भाषा

ENहिગુ
ग्रंथ पाठ

पद्मसंहिता · अध्याय 4.13

4.13.1

पञ्च कालविधिज्ञानं प्रशस्तं भगवन्निह ।
विहितं पञ्चके काले विधयश्चापि पञ्चके

4.13.2

मह्यं जिज्ञासमानाय कथयस्व यथातथम् ।
न चेद्रहस्यमत्यन्तं यदहं पृष्टवानिदम्

4.13.3

आद्यं कर्माभिगमनमुपादानमतःपरम् ।
इज्या च पश्चात्स्वाध्यायस्ततो यागस्ततःपरम्

4.13.4

पंचैते विधयस्तेषां कालाःपंचैव ते क्रमात् ।
कल्याणाचरणान्तं यत्कर्मजातं चतुर्मुख

4.13.5

उत्थानादिक्रमादेतदभियानमुदीरितम् ।
ब्राह्मे मुहूर्ते बुध्येत ध्यायन्ना रायणं परम्

4.13.6

उत्थायीसीत शयने कीर्तयन्नाम वैष्णवम् ।
क्रमेण सृष्ट्वा तत्वानि देहमुत्पाद्य तत्ववित्

4.13.7

न्यस्य देहे षडङ्गानि मन्त्रमुच्चार्य मानसम् ।
दशावतारान् व्योहांश्च चतुर्णां मानसानपि

4.13.8

ध्यात्वा स्वनामभिस्तानि कीर्तयित्वा पृथक्पृथक् ।
अवकुण्ठ्य च वस्त्रेण शरीरं दक्षिणाङ्घिणा

4.13.9

आक्रम्य भूमिं प्रथमं प्रविक्रममनुस्मरन् ।
नमः क्षितिधरायेति मन्त्रमुच्चार्य मानसम्

4.13.10

ग्रामाद्बहिर्दिशं गत्वानैरृतीं न्यस्य दक्षिणे ।
उपवीतं कर्णदेशे व्यवधाय तृणादिना

4.13.11

भूमिं समुत्सृजेन्मूत्रं किट्टं च तदनन्तरम् ।
उदङ्मुखो दिवा कुर्यात्सन्थ्ययोरुभयोरपि

4.13.12

दक्षिणाभिमुखो रात्रौ वाति वाते नुसारिणि ।
दक्षिणेतरहस्तेन गृह्णीयान्मेहनं ततः

4.13.13

दक्षिणे मृत्तिकां हस्ते समुत्थाय
जलाशयम् ।
प्रागुदीच्यां प्रतीच्यां वा गत्वा शौचं समाचरेत्

4.13.14

मृत्तिकाभिर्द्वादशभिर्गुदं षड्भिश्च मेहनम् ।
अन्तराचान्तरा वामकरं प्रक्षाल्यवारिभिः

4.13.15

मृण्मात्राभिस्तदन्ते द्वौकरौ द्वादशसङ्ख्यया ।
संशोध्य चरणै ङङ्घे कटिं चोरू च वारिभिः

4.13.16

प्रत्येकं मृत्तिकामात्रा चतुष्कोणे विशोधयेत् ।
आ चम्य प्रङ्मुखोभूत्वा दन्तधावनसमाचरेत्

4.13.17

न्यग्रोधोदुम्भराश्व त्थप्लक्षाम्रार्जुनधातकी ।
पालाशवेणु खदिरशमीदारूणि धावने

4.13.18

दन्तानामुदितान्येकादश चाम्भोरुहासन ।
दन्तधावनकाष्ठं तद्ध्वादशाङ्गुलमायतम्

4.13.19

दशांगुलं तथा मानमष्टाङ्गुलमथा पि वा ।
ब्राह्मणक्षत्रियविशां क्रमेण समुदाहृतम्

4.13.20

जिह्वानिर्लेखनं कुर्या द्गण्डूषाचमनं पुनः ।
क्षालयित्वा मुखं तोयै
राचान्तस्स्नानमाचरेत्

4.13.21

अवगाहोभवेद्वाप्यां स्नायाद्वा सरसीघु च ।
वाप्याद्यसंभवे नैव कुपैष्वाप्लवनं भवेत्

4.13.22

स्नानं वातप्ततोयेन दोषवैषम्यसम्भवे ।
नाभेरधस्ताद्वा देहं क्षालयित्वात्मनस्तनुम्

4.13.23

आचम्य प्रोक्षयेद्देहं वारिभिर्मन्त्र वित्तनुम् ।
ओं पूर्वया च गायत्र्या वारिभिश्चभिमन्त्रितैः

4.13.24

आत्मानं परिषिच्योर्ध्वमुत्क्षि पेत्सलिलाञ्जलिम् ।
योद्धुकामानि रक्षांसि सन्ध्ययोरुभयोरपि

4.13.25

शाम्यन्ति तैर्वज्रघातैर्हस्ताभिप्रेरिर्जलैः ।
प्रायश्चित्तं तु हिंसायाः परिभ्रमणमात्मनः

4.13.26

तर्पयेदुपविश्याथ तत्तन्मन्त्रमुदीरयन् ।
देवादीन् सलिले तिष्ठन् सावित्रीं प्राङ्मुखो जपेत्

4.13.27

यावत्सूर्योदयं दृष्ट्वा प्रञ्जलि स्तिमिरापहम् ।
उपस्थाय स्वशाखोक्तैर्मन्त्रैध्यायन् हृदि स्थितम्

4.13.28

अभिवाद्य गुरून् वृद्धार्न तथा भागवतान् क्रमात् ।
प्रणम्य स्वाश्रमं देवमबिगम्य यथाविधि

4.13.29

अर्चयेज्जपहोमान्तं दद्याद्ग्रासं गवामपि ।
अञ्जनालेपनैस्स्रिग्भिर्वासोभिर्भूषमैस्तथा

4.13.30

अलक्तकरसाद्यैश्च ताम्बूलीमुखशोदनैः ।
उपेतोमङ्गलैरन्यैर्नयेदभिगमक्रियाम्

4.13.31

उपादद्यात्ततःपूजासाधनानि यथायथम् ।
पुष्पाणि फलमूलानि विविधान्योषधीरपि

4.13.32

दध्यादि च हविर्योग्यं तण्डुलानि गुळानि च ।
स्नानीयानि च वस्त्राणि स्वादूनि सलिलानि च

4.13.33

दर्भान् पर्णानि समिधो यथाशक्ति यथावसु ।
आहृत्य याज्ञिकार्धैर्वा पूजास्थाने निवेशयेत्

4.13.34

नीत्वोपादानसमयमित्थं
तदनु पूजयेत् ।
प्राप्ते मध्याह्नसमये स्नानं कुर्याद्यथाविधि

4.13.35

न्यासमग्रे षडङ्गानां कृत्वादाय मृदं करे ।
सव्ये निधाय कृत्वा तु त्रिधा मूलाग्रमध्यतः

4.13.36

मूले स्थितां मृदं पूर्व मभिमन्त्र्यास्त्रविद्यया ।
विदिक्षु दिक्षु चोर्ध्वायामधरायूमपि क्षिपेत्

4.13.37

ततो मध्यस्थितां मृत्स्नामुदके मूलविद्यया ।
निक्षिप्य भागमग्रस्थं कराभ्यां करयोर्द्वयोः

4.13.38

विधाय पङ्कमंभोभिर्दर्शयित्वा च पूषणम् ।
अस्त्रहीनाङ्गविद्याभिरापादतलमस्तकम्

4.13.39

आलिप्य देहमखिल मवगाह्य च वारिषु ।
देवमावाह्य लक्ष्मीशं दत्वा चार्घ्यादिकं ततः

4.13.40

तत्पादक्षालनाम्बोभिः पाणिभ्यां कुम्भमुद्रया ।
पावनैश्शिरसि न्यस्तैरात्मानमभिषिच्य च

4.13.41

वासुदेवमभिध्यायन्नघमर्षणमाचरेत् ।
उत्तीर्य कर्मनिखिलं मध्याह्न समयोचितम्

4.13.42

कृत्वा यजेत देवेशं होमान्तं कमलासन ।
स्त्रेत्रेणाभिष्टुयाद्देवं दण्डवत्पतितःक्षितौ

4.13.43

जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज

4.13.44

नमस्ते वासुदेवाय शान्तानन्तचिदात्मने ।
अजिताय समस्तुभ्यं षाड्गुण्यनिधये नमः

4.13.45

महाविभूतिसंस्थाय मनस्ते पुरुषोत्तम ।
सहस्रशिरसे तुभ्यं सहस्रचरणाय ते

4.13.46

सहस्रबाहवे तुभ्यं सहस्रनयनायते ।
अमृताय नमस्तुभ्यमेकमूर्ताय ते नमः

4.13.47

अनेक मूर्तये तुभ्य मक्षराय च ते नमः ।
व्यापिने वेदवेद्याय नमस्ते परमात्मने

4.13.48

चिन्मात्ररूपिणे तुभ्यं नमस्त्रैयन्त भूमये ।
अणिष्ठाय स्थविष्ठाय महिष्ठाय च ते नमः

4.13.49

नेदिष्ठाय दविष्ठाय क्षेपिष्ठाय च ते नमः ।
वर्षिष्ठाय यविष्ठाय कनिष्ठाय नमो नमः

4.13.50

पञ्चात्मने नमस्तुभ्यं सर्वान्तर्यामिणे नमः ।
कल्पना पोढरूपाय सृष्ठिस्थित्य न्तहेतवे

4.13.51

नमस्ते गुणरूपाय गुणरूपातिवर्तिने ।
व्यस्ताय च समस्ताय समस्तव्यस्तरूपिणे

4.13.52

आदिमध्यान्तशून्याय तद्वदेव नमो नमः ।
प्रणवप्रतिपाद्याय नमःप्रणवरूपिणे

4.13.53

लोकयात्राप्रसिध्यर्थं नृष्ट ब्रह्मादिरूपिणे ।
नमस्तुभ्यं नृसिंहादिमूर्तिभेदाय विष्णवे

4.13.54

विपाकैःकर्मभिःक्लैशैरस्पृष्टवपुषे नमः ।
नमो ब्रह्मण्यदेवाय तेजसां निधये नमः

4.13.55

नित्यसाधारणानेकलोकरक्षापरिच्छद ।
सच्चिदानन्दरूपाय वरेण्याय नमो नमः

4.13.56

यजमानाय यज्ञाय यष्टव्याय नमो नमः ।
इज्याफलात्मने तुभ्यं नमस्स्वाध्यायशूतिने ?

4.13.57

नमःपरम हिंसाय समस्सत्वगुणायते ।
स्थिताय परमे प्यूम्नि भूयो भूयो नमो नमः

4.13.58

संसारसागरे घोरे विषयावर्तसङ्कुले ।
अपारे दुस्तरेऽगाधे पतितं कर्मभिस्स्वकैः

4.13.59

अनाधमगतिं भीरुं दयाया परया हरे ।
मामुद्धर दयासिन्धो सिन्धोरस्मात्सु दुस्सहात्

4.13.60

मन्त्रहानिं क्रियाहानिं हानिं वान्यां त्वदर्चने ।
क्षमस्व मम देव त्वमपराधसहो व्यासि

4.13.61

अपराधसहस्रभाजनं पतितं भीमभवार्णपोदरे ।
अगतिं खरणागतं हरे कृपया केवलमात्मसात्कुरु

4.13.62

जन्मप्रभृतिदासोऽस्मि शिष्योऽस्मि तनयोऽस्मिते ।
त्वं च स्वामी गुरुर्माता पिता च मम माधव

4.13.63

नाहं हितं विजानामि त्वां भजाम्वेव केवलम् ।
बुद्वैवं नय गोविन्द मुक्त्युपायेन वर्त्मना

4.13.64

त्वमेव वेत्ता श्रेयो मे नैत देतदितीति च ।
बुद्धियोगं च मे देहि येन त्वामुपयाम्यहम्

4.13.65

इति विज्ञाप्य देवेशं
वैश्वदेवं स्वधामनि ।
कुर्यात्पञ्च महायज्ञानपि गृह्योक्तवर्त्मना

4.13.66

अतिथीनपि तत्काले यथाशक्ति समर्चयेत् ।
पोष्यवर्गान् भोजयित्वा भुञ्जीत नियतस्स्वयम्

4.13.67

इज्यायास्समयस्तस्याःकथितःकमलासन ।
मन्दिरे वा हरेर्न द्यास्तीरे वा मठभूमिषु

4.13.68

विविक्ते विपिने वापि पर्वते पा गृहेऽपि वा ।
ऋचो यजांषि सामानि भिद्यमानान्यनेकधा

4.13.69

शाखाभेदैर्मूलशाखायेकायनसमाह्वयाम् ।
त्रयूमयीमधीयीत सुखासीनस्समाहितः

4.13.70

अन्यैस्सार्ध मधीयानैष्षजङ्गेषु च रोविधैः ।
अध्यापयीत वा शिष्यान् शास्त्राणि विविधानि च

4.13.71

इतिहासपुराणानि धर्मशास्त्राणि वा पुनः ।
तदाराधननिष्ठानि समभ्यस्येद्यथायथम्

4.13.72

संसारभीरुभिर्विप्रैस्तत्व निष्कर्षकोनिदैः ।
सहासीतोपदेशादिप्रकारचतुरैरपि

4.13.73

स्वाध्यायकालः कथितस्स्वाध्यायोपि च कीर्तितः ।
ततःपश्चिमसन्थ्यायां प्राप्तायां तत्र चोदितम्

4.13.74

जपहोमादिकं सर्वं कृत्वा परमपुरुषम् ।
अर्चयित्वा यथान्यायं यथापूर्वमशेषतः

4.13.75

भुक्त्वा संविश्य शयने समुत्थाय महानिशि ।
आचम् प्रयतो भूत्वा ध्यात्वा परमपुरुषम्

4.13.76

योगा नने सुखासीनो युञ्जीतात्मानमात्मनि ।
यथोक्तेन प्रकारेण यथाशक्ति चतुर्मुख

4.13.77

संहारक्रमाश्रित्य तत्वान्यात्मनि संहरेत् ।
आत्मानं वापि हृत्पद्मे परमात्मनि निष्ठिते

4.13.78

संह रेदुत्थितो योगात्स्वापं क्लेशावहं त्यजेत् ।
इत्येष कथितो ब्रह्मन् योगःकालश्च पञ्चमः

4.13.79

पञ्चै ते समयाःपञ्च विधय स्तेषु दर्शिताः ।
इत्थमेतेषु कालेषु दर्शितैःकर्मभिर्नरः

मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc