पद्मसंहिता · अध्याय 4.17
प्रतिमानां तथा धाम्नां जीर्णानां भगवन्नहम् ।
उद्धारं श्रोतुविच्छामि तन्मे ब्रूहि यथातथम्
स्वायम्भवार्षदिव्येषु मानुषेषु चतुर्ष्वपि ।
अङ्गहानौ रत्नजेषु तत्तज्जाम्बानदैः पुनः
समाधातव्यमेवाङ्गं न त्याज्यं शैलजेष्वपि ।
तद्वदेव समाधानं दारुजादिषु पञ्चसु
हीनाङ्गेषु तु बिम्बानि हित्वा तानि पुनस्सृजेत् ।
अङ्गमात्रसमाधाने सृष्टौ सर्वात्मनापि च
कुम्भे शक्तिं समुद्वास्य निर्माय च यथापुरम् ।
अधिवासादिकं सर्वं प्रतिष्ठायामिवाचरेत्
स्थितवत्स्वेषु बिम्बेषु समाधिर्यदि शक्यते ।
न त्यागो युज्यते तेषां सर्वेषामेव पद्मज
त्यक्तं च लोहजं बिम्बं द्रावयित्वा पुनस्सृजेत् ।
देवे जीर्णे पुनस्सृष्टौ देव्यःप्रच्यो यथास्थिताः
ताभिरेव पुनर्देवो योज्यो नान्यास्सृजेत्पुनः ।
नोद्वाहश्च पुनः कार्यस्सन्तते तानु पूजने
प्रभापद्मासनादीनां वैकल्ये चलनेऽपि वा ।
आयुधेऽपि च चक्रादौ यष्टव्यो नासमाहिते
उद्वास्य प्रतिमाशक्तिं मूलभेरे घटेऽपि वा ।
चक्रादेश्च समाधानं कार्यं तस्मिन् समाहिते
संप्रोक्ष्य पूजयेच्चक्तिमावाह्य प्रतिमासु ताम् ।
बालालयं कल्पयित्वातत्र शैलादिवस्तुषु
बिम्बे तु शक्तिमावाह्य जीर्णेभ्यः पूजनं हरेः ।
त्यक्तं च बिम्बं निखनेत् क्षितौ वाम्भसि निक्षिपेत्
प्रासादे चापि शिथिले पूजयेद्बालवेश्मनि ।
उपेतं परिवारैस्स्वैर्देवं मूले यथा तथा
अजीर्णे ध्रुवबिम्बे तु जीर्ण्टे धामनि तत् स्थितान् ।
देवान्देवपरीवारान्मूलबेरे निवेशयेत्
अजीर्णधामनिष्ठानां जीर्णेतु ध्रुवकौतुके ।
नोद्वासो न्यत्र कर्तव्यो देवादीनां चतुर्मुख
अजीर्णेनाङ्ग हानौ च धामादौ नैव कल्पयेत् ।
भूयस्तरो पि मर्त्येन व्यामोहाद्यदि कल्पयेत्
आत्महानिर्द्ध्रवा तस्य यजमानस्य सान्वया ।
यदि प्रमाणरहितं प्रमादात्कल्पितं पूरा
प्रासादादि पुनस्सृष्टौ कल्पये ल्लक्षणान्वितम् ।
बहुबेरैरबेरेषु कल्पनं स्याद्यथापुरम्
बहुबेरेनैकबेरं नैकबेरे तथा परम् ।
देवीविरहितं पूर्वं बहुबेरं कृतं यदि
भूयः प्रकल्पने तस्य देवीभ्यां सह वा विना ।
अमानुषं च बिम्बादि पूर्वं लक्षणवर्जितम्
जीर्णोद्धारेऽपि कर्तव्यं तथैव न तदन्यथा ।
शयनं वाऽऽसनं स्थानं यानं वा तद्यथापुरम्
बिम्बस्य पुनरुद्धारस्तथैव स्यादमानुषे ।
मानुषे तु स्थितादीनां बिम्बानामिच्छया भवेत्
पुनस्सृष्टिर्न दोषाय तथा सति चतुर्मुख ।
* दिव्ये विमानादौ आकारप्रमाणादीवत् उपादान.
द्रव्यमपि सजातीयमेव.*
दिव्यं विमानं यद्वस्तु यन्मानं यादृशं पुरा
तादृगेव पुनस्सृष्टौ नान्यथा तत्प्रकल्पयेत् ।
अन्यथा कल्पने दोषो काज्ञो राष्ट्रस्य च ध्रुवम्
मानुषं सदनं चार्षं चैष्टकं वाथ मृण्मयम् ।
जीर्णं पुनस्समुद्धारे शैलेनेष्टकयापि वा
उपपीठादिकं क्लृप्तं रक्षार्थं वर्धयेद्बहिः ।
परिवारांश्च तत्रस्थानुपपीठे च वर्धिते
स्थापयेन्मूलबेरस्य रक्षार्थत्वान्न दूषणम् ।
सालगोपुरपीठादौ चलिते जीर्ण एव वा
दृढं शिलादिभिःकुर्या द्विस्तीर्ण मथ वाऽन्यथा ।
नद्यादिजलवेगेन चलिते नष्ट एव वा
प्रासादादौ पुनस्थ्साने निर्बाधेऽन्यत्र कल्पयेत् ।
या मूर्तिर्येन मन्त्रेण यादृशेनाधिकारिणा
प्रथमे कल्पने सैव द्वितीये कल्पने भवेत् ।
मूर्तिस्सैव च मन्त्रं च स एव स्थापकः पुनः
अपूर्वकल्पने जीर्णसमुद्धारे द्वयोरपि ।
तुल्यं फलं कल्पनायां धामादेर्नास्तिसंशयः
तन्त्राधिकारिमूर्तीनां व्यत्यये कल्पने पुनः ।
नृणां नरपतेश्चापि राष्ट्रस्य च भवेत् क्षयः
बहुबेरे प्रतिष्ठायां जीर्णोद्धारेऽयथापुरम् ।
कर्मार्चां स्थापयेद्वेद्यां शाययेच्चापि मण्टपे
नाधिवासं जलेकुर्यान्नयनोन्मीलनं तथा ।
न तत्वसंहारोत्पादौ सर्वं पूर्ववदाचरेत्
मूलबिम्बं समासाद्य प्राग्वत्सर्वं समाचरेत् ।
बालकौतुकमभ्यर्च्य यात्रा मन्यत्र तद्गताम्
शक्तिं कुम्भे समावाह्य कुम्भं धान्यस्थितं पुनः ।
अभ्यर्च्य समये प्राप्ते मूलबेरे गुरुस्स्वयम्
शक्तिं निवेशयेच्छास्त्रदृष्टेन विधिना हरौ ।
कुम्भतोयावशेषेण परिवारप्रकल्पनम्
उत्सवं कारयेदन्ते सर्वशान्तिकरो हिसः ।
संप्रोक्षणनिमित्तं किं प्रकारो वास्य कीदृशः
कथ्यतां भगवन्मह्यं जिज्ञासा येऽनुवर्तते ।
प्रासादे चाङ्गभङ्गादिसस्थाने नूतने कृते
प्रतिमायां च पीठे च प्रभायां चायुधेपि च ।
आराधने च विच्छिन्ने मासादौ कमलासन
स्पर्शने प्रतिलोमाद्यैर्नित्याशौचविगर्हितैः ।
प्रतिलामानुलोमैश्च सूतैश्च रथकारकैः
वैखानसैश्च संस्पृष्टे भार्गवागमपूजकैः ।
शैवादिभिश्च पाषंडैर्ब्रह्महत्यादिदूषितैः
क्षय्यपस्मारिकुष्ठ्याद्यैः कृच्छ्रिभिर्मूलरोगिभिः ।
उदक्यादिभिरन्यैश्च शिल्पिभिस्स्पर्शदूषिते
विण्मुत्ररुधिरापेयस्पर्शदोषे च मन्दिरे ।
जनने मरणे चैव श्वसृगाल खराधिभिः
स्पृष्टे च बिम्बे तन्त्राणां सङ्करे समुपस्थिते ।
एवमादिषु चान्येषु संप्रोक्षणविधिर्भवेत्
धामादिकमसंप्रोक्ष्य प्रतिमादिकमप्यथ ।
अर्चने राष्ट्रमधिपः प्रजाश्च सदनं हरेः
शून्यं स्यादिरिण प्रायमुपद्रवसमाकुलम् ।
दुर्भिक्षव्याधिकलहमृति प्रायास्स्युरीतयः
तस्मात्संप्रोक्षणं कार्यं धामादीनां यथाविधि ।
विष्णोर्नुकमिति स्वच्छैर्जलैः प्रोक्षण मिष्यते
अब्लिङ्गैरितरैर्मन्त्रैराचार्यो ब्राह्मणैस्सह ।
ध्रुवबेरादिबिम्बानां शोधने क्षालने कृते
इदं विष्णुरितिप्रायैर्मन्त्रैः परमपावनैः ।
स्नपनं च यथाशक्ति कुर्यात् स्नपनपूर्वकम्
द्वारतोरणकुम्भादियजनं तदनन्तरम् ।
धान्यपीठे मण्डपस्य मध्यभागे सुशोभिते
स्थापयित्वा महाकुम्बं सूत्रावस्त्रादिवेष्टितम् ।
पूर्वोक्तवर्त्मना तस्मिन् परमात्मानमर्चयेत्
कुण्डे वा स्थण्डिले वापि जुहुयीत्समिदादिभिः ।
प्रत्येकमष्टोत्तरशतं शान्तिहोमो यथापुरम्
बध्नी यात्कौतुकं बिम्बे प्रोक्षयेदपरेऽहनि ।
प्रभातसमये प्राप्ते शोभने देशिकोत्तमः
स्थापितं कुम्भमास्थाय प्रादक्षीण्येन मन्दिरम् ।
नीत्वा देवस्य पुरतो धान्यपीठे निवेश्य च
कूर्चेन तोयमादाय कुम्भस्थं मूलविद्यया ।
पञ्चोपनिषदैर्मन्त्रैरब्लिङ्गैरितिरैस्तथा
शान्तिमन्त्राणि समये पठेयुर्वि प्रसत्तमाः ।
ब्राह्मणान् भोजयेच्चापि यथाशक्ति च दक्षिणा
आचार्यदक्षिणा चापि दशनिष्कावरा तदा ।
सद्यो वा सकलं कुर्यान्निशि वा दिवसेऽपि वा
न तिथि र्न च नक्षत्रं कालवेला न विद्यते ।
सद्य एव तु कर्तव्य मिति शास्त्रस्य निश्चयः
मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0