भाषा

ENहिગુ
ग्रंथ पाठ

पद्मसंहिता · अध्याय 4.14

4.14.1

मासि मासि प्रशस्तानि नक्षत्राणि जनार्दन ।
भगवन् कानि येषु स्यादर्चनं परमं स्मृतम्

4.14.2

कानि चांशावताराणां जन्मर्क्षाणि युगे युगे ।
उच्यतां तानि देवेश श्रोतुमिच्छामि तत्वतः

4.14.3

चैत्रे मासि पुनर्वस्वोर्जन्म रामस्य मङ्गलम् ।
तिथौ नवम्यां लग्ने च कुलीरे कमलासन

4.14.4

राघवस्याप्रमेयस्य नक्षत्रे तत्र राघवम् ।
देव्याच सीतया सर्धमर्चयित्वा यथाविधि

4.14.5

उत्सवश्च भवेत्तस्मिन् सर्वमङ्गलसंयुतः ।
पुष्ये च मीनलग्ने च भरतस्समजायत

4.14.6

तत्र स्यादर्चनं देव्या माण्डव्या सह पूर्ववत् ।
उत्सवश्च तथा सर्पे नक्षत्रे लक्ष्मणोऽपि च

4.14.7

शत्रुघ्नश्च कुलीरे च लग्ने जातस्तदर्चनम् ।
उभयोस्तत्र दिवसे देव्या चोर्मिलया सह

4.14.8

लक्ष्मणस्येतरस्यापि श्रुतकीर्त्या महोत्सवः ।
रामस्य जन्मनक्षत्रे सर्वे वा भरतादयः

4.14.9

अर्चनीया हनुमता सर्धं सर्वैर्महोत्सवः ।
तत्रैव श्रवणे चैव सायाह्ने नरकेसरी

4.14.10

अर्चनीयस्स हि तदा हिरण्यमवधीद्रिपुम् ।
तस्मिन्नेव सिते पक्षे त्रयोदश्यां समर्चयेत्

4.14.11

विष्णुं यद्वा पुनर्वस्वोः पौर्णमास्यामथापि वा ।
वसन्तकालतृप्त्यर्थं तत्समृद्धिभिराहृतैः

4.14.12

पुष्पैर्नानाविधैर्देवमर्चयेद्दक्षिणामुखम् ।
आसीनं मण्डपे क्लृप्ते वेदीमध्ये मनोरमे

4.14.13

उद्याने मन्दिरे वापि कृत्रिमोद्यानशोभिते ।
नद्यादौ वा यथायोगं फलपुष्पोदकान्विते

4.14.14

पौर्णमास्यां तथौ तस्मिन् मासे दमनिकादलैः ।
पुष्पान्वितैःप्रपां कृत्वा मण्डपे पूजयेद्धरिम्

4.14.15

पुष्पोर्दमनिकाभिश्च सर्वालङ्कारमाचरेत् ।
उत्सवश्च भवेत्तस्मिन् होमो दमनिकादलैः

4.14.16

वैशाखे मासि वा कुर्याद्वसन्तोत्सवमब्जज ।
दमनीदलकल्याणमपि वा पूर्वमीरितम्

4.14.17

वैशाखे मासि वा चैत्रे सितपक्षे शुभे दिने ।
दमनीदलवत्कुर्यात्कल्हारकुसुमोत्सवम्

4.14.18

स्थानेषु पूजयेद्देवं कुम्भादिषु चतुर्ष्वपि ।
महाहविर्निवेद्याथ होमं कृत्वा समापयेत्

4.14.19

फलान्यपि समाहृत्य वन्यजानपदान्यपि ।
ज्येष्ठे वा श्रावणे वापि देवाय विनिवेदयेत्

4.14.20

सर्वालङ्कारसंयुक्तं विदध्याच्च महोत्सवम् ।
एवं यः कारयेत्पूजां श्रद्धापूतेन चेतसा

4.14.21

सर्वान् कामानिहावास्य विष्णोलोकं स गच्छति ।
श्रावणे जन्म पूर्वह्णे वामनस्य त्रिविक्रमम्

4.14.22

मध्यं दिने च तत्कालद्वये पूजा मधुद्विषः ।
पौर्णमास्यां च वैशाख्यां हरे रर्चनमिष्यते

4.14.23

अनुराधे हनुमतो जन्म
तस्मिन् सभाजयेत् ।
तं राघवेण सहितं सीतया लक्ष्मणेन च

4.14.24

आञ्जनेयं तदत्यन्तप्रीणनं राघवात्मनः ।
अनूराधे पौर्णमास्यां कलशैस्स्नपनं हरेः

4.14.25

आषाढे शुक्लपक्षे च द्वादश्यां कमलासन ।
चक्राब्जमण्डले देवमर्चयित्वा यथाविधि

4.14.26

कल्पिते शयनागारे मन्धिरे वा यथावसु ।
पर्यङ्के कल्पिते तत्र शाययित्वाथ कौतुकम्

4.14.27

देवीभ्यां सह कूर्चं वा त्रितयं तदभावतः ।
तत्र नित्यार्चनं मासांश्चतुरो मङ्गलान्वितम्

4.14.28

नयेच्चशयने नैव शाययोदन्यकौतुकम् ।
प्रतोपवासनियमान् कल्पयित्वा तदादिकान्

4.14.29

तदनुष्ठायिनस्तत्र चातुराश्रम्य माश्रिताः ।
आसीरंस्तत्र नियता स्तरेयुर्नतरङ्गिणीम्

4.14.30

देवस्य यावदुत्थानां भोगिपर्यङ्कशायिनः ।
श्रावणे मासि कृष्णे च पक्षेऽष्टम्यां तथौ हरेः

4.14.31

रोहिण्यां जन्म कृष्णस्य लोकानां मङ्गलावहम् ।
जयन्ती नाम सा प्रोक्ता जयत्यशुभमित्यसौ

4.14.32

मध्यरात्रे ततस्तस्मिन् कल्याणं सर्वमाचरेत् ।
तिथ्ययोगेऽपि नक्षत्रे केवलेऽर्चनमिष्यते

4.14.33

देवस्य देवकीसूनोरपरेद्युर्महोत्सवः ।
नित्यं नैमित्तिकं काम्यं कर्मयच्छ्रुतिचोदितम्

4.14.34

तत्कुर्वतामाश्रमेषु स्थितानामानुपूर्वशः ।
वर्णानां मन्त्रलोपादिशान्त्यर्थं प्रत्यहं हरेः

4.14.35

आराधं भगवतः पूर्णहुत्या स्वयं मतम् ।
तस्य न्यूनातिरेकाभ्यां दुष्कृतं सकलं भवेत्

4.14.36

कर्मजातं ततःपूर्णमाराधनमभीप्सितम् ।
प्रतिसंवत्सरं मासि श्रावणे तन्तुनिर्मितम्

4.14.37

पवित्रभूषणं विष्णोरारोप्यं बहुमाल्यवत् ।
आराध्य विधिवद्भाद्रपदे वाश्वयुजेऽपि वा

4.14.38

मन्त्रलोपादिना कर्म पतितं विहितं पुनः ।
प्रायश्छितैन यत्सर्म कर्तारं त्रायते पुनः

4.14.39

तत्पवित्रं फलैर्भूयो रोहत्येव समाहितः ।
इति निर्वचनात्तत् ज्ञेःपवित्रारोहणं मतम्

4.14.40

पूर्वोदितेषु मासेषु द्वादश्यां प्रतिपद्यपि ।
दशम्यां पौर्णमास्यां वा पङ्च म्यामधवा तिथौ

4.14.41

एकादश्यां त्रयोदश्यां द्वितीयायामथापि वा ।
सितपक्षे शुभे वारे लग्ने शुभ तरेऽथ वा

4.14.42

श्रवणे पुष्यरोहिण्यां रेवत्यां भरणीषु च ।
स्वातौ हस्तपुनर्वस्वोरश्विन्यां मित्रदैवते

4.14.43

ऋक्षेष्वन्यतम् कार्यं पवित्रारोपणं हरे ।
तन्तून् ब्राह्मणकन्याभिर्निर्मितान् दोषवर्जितान्

4.14.44

कार्पासान्वाथ कौ शेयान् क्रीतान्वा शौद्धवारिभिः ।
क्षालितान्मि श्रितांश्चूर्णै र्मौद्गिकैश्शोषयेद्भहिः

4.14.45

आतपेषु ततश्शुथ्धान् शोषितां स्त्रिगुणीकृतान् ।
पुनस्तां स्त्रिगुणीकृत्य तावन्तोपि चतुर्गुणान्

4.14.46

यद्वा त्रिगुणतां नीत्वा चतुर्गुण्यं चतुर्मुख ।
त्रिगुणांस्त्रिगुणीकृत्य यद्वा तानेकतां नयेत्

4.14.47

गोमियालेपिते भूमितले मानानुसारतः ।
शङ्क्वोस्थ्सापितयोर्यज्ञद्रुमसम्भूतयो स्ततः

4.14.48

आरोप्य भगवद्भक्ताः प्राङ्मुखा वाप्यु दङ्मुखाः ।
आसीना गुरुरन्यो वा तत्प्रयुक्तास्समाहिताः

4.14.49

स्नाता निर्माणनिपुणा मनुष्या भगवन्मयाः ।
कुर्याःपवित्र कल्याणं यथा स्याद्भूषणोत्तमम्

4.14.50

पवित्रमधिवासार्थमाद्यं नाभ्यवधिस्मृतम् ।
अष्टोत्तरशतैस्सूत्रैर्द्वात्रिंशद्ग्रन्थिभिर्युतम्

4.14.51

मूलबेरादिबेराणां पवित्रमिदमिष्यते ।
पवित्रं मण्टले पद्मतुल्यमानं घटेऽपि च

4.14.52

कुण्डे च मेखलामानं पुर्वेद्युर्मानमीरितम् ।
अपरेद्युःपवित्रेषु मानं संप्रति कथ्यते

4.14.53

पद्मनाभ्यरनेमीनां चक्राब्जे मण्डले सताम् ।
तन्मानानि पवित्राणि बाह्यमानं बहिस्समम्

4.14.54

ग्रन्थयस्तन्तवश्चैषां कथ्यनैच यथाक्रमम् ।
चतुश्सतानि सूत्राणि ग्रन्थयस्सप्तविंशतिः

4.14.55

शतत्रयं तन्तुसङ्ख्या ग्रन्धयो द्विगुणा मताः ।
द्वेश ते द्विगुणा ग्रन्थिशतमेक मनन्तरम्

4.14.56

चतुर्गुणा ग्रन्थिसङ्ख्या बाह्यसूत्रं चतुश्शतम् ।
ग्रन्थयःपञ्च गुणिताः कुम्भे चाष्टोत्तरं शतम्

4.14.57

तन्तवो ग्रन्थिसङ्ख्या च सप्तविंशतिरिष्यते ।
एकाधिकाशीतिसङ्ख्यास्त न्तवः करके मताः

4.14.58

सप्तविंशति सङ्ख्याश्छ ग्रन्थयःपरिकीर्तिताः ।
पवित्रसङ्ख्या भेराणां दश तानि पदामिते

4.14.59

प्रामाण्यं गन्धसंज्ञं चाप्यलङ्काराह्वयं तथा ।
उत्तमाधममध्याख्यं किरीटाह्वमनन्तरम्

4.14.60

श्रीवत्सकौस्तुभाह्वानं वनमालाह्वयं तथा ।
मानानि तेषां सूत्राणि ग्रन्थयश्च यथाक्रमम्

4.14.61

कर्थ्यनैनाभिमर्यादा सूत्राण्यष्टोत्तरं शतम् ।
द्वात्रिंशद्ग्रन्थयस्तस्य हृदयान्तमन न्तरम्

4.14.62

सूत्राण्यशीति तस्योक्ता क्रन्थयः पङ्च विंशतिः ।
जङ्घामध्यान्तमायामं निर्मितं शततन्तुभिः

4.14.63

अष्टोत्तरैर्ग्रन्थिभिश्च द्वात्रिंशद्गुणतैर्युतम् ।
उत्तमाख्यस्य सूत्राणां भवेत्सङ्ख्या चतुश्शतम्

4.14.64

शतमष्टौत्तरं सङ्ख्या ग्रन्थीनां जानुसीम तत् ।
शतानि त्रीणि तन्तूनां ग्रन्थयोऽशीतिरिष्यते

4.14.65

आयतं चोरुमध्यान्तं द्वेशते तन्तवः पुनः ।
नाभ्यन्तं ग्रन्थयष्षष्टि तन्तवोऽथ चतुश्शतम्

4.14.66

किरीटमानं द्वात्रिंशद्ग्रन्थय स्तदन न्तरम् ।
शतानि त्रीणि तन्तूनां हाराकारप्रकल्पितम्

4.14.67

ग्रन्थिभिस्सप्तविंशत्या द्वे शते त न्तवः पुनः ।
द्वात्रिंशत् न्तसमर्यादं सहस्रं चाष्टभिर्युतम्

4.14.68

तन्तवश्चरणा () याममनेकग्रन्थिभिर्युतम् ।
विष्टरस्य सहोत्थस्य पवित्रं तत्समं मदम्

4.14.69

तन्तवोऽष्टोत्तरशतं ग्रन्थयःपञ्चविंशतिः ।
प्रभावित्रं तत्तुल्यं ग्रन्थयो बहनःस्मृताः

4.14.70

सर्वेषां च स्वतन्त्राणां बिम्बानामिदमीरितम् ।
परतन्त्रेषु बिम्बेषु त्रितयं तू त्तमादिकम्

4.14.71

देवीनां च श्रियादीनां पवित्रं तद्वदिष्यते ।
अष्टोत्तरशतैस्सूत्रैर्ग्रन्थिभिर्बहुभिर्युतम्

4.14.72

अग्निकुण्डे मेखलासु पवित्रं प्रतिमेखलम् ।
तन्तुभिस्सप्तविंशत्या तावद्भिर्ग्रन्थिभिर्युतम्

4.14.73

अग्नेःपवित्रं हस्तेन समायामं प्रकीर्तितम् ।
मध्यमं पञ्चविंशत्या द्वाविंशत्याधमे मतम्

4.14.74

सूत्राणां पञ्चविंशत्या पवित्रं स्रुक्स्रुवादिषु ।
तदायामसमायामं ग्रन्थिभिर्बहुभिर्युतम्

4.14.75

अर्घ्यपात्रे तथा धूपदीपपात्रे चतुर्मुख ।
घण्टायामक्षमालायां सर्वत्राष्टोत्तरैश्शतैः

4.14.76

सूत्रैर्यथेप्सिताग्रन्थिर्द्वादशाङ्गुलमायतम् ।
विष्वक्सेनस्य तार्क्ष्यस्य तथा दुश्च्यवनादिषु

4.14.77

दिग्देवतासु द्रुहिणे दुर्गायां विघ्नुनायके ।
रुद्रे च परिवारेषु पवित्रं तस्तुभिःकृतम्

4.14.78

शतेनाष्टोत्तरेण स्याद्द्वात्रिंशद्ग्रन्थिभिर्युतम् ।
हस्तमानायतं कार्यं चण्डादिषु च सर्वतः

4.14.79

सप्तविंशतिसूत्रेण ग्रन्थिभिन्नेन निर्मितम् ।
हस्तमानं भवेत्कुम्भतोरणादिषु तादृशम्

4.14.80

बलिपीठपवित्रं तु कर्णिकाया मसंमितम् ।
आचार्याणां यतीनां च पवित्रं तन्तुभिःकृतम्

4.14.81

अष्टोत्तरशतै स्सूत्रैर्ग्रन्थिभिःपर्वभिर्युतम् ।
ऋत्विजां पूजकानां च ब्राह्मणानां तथैव च

4.14.82

एकाशीत्या कृतं सूत्रैर्नाभ्यन्तपरिलम्बितम् ।
राज्ञःपवित्रं सूत्रेण शतेनाष्टोत्तरेण तु

4.14.83

यथेष्टग्रन्थिनिचयैस्तूलगर्भैश्चनिर्मितम् ।
नाभ्यन्तमानमेतत्स्यात्तथा तदनुजीविनाम्

4.14.84

एताशीत्या कृतं सूत्रैर्वैश्यादीनां च तन्तुभिः ।
चतुर्विंशतिभिस्तेषां पवित्रमुपवीतवत्

4.14.85

पवित्रेषु समस्तेषु विस्तारो विभवे सति ।
पादोनमर्धं पादो वा सङ्ख्या स्याद्विभवक्षये

4.14.86

ग्रन्थींस्ततःपवित्राणां द्रव्यैः कस्तूरि कादिभिः ।
मणिमुक्ताप्रवालाद्यै रत्नैश्चापि यथावसु

4.14.87

लोहैश्च कलधौताद्यैस्तूलैर्वा तदसन्निधौ ।
पूरयित्वा दृढं बध्वा ग्रन्थींस्तां स्तन्तुरज्जुभिः

4.14.88

ग्रन्थयश्शङ्खसंस्थानसमानाकृतयोऽथ वा ।
धात्रीफल समाकारा यद्वा मुक्तादि सन्निभाः

4.14.89

कुङ्कुमैरोचनाभिश्च तथा मलयजैरपि ।
लोहितैरप्यवश्यायैस्संपिष्टैःकर्दमीकृतैः

4.14.90

ग्रन्थीनामन्तरालानि लिम्पेच्छोभा यथा भवेत् ।
ग्रन्थीनां पूरणं यद्वा मल्लिकाद्यैस्सुगन्धिभिः

4.14.91

पुष्पौस्तदन्तरालानि निशाचर्चाभिरेव वा ।
रञ्जयेत्तन्तवश्चापि ग्रन्थयश्च यथेच्छया

4.14.92

यथाविभवविस्तारं कल्पनियाश्चतुर्मुख ।
विभवे सति सङ्कोचो नैव कार्यस्तथाऽसति

4.14.93

विस्तारो नैव कार्यस्यात्तदेव प्रीणनं हरेः ।
सद्योऽधि वास्य वा तस्मिन्नुपोष्याराधयेद्धरिम्

4.14.94

गृहार्चने कौतुके वा मण्डले वा घटेऽपि वा ।
अर्चनं श्रद्धया कार्यं श्रद्धापूतमिदं जगत्

4.14.95

विहितेषु पवित्रेषु यथोक्तेनैव वर्त्मना ।
आरभेतार्चनं विष्णोर्दशम्यां च निवेदनम्

4.14.96

निशामुखे गुरुस्सार्धं मूर्तिपैस्सु समाहितः ।
यजमानेन सहितःप्रविशेद्विष्णुमन्दिरम्

4.14.97

प्रविश्य पूजयित्वातं गुरुस्तैस्सहितस्स्वयम् ।
विज्ञापयेदिमां गधा मीरयन् प्राञ्जलिस्थितः

4.14.98

न्यूवातिरेकशान्त्यर्थं पवित्रारोहणं परम् ।
अर्चनं भगवन् सर्वदुरुतोत्सारणक्षमम्

4.14.99

संपदां चापि सर्वासामुत्पादनमनु तमम् ।
क्रियते तदविघ्नेन यथा स्यात्कर्म चोदितम्

4.14.100

तथानुज्ञापयामि त्वा मनुजानीहि कर्मतत् ।
इति विज्ञाप्य निर्गत्य मन्दिरात्
मण्डपे पुनः

4.14.101

संस्तीर्य दर्भान् प्रागग्रान् तेषु प्रागाननो गुरुः ।
उपविश्योपवासं च कल्पयित्वा समाहितः

4.14.102

नयेत्तत्रेव तां रात्रिं जपध्यानपरस्सदा ।
अपरेद्यु र्निशीधिन्यामधिपासनकर्मतत्

4.14.103

आरभेत्तेकभेरेषु बध्वा तत्रेव कौतुकम् ।
बहुबेरुषु कल्याणमिम्बे कौतुकमङ्गलम्

4.14.104

ततो निर्गत्य विपुले मण्टपे तोरणादिकम् ।
अर्चयित्वा यथापूर्वं दिक्षु चैव विदिक्षु च

4.14.105

चतुर्वेदवितो विप्रानेकायनविदस्तथा ।
अधीयानान् स्थापयित्वा तुर्याघोषेषु सत्सु च

4.14.106

मङ्गुलेष्वपि चान्येषु कल्पितेषु यथातथम् ।
पवित्रपात्राण्यादाय प्रागुदग्भुवि मण्डपे

4.14.107

धान्यराशिषु संस्थाप्य पुण्याहं वाचयेत्ततः ।
दहनाप्यायनध्यानैः पात्रस्थानि विशोधयेत्

4.14.108

धूपयेद्गन्धवद्द्रव्यैर्लिम्पेत्कस्तूरि कादिभिः ।
पुष्पाणि विकिरेत्तेषु गन्धवन्ति बहुनि च

4.14.109

तानि भूषणपात्राणि वेष्टयेन्नववाससा ।
दर्शयेच्चक्रमुद्रां च पूजयेदस्त्रविद्यया

4.14.110

ऐशानीं दिशमारभ्य सूत्रेस्संवेष्ट्य मण्टपम् ।
मण्टपस्योपरि ध्यात्वा चक्रं भूमितले पुनः

4.14.111

पद्मं गदां च द्वारेषु शङ्खमष्टनु दिक्षु च ।
प्रत्यूहकारिणां तस्य छिद्रमन्विष्य धावताम्

4.14.112

भूतानां राक्षसादीनां माषान्नेन बलिं क्षिपेत् ।
बहुबेरेषु कल्याणबिम्बं स्नानासने बहिः

4.14.113

स्थापयित्वोपवीता न्तमुपचर्य यथातथम् ।
चक्राब्जमण्डले भूयस्समानीय चतुर्मुख

4.14.114

हविर्निवेदनान्तेतु समाराधन कर्मणि ।
निष्ठिते करके कुम्भे देवमावाह्य पूजयेत्

4.14.115

हविर्निवेदयित्वान्ते हुत्वाचाग्निं यथापुरम् ।
एकबेरे चु कल्याण कौतुकाराधनं विना

4.14.116

अन्यत्सर्वमनुष्ठेयं यथा पूर्वोदित क्रमात् ।
सम्भवे कौतुके तस्मिन् पवित्रं भूषणं पुनः

4.14.117

निक्षिपेत्कुम्भकरके दहने तदनन्तरम् ।
चक्राब्जमण्डले मन्त्रमिदं विष्णुरिति ब्रुवन्

4.14.118

प्रविश्य मन्दिरं सर्वैर्मङ्गुलैस्सह देशिकः ।
मूलबेरं समासाद्य पवित्रन्यसनं ततः

4.14.119

पूर्वोदितेन मन्त्रेण सर्वार्चासु यथाक्रमम् ।
पवित्रभूषणन्यासः पञ्च रागैश्च तन्तुभिः

4.14.120

प्रासादं वेष्टयेद्रात्रौ सर्वमाम्नायघोषणैः ।
पाद्यैर्गेयैश्च नृत्तैश्च स्तोत्रैर्जागरिता जनाः

4.14.121

नयेयुरपरेद्युश्च कौतुकं मण्डलेस्थितम् ।
स्नानवेद्यां समानीय स्नापयित्वा यथाविधि

4.14.122

अलङ्कृत्य च देवेशं मण्डले मार्जनादिभिः ।
शोधिते वर्तयित्वा च चक्राब्जं पञ्चवर्णकैः

4.14.123

द्वारादियजनं प्राग्वत्कृत्वावस्थाप्य मण्डले ।
देवमाराध्य दीपान्तं कुम्भादीनपि पूजयेत्

4.14.124

अन्नं चतुर्विधं चापि कुम्भे देवे निवेद्य च ।
अग्नौ च जुहुयादन्नं पायसादि चतुर्विधम्

4.14.125

पौरुषेणै व सूक्तेन यवैश्च व्रीहि वेणुभिः ।
तिलैर्लाजैस्तथा पुष्पैस्तथा चागरुबिर्घृतैः

4.14.126

समिद्भिर्मूलमन्त्रेण पृथगष्टोत्तरं शतम् ।
मुहूर्ते शोभने प्राप्ते दैवज्ञपरिशोधिते

4.14.127

पवित्राणि समादाय चक्राब्जं भूषयेत्पुनः ।
पद्मादीनि तदङ्गानि यथा स्वमिदमित्यृचा

4.14.128

ततःकुम्भे चकरके देवे च तदनन्तरम् ।
स एव मन्त्रःकुण्डेऽपि हव्यवाहेऽपि तोरणे

4.14.129

द्वारकुम्भेषु तत् स्थेषु पवित्राणि यथा तथा ।
ततः प्रदक्षिणीकृत्य मण्डलस्थं जगद्गुरुम्

4.14.130

प्रविश्य मन्दिरं सर्वैर्मङ्गुलैस्सह देशिकः ।
स्नपनादि विधायादौ समाराधन मच्युते

4.14.131

हविर्निवेदनान्तं तत्कृत्वा तत्रत्यदेवताः ।
मूलबेरं समारभ्य पवित्रै र्भूषयेत्स्वकैः

4.14.132

परपन्त्रास्स्वतन्त्राश्च सर्वाःपूर्वोक्त विद्यया ।
अभ्यर्च्यगन्धपुष्पाद्यैःपवित्राणि पृथक्पृथक्

4.14.133

देयानि
दानवेलायां वाद्यवादनकोविदाः ।
नर्तका गायकाश्चैव तथा स्वाध्यायकोविदाः

4.14.134

सर्वे यथास्वनृत्तादि दर्शयेयुस्तदन्तिके ।
चण्डादिपरानाराणामन्येषां प्राङ्कणासिनाम्

4.14.135

पवित्राणि प्रदेयानि बलिपीठावसानकम् ।
ब्रह्मादि देवतानां च तार्क्ष्यसेनेशयोरपि

4.14.136

सर्वेषामप्यनुक्तानां पवित्राणि यथायथम् ।
मन्त्रश्च विष्णुगायत्री यद्वेदं विष्णुरित्ययम्

4.14.137

यद्वाचाष्टाक्षरेणैव मन्त्रेण द्वादशात्मना ।
देशिको मूर्तिपैस्सार्धं यजमानेन संयुतः

4.14.138

प्रविश्य मन्दिरं विष्णो रत्नपूर्णाञ्जलिस्स्वयम् ।
हेमपुष्पाञ्जलिर्वापि यद्वा पुष्पभृताञ्जलिः

4.14.139

स्तोत्रेस्तुवानो बहुभिर्विकिरेत्तानि पादयोः ।
कत्नानि हेमपुष्पाणि पुष्पाणि सुरभीण्यपि

4.14.140

कल्पितानि मनुष्याणां पवित्राणि यथायथम् ।
न्यस्य देवेशपदयोः पुष्पवत्सुसमाहितः

4.14.141

क्षौमा दीनि पवित्राणि देवं विज्ञाप्य देशिकः ।
स्वयं गृहीत्वा क्षौमादिपवित्रं चात्मनः कृतम्

4.14.142

दद्यात्पूजकमुख्यानामृत्विजां सहकारिणाम् ।
एकायनीयनिष्ठानामन्येषां विदुषामपि

4.14.143

यथाधिकारं क्रमशो देवस्यालोक्य चाननम् ।
स्पृष्ट्वा देवपदान्भोज माचार्योथ जनान्तिके

4.14.144

न्यूनातिरेकशान्त्यर्थं गाधामेनामुदीरयेत् ।
भगवन् देवदेवेश शङ्खचक्रगदाधर

4.14.145

संवत्सरोपचाराणां पूरणार्थं कृतं मया ।
आराधनं गृहाणत्वं भक्तानां हितकाम्यया

4.14.146

नाहं स्वतन्त्रःकिञ्चिच्च करोमि विहितं हितम् ।
किन्तु त्वत्त्प्रेरितस्सर्वं करोमि तव यत्स्वयम्

4.14.147

तत्क्षन्तव्यमशेषेण क्रियालोपाद्यनुष्ठितम् ।
समये यजमानस्तु गां भुवं काञ्चनं तथा

4.14.148

वस्त्रादिकं तथा धान्यं भोजयित्वा महीसुरान् ।
दत्वा यथेप्ति तानर्थानाचार्याय च दक्षिणाम्

4.14.149

शतनिष्कावरां गोभूवस्त्रधान्यादि काव्यपि ।
मूर्तिपेभ्यस्तथान्येभ्यस्तत्तत्क र्मानुसारतः

4.14.150

यथातुष्टिकरं देयं यागे तत्रोपकुर्वताम् ।
अपराह्णे बहिर्ग्रामे कुर्यादेवं महोत्सवम्

4.14.151

प्रोक्ष्य प्रत्यहमेतानि पूजाकालेषु पूजकैः ।
स्यसनीयानि दिवसां श्चतुर्दश चतुर्मुख

4.14.152

यद्वैकविंशतिं सप्त यदि वा दिवसानपि ।
त्रिरात्रमेकरात्रं वा पश्चात्तान्यपरोहयेत्

4.14.153

उच्चरन् पौरुषं सूक्तं साम यद्वा रथन्तरम् ।
त्रिसुवर्णं तथा मन्त्रं मूलमस्त्रमथापि वा

4.14.154

अवरोप्य पवित्राणि देयानि गुरवे ततः ।
कुरवे तानि दत्तानि प्रीणनाय मधुद्विपः

4.14.155

अन्यथा कर्मनैष्फल्यं क्षयस्स्याद्ध्राजराष्ट्रयोः ।
मण्डलस्धं च कुम्भस्थमग्निस्थं च विसर्जयेत्

4.14.156

पवित्रारोहणदिने कालोत्कर्षोन युज्यते ।
कृत्वा वरोहणं तेषां स्नपनं तदन न्तरम्

4.14.157

कार्यं यथोक्तविधिना प्रविशेन्मन्दिरं ततः ।
इत्येष कथितो ब्रह्मन् पवित्रारोहणेविधिः

4.14.158

अनेन विधिना विष्णोःपवित्रारोहणं हरेः ।
कुर्वन् फलान्यनन्तानि प्राप्नु यान्नैव संशयः

4.14.159

सुखं जीवति निर्व्याधि र्यावदायुस्समृद्धिमान् ।
आयुश्च विन्दति प्राप्तं धर्माथान् धर्ममाप्नुयात्

4.14.160

कामानवाप्नुयात्कामी अर्थार्थीचार्थमाप्नुयात् ।
मोक्षार्थी मोक्षमाप्नोति प्रजार्थी लभते प्रजाः

4.14.161

बान्धवैर्लभतेचापि प्रवासिभिस्समागमम् ।
कीर्तिंचाप्नोति परमां कीर्तिकामो न संशयः

4.14.162

ज्ञानार्थी ज्ञानमाप्नोति शान्त्यर्थी शान्तिमाप्नुयात् ।
शत्रवस्तु प्रणश्यन्ति ग्रहभूताद्युपद्रवाः

4.14.163

आरोग्यकामी चारोग्यं श्रीकामश्स्रियामाप्नुयात् ।
बहुनात्र किमुक्तेन फलं यद्यदभीप्सितम्

4.14.164

तत्सर्वं तस्यहस्तथं नात्र कार्या विचारणा ।
भुक्त्वा भोंगांश्च विपुलान् ध्यात्वा चान्ते मधुद्विषम्

4.14.165

तल्लोकं समवाप्नोति न चेहोजायते पुनः ।
धारयन्ति पवित्राणि येभक्ताश्श्रद्धयान्विताः

4.14.166

तेपि निर्धूय पापानि मोदन्तेदिव देववत् ।
आचार्यो मूर्तिपास्सर्वे ये चान्ये परिचारकाः

4.14.167

ये श्यण्वन्ति च पश्यन्ति कीर्तयन्ति च कर्म तत् ॥
ते सर्वेपि समृद्धार्थालभन्ते सर्वसंपदः

4.14.168

आग्रयणं श्रावणे मासि मासि प्रोष्ठपदेऽपि वा ।
मासे चाश्वयुजे ब्रह्मन् कार्तिके मासिवा भवेत्

4.14.169

वर्षास्वेवं ततोन्यत्र तैषे माघेऽपि वा भवेत् ।
फाल्गुने मासि चैत्रे वा वैशाखे वा तदाचरेत्

4.14.170

हस्ते च श्रवणे पौष्णे नैरृते च प्रजापतेः ।
नक्षत्रे वारुणे पुष्ये वायव्येदितिदैवते

4.14.171

मखासु मैत्रे चित्रायां श्रविष्ठायामथापि वा ।
सौम्ये त्रिषूत्तराख्येषु सम्भवानुगुणं भवेत्

4.14.172

अयुग्मास्तिथयस्सर्वा नवमीपरिर्जिताः ।
युग्मास्तु तिथयो नेष्टा द्वितीयां दशमीं विना

4.14.173

सोमो बृहस्पतिस्सौम्यो बृगुश्चेति ग्रहाश्शुभाः ।
मेषवृश्चिकमिने तु कन्याझषकुलीरके

4.14.174

पूर्वपक्षे च कर्तव्यस्तत्रायं कर्मणःक्रमः ।
आदौ दध्यादनं क्षेत्रे क्षेत्रपालाय कल्पयेत्

4.14.175

मुहूर्ते लवनस्योक्ते विधाय लवनं ततः ।
धान्यं कणिशभारेण गृह्णीयाद्भूमिकर्षकैः

4.14.176

कदलीपनसादीनि तथादधिघृतादिकम् ।
धान्यभारासपि तथा कन्दल्यादिदलानि च

4.14.177

नयेयुर्नृत्तवादित्रगीतालङ्कारसंयुतम् ।
पुरतः पृष्ठतश्चैव सेनेशविहगधिपौ

4.14.178

अलङ्कृतौ कुञ्जरादियानारूढौ यथावसु ।
छत्र चामरसौशेयध्वजातिपरिबर्हकौ

4.14.179

नीत्वा प्रदक्षिणं ग्राममालयं च मधुद्विषः ।
गोष्ठागारं प्रविश्यान्तर्धान्यं कणिशगोचरम्

4.14.180

श्रीसूक्तेन समभ्यर्च्य भाण्डेष्वभिनवेषु तत् ।
निक्षिप्य सङ्ग्रहं तस्य कुर्यात्तत्राल येषु च

4.14.181

कर्मिणां देवदेवस्य तथा देवं समर्चताम् ।
यथाधिकारं धान्यानि दद्याच्च समये शुभे

4.14.182

तण्डुलान्नूतना नामान् क्षालितांस्त्रिफलीकृतान् ।
मरिचैर्जीरकै र्युक्तान् गुळपाकेनुभावितान्

4.14.183

नालिकेरफलोपेतानिक्षुखण्डसमन्वितान् ।
मूलबेरादिबेराणां मुहूर्ते शोभने गुरुः

4.14.184

निवेदये
त्ततो मूलविद्ययाष्टोत्तरं शतम् ।
तण्डुलै र्जुहुयादग्नौ
ब्राह्मणानां यथापुरम्

4.14.185

तस्मिन् दिने परेद्युर्वा नवान्नानि निवेदयेत् ।
प्रभूतस्स्कृता नेकनिष्ठानि कदलीदले

मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc