भाषा

ENहिગુ
ग्रंथ पाठ

पद्मसंहिता · अध्याय 4.18

4.18.1

नैमित्तिकानां नित्यानां कर्मणां भगवन् हरे ।
आराधनानां वैकल्यं लोपो वा प्रायसंज्ञितम्

4.18.2

तस्य चित्तं समाधानमिति निर्वचनक्रिया ।
कस्य किं वा समाधानं कः प्रकारोऽस्य कथ्यताम्

4.18.3

अस्नातोनु पवीतो वा अधृत्वातिलकं तथा ।
अर्चयेद्देवदेवेशं प्रयश्चित्तीयते नरः

4.18.4

समाधानं मूलमन्त्रशतं जप्त्वा तदर्चनम् ।
अकृत्वा पादयोश्शौचमनाचम्यापि वार्चने

4.18.5

पञ्चोपनिषदां जापः प्रयश्चित्तं तदर्चनम् ।
नग्नो वा मुक्तकेशो वास्विन्नाङ्गो वा हसन् श्वसन्

4.18.6

कुप्यन्वा प्रलपन्वापि पूजायां तु शतं जपेत् ।
शतकृतोऽस्त्रमन्तस्य समाराधनमन्वतः

4.18.7

केशास्थिलोमलोष्टादिस्पर्शने नैव निष्क्रिया ।
वसानो नीलमलिनक्लिष्टवासोऽपवित्रकः

4.18.8

अर्चयेन्मूलमन्त्रस्य जपस्तस्य प्रतिक्रिया ।
गत्वास्त्रियमानाप्लुत्य पूजने स्नापयेद्धरिम्

4.18.9

पञ्चगव्यैस्ततःपञ्चमहोपनिषदां जपः ।
विण्मूत्ररेतोरुधिरबालादिस्पर्शने सति

4.18.10

अस्नानपूजने देवं स्नापयेत्कुशवारिभिः ।
मूलमन्त्रजपश्चोक्तोनिष्क्रिया तस्य कर्मणः

4.18.11

वस्त्रं रजस्वलायाश्च स्पृष्ट्वा देवार्चने कृते ।
पञ्चगर्वैस्स्नापयित्वा पञ्चोपनिषदां जपः

4.18.12

श्वानं रजस्वलां यूपं चण्डालं वेदविक्रयम् ।
चितिं च चैत्यभूमिष्ठं वृक्षं स्पृष्ट्वा तदर्चने

4.18.13

पञ्चवारुणमन्त्रैश्च स्नापयेत्कुशवारिणा ।
काकपाषण्डपतितप्रतिलोमखरादिकान्

4.18.14

अस्पृश्यमन्यदप्येवं स्पृष्ट्वा प्राग्वत्प्रतिक्रिया ।
केशादिदोषदुष्टेन पुष्पेणाराधने कृते

4.18.15

क्षीरेण स्नपनं कृत्वा शान्तिहोमः प्रतिक्रिया ।
पुरीषादिकमाक्रम्य यद्यनाप्लोत्य पूजयेत्

4.18.16

स्नपनं कुशपाथोभिर्जवः प्राग्वत्प्रतिक्रिया ।
स्त्रियो वा नुपनीतो वा स्पृशेद्बिम्बं प्रतिक्रिया

4.18.17

उक्षणं कुशतोयेन मन्त्रेण परिमेष्ठिना ।
आराधने संप्रवृत्ते निष्ठीवादिकमन्तरा

4.18.18

यद्यापतेदाचमनं स्पृशेद्वा दक्षिणं श्रवः ।
प्रलयादिक्रमाद्देहमसंशोध्य समाधिना

4.18.19

मन्त्रन्यासमकृत्वा च पूजने पूर्ववज्जपः ।
अर्चनं च पुनस्सर्वं कृत्वादेवस्य निष्कृतिः

4.18.20

चण्डालाद्यैरसंस्पृश्यैर्हविस्स्पृष्टं निवेदयेत् ।
यदि प्रमादात्स्नपनं कोघृतेन प्रतिक्रिया

4.18.21

शान्ति होमश्च कर्तव्य स्तदन्ते कमलासन ।
दृष्टं च स्पृष्टवत्तद्वत्सृगालाद्यैश्च दूषितम्

4.18.22

आचाररहितैरन्यैस्तथै वाशुचिवस्तुभिः ।
अयाज्ञियैःकोद्रवाद्यैर्हविर्भिश्च निवेदने

4.18.23

पूर्ववच्च समाधानं मूलमन्त्रायुतं जपेत् ।
शाकमूलफलैर्लेह्यपेयाद्यैश्च विवर्जितैः

4.18.24

स्नपनं शान्तिहोमश्च मूलविद्यजप स्तथा ।
अत्युष्णस्यातिशीतस्य हविषश्च निवेदने

4.18.25

निवृत्तिमन्त्रजापश्च विश्वमन्त्रजपः क्रमात् ।
शवादिदूषिते गेहे पक्वस्य हविषस्तथा

4.18.26

निवेदनं चेत्स्नपनं शान्ति होमस्तथैव च ।
क्रिमिकेशादिदुष्टस्य हविषश्च निवेदने

4.18.27

पौरुषेणैव सूक्तेन कुर्याच्छुद्धाभिषेचनम् ।
मुखवायुहताघ्रातं रजस्तुषकणान्वितम्

4.18.28

मृत्पाषाणशकृत्प्राय दूषितस्य निदेदने ।
मूलमन्त्रायुतजपस्तद्वत्पर्युषितं यदि

4.18.29

निवेदितस्य हविषो भूयो यदि निवेदनम् ।
स्नानपूर्वर्चसं मूलमन्त्रस्य जप इष्यते

4.18.30

निवेदयेच्च निर्माल्यमुच्छिष्टं वा प्रतिक्रिया ।
कुम्भैर्द्वादशभिस्स्नानं शान्तिहोयोजन स्तथा

4.18.31

गुर्वादीन्मनसा वाचा कर्मणा समतःकरे ।
स्थितानि हविरादीनि पुष्पादीनि चतुर्मुख

4.18.32

पूजावस्तून्ययोग्यानि समाराधनकर्मणि ।
तैरर्चने पञ्चकुम्भैस्स्नपनं पूर्ववज्जपः

4.18.33

वासुदेवं प्रणमतः पूजावस्तूनि हस्तयोः ।
स्थितानि नार्चनार्हणि सेनान्ये तानि निक्षिपेत्

4.18.34

तैरर्चनं चेत्स्नपनं कलशैस्सप्तभिर्भवेत् ।
शान्तिहोमश्च कर्तव्यो मूलमन्त्रजपस्तथा

4.18.35

मण्डूकमूषिकासर्पबिडालाद्यैश्च जन्तुभिः ।
क्रिमिकीटपतंगाद्यैःपक्षिभिर्वायसादिभिः

4.18.36

स्पृष्टं दष्टं हविर्नैप देवार्हं तन्नि वेदने ।
स्नपनं कलशैरेव त्रिभिर्होमान्तमर्चयेत्

4.18.37

मक्षिकाद्यैश्च संस्पृष्टं प्रोक्ष्य देवाय कल्पयेत् ।
भुक्तशेषैःप्रमादाद्वालोभाद्वा देवमर्चयेत्

4.18.38

मूलमन्त्रायुतजपश्शान्तये तस्य कल्पते ।
दत्तशेषप्रदानेन तद्वदेव च निष्कृतिः

4.18.39

स्नाने पर्युषिताम्बोभिः पुनरेपमथाम्बुभिः ।
अब्लिङ्गैः पावनै र्मन्त्रैः प्रायश्चित्तं तदुच्यते

4.18.40

पुण्यतीर्थसरित्तोये न पर्युषितदूषणम् ।
समुद्रतोयं दशमात्परं पर्युषितं दिनात्

4.18.41

तिर्यग्योनिभिरस्पृश्यैर्मनुष्यैरपि लङ्घितम् ।
स्पृष्टं च वारि न स्नानयोग्यं स्नाने च वारुणैः

4.18.42

स्नानं पुनर्विधातव्यं शान्त्यर्थं तस्य कर्मणः ।
अजाश्व मुखसंस्चर्शोन दोषाय कदाचन

4.18.43

गोमुखेनैव संस्पृष्टं वर्जनीयं समर्चने ।
प्रायश्चित्तं पुनस्स्नानं मूलमन्त्रजपस्तथा

4.18.44

विण्मूत्ररुधिरापेययुक्तैस्तोयादिवस्तुभिः ।
नार्चयेदर्चने स्नानं कलशै रधमाधमौः

4.18.45

शिवनिर्माल्यदुष्टेन तोयप्रभृतिवस्तुना ।
पूजने कलशैस्स्नानमधमैर्मध्यमैर्भवेत्

4.18.46

शिवादिदूषिते कूपे जलमुद्धृत्य पूर्वकम् ।
सर्वं तदन्ते पुण्याहं वाचयेज्ज्ञलशुद्धये

4.18.47

पश्वादिमरणे कूपे चण्डालस्नानपानयोः ।
तथा रजस्वलाद्यैश्च प्रतिलोमैर्विगर्हिते

4.18.48

कूपस्थं तज्जलं सर्वमुद्धरेत्कमलासन ।
चुचुन्दर्यादिमरणे जलस्यार्धं समुद्धरेत्

4.18.49

दिवा समुद्धरेत्तोयं रात्रौ चेदग्नि सन्निदौ ।
उद्धरेदन्यथा तोयैरुपयोगेऽथ वारुणैः

4.18.50

पञ्चभिर्जुहुयादग्नौ ब्राह्मणानपि भोजयेत् ।
पूजाकाले तु दीपस्य निर्वाणेद्विगुणार्चनम्

4.18.51

दीपमुद्दीप्य जप्तप्यो विश्वमन्त्रश्शतावरः ।
अकस्मादेव निर्वाणे शान्तिर्नैव त्वहेतुके

4.18.52

अनिर्वाणस्य निर्वाणे दीपस्य स्नपनं हरेः ।
क्षीरेण मूलमन्त्रस्य जपश्चाष्टोत्तरं शतम्

4.18.53

सर्पिषा तिलतैलेन दीपारोपणमाचरेत् ।
नान्यैरेरण्डतैलाद्यैर्नाजाविमहिषादिजैः

4.18.54

स्नेहैरारोपणं कार्यं न च प्राण्यङ्गमम्भवैः ।
प्रमादात्फलजैस्तैलैस्स्न पने दीपने हविः

4.18.55

निवेदने च होमे च स्नेहौरन्यैश्च निन्दितैः ।
अनुष्ठाने कृते कुम्भै स्स्नापयेन्मध्यमोत्तमैः

4.18.56

शान्तिहोमस्तथा दानं द्विजेभ्यो भोजनं तथा ।
अजप्रभृतिदध्याद्यैस्स्नानादौ विहिते सति

4.18.57

प्रायश्चित्तं यथापूर्वमाचरेत्कसुलासन ।
पूर्वोपचारक्लृप्तौ तु न्यूनायां क्लृप्तवस्तुभिः

4.18.58

वस्तुभिर्द्विगुणैर्भूयस्पमाराध्य मधुद्विषम् ।
सर्पिषाष्टोत्तरशतं जुहुयान्मूलविद्यया

4.18.59

मन्त्रहानौ क्रियाहानौ मुद्राहानौ तथैव च ।
जपहानौ ध्यानहानौ हीनेष्वन्येषु केषु चित्

4.18.60

मूलमस्त्रजपस्तस्य यथाशक्ति प्रतिक्रिया ।
गेयवादित्रनृत्तेषु पूर्वक्लृप्तेषु पूजने

4.18.61

हीनेकस्मिंश्चिदाराध्यो हरिस्स्नपनवर्त्मना ।
वाद्यहानौ तु पयसा नृत्तहानौ घृतेन तु

4.18.62

गेयहानौ तु मधुना जुहुयात्पूर्वसङ्ख्यया ।
पूर्वक्लृप्तोपदं शादिहानौ द्विगुणवस्तुभिः

4.18.63

निवेदयेत्स्नानपूर्वं कालाति क्रमणेपि च ।
भोगद्रव्यैर्द्विगुणितै राराध्य क्षम्यतामिति

4.18.64

उच्चारयेत्तथा सन्थ्यातिक्रान्तौ द्वाद शेष्वपि ।
कालेषु क्लृप्तङ्ख्येषु हानौ कालस्य कस्य चित्

4.18.65

द्विगुणैर्वस्तुभिः पूज्यः कालेषु च यथोत्तरम् ।
कालं प्रथममारभ्य द्विगुणैस्त्रिगुणै स्तथा

4.18.66

चतुर्गुणैः पञ्चगुणैरेवमाद्यैस्तु वस्तुभिः ।
पूजयेज्जप होमाद्यैस्तद्वदेव यथायथम्

4.18.67

अतिक्रान्ते दिनविदौ विधिरेषप्रकीर्तितः ।
द्विदिनादौ तु पक्षान्ते पूजाहिने घटैस्तथा

4.18.68

अधमोत्तममार्गेण स्नापयेत्तस्य शान्तये ।
मासे च पूजाविकले मध्यमोत्तमवर्त्मना

4.18.69

तिलाज्यचरुभिश्चैव जुहुयान्मूलविद्यया ।
संवत्सरत्रयादर्वाङ्मासादूर्ध्वमनर्चिते

4.18.70

संप्रोक्षणं भवेदूर्ध्वं प्रतिष्ठाविधिरुच्यते ।
भूगुप्तामपि चैकाहमुद्धृत्य प्रतिमां पुनः

4.18.71

संप्रोक्षयेद्गृहार्चायामाराधनविरोपने ।
स्नपनं पंचगव्येन सूक्तेन पुरुषात्मना

4.18.72

शान्तये जुहुयादग्नौ ब्राह्मणानपि तर्पयेत् ।
मासादूर्ध्वं तु षण्मासं पूजाहीने चतुर्मुख

4.18.73

कुम्भैष्षोडशभिस्स्नानं सूक्तेन पुरुषात्मना ।
भोजयेद्ब्राह्मणानग्नौ जुहुयाच्छान्तये पुनः

4.18.74

ऊर्ध्वं संप्रक्षणं कार्यं यावत्संवत्सरावधि ।
प्रतिष्ठाविधिरूर्ध्वं तु वत्सरादुक्तवर्त्मना

4.18.75

त्रिदशादिप्रतिष्ठायां पूजालोपे न दूषणम् ।
प्रयश्चित्तं तु मर्त्यानां प्रतिष्ठायामुदीरितम्

4.18.76

सालिग्रावशिलादीनां पूजालोपो न दूषणम् ।
तथैपाशुछिसंस्पर्शे क्षालयित्वार्चयेत्पुनः

4.18.77

सर्वधा लोपने शान्तिर्नोक्तकालाश्रयो ? भवेत् ।
अज्ञानादधवा ज्ञानाद्वह्नितर्पण वर्जिते

4.18.78

पंचोपनिषदैर्मन्त्रेस्सर्पिषा जुहुयाच्छतम् ।
एकादिकालातिक्रान्तौ द्विगुणादि यथापुरम्

4.18.79

बहुभिःकलशैर्देवं स्नापयेद्दिवसात्परम् ।
मासावधि तदूर्ध्वं तु कलशैर्वत्सरावधि

4.18.80

अष्टोत्तरशतैःकुर्यात्स्नपनं जुहुयात्पुनः ।
अष्टोत्तरसहस्रेण तिलाज्यचरुभिः क्रमात्

4.18.81

द्वादशाक्षरमन्त्रेण शान्तिहोमस्तदा भवेत् ।
वत्सरादुपरिष्टात्तु स्नपनं मध्यमोत्तमम्

4.18.82

कुण्डे चाग्निं स्थापयित्वातिलव्रीहियवैरपि ।
लाजैश्च कालपुष्पैश्च समिच्चरुघृतैरपि

4.18.83

अष्टोत्तरसहस्रेण जुहुयान्मूलविद्यया ।
शान्तिहोमस्तथा दानं विप्राणां चापि भोजनम्

4.18.84

सत्यग्नावप्यहोमे तु प्रायश्चित्तमितीरितम् ।
अग्नौशान्तेमथित्वाग्निं शान्तिहोमं समाचरेत्

4.18.85

पंचोपनिषदैर्मन्त्रेर्व्याहृतिप्रमुखै रपि ।
गुपरिस्तीर्य च कुशैर्होमःप्रणवविद्यया

4.18.86

अष्टोत्तरशतेनाज्यैर्मूलमन्त्रजपस्तथा ।
अयथोक्तक्रमे तद्वत्प्रायश्चित्तं विधीयते

4.18.87

काम्ये परिधमो नेषा नित्ये कर्मणि वान वा ।
अलाभे समिधामज्यैश्चरुभिर्वाहुतिर्भवेत्

4.18.88

तयोरलाभे बीजैर्वा समिद्भिर्वा यथोदितैः ।
अग्नौ केशादिभि स्स्पृष्टे अस्पृश्यस्पर्शने तथा

4.18.89

होमो व्याहृतिभिः कार्यो वारानष्टोत्तरं शतम् ।
आयुतं पुष्पवत्यादिस्पर्शे मथनजेऽनले

4.18.90

पाकस्थाने चुल्लिस्पर्शे नरैः पुर्वोदितैस्तथा ।
श्वादिभिस्स्थानमालिप्य गोमयेन महानसम्

4.18.91

आनीयाग्न्यन्तरं चुल्यां पुण्याहं वाचयेद्ध्विजैः ।
विण्मूत्राद्यैस्तथास्पर्शे पूर्ववच्छुद्धिरिष्यते

4.18.92

पक्वेन चुल्यां दुष्टायां हविषां च निवेदने ।
स्नापयेन्नवभिःकुम्भैर्देवं वाथ घटैस्त्रिभिः

4.18.93

परिवारार्चने च्छिन्ने तत्तन्नामान्युदीरयन् ।
सर्पिषा जुहुयादग्नौ प्रत्येकं त्वष्टसङ्ख्यया

4.18.94

द्विगुणाद्यैर्द्विकालादौ बल्यर्थं च हविर्यदि ।
दूषितं केशकीटाद्यैरस्पृश्यैर्मनुजैस्तथा

4.18.95

काकादिभिश्च तत्त्यक्त्वाहविषान्येन कर्मतत् ।
यदि दुष्टेन हविषा बलिं दद्यात्प्रमादतः

4.18.96

शान्तिहोमस्तदा कार्यश्शास्त्रदृष्टेन वर्तना ।
तण्डुले चोदने पुष्पे बल्यर्थे पात्रसंभृते

4.18.97

देवे चावाहिते तस्मिन् पूर्ववद्दूषणं यदि ।
पतिते वा बलिद्रव्ये मूलभेरेऽथवात्मनि

4.18.98

उद्वास्य देवमानीय द्रव्यान्तरमदूषितम् ।
तस्मिन्नावाह्य देवेशं यथापूर्वं पुनर्नयेत्

4.18.99

तद्दोषशान्तये पश्चाद्दध्ना क्षीरेण वा हरिम् ।
स्नापयेज्जुहुयाच्छान्तिं मूलमन्त्रजपस्तथा

4.18.100

बलि बेरे निपतिते यनादावुत्सवे बहिः ।
स्थापयित्वा यथापूर्वं बलिशेषं नयेत्पुनः

4.18.101

शास्तये नवभिः कुम्भैस्स्नापयेत्पतिते भुवि ।
अधमाधममार्गेण शान्तिहोमो जपस्तथा

4.18.102

नृत्तगेयरता नार्यो गणिकाश्चाथवेतराः ।
देवदास्यो दूषयेयू रजोभिः पृथिवीतलम्

4.18.103

रजस्वलारजोदुष्टं भूतलं जानुमात्रकम् ।
खात्वा च मृद्भिरन्याभिः पूरयित्वा महीतलम्

4.18.104

आलिप्य गोमयांबोभिः पुण्याहं वाचयेत्ततः ।
प्रोक्षणं पंचभिर्गव्यैस्सन्निकृष्टं च कौतुकम्

4.18.105

अधमोत्तममार्गेण कलशैस्स्नापयेद्गुरुः ।
तिलाज्यचरुभिर्होमः प्रत्येकं मूलविद्यया

4.18.106

सहन्रकृत्वस्तदनु शान्तिहोमो जपस्तथा ।
कवाटादिकमप्यन्यत्स्पृष्टं प्रक्षाल्यमम्भसा

4.18.107

तासां च मार्गास्संशोध्या गोमयाम्भोबिरुक्षणैः ।
चोरभूतैर्ब्राह्मणाद्यैः स्पष्टे बेरेऽप्यचोदितैः

4.18.108

चोरस्पर्शनिमित्तं तु स्नपनं कलशैर्हरेः ।
वर्णानामानुपूर्व्येण त्वथमाधमपद्धतिम्

4.18.109

आरभ्य गणितैः कुर्यात्सङ्करैरपि तद्भवेत् ।
बीजप्रयुक्तकलशैस्स्नपनं शान्तये भवेत्

4.18.110

शान्तिहोमो ब्राह्मणानां भोजनं दानमेव च ।
अज्ञातजातिसंस्पर्शे स्नापयेदुत्तमोत्तमैः

4.18.111

शान्तिहोमो द्विजेन्द्राणां भोजनं दानमेव च ।
त्रिवस्तुकं मृण्मयं च लेपबिम्बं च भित्तिजम्

4.18.112

चित्रं नीचैर्यदि स्पृष्टं चण्डालाद्यै र्विगर्हितैः ।
नवीकरणमास्थेयं संप्रोक्षणविधि स्तथा

4.18.113

प्रतिष्ठा वा यथावित्तं दोषभूयस्तयाथ वा ।
पटस्पर्शे क्षालयित्वा यथापूर्वं पुसस्सृजेत्

4.18.114

दीक्षितैरन्यशास्त्रेषु स्पृष्टे स्नपनमाचरेत् ।
दीक्षितैरितरैश्चापि शूद्रैस्तद्वत्समाचरेत्

4.18.115

महापातकिसंस्पर्शे स्नपनं चोत्तमोत्तमम् ।
उपपादकि संस्पृष्टे स्नपनं चाधमोत्तमम्

4.18.116

परस्त्रीगमनासक्तैस्तथाऽनियतवृत्तिभिः ।
स्पर्शे च नवभिःकुम्भैस्स्नपनं कौतुके भवेत्

4.18.117

अस्पृश्यैरितरैर्वापि कुण्डादिस्सर्शने सति ।
स्नपनं पूर्ववत्कार्यं स्त्रीभिर्दुष्टाभिरेव च

4.18.118

अनुलोमास्त्रियश्शूद्रा व्रजेयुर्गर्भमन्दिरम् ।
भूतलं पञ्चगव्येन सिञ्चेद्वा गोमयाम्बभिः

4.18.119

चण्डालैःपुल्कसैर्वापि तपितैर्मद्यपै स्तथा ।
श्वपचैर्मन्दिराभ्यन्तः प्रवेशे मृण्मयांस्त्यजेत्

4.18.120

तत्रस्थान् क्षालयित्वान्तः कवाटादिमहीतलम् ।
आलिप्य गोमयोम्भोभिः पुण्याहमपि वाचयेत्

4.18.121

प्रतिमाश्चापि तत्रस्था स्स्नापयेत्कलशैर्गुरुः ।
शान्तिहोमो जपश्चैव द्विजानां दानभोजने

4.18.122

अशौचवत्प्रवेशे च पूर्ववद्विधिरिष्यते ।
चण्डालश्श्वपचो वापि तादृशाःपुल्कसादयः

4.18.123

अज्ञानाद्गर्भगेहेतु कर्मस्वधिकृता यदि ।
वसेयुश्चैव तैस्सार्धं भोज्यं वा वस्तु तादृशम्

4.18.124

स्पृष्टमाराधनाङ्गं चेत्स्पृष्टं वा कौतुकं यदि ।
क्रियासमभिहारेण प्रायश्चित्तमिहोच्यते

4.18.125

शोधयेन्मन्दिरं पूर्वं गोमयालेपनादिभिः ।
पुण्याहं वाचयित्वाथ ब्राह्मणांस्तत्र भोजयेत्

4.18.126

स्वाध्यायं परिकुर्वीरन् ब्राह्मणा वेदपारगाः ।
इतिहासपुराणानि पठेयुश्च दिवानिशम्

4.18.127

कपिलाश्च प्रदेशेषु तत्र तत्राधिपासयेत् ।
एवं मासादिकालेषु दोषगौरवराघवम्

4.18.128

अवेक्ष्य शोधिते धाम्नि ब्राह्मणांस्तोषयेद्धनैः ।
प्रतिमानां यथायोगमुद्धारो वा नवीकृते

4.18.129

कुर्यात्ततो यथापूर्वं निमित्ते वा नवीकृते ।
प्रतिष्ठाप्य यथाशास्त्रं स्नापयेत्कलशैरधि

4.18.130

सहस्रेण पूरावृत्तदोषाणामपनुत्तये ।
अन्तेमहोत्सवःकार्योन चेद्राष्ट्रानृपक्षयः

4.18.131

बिम्बं न चालयेच्छैलं न नवीकरणं तथा ।
तथैव दिव्यमार्षं च स्वयं व्यक्तं च कौतुकम्

4.18.132

तथान्यैर्मागधाद्यैश्च प्रतिलोमैश्च गर्हितैः ।
सहस्रकलशैर्देवं स्नापयेत्तस्य शान्तये

4.18.133

श्वापदैश्च सृगालाद्यैश्छण्डालाद्यैश्च गर्हितैः ।
प्रथमादि प्रविष्टं चेद्धामावरणभूतलम्

4.18.134

प्रोक्षयेत्पञ्च गव्येन पुण्याहमपि वा चयेत् ।
धामस्पर्शे तथान्यस्य बलिपीठादि कस्य च

4.18.135

स्पर्शेकृत्वा यथापूर्वं शान्तिहोमं समाचरेत् ।
आगन्तुकैः कुक्कुटाद्यैस्स्पृष्टं चेद्धाम सर्वतः

4.18.136

प्रोक्षयेन्म्रपूतेन वारिणा शान्तिमाचरेत् ।
देवान् संस्नापये च्चैव प्रथमावरणादिगान्

4.18.137

सर्पिश्चरुतिलैर्होमो मूलेनाष्टोत्तरं शतम् ।
खद्योतस्पर्शने देवं स्नापयेन्नवभिर्घटैः

4.18.138

पूजाकाले कवाटस्य बन्धनं चेदसङ्कुले ।
अष्टोत्तरशतं मूलमन्त्रस्य जप इष्यते

4.18.139

सङ्कुले बन्धनं नैव दोषाय भवति क्वचित् ।
प्रभापीठास्त्रसंस्पर्शे बिम्बस्पर्शवदिष्यते

4.18.140

आचार्याःपूजकाश्चान्ये तथैव परिचारकाः ।
आसनेष्वासिकां भुक्तिं शयनं च यथातथम्

4.18.141

कुर्युः कर्मण्यधिकृता दोषा नैव तदा भवेत् ।
अन्ये चेत्कुर्युरवनिं प्रोक्षयेद्गोमयाम्बुभिः

4.18.142

प्राकारे मण्टपे धाम्नि गोपुरे पाकवेश्मनि ।
दग्धेऽग्निना समाधाय पूर्ववन्मण्टपादिकम्

4.18.143

प्रतिष्ठाप्य यथापूर्वं ततः शान्तिं समाचरेत् ।
अधमोत्तममार्गेण स्नपनं शान्तिदं भवेत्

4.18.144

शान्तिहोमस्तु कर्तव्योद्विजानां दानभोजने ।
प्रतिमादहने चापि समाधाय यथापुरम्

4.18.145

स्नासं सहस्रकलशैः प्रतिष्ठाप्य यथाविधि ।
वस्त्रादिदहने तस्याः प्रभादिदहने तथा

4.18.146

नवभिःकलशैस्स्नानं होमादि तदनन्तरम् ।
सुदर्शनेऽग्निना दग्धे स्नानं नवघटैर्भवेत्

4.18.147

ध्वजे विताने छत्रे च दग्धेचास्तरणादिके ।
पुनरुत्पाद्य तत्सर्वं शान्तिहोमादिकं भवेत्

4.18.148

प्रासादाद्यवकाशानां वृद्धिश्चेत्सर्वतो भवेत् ।
यद्वा प्राच्यामुदीच्यां वा वृद्धिर्नान्यत्र शोभना

4.18.149

दक्षिणापरवृद्धिश्चेत्स्नपनं चोत्तमोत्तमम् ।
शान्तिहोमो द्विजेन्द्राणां तर्पणं भोजनादिभिः

4.18.150

शोभना सर्वतो वृद्धि रुपपीठस्य चेष्यते ।
प्रथमावरणं यावत् दोषस्स्याद्देवनिर्मिते

4.18.151

वर्धितं यदि पूर्वोक्तंस्नपनं शान्तिदं भवेत् ।
नह्रासयेत्पुराक्लृप्तं धामादि न च चालयेत्

4.18.152

पौराणिकं शिरः पीठं धामचिह्नं च वैष्णवम् ।
नोद्धृत्य पूरयित्वावा न वृद्धिर्गोपुरादिषु

4.18.153

अल्पीयः प्राग्विमानादि दिव्यवर्गं धनैः पुनः ।
वर्धयेच्छ्रद्धया मुख्यैर्द्रव्यैरर्चांनयेद्गुरुः

मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc