भाषा

ENहिગુ
ग्रंथ पाठ

पद्मसंहिता · अध्याय 4.12

4.12.1

समाराध्यो हरिः पुष्पैः कालपक्वैर्हवींषि च ।
फलमूलानि चान्यानि कानि योग्यानि कथ्यताम्

4.12.2

पुष्पाणि नन्दनवनादारामादात्मनोपि वा ।
अरण्याद्वा गृहीत्वा च विक्रीतान्यापणस्थलात्

4.12.3

अयाचितानि लब्धानि यद्वा कमलसम्भव ।
पूर्वपूर्वोदितालाभे ग्राह्यमुत्तरमुत्तरम्

4.12.4

अन्यायोपार्जिताव्यन्यदेवतार्थानि वा पुनः ।
अग्राह्याणि तथा भिन्नं मुकुलं पतितं तथा

4.12.5

जीर्णं पर्युषितं कीटदूषितं पादलङ्घितम् ।
म्लानं स्पृष्टं तथाऽस्पृश्यैर्नीतं च प्रतिलोमजैः

4.12.6

स्नातश्शुद्धाम्बरो मौनी पाणिं प्रक्षाल्य वारिणा ।
पात्रे पुष्पाणि गृह्णीयाद्वेत्रजे तृणजेऽथवा

4.12.7

कल्पकद्रुमसञ्जातं पारिजातसमुद्भवम् ।
हरिचन्दन सन्तानमन्दारद्रुमसम्भवम्

4.12.8

सौगन्धिकोद्भवं पुष्पं षडेते सुरदारुजाः ।
पालाशं सप्तमं पुष्पमुपयुक्तानि चार्चने

4.12.9

अनिर्माल्यानि देयानि पुनःप्रक्षाल्य वारिभिः ।
उत्तरोत्तरमेकैकं सहस्रगुणमिष्यते

4.12.10

प्रातःपद्मद्वयं शस्तमुत्पलत्रयमर्चने ।
फलं च पूर्ववत् ज्ञेयं तथैव शतपत्रिका

4.12.11

चम्पकं केतकीयुग्मं मालती माधवी तथा ।
सन्द्यावर्तं च पुन्नागं सुरपर्ण्येकपर्णिका

4.12.12

प्रियङ्गु पाटलद्वन्द्वं मन्दारद्वयमेव च ।
लक्ष्मीश्च कर्णिकारश्च यूधिका कुरवस्तथा

4.12.13

पट्टिकै तानि शस्तानि फलं पूर्ववदिष्यते ।
?* मध्याह्मार्चनोपयोगीनि.*
शस्तं मध्यन्दिने श्वेतकरवीरजमर्चने

4.12.14

कैङ्किरातं च सौवर्णं पुष्पं सहचरी तथा ।
पूर्ववच्च फलं विद्यात्प्रदोषे च प्रशस्यते

4.12.15

जातियुग्मं विचकिलं मल्लि काद्वयमेव च ।
वकुलं वनजातिश्च तथा च वनमल्लिका

4.12.16

कुमुदं वनमल्ली च पूर्ववच्च फलं स्मृतम् ।
प्रातःकालोदितं पुष्पं युक्तं मध्यन्दिनेपिच

4.12.17

प्रदोषे कथितं पुष्पं मध्यरात्रे च शस्यते ।
दिवापुष्पैर्दिवा पूजा निशापुर्षौस्तथा निशि

4.12.18

देशे काले यथायोगमर्चयेत्पुरुषोत्तमम् ।
मालत्या पूजयेत्प्रातर्मध्याह्ने करवीरजैः

4.12.19

सायाह्ने जातिपुष्पैस्तु प्रदोषे वकुलैरपि ।
मध्यरात्रे मल्लिकाभिर्यजेत
जलजैस्सदा

4.12.20

प्रत्यूषे नन्दिकावर्तैः काल एष उदाहृतः ।
पद्मादि जलपुष्पाणामर्वाग्धर्तुस्त्र्यहाद्भवेत्

4.12.21

न च पर्युषितो दोषो नीरजानां भवेत्तथा ।
अबद्धेभ्यः प्रसूनेभ्यो बद्धमाला प्रशस्यते

4.12.22

मालाभ्यस्स्रग्वरा माला सजातीय प्रसूनका ।
स्रक्तु नानाविधैःपुष्पैर्निर्मिता कदलीत्वचा

4.12.23

ह्रीबेरं च तमालं च तथा दमनकत्रयम् ।
न पर्युषितमेतैश्च सदैवाराधयेद्धरिम्

4.12.24

तुलस्यौ सितकृष्णे च केवलाक्षपकास्तथा ।
चत्वारस्तुलसीभेदा दूर्वा भिल्वदलानि च

4.12.25

सर्वदारराधनार्हाणि
पूजा तु करवीरजै ।
गृहे कुलक्षयकरी
पुष्पपत्राद्यसन्निदौ

4.12.26

अक्षतैरर्चनं कुर्याद्धरेः कलमजैस्सितैः ।
नीवारा वेणवश्शाल्यः कलमाद्या यवा अपि

4.12.27

हविर्योग्या व्रीहयश्च तदभावे प्रयङ्गवः ।
अन्ये च याज्ञिका धान्यभेदाःकोद्रववर्जिताः

4.12.28

नीचैर्दत्तास्तथा स्पृष्टाःपतितैः प्रतिलोमजैः ।
अशौचवद्भिरपरै
रपक्वाःकलमादयः

4.12.29

शस्यन्ते चरुसाकेषु पक्वाश्च तदसन्निदौ ।
चातुर्वर्णैरुपहृतास्तण्डुला दोषवर्जिताः

4.12.30

अखण्डिताःखण्डिताश्चा भावे त्रीनिष्फलीकृताः ।?
चरुपात्रं ताम्रमयं प्रशस्तं मृण्मयं तु वा

4.12.31

विष्णुगायत्रिया भाण्डे क्षालिते गालितैर्जलैः ।
पुर्णेप्रणवसंस्पृष्टे
तण्डुलान्मूलविद्यया

4.12.32

यद्वा पञ्चोपनिषदा क्षालयेद्वारिभिःपुनः ।
पूरयेत्प्रणवेनैव पिदध्याच्चक्रविद्यया

4.12.33

अधिश्रित्य च मूलेन मन्त्रेणाग्निं समेधयेत् ।
पञ्छोपनिषदैर्मन्त्रेःकाष्ठैः
कीटाद्यतूषितैः

4.12.34

यज्ञवृक्षोद्भवैःकाष्ठैः पाचयेत्पावकःक्रमः ।?
पक्वे जलमपि स्राव्यसिक्त्वाज्येन चरुं पुनः

4.12.35

उदगुद्वासयेद्दर्भैःफलके यज्ञदारुजे ।
साधयेद्दीक्षितःपाकं विधिनो क्तेन तत् स्त्रियः

4.12.36

यद्वा तूष्णीं साधयेयुरुपदंशांश्च चोदितान् ।
फलमूलानि तत्रादौ फलानि कदलीफलम्

4.12.37

आम्रं पनसमुर्वारुं बृहतीं कर्करीमपि ।
कारवल्लीमलाबुं च कूश्माण्डं तन्त्रिणीमपि

4.12.38

करवर्तं च निष्पावं गवाक्षं त्रपुसं तथा ।
मुद्गभेदांश्च निर्देषान्
सदोषान् परिवर्जयेत्

4.12.39

उच्चिष्टं क्रिमिणा दष्टं शिवद्यैर्लङ्घितं तथा ।
घ्रातं लालाजलस्पृष्टममेध्यप्रभवं तथा

4.12.40

पादस्पृष्टं च पतितमकाले चाशुचिस्थले ।
भुक्तशेषं तथा स्पृश्यैस्स्पृष्टं दत्तावशिष्टकम्

4.12.41

वर्ज्यं वल्ली त्रयं कन्दं सूरणद्वयमुत्पलम् ।
पिण्डारद्वितयं चापि
हविर्योग्यं चतुर्मुख

4.12.42

जीवन्तीं वस्तुकं शाकं कारवल्लीदलं तथा ।
तुम्बूदलं च भाञ्जीं च शिम्बमुद्गदलानि च

4.12.43

शाकिनीं शतपर्वाणं तथैवाश्वासमर्दिनीम् ।
आगस्त्यं पाचयेच्छाकं विहितं ब्राह्मणस्य च

4.12.44

एकमूलानि चान्यानि गृह्णीयादनिषेधने ।
अङ्कुराण्यपि वेण्वादिवस्तूनां कमलासन

4.12.45

चेदयित्वालवित्रेण
लवणैर्मरिचै स्तथा ।
सर्षपैर्जीरकैर्हिङ्कुश्रीपर्णीदलमिश्रितैः

4.12.46

नालिकेरफलैराज्यैर्यथायोगं निवेशितैः ।
संस्कार्यं व्यञ्जनं यूषयुक्तं कहितमेव वा

4.12.47

सर्पिषा वाऽऽयसे पात्रे घृष्टं मृण्मय एव वा ।
कलायमुद्गनिष्पाव शिम्बमाषकुलुकत्थाकाः

4.12.48

सयूषा वा वियूषा वा पचनीया गुणान्विताः ।
त्वचो व्यपोह्य कुल्माषाःकार्या यद्वा यथोदिताः

4.12.49

आम्रादीनि च शुष्काणि फलानि गुळतिन्त्रिणी ।
मिश्राणि पचनीयानि तथा लवणपासितम्

4.12.50

आम्रं च श्रृङ्गिबेरं च तथा केवलमिष्यते ।
पसनं कदली चाम्रं कपित्थं बदरीफलम्

4.12.51

द्राक्षा राजादनं जम्भूफलं तोटकमप्यथ ।
खर्जूरं वेत्रजं चैव मातुलुङ्गं च दाडिमम्

4.12.52

फलान्येतानि पक्वानि कालपक्वानि योजयेत् ।
क्षीरं चैरो गुणस्तस्य तोयमर्धं तदर्धकम्

4.12.53

तण्डुलास्तावदेव स्याद्भिन्नो मुद्गस्तदर्धकः ।
घृतं समुदितं सर्वं परमान्नं निवेदयेत्

4.12.54

समभागं तु पूर्वोक्तैस्तण्डुलैस्सम्मितं समम् ।
गुळं फलेन निक्षिप्य गुळान्नं तद्विदुर्बुधाः

4.12.55

तण्डुलैस्सम्मितं निस्त्वङ्मुद्गभिन्नं सुसाधितम् ।
मुद्गान्नं कालपक्वैस्तु फलै राज्यपरिप्लुतम्

4.12.56

निवेदयेत्केवलान्नं दण्डुलै रेव साधयेत् ।
फलानि कन्दशाकानि मुद्गभेदास्तथाङ्कुराः

4.12.57

पयो दधि घृतं चापि कालपक्वं तथा फलम् ।
आम्रादिलवणैश्चापि शृङ्गिबेरादिसाधितम्

4.12.58

मत्स्यण्डी गुळभेदाश्च यच्चान्यदुपदंशकम् ।
परिमाणममिषां स्यात् यथाश्रद्धं यथावसु

4.12.59

मरीच्यादि यथायोग्यं द्रव्यसंस्कारकं भवेत् ।
नागमल्लीदलानि स्युरशीतिरवरास्तथा

4.12.60

विंशतिःक्रमुकस्यापि फलान्यवरसङ्ख्यया ।
अङ्गानि तैलं तक्कोलं लवङ्गं जाति रेव च

4.12.61

मातुलङ्गत्वगन्यच्च चूर्णकं कर्पूरमिश्रितम् ।
पाषाणजं नालिकेरफलं पक्वं च निर्जलम्

4.12.62

कर्पूरं केवलं वापि आमं वा शुष्कमेव वा ।
एतैर्वस्तुभिरन्यैश्च न्यूनभाविवर्जितैः

4.12.63

ताम्बूलवीटिकास्तैलमृदुपूगफलान्विताः ।
निवेद्य याजमानस्य श्रद्धावित्तानुसारतः

4.12.64

गोधूमशालिपिष्टात्था अपूपाश्चापि संस्कृताः ।
गुळभेदाज्यमरिच जीवकाद्यैर्यथायथम्

4.12.65

वस्तुभिर्विविधाकारा गुळपाकपरिप्लुताः ।
पुटदग्धां स्तिलानिक्षुरसपाकपरिप्लुतान्

4.12.66

मरिचैर्जीरकै र्युक्तान् पललांश्च निवेदयेत् ।
पृथुकान् पुटदग्धान्वा केवलान्वा गुळप्लुतान्

4.12.67

मरिचैर्जीरकै र्युक्तान् नालिकेरफलैस्सह ।
सक्तून् गुळद्रवैर्मिश्रान् मरिचैरपि जीरकैः

4.12.68

करम्भानपि पूर्वोक्तैस्संस्कारैरपि स्स्कृतान् ।
पाकस्थानाच्च भाण्डान्वा वारिभिःक्षालितान् बहिः

4.12.69

भस्मना च चतुर्दिक्षु कृतोर्ध्वाकारपुण्ड्रकान् ।
अस्त्रमन्त्रेण वासोभिश्चन्नान्वा वेत्रपञ्जरे

4.12.70

यद्वा प्रतिष्ठितान् भूमौ
जलधारापुरस्सरम् । वहेयु
र्विधृतोष्णीषास्सितकञ्चुकसंवृताः

4.12.71

परिचर्या परा विप्रा
मण्टपे मन्दिरेऽपि वा ।
देवस्य दक्षिणेपार्श्वे नीत्वा फलकभूमिषु

4.12.72

सौवर्णादी निपात्राणि विष्णुगायत्रिया ततः ।
क्षालितानि परामृश्य
प्रणवेनाज्यधारया

4.12.73

पात्राणिसिक्त्वामन्त्रेण तथा दर्व्या हवींषि च ।
आदायादाय निक्षेप्य ममत्रेष्वन्नमर्चितम्

4.12.74

खारी तदर्धं पादं वा तदर्धं वाऽवरं मतम् ।
प्रतिस्थालीं पायसादिभक्तमानं चतुर्मुख

4.12.75

यथायथं व्यञ्जनानि निक्षेप्याणि घृतैस्सह ।
दध्ना च सर्वाण्य न्नानि प्रकल्प्य व्यञ्जनैस्सह

4.12.76

निवेदयेयुर्देपाय पानकानि च पूजकाः ।
चोष्याणि लेह्यखाद्यानि यथाविभवविस्तरम्

4.12.77

निवेदितानां तुर्यांशं विष्वक्सेनाय कल्पयेत् ।
तच्चागाधजले क्षेप्यं तद्भक्तान्यापि भोजयेत्

4.12.78

तेनैवपार्षदास्तृप्ताभवेयुर्भूत तृप्तये ।
दास्यो वा गणिका भोज्या देवस्य परिचारिकाः

4.12.79

ब्रह्मेशानादि देवानां नैव भोज्यं निवेदितम् ।
न स्पृश्यं लङ्गनीयं च चण्डादीनां नि वेदितम्

4.12.80

देवीनां च श्रियादीनां विनता नन्दनस्य च ।
चक्रादीना मायुधानां वस्तु यद्यन्निवेदितम्

4.12.81

भोक्तव्यमेव सर्वेषां विप्रादीनाम शङ्कितम् ।
विष्णोर्निवेदितं शुद्धं पावनानां च पावनम्

4.12.82

प्रापणं दुर्लभं भोज्यं न त्याज्यं स्यात्कदाचन ।
भुञ्जानानामेधते श्रीस्त्यजतां परिहीयते

4.12.83

व्रतोपवासतुलितमशनं तस्य पावनम् ।
शुनामिव पुरोडाशो न नीचेषु तदिष्यते

4.12.84

विष्णोर्निवेदितान्नेन यष्टव्यं देवतान्तरम् ।
पितृभ्यश्चापि तद्देयं तदानन्त्या कल्पते

4.12.85

धारितं विष्णुनिर्माल्यं चन्दनाद्यनुलेपनम् ।
अहर्निशं धारयतां न पुनर्जननं भवेत्

4.12.86

तथा हि चरणस्पर्शि विष्णोस्त्स्रिपथगाजलम् ।
पुनाति सिद्धदेवर्षिसङ्खानं हो विघातकम्

4.12.87

पादोदकं च देवस्य पवित्रं परमं मदम् ।
पाद्यं दत्वा जलं विष्णो र्मूलमन्त्रेण देशिकः

4.12.88

गृहीत्वा शतधारेण मूर्द्निधार्यं विशुद्धये ।
शोधनं सर्वपापानां सर्वदुष्कृतनाशनम्

4.12.89

लक्ष्मीविवर्धनं नित्यमायुर्वृद्धिकरं परम् ।
म्रियमाणस्स्वयं विष्णोश्चरणस्पर्शितं जलम्

4.12.90

पीत्वा सद्गतिमाप्नोति न चेहाजायते पुनः ।
पितृणां तर्पणं शस्तं पारिणा तेन तर्पिताः

4.12.91

ऋणेभ्यःपितरो मुक्तावसन्तिदिवि देववत् ।
भक्ताय देयं पादोत्थं शान्ताय शुभकर्मिणे

4.12.92

पञ्चकालविधिज्ञाय तदनुष्ठानशीलिने ।
न नास्तिकाय दातव्यं दातव्यं नाभ्यसूयवे

मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc