत्र्या क्षालमेत्पावमानीभिः
ब्रह्मजिज्ञानमिति च कयानश्चित्र अभुवत् ।
इत्येव मर्घ्यपाद्याद्यै र्यजेदाद्यं महेश्वरम्
परिषिच्य तु सावित्र्या सूक्तेन पुरुषात्मना ।
सहस्रधारया स्नानं यद्वाकुम्भेन तद्भवेत्
अग्निर्मूर्द्धेतिमन्त्रेण प्लोतेनाङ्गाम्बु निर्हृतिः ।
विष्णुगायत्रिया दद्या द्वस्त्रे द्वे धौतनिर्मले
प्रणवेन ब्रह्मसूत्रमुत्तरीयं च कल्पयेत् ।
अचान्तमन्वधिष्ठाय पादुके मण्डनासने
सुखासीनाय देवाय प्राग्वदर्घ्यादि नर्वपेत् ।
धूपेनागुरुजे नार्द्रामूर्ध्रानं दिवैत्यृचा
केशान् संशोष्य शुचिना चन्दनेन सुगन्धिना ।
इदं विष्णुरिति श्रुत्या लेपनं वपुषिस्मृतम्
जितं त इतिमन्त्रेण मण्डनैरपि मण्डयेत् ।
पुष्पाणि दद्यात्त द्विष्णो रितिमन्त्रेण मन्त्रवित्
इरावतीति मन्त्रेण पादयोरक्षतान् क्षिपेत् ।
अञ्जनं विष्णुगायत्र्याव्याहृत्यादर्वणेक्षणम्
जितं त इति धूपैश्च धूपयेदगुरूत्थितैः ।
उद्धीप्यस्वेति मन्त्रेण दीपारोपण मिष्यते
तिलान् वस्त्रं तथा हेम ताम्बुलं तण्डुलानपि ।
फलानि गव्यमाघारं गाश्चध्यानं यथावसु
गोग्रासं देशिकायैव दद्याद्देवस्य सन्निधौ ।
अधिपस्य तथा राज्ञो राष्ट्रस्य सकलस्य च
प्रजानां ब्राह्मणादीनां दानमभ्युदयावहम् ।
अपनीते यवनिकापटे भक्तानुकम्पया
घोषयेत्तूर्यघोषेण नृत्तं गीतं तथाचरेत् ।
स्तोत्राणि च कथाश्चित्रा वेदनाङ्गानि षटे तथा
पठेयुरग्रे देवस्य सर्वमन्यच्च मङ्गलम् ।
आचरे त्पादुके दत्वा गमयेद्भोजनासनम्
दत्वार्घ्यं पाद्यमाचामं मधुपर्कं निवेदयेत् ।
प्रणवेन ततो दद्या त्ताम्बूलीमास्य शोधनीम्
ह विर्नवेदयेत्सिद्धं भोज्यभक्ष्यादिकं तथा ।
मधुराति कसोपेतं विध्युक्तं सुसमाहितेः
सुसंस्कृतैश्च निष्पन्नैर्यक्तमन्यैःफलादिभिः ।
अपक्तैरपतिपक्वैश्च यथा योगं प्रकल्पयेत्
राजोपचार वत्सर्वमुप चारे प्रकल्पयेत् ।
प्रोक्षितं चास्त्रमन्त्रेण परिषिच्य च मर्मणा
प्रणवेनार्हणे दत्ते दहनाप्लावनादिके ।
कृते च सुरभीमुद्रां दर्शयित्वाच देशिकः
न्यस्तेऽर्घ्यपुष्टे संस्पृष्टे विष्णुहस्ते समाधिना ।
अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु
प्रगृही तार्घ्यपुष्पेण दर्शितग्रासमुद्रया ।
देवस्य त्वेति मन्त्रेण नै वेद्यं तद्यथोदिशम्
देवस्य दक्षिणे हस्ते निर्वपेत्साधरस्स्वयम् ।
दत्तेऽन्नपानके हस्ते पानीये च सुसंस्कृते
कृते चाचमने दद्यात्ताम्भूली मास्यशोधिनीम् ।
क्रियाकलापं पूजादै कर्मार्चायां यदीरितम्
तत्सर्वं ध्रुवबेरादौ यथासम्भवमाचरेत् ।
अर्घ्यादिषूपचारेषु कर्तव्येषु यथातथम्
मन्त्रपूर्वेषु सर्वषु वाचमेनामुदीरयेत् ।
दिव्येनार्घ्योपचारेण यथाशक्ति यथाविधि
अर्चयिच्यामि समये भगवन्तं जनार्दनम् ।
इत्यादिकामवितथां पूजकस्सुसमाहितः
चतुर्भिरेवगन्धाद्यैः परिपारार्चनं मतम् ।
सर्वस्मिन्नुपचारे च स्तुत्यन्तेऽपुष्ठिते पुनः
जपेच्च पूजको मन्त्रं यथोदीरितसञ्ख्यया ।
द्वादशाक्षरमन्यं वा तदन्ते हुहुयाद्बहिः
भूतेभ्यो बलिदानं च कुर्यान्नित्यं महोत्सवम् ।
विज्ञाप्य देवदेवेशं पूजकः प्रणमेत्स्वयम्
आददीतावशिष्टानि पूजावस्तूनि कृत्स्नशः ।
तैरात्मपूजनं कुर्यात्तुष्येत्तेनापि केशवः
मन्त्रैर्यथोक्तैराराध्य सूक्तेन पुरुषेण वा ।
अथवाद्वादशार्णाद्यैर्मन्त्रैर्बिम्भमुखे हरिम्
प्रपद्यते परं श्रेया निष्कामो यदि पूजकः ।
कामनायास्तु काम्यानि फलानि प्रति पद्यते
मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0