भाषा

ENहिગુ
ग्रंथ पाठ

पद्मसंहिता · अध्याय 4.16

4.16.1

भगवन् भाविनां कर्म फलानामशुभात्मनाम् ।
सूचनेषु निमित्तेषु सञ्जातेष्वशुभात्मसु

4.16.2

गृहदोषादिषु नृणामधिपस्य च भूपतेः ।
तेषा मकस्माज्जातानां कर्म यच्छमनं परम्

4.16.3

तन्ममाख्यायतां कीदृक्किं कथं चेति चाच्युत ।
रहस्यमपि तद्वाच्यं दयाया परया मयि

4.16.4

जन्मर्क्षाद्यशुभस्थानग तेष्वङ्गारकादिषु ।
क्रूरेषु दुर्निमित्तेषु दुस्वप्नेष्वामयेषु च

4.16.5

गृहक्षेत्रादिकेष्वेवं वल्मीकजनने तथा ।
रक्तस्त्रीषु च जातासु अग्निदाहे च वेश्मनाम्

4.16.6

वस्त्रादिमूषिकादं शे दग्धेषु शयनादिषु ।
सङ्कटेष्वपि चान्येषु पुत्रादिकलहात्मसु

4.16.7

नृपकोपे तथा चित्तदुःखे निगलबन्धने ।
पीडायामरिपक्षेण पिशाचाद्यैर्भयानकैः

4.16.8

व्रतध्वंसे प्रागभावे पुत्राणामर्थहानिषु ।
अरिष्टसूचने पुत्रजन्मन्युत्पातसम्भवे

4.16.9

एवमादिषु जान्येषु दोषेष्वाराधनं मम ।
शान्तये कल्पते ब्रह्मन् प्रकारस्तस्य कथ्यते

4.16.10

स्नानपूर्वाणि कर्माणि कृत्वा विधिवदादृतः ।
आचार्यं वरयेत्पश्चान्मदारधनतत्परम्

4.16.11

शमादिगुणसंयुक्तं पञ्चकालपरायणम् ।
शुचौ भूमितले कुम्भं सौवर्णं राजतं तु वा

4.16.12

ताम्रं वापि यथावित्तं वारिपूर्णं सकूर्चकम् ।
तन्तुभिर्वेष्टितं न्यस्त वारिभीजं सपल्लवम्

4.16.13

धान्यराशिषु संस्थाप्य न्यस्तरत्न गुवर्णकम् ।
शान्तिद्रव्यसनाथं च अश्वत्थदलमङ्गलम्

4.16.14

वेष्टितं नववस्त्रेण रक्तेनाक्षतसंयुतम् ।
प्राच्यां दिशि च देवेशं याम्ये सङ्कर्षणं तथा

4.16.15

प्रद्युम्नं पश्चिमे भागे अनिरुद्धं तथोत्तरे ।
एवं क्रमेण व...त्तमावाह्यघटिकासने

4.16.16

कुशकूर्चैः पश्चिमाशासम्मुखेऽष्टाक्षरेण तु ।
यजेतार्घ्यादिना यद्वा रुक्मं न्यस्य तदर्चनम्

4.16.17

कुम्भे चावाह्य यजनं जपेस्मन्त्रमनुत्तमम् ।
मूलमन्त्रेण लक्षं वा तदर्द्धं वा तदर्द्धकम्

4.16.18

ततः पुंसूक्तमन्वाकं नारायणानुवाककौ ।
ततश्श्रीसूक्त भूसूक्ते जपेदाचार्य ऋत्विजाम्

4.16.19

मूलेनाग्निं प्रतिष्ठाप्य जुहुयाद्गव्यसर्पिषा ।
अग्नि प्रतिष्ठां क्वत्वाऽथ वैष्णवीकरणं तथा

4.16.20

मन्त्रेणाष्टाक्षरेणैव लक्षवारा नथायुतम् ।
सहस्रमपि वा कुण्डे शतं वाष्टोत्तरं गुरुः

4.16.21

ध्यात्वा हरिं सर्वशान्तिकरं सर्वसमृद्धिदम् ।
गौरवं लाघवं चापि समवेक्ष्य यथोचितम्

4.16.22

दोषाणां यत्नमातिष्ठेदर्चनादिषु सर्वतः ।
अन्तेप्रणवमब्लिङ्गैर्यजमानं गुरुस्स्वयम्

4.16.23

मन्त्रैः कुम्भस्थतो येन प्रोक्षयेन्मूलविद्यया ।
सहस्रकृत्वः कूर्चेन स्नापयेच्छेषवारिभिः

4.16.24

आचार्याय यथावित्तं दद्यात्स्वार्णादि दक्षिणाम् ।
ब्राह्मणान् भेजयेत्तेभ्यो दक्षिणामल्पिकामपि

4.16.25

प्रभूणामपि सर्वेषां सर्वोपद्रवशान्तये ।
सर्वाभिप्रेतलाभाय विशेषयजनं हरेः

4.16.26

कुर्यात् स्नपनपूर्वं तदह्नि नित्यार्चने कृते ।
तदनैशान्तिकं कर्म अपराह्णे तु पौष्टिकम्

4.16.27

पूर्वाह्णे नित्यकर्मोक्तं वस्तुभिर्द्विगुणैरिह ।
पूजाद्रव्यैरेकभेरे मूलभेरे समर्चनम्

4.16.28

बहुबेरेतु बिम्बस्यादौत्सवे कमलासन ।
आचार्य एव पूजायां वैशेषिक्यां समर्चयेत्

4.16.29

होमकुण्डं भवेत्पद्मतुल्याकारं सुशोभनम् ।
पौष्टिके शान्तिके वृत्तं प्रत्यहं समिधादिभिः

4.16.30

प्रत्येकं तिलहोमस्स्यादयुतं वा शतावरम् ।
प्रत्यहं भोजयेद्विप्रान् यथाशक्ति च दक्षिणा

4.16.31

नृत्तं गेयं च वाद्यं च तथाध्ययनमन्वहम् ।
कर्मावसानदिवसं यावदग्नेश्च धारणम्

4.16.32

सप्ताहं द्विगुणं वा स्यात्त्रिगुणं वा चतुर्गुणम् ।
स्नपनं प्रत्यहं कार्यं दानहोमादय स्तथा

4.16.33

शान्तिके कर्मणि ध्येयो हरिस्स्फटिक सन्निभः ।
पौष्टिके तु सुवर्णाभश्श्रियाऽसीनस्सहासने

4.16.34

चक्राब्जमण्डले कुम्भे यत्र यत्र समर्चनम् ।
तत्रैवान्येद्युराराध्यो न तु निर्माल्यता तयोः

4.16.35

आचार्यदक्षिणा वापि यथाविभवविस्तरम् ।
कर्मण्यधिकृतानां च कर्मगौरवलाघवम्

4.16.36

अवेक्ष्य तोषणं वित्तैरृत्विजां चोपकुर्वताम् ।
दिनादिष्वनुकूलेषु प्रारभ्या पौष्टिकी क्रिया

4.16.37

शान्तिकी प्रतिकूलेषु यजमानस्य पद्मज ।
* भगवतः मन्दिरे परिचर्यापराणां
क्षेत्रादिप्रदानां दत्तापहारिणां च फलप्रश्नः.*
भगवन्मार्जनादीनि मन्दिरे कुर्वतां नृणाम्

4.16.38

विष्णोः क्षेत्रादिदातॄणां पूजोपकरणानि च ।
भूषणानि च वस्त्राणि फलमभ्युदयात्मकम्

4.16.39

कीदृक्कीदृश्च तान्येव दत्तान्याहरतामपि ।
अनर्थकरमेतन्मे संशयानस्य कथ्यताम्

4.16.40

मार्जनं मन्दिरे विष्णोः कुर्वन् सम्मार्ष्टि देहजम् ।
मलं पापात्मकं सर्वं परत्रेह च सम्भृतम्

4.16.41

प्रत्यहं मार्जनं कुर्वन् प्रत्यहं हन्ति किल्बिषम् ।
गोचर्ममात्रमालिप्य गोमयेन च भूतलम्

4.16.42

आलये लभते सद्योगोप्रदानफलं नरः ।
मार्जनालेपने कुर्वन् विष्णोरायतने नरः

4.16.43

उषित्वा सुचिरं स्वर्गे कर्मशेषेण भूतले ।
भूयोपि जायते भूपः कुले महति पूजिते

4.16.44

स्रजं बद्वा सुमनसां यः प्रयच्छति विष्णवे ।
स भुक्त्वा विपुलान् भोगान्नाकपृष्ठे विराजते

4.16.45

दीपानारोपयेद्विष्णोर्मन्दिरेऽभ्यन्तरे बहिः ।
दिवि देववदासित्वा जायते परमार्थवित्

4.16.46

नित्यान्नैमित्तिकान्वापि दीपानारोपयेन्नरः ।
बहुदुःखसमाकिर्णं नरकं नैव पश्यति

4.16.47

अहोरात्रमनिर्वाणं दीपमारोपयेन्नरः ।
सर्वपापविशुद्धात्मा विष्णुलोके महीयते

4.16.48

उदकाभ्युक्षणं विष्णोरालये विदधाति यः ।
लोकं स वारुणं प्राप्य रमते वत्सरान् बहून्

4.16.49

सम्मार्यालिप्य च हरेर्धाम पुष्पाणि भूतले ।
विकिरेन्मनुजस्सर्वकामानाप्नोति पुष्कलान्

4.16.50

विष्णुसात्कुरुते भूमिं सर्वसस्य फलप्रदाम् ।
यस्सलोकानवाप्नोति सर्वानेव न संशयः

4.16.51

पुष्पोद्यानप्रदानेन तपोलोके महीयते ।
फलवृक्षसमोपेतां पूगभूमिं जलान्विताम्

4.16.52

यो ददाति महर्लोके सचिरं वसति ध्रुवम् ।
उत्पादयति यः क्षेत्रे वैष्णवे फलिनस्तरून्

4.16.53

नालिकेरादिकान्याति स स्वर्गं प्रेत्य दुर्लभम् ।
आराधनाय तुलसीमुत्पादयति यत्नवान्

4.16.54

सुरभीणि च पुष्पाणि दिवि देवैस्सपूज्यते ।
वापीकुपतटाकानि विष्णोर्मन्धिरभूमिषु

4.16.55

उत्पादयति हस्तस्थास्तस्य सर्वसमृद्धयः ।
न तं बध्नन्ति पापानि बहुजन्मार्जितान्यपि

4.16.56

यः कुर्याद्वैष्णवं धाम भक्तिश्रद्धोभ योचितम् ।
खण्डिते स्फुटिते धाम्नि दूषिते च सुधादिभिः

4.16.57

समादध्यात्पुनर्धाम स लोकं याति वैष्णवम् ।
स्नानपानाम्भसां विष्णोः प्रदानात्तत्सलोकभाक्

4.16.58

स्नानीयद्रव्यदानेन नीरोगः प्रेत्य मोदते ।
क्षौमादिदानादाप्नोति परलोके महत्सुखम्

4.16.59

आलेपनद्रव्यदानत्कामानाप्नोति शाश्वतान् ।
एलाकर्पूरताम्बालीतैलादिस्वर्शनात्सुखी

4.16.60

परत्रेह च लोके न्याद्धीर्घकालमसंशयः ।
चामरव्यजनच्छत्रदानात् स्वाराज्यमश्नुते

4.16.61

आदर्शनप्रदानेन दृश्यस्सर्वैर्भविष्यति ।
धूपद्रव्यप्रदानेन स्वस्थानं स्वर्गिणां भवेत्

4.16.62

उपानहौ पादुके च वाहनं यानमेव च ।
ददाति यो मण्डयित्वा मणिकाञ्चन चित्रिम्

4.16.63

स विमानं सुदुष्प्रावं प्राप्नोत्येव न संशयः ।
अलङ्कृतं भद्रपीठं प्रयच्छन् सर्वकामभाक्

4.16.64

विनतानन्दनस्थानं ध्वजमुत्पाद्य दर्शयन् ।
सामीप्यं सहसा विष्णोर्याति सद्यश्चतुर्मुख

4.16.65

ध्वजं च वाद्यमुत्पाद्य विष्णुसात्कुरुते तु यः ।
स दिव्यदुन्दुभिप्रायं स्थानं प्राप्य विराजते

4.16.66

दासीदानं तथात्मीयमात्मानं च प्रयच्चति ।
वासुदेवाय दास्येन मुक्तिःकरतले स्थिता

4.16.67

नृत्तभेदैर्गीतभेदै स्तथा वाद्यैरनेकधा ।
श्रोतव्यैरपि दृश्यैश्च एवं देवेशसन्निधौ

4.16.68

आसीन मुपचारौस्तैर्ये समाराधयन्तिते ।
प्रेत्य दिव्येषु लोकेषु पूज्यंते तैर्न संशयः

4.16.69

प्रदक्षिणनमस्कारस्तुतिप्रायोपचर्यया ।
आराधयन्तिये देवं देवानामधिदैवतम्

4.16.70

ते देवैरुपचर्यन्ते परत्र भगवान् यथा ।
स्थितं शयानमासीनं देवं सर्वेश्वरेश्वरम्

4.16.71

यदृच्छयापि पश्यस्तः प्राप्नुवन्ति परं पदम् ।
किं पुनर्भक्तिपूर्वं ये पश्यन्ति क्षणम च्युतम्

4.16.72

निर्धूय दुष्कृतं सर्वं यान्ति लोकान्यथेप्सितान् ।
अष्टाङ्गप्रणिपातेन ये नमस्यन्ति मानवाः

4.16.73

तपस्स्वाध्यायशीलानां फलमश्नुवतेऽचिरात् ।
इयदेतदिति स्मर्तुं फलं वक्तुं च कः क्षमः

4.16.74

सकृत्प्रणमतां देवं फलं यन्मधुविद्विषम् ।
शिरसा श्रवणाभ्यां वा मनसा वा करेण वा

4.16.75

बहुभ्यां वाथ पद्भ्यां वा दृग्भ्यां वा पक्षसापि वा ।
एकैकेनाङ्गजातेन प्रणमन्मधुविद्विषम्

4.16.76

कामानाप्नोति विपुलाननन्तानन्यदुर्लभान् ।
किं पुनर्येऽष्टभिस्सर्वैरङ्गैः प्रणिपतन्ति च

4.16.77

वासुदेवा श्रयकथा व्याचक्षाणा दिने दिने ।
पासुदेवालये यान्ति वाचस्पत्यमसंशयम्

4.16.78

गवां च कपिलादीनां प्रदानादश्नु ते जनः ।
ब्रह्मलोकादिलोकेषु वासं विन्दन्ति शाश्वतम्

4.16.79

हविषां पायसादीनां हरये च निवेदनात् ।
सुखैकरसपूर्णात्मा राजते विष्णुसन्निदौ

4.16.80

भक्ष्यपानीयभोज्यानामन्येषामपि दानतः ।
श्वेतद्वीपे तत्समीपे वसन्ति सुखनस्सदा

4.16.81

बहुनात्र किमुक्तेन वासुदेवार्थमादरात् ।
ददाति वस्तुजातं यः स्थानं प्राप्नोति चेप्सितम्

4.16.82

कर्मणां मार्जनादीनां फलभोगादनन्तरम् ।
कर्मशेषैः पुनर्जन्म कर्मानुगुणयोनिषु

4.16.83

उत्कृष्टास्वेव भोक्तारो लभन्ते सुखिनस्सदा ।
प्रासादमण्डपादीनां भोक्तारःकैटभद्विषः

4.16.84

ये मूढमतयः प्रेत्य निरयेषु निरत्ययाः ।
वसन्ति भूयो नीचासु जायन्ते योनिषु द्रुवम्

4.16.85

भूषणच्छत्रवस्त्रादि यो पर्ता दुर्मति र्नरः ।
गले निगलितः पाशैः कृष्यते निरयेषु सः

4.16.86

वाहनानि च यानानि वैष्णवानि हरन्तिये ।
मोहद्वासन्ति ते दीर्घमङ्गार नरकोदरे

4.16.87

प्रेत्य भूयोऽपि जायन्ते गर्दभोष्ट्रादियोनिषु ।
चन्दनादीनि वस्तूनि पुष्पाणि सुरभीण्यपि

4.16.88

हरन्तिस्वानि विष्णोस्ते व्रजन्ते याम्ययातनाम् ।
अनुभूय पुनर्ब्रह्मन् जायन्ते गन्धमूषिकाः

4.16.89

उपानत्पादुकापीठव्यजनानि हरन्तिये ।
उषित्वा निरयेष्वेते जायन्ते फणिनां कुले

4.16.90

गोभूहिरण्यपस्त्रादिधनं विष्णोः परिग्रहम् ।
आहृत्य ये तु भुञ्जन्ते नरकेषु निरत्ययाः

4.16.91

उषित्वा प्रेत्य भूयोपि जायन्ते श्वादियोनिषु ।
सर्वेषु नरकेष्वेवं देवब्रह्मस्वहारिणः

4.16.92

वसन्ति मूढमतयो याम्यदुःखानि भूयसा ।
व्यायामोद्वर्तनाभ्यङ्गस्नानपानाशनादिकम्

4.16.93

कुर्वन्ति मन्तिरे विष्णोर्ये ते निरयगामिसः ।
पच्यन्ते तत्र भूयोपि जायन्ते नीचयोनिषु

4.16.94

वासुदेवप्रतिकृतेर्भेदनच्छेदनादिषु ।
विक्रीतादीनि चान्येषु यतन्ते पापचेतसः

4.16.95

ये ते यान्ति क्रमात्सर्वान्नरकान् भृशदारुणान् ।
अन्येष्वप्यपचारेषु स्थूलसूक्ष्मेषु मानवाः

मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc