भाषा

ENहिગુ
ग्रंथ पाठ

पद्मसंहिता · अध्याय 4.11

4.11.1

उत्सवारम्भदिवसादर्वागहनि सप्तमे ।
आङ्कुरानावपेल्लग्ने शोभने देशिकोत्तमः

4.11.2

अष्टोत्तर शतेष्वेव पालिकासु यथाविधि ।
षट्त्रिंशत्स्वथ वा
पश्चादलङ्कारं समाचरेत्

4.11.3

क्रमुकैर्दारुजैर्वापि तोरणै र्वीधिकामुखम् ।
चत्वाराणि तथा ग्रेषु गोपुराणामलङ्क्रिया

4.11.4

फलभारावनम्राश्च कदलीक्रमुकादयः ।
पार्श्वेषु तोरणानां स्युः स्थाप्या गमनवीधयः

4.11.5

समभूमितलाःकार्यास्सिकताभिश्च शोभिताः ।
दुकूलक्षौमपासोभि र्दर्भमालाशतेन च

4.11.6

ध्वजैश्च सर्वतो दिक्षु शोभयेच्च प्रपादिभिः ।
शोधयेत्सर्वभूभागं गोमयोम्भोभिराप्लुतैः

4.11.7

प्रासदभित्तयः कार्याश्चित्रिता वर्णपञ्चकैः ।
कम्भाभिः पूर्णकुम्भैश्च दीपिकावलिभि स्तथा

4.11.8

मुक्तादामभिरन्यैश्च साङ्कुरैःपालिकाशतैः ।
देशाद्देशात्समेतानां वर्णानां च तदुत्सवे

4.11.9

सेवितुं देवदेवेश मन्नाद्यैस्तुष्टिमावहेत् ।
प्रपापानीयशालाध्यै र्यजमानो दिवानिशम्

4.11.10

रोगार्तानथ भैषज्यैर्भिषजेद्धनराशिभिः ।
प्रथमावरणे ब्रह्मन् कारयेद्यागमण्डपम्

4.11.11

यद्वावकाशानुगुणं द्वितीयावरणे भवेत् ।
अन्तरालेषु सर्वत्र दिशामिष्टे क्वचिद्भवेत्

4.11.12

सप्तहस्तायतं यद्वा पञ्चहस्तायतं तु वा ।
विस्तारायामसदृशं यतुर्द्वारस मन्वितम्

4.11.13

मण्डपं कारयेत्तस्य परितः कारयेत्प्रपाम् ।
तस्य मध्ये त्रियंशे तु वेदीं हस्तसमुच्छृताम्

4.11.14

विस्तीर्णां द्वित्रिहस्तेन
वेद्याः प्राच्यां प्रकल्पयेत् ।
कुण्डमाहवनीयस्य चतुरश्रं यथोदितम्

4.11.15

दक्षिणस्यां दक्षिणाग्नेर्दिशि चाप समाकृति ।
कुण्डं तु गार्हपत्यस्य प्रतीच्यां वृत्त मद्भुतम्

4.11.16

सभ्यस्य कुण्डं कौबेर्यां त्रिकोणं तदनन्तरम् ।
ऐशान्या मग्निकोणे वा कुण्डं च चतुरश्रकम्

4.11.17

अवसक्थ्यस्य शिखिनः पञ्चाग्न्युत्सव मुत्तमम् ।
यद्वाऽऽवसक्थ्य रहितं चतुरग्निं चतुर्दिशि

4.11.18

सभ्यावसक्थ्य रहितं यद्वाग्नि त्रयसंयुतम् ।
एकामाहवनीयं वा कल्वयेत्कत्कुरिच्छया

4.11.19

अश्वत्थादिद्रुमैर्द्वारतोरणानि चतुर्दिशम् ।
स्रुक्स्रुवौ कारयेदष्ट मङ्गलानि यथापुरम्

4.11.20

आसनं त्वृत्विजां होमपात्राणि विविधानि च ।
मण्डपानां च पुरतः प्रपास्यात्पार्श्वयोरपि

4.11.21

दुकूलक्षौमकाशेयैर्विचित्रं मण्टपं प्रपाम् ।
वितानयेद्वेष्टयेच्च स्तम्भानन्तर्बहिस्थ्सितान्

4.11.22

मुक्तादामानि सर्वत्र लम्बयेद्दीपमालिकाः ।
आरोपयेच्च स्तम्भेषु पताकावलिबन्धनम्

4.11.23

मुक्तावितानं बध्नी यात्पुष्पमालाश्च सर्वतः ।
एवमादिपरिष्कारै र्भूषयेन्मण्डपादिकम्

4.11.24

तिरस्करिण्यो विपुला बध्नीयाच्च विचित्रिताः ।
अग्रे चतुर्णां वरण माचार्याणां च ऋत्विजाम्

4.11.25

षोडशा नां तथान्येषां स्वीकारः परिचारिणाम् ।
ते च भूष्या यथावित्तं भूषणैः कटकादिभिः

4.11.26

वासोभिश्च नवैश्चित्रे रधिकारानु सारतः ।
उष्णीषैरुत्तरीयैश्च गन्धद्रव्यासु लेपनैः

4.11.27

शोभनीयाः प्रयत्नेन यजमानेन सर्वदा ।
स्नपनं चोत्सवा रम्भे तदन्ते च यथोदितम्

4.11.28

कुर्याद्देवस्य पूर्वेद्युः कौतुकं बन्धयेद्गुरुः ।
सौवर्णे राजते वापि पात्रे विमलतण्डुले

4.11.29

खारिद्वयेन वार्धेन यद्वा पादेन सम्मिते ।
न्यस्येत्सूत्रं च सौवर्णं क्षौमं कार्पासमेव वा

4.11.30

सप्तभिः पञ्चभिर्वापि सूत्रं क्षौमादितन्तुभिः ।
शतेन षष्ठ्यारूढेन फलैः क्रमुकजैरपि

4.11.31

नागवल्लीदलैस्सार्धं फलसङ्ख्या चतुर्गुणैः ।
तदर्धैर्वा तदर्धैर्वा कदल्यादिफलैरपि

4.11.32

सार्धं तदनु तत्पात्रं साधारं न्यस्य मूर्धनि ।
वस्त्रेणआच्छादितं छत्रचामरव्यजनान्वितम्

4.11.33

बहुदीपकसंयुक्तं सवितानं च मूर्तिपः ।
पठद्भिश्शाकुनं सूक्तं ब्राह्मणैर्वेद पारगैः

4.11.34

तूर्य मङ्गलगीतैश्च सार्धं नीत्वा प्रदक्षिणम् ।
धाम विष्णोस्तथा तस्य बहिरावरणानि च

4.11.35

प्रादक्षिण्येन वा ग्रामं प्रविशेद्देवता न्तिकम् ।
देवस्य पुरतो भूमितले गोमयपारिणा

4.11.36

आलिप्ते चतुरश्रेच शालिभारेण पूरिते ।
पात्रं निधाय पुण्याहं वाचयित्वा यथाविधि

4.11.37

सभाजयित्वा त्त्सूत्र मन्त्रमन्त्रेण देशिकः ।
अङ्गुष्ठा नामिकाभ्यां तु गृहीत्वा हस्तयोर्द्वयोः

4.11.38

अपराजितया सूत्रं चन्दनक्षोद वारिणा ।
आलिप्य दक्षिणे हस्ते बध्वा चोत्सवकौतुकम्

4.11.39

स्पृष्ट्वा दक्षिणहस्तेन सूत्रं पारान् शतं जपेत् ।
अन्त्रमन्त्रं तथार्घ्यार्दैरिष्ट्वादेवं निवेदयेत्

4.11.40

महापूवं तथापूपान् पृथुकांश्च फलान्यपि ।
केयं नृत्तं तथापाद्य माचरेद्देवतान्तिके

4.11.41

त्रिभिर्भागवतैर्देवं स्थानेऽन्यत्र निवेशयेत् ।
स्नानान्तं क्षौमवसनमालिप्तं चन्दनादिना

4.11.42

भूषितं भूषणैस्सर्वैस्स्रिग्विणं देवदैवतम् ।
अर्चयित्वा यथाशास्त्रं परमान्नं निवेदयेत्

4.11.43

यथोदितं प्रतिष्ठायां यथाशयन कल्पनम् ।
भिम्बं चोपरि विन्यस्य शयने स्थापयेच्छुभे

4.11.44

कोणेषु स्थापयेद्दीपान् पालिका स्साङ्कुरास्तथा ।
तूर्यघोषैस्तथावेदैस्तोत्रैस्तुत्वा मधुद्विषम्

4.11.45

निशां नयोज्जागरेण समाहितमना गुरुः ।
श्वोभूते शोभने प्राप्ते मुहूर्ते भास्करोदये

4.11.46

उत्तिष्ठे त्यादिमन्त्रेण त्रिभिर्भागवतैस्सह ।
दिक्षु शाकुनिकं सूक्तं पठत्सु ब्राह्मणेष्वपि

4.11.47

उत्थाव्य शयनाद्देवं तं
इदंविष्णुरित्यृचा ।
आरोपयेयुश्शिभिकां सुवर्ण प्रभया सह

4.11.48

वहेयु र्भूसुरा यानं ध्यायन्तो विहगाधिपम् ।
विकिरेत्सर्वतो दिक्षु पुष्पाणिसुरभीणि च

4.11.49

लाजांश्च साकं मुक्ताभिस्तूर्यघोषैश्च नादयेत् ।
ईदृसैर्मङ्गलैरन्यैस्सर्वावरण भूमिकाः

4.11.50

नीत्वा प्रदक्षिणं
यानादवरोप्य प्रभान्विते ।
भद्रासने दुकुलादिचित्रास्तरणशोभिते

4.11.51

पार्श्वेकल्पद्रुमच्छायाशीतले स्वर्णनिर्मिते ।
निवेश्य मण्टपे सर्वमुपचारं समाचरेत्

4.11.52

प्राभृतं चाहृतं सर्वं द्रव्यमुत्सवकारणम् ।
देवाय दर्शयेत्सर्वं जनसंनदि देशिकः

4.11.53

कृत्वोपचार मखिलं ततस्स्नपनमण्टपे ।
स्नापयेद्देवदेवेशं यथापूर्वोदितैःक्रममैः

4.11.54

आचार्यो यजमानश्च समीक्ष्य विभवोदयम् ।
महाहविर्निवेद्यान्ते हुत्वा हव्यैर्यथाविधि

4.11.55

गर्भगेहं विमानस्य नयेन्मङ्गलसंयुतम् ।
ततोऽपराह्णसमये अङ्कुराधारमृत्तिकाम्

4.11.56

आनेतुं बहिरुद्यान बूमेर्यद्वा नदीतटात् ।
यानमारोप्य गरुडं सेनान्यं वा परिष्कृतम्

4.11.57

देवादेशं पुरस्कृत्य सर्वमङ्गल संयुतम् ।
वहद्भिःपालिकाःपूर्वं खनित्रं चापि भूषितम्

4.11.58

ब्राह्मणैर्बहुभिर्वेदानधीयानैस्समन्ततः ।
नीत्वा प्रदक्षिणं ग्रामं ततो निर्गत्य देशिकः

4.11.59

दिशं प्राचीमुदीचीं वा प्रतिसङ्गृह्यमृत्तिकाम् ।
यथापूर्वोदितं धाम प्रविश्य रजनीमुखे

4.11.60

प्रदोषे यागसदसि पालिका द्वादशावराः ।
शरावकुम्भसहितास्तद्वर्गा अपि षोडश

4.11.61

ईशानभागे संस्थाप्य सोमकुम्भसमन्विताः ।
आवपेत्तासु बीजानि मुहूर्ते शोभने गुरुः

4.11.62

ततः प्रविश्य सदनं यजमानो गुरुश्च तौ ।
प्रणम्य दण्डवद्भूमौ देवमुत्सव सम्पदम्

4.11.63

याचेतां गुरुरन्वक्च बध्वा कल्याणकौतुकम् ।
उत्सवस्नानबल्यर्थ प्रतिमासु यथा क्रमम्

4.11.64

सुदर्शने चशयने कल्पितेऽन्यत पूर्ववत् ।
बद्धप्रतिसरं सर्वमधिवास्य यथाक्रमम्

4.11.65

उत्थाप्य सद्यश्चाराध्य प्रादक्षिण्येन मन्दिरम् ।
नीत्वा प्रवेश्य यागार्थमण्डपं तत्र चासने

4.11.66

नित्योत्सवा र्चां चक्रं च निवेश्य तदनन्तरम् ।
वेदिकायां धान्यपीठं कृत्वा पुर्वेदितक्रमात्

4.11.67

तत्र प्रक्षालितान् कुम्भान् सूत्रेण परिवेष्टितान् ।
गन्धोदकेन सम्पूर्णा न्नवरत्नयुतान्नव

4.11.68

सर्वगन्धरजोमिश्रान् करकेण समन्वितान् ।
प्रत्येकं स्यस्तसौवर्णनिष्कानश्वत्थपल्लवैः

4.11.69

कुशकूर्चेन सहितान् मुखेष्वपि समल्लकान् ।
मध्यमं वस्त्र युग्नेन शिष्टानेकेन वाससा

4.11.70

वेष्टितान्वेदिकाभूमौ स्थापयेद्धान्यराशिषु ।
अयतं सप्तभिर्हस्तैष्षद्भिर्वा चाथ पञ्चभिः

4.11.71

विस्तीर्णं वस्त्रमायाममानार्धेन नियोजयेत् ।
भगवन्मयविप्रैश्च पुण्याहमपि वाचयेत्

4.11.72

द्वारतोरणकुम्भादीन् प्रतिष्ठायामि वार्चयेत् ।
मध्यकुम्भे मूलबेरं करके च सुदर्शनम्

4.11.73

पूर्वाद्याशागते कुम्भे वासुदेवादि कान्यजेत् ।
आग्नेयादिषु कोणेषु यष्टव्याः पुरुषादयः

4.11.74

तधैव पुरुषस्सत्यः क्रमेणाच्युतदेवता ।
अनन्तश्चेति हविषा चतुर्णां च निवेदनम्

4.11.75

कुम्भे तथास्त्रे च बलिबिम्बे चै वाष्ट मङ्गलम् ।
वेष्टितं वाससा वेदे रधस्ताद्धान्य राशिषु

4.11.76

न्यस्याभ्यर्च्य चतुर्दिक्षु वेदतूर्यादिघोषणे ।
प्रवृत्ते जुहुयादग्नौ ध्यायन्नाहव नीयके

4.11.77

वासुदेवं दक्षिणाग्नौ सङ्कर्षण मनन्तरे ।
प्रद्युम्नं पश्चिमे चाग्नावुदी चीनेऽनिरुद्धकम्

4.11.78

आवसक्थ्ये मूलमूर्तिमिष्ट्वा तीर्थाव सानिकम् ।
सन्निधिं प्रार्थ कुण्डेषु जुहुया त्सर्पिरादिभिः

4.11.79

सर्पिषा च प्रसूनैश्च धूपद्रव्यैश्च पद्मज ।
समिधा पयसा दध्ना तिलव्रीहि यवै स्तथा

4.11.80

तत्तद्दैवतमन्त्रेण अष्टोत्तर शतं पृथक् ।
अष्टाविंशतिवारान्वा कुण्डेषु प्रागुपक्रमः

4.11.81

पायसैःकृसरैर्गौल्यैर्हरिद्रान्नैश्च मौर्दिकैः ।
होतव्यं पौरुषै स्सूक्तैः पृथगग्निषु पञ्चसु

4.11.82

पञ्चमे परमान्नेन ब्रह्माद्युद्दिश्य देवताः ।
तत्तन्नाम चतुर्थ्यन्तं परिवारपदान्वितम्

4.11.83

स्वाहान्तं मन्त्रमुच्चार्य ध्यात्वा ब्रह्मादिदेवताः ।
ब्रह्मा प्रजापती रुद्रस्सर्वे देवा यथाक्रमम्

4.11.84

छन्धांसि वेदा ऋषयो गन्धर्वाश्च सरीसृपाः ।
यक्षाश्चप्सरसश्चैव मासाद्यैस्सह वत्सराः

4.11.85

सरितश्च समुद्राश्च पर्वताश्च तथापगाः ।
भूतानि पशवो वृक्षा स्तथैवौषधयःस्मृताः

4.11.86

वनस्पतिश्चोद्भिदश्च स्वेदजाश्चाण्डजा स्तथा ।
जरायुजाश्च भूरादिसप्तलोकास्तथैव च

4.11.87

अतलाद्यास्तथालोकास्सप्त चण्डादिदेवताः ।
इत्येतेभ्यो बलिद्रव्यं जुहुयान्मूलविद्यया

4.11.88

इदं विष्णुरितिप्रोच्य पूर्णाहुति मथाचरेत् ।
न दहेत्परिधीन् दर्भान् देवान्नोद्वासयेत् स्थितान्

4.11.89

प्रत्यहं धारयेदग्नीन् यावत्तीर्थदिनावधि ।
अहोरात्रं प्रतिदिनं जुहुयादुक्तवर्तना

4.11.90

एकाग्नौवापि होतव्यं होमद्रव्यमशेषतः ।
त्रये चतुष्टये चैवमग्नीनां कमलासन

4.11.91

बलिप्रदानं प्रथमं कुर्याद्यागस्य मण्टपे ।
चक्रं च बलिभिम्बं च समादायान्नमूर्तिना

4.11.92

साकं निष्क्रम्य सदनात्तद्द्वारे कुमुदादिकम् ।
अभ्यर्च्यपुरतो दद्याद्बलिं भूमितले शुचौ

4.11.93

पात्रस्थं तद्बलिद्रव्यं घण्टां प्रसवभाजनम् ।
तोयपूर्णं च करकं दीपपात्रं च दीपिकाः

4.11.94

धूपपात्रं गृहीत्वाग्रे गच्छन्तु परिचारकाः ।
अग्रे गच्छेदन्न मूर्तिस्ततश्चक्रमनन्तरम्

4.11.95

नित्योत्सवार्चां तदनु वितानादि समन्विताम् ।
ततश्चण्ड प्रचण्डादीन् द्वारेष्वा वरणेषु च

4.11.96

नित्योत्सवप्रक्रियाया बलिमभ्यर्च्य निक्षिपेत् ।
मध्यमारभ्य च ग्रामे ब्रह्मादीनां यथाविधि

4.11.97

देशेष्वीशानपर्यन्तं दत्वाऽभ्यर्च्य बलिं ततः ।
महापीठे बलिद्रव्यं परिशिष्टम शेषतः

4.11.98

दद्यात्पारिषदान् सर्वानुद्दिश्य कमलासन ।
मुहूर्ते शोभने प्राप्ते गुरुरुत्सव कौतुकम्

4.11.99

शयनस्थं समुत्थाप्य मन्त्रमुत्तिष्ठ पूर्वकम् ।
उच्चारयन् स्वस्तिसूक्तं पठद्भिर्ब्राह्मणै स्सह

4.11.100

निष्क्रम्य मन्दिरात्तस्मा दुच्चार्य च रथन्तरम् ।
समारोप्य रथं युक्तं चतुर्भिर्हस्तिपुङ्गवैः

4.11.101

वाजिभिर्वा बलीवर्दैश्शीघ्रगामिभिरुत्तमैः ।
कल्पकद्रुमसंयुक्तं हेमकुटै रलङ्कृतम्

4.11.102

रथस्यो परिकृत्वा च नयेदास्थितसारथिम् ।
यन्त्रेण वा विप्रवर्यौ रधीयानै र्बलान्वितैः

4.11.103

गजे वा स्यन्दनालाभे याने वा तदसम्भवे ।
भद्रङ्कर्णेति मन्त्रेण यानमारोपयेत्तदा

4.11.104

सपुष्पहेमप्रभयायुक्तं पुष्पैरलङ्कृतम् ।
हैमेन च विमानेन युक्तं पुष्पादिशोभिना

4.11.105

कुटाकारेण वा युक्तं मयूरच्छदशोभिना ।
सर्वालङ्कार युक्तेन समनःपरिवेषिना

4.11.106

याने तत्र समासीसमभ्यर्च्यन्यासपूर्वकम् ।
देवं निवेदयेत्तस्मै भक्ष्यं च पृथुकादिकम्

4.11.107

नान्यं चरणयोर्न्यस्येन्निशाचूर्णानि सर्वशः ।
दीपैरुदग्रैर्बहुभिः परिषिक्तै र्घृतादिना

4.11.108

परस्सहस्रै स्सर्वत्र दीपयेच्च शतावरैः ।
द्विजेन्द्रमुख्यैर्बहुभि र्भूषितैर्धवलाम्बरैः

4.11.109

कञ्चुकोष्णीषसहितै र्वालव्यजनपाणिभिः ।
तालव्यजनहस्तैश्च बर्हिबर्हकरैस्तथा

4.11.110

मुक्तातपत्रहस्तै श्च मेघुडम्बरधारिभिः ।
भिभ्राणैर्धूपपात्राणि गन्धोद्गारीणी विश्वतः

4.11.111

यानारुढेन पुरतो रचिताञ्जलिकर्माणा ।
उच्छैर्ध्वजाधिरूढेन तथा तार्क्ष्येण पद्मज

4.11.112

पृष्ठतश्च प्रणमता शिभिकां कलकोज्ज्वलाम् ।
आरूढेन विरिञ्चादीन् समुत्सारयता बहिः

4.11.113

विष्वक्सेनेन देवेन वेद्रहस्तेन सेवितः ।
उपानहौ पादुके च पात्रे कनकनिर्मिते

4.11.114

समारोप्य पुरो विप्रैर्धारयद्भिरलङ्कृतैः ।
राजचिह्नानि चान्यानि यातव्यमविलम्बितम्

4.11.115

विप्रैस्त्रयी मधीयानै र्जवस्तुति परायणैः ।
नृत्यता गायता चापि गाणिक्येनानु सेवितम्

4.11.116

वीणादिवादनपरैर्वन्दिभिश्च तथा परैः ।
षड्जदिगीतनिपुणै र्वाद्यवादनकोनिदैः

4.11.117

गद्यं पद्यं तथा मिश्रं पठद्भिस्तोत्र मुज्ज्वलम् ।
भाषाश्च बहुधा भिन्ना भाषमाणै रित स्ततः

4.11.118

वैतण्डि कै स्तथा जल्पनिपुणैर्वाद शिक्षितैः ।
तथा तत्वकथानिष्ठैः पदार्थज्ञैश्च तार्किकैः

4.11.119

विमांसकैर्याज्ञिकैश्च च्छान्दसैस्साङ्ख्यकोविदैः ।
योगज्ञैश्च पूर्णज्ञै श्शाब्दिकौस्तत्व वेदिभिः

4.11.120

मौहुर्तिकैश्च गणशःपरस्परजिगीषुभिः ।
तत्तच्छास्त्रोक्तमार्गेण प्रमेयं बहुधा स्थितम्

4.11.121

उच्चैर्ब्रुवाणैर्व द्वद्भिः पञ्च रात्र परायणैः ।
पासुदेवस्य महात्म्यं कथयद्भिश्च सात्विकैः

4.11.122

संस्कृतं प्राकृतं मिश्रमीर यद्भिरित स्ततः ।
शास्त्रेषु नैपुणं सर्वं प्रदर्शयितु मुद्यतैः

4.11.123

देवस्य पुरतःपृष्ठे पार्श्वतश्च स्थितैर्जनैः ।
सेनया सर्वतोदिक्षु चतुरङ्ग नलाढ्यया

4.11.124

देवस्य पार्श्वयोःपूर्वे लाक्षा रञ्चितमस्करैः ? ।
यन्त्रेर्दारु मयैश्चित्रैऋः पक्ष्याकारैरिति स्ततः

4.11.125

देवताकृति यन्त्रैश्च तथा यन्त्रैर्गजादिभिः ।
निषादिभिस्समारूढैस्त्रीभिश्च भरतोदितैः

4.11.126

मार्गैर्बहुविधैर्नृत्तं दर्शयन्तीभिरद्भुतम् ।
लेखायन्त्रे स्त्रियारूढै र्यन्त्रे रन्येस्तथाविधैः

4.11.127

गतागतानि कुर्वाणैरनुयातस्समाकुलैः ।
इत्थमावरणं सर्वं परिक्रम्य बहि स्तथा

4.11.128

ग्रामादिवीधि काश्छापि परिक्रम्य प्रदक्षिणम् ।
प्रवेशसमये चापि प्राकारवलयं तथा

4.11.129

प्रादक्षिण्येन गत्वान्तः प्रविशेन्मण्ट पावनिम् ।
तत्रावरोपयेद्देवं बलिबेरं तु मन्दिरे

4.11.130

चक्रं च यागसदने बलिपीठे बहिस्थ्तते ।
अन्नमूर्तिंक्षिपेन्नित्यं समाराधनकल्पितैः

4.11.131

वस्तुभिर्द्वगुणैर्नित्यं द्रुवभेरं समर्चयेत् ।
रात्रिशेषे व्यतिक्रानै मण्टपे सिंहविष्टरे

4.11.132

अवस्थाप्यौत्सवं बिम्बमर्चयेच्छान्त्रवर्त्मना ।
स्नपनं तत्र वा बिम्बे यद्वान्नपरकौतुके

4.11.133

एकभेरविधाने तु मूलबिम्बेऽभिषेचनम् ।
प्रत्यहं स्नपनं कुर्याद्यथाशक्ति यथाविधि

4.11.134

मेहीहविर्नि वेद्याथ बिम्बे कल्याणकल्पिते ।
मण्डनालयमासाद्य शोभयोद्भूषणादिभिः

4.11.135

बिम्बे तत्र स्थिते यागमण्टपं प्राप्य देशिकः ।
कुम्भादिकं समभ्यर्च्य निवेद्य च यथोदितम्

4.11.136

हुत्वा च पूर्ववत्पीठे बलिं दत्वा यथाविधि ।
सर्वमन्यच्च
बल्यर्चां नीत्वा ग्रामादिवीधिकाः

4.11.137

यथानिशं विधायान्वगुत्सवार्चं नयेद्भहिः ।
यथापुरमलङ्कारं कृत्वा परिकरां स्तथा

4.11.138

दिवसानुगुणानन्यान् ध्वजादीन्विष्वगुच्छृतान् ।
ताम्बूलवीटिकां दत्वा स्थाने स्थाने समाहृताम्

4.11.139

पुथु कादीं स्तथा भक्ष्या न्नालिकेरफलानि च ।
पानीयाचमानादीन चोदितानि यथाविधि

4.11.140

दत्वानैवेद्यमखिलमद्भिः प्रोक्ष्यास्त्रविद्यया ।
निवेदयेदपूपादीन् पक्वं तूष्णीं प्रदर्शयेत्

4.11.141

पानीयं च तथा स्वादु पयःप्रभृति चाहृतम् ।
पिष्पमूलादि यच्चास्यच्चन्दनक्षोदभाजनम्

4.11.142

भूषणं चाङ्गुलीयादि भक्त्या यत्प्रतिदीयते ।
प्रोक्ष्य सर्वं तथास्त्रेण देवङ्गे योजयोद्गुरुः

4.11.143

ग्रामं प्रदक्षिणं नीत्वातधैवावरणानि च ।
प्रवेश्य धाम शिभिकामन्यामारोप्य मङ्गलाम्

4.11.144

प्नानमण्टपभूभागे काञ्चने परमानने ।
सुखास्तरण संयुक्ते यूनादेरवरोप्यतम्

4.11.145

निवेश्याभीष्टदिग्भागे सम्मुखं मखकौतुकम् ।
आराधयेद्भागवत स्सर्वालङ्कार संयुतः

4.11.146

अहतेन सुसूक्ष्मेण वासना श्लक्ष्णतस्तुना ।
बद्दोष्णीषोत्तरासङ्गः कर्णकार्दौरलङ्कृतः

4.11.147

सौवर्णवारवाणेन धवलेन विराजितः ।
बद्धस्वदेहसन्नाहः पवित्रतकरश्शुचिः

4.11.148

समाराधनवस्तूनि नयद्भिः परिचारकैः ।
कञ्चुकोष्णीषवासोभिर्भवितव्यं समन्ततः

4.11.149

देवस्य दक्षिणे पार्श्वे पूजरेन्द्रोपवेशनम् ।
आस्थितव्यं भगवतः पार्श्वयोः पृष्ठत स्ततः

4.11.150

एकाग्रेमानसैस्सर्वै रेकान्तिभिरुवासकैः ।
आस्थितव्यं यतिवरैस्त्रिदण्डैरेकदण्डिभिः

4.11.151

ब्रह्मध्यान परैरन्व गाराधन विधिक्रमम् ।
अनुसन्धायि भिश्शश्व दुपवेष्टव्य मन्तिके

4.11.152

बहिस्तेषां च कल्याणै र्वैष्णवै स्संयतेन्द्रियैः ।
आनस्दजाश्रु सलिलै राप्लुताङ्गैर्महीसुरैः

4.11.153

उपासितव्यमन्त्येस्तु सदस्यैर्मण्टपाद्बहिः ।
अधस्तात्सर्वतोदिक्षु प्रपाया मुपवेशनम्

4.11.154

अधस्तादग्रतो नृत्तगीतवाद्यविशारदैः ।
नाट्यं बहुविधं वाद्यं प्रकृष्टं बहुधास्थितम्

4.11.155

गीतं च दिव्यं षड्जद्यैस्स्वरैःकालानुसारिभिः ।
प्रदर्शयद्भिर्लास्यानि बन्धनानीतराणिच

4.11.156

आविष्कुर्वद्भिरान्यांश्च श्रव्यं दृश्यं च तद्द्वयम् ।
दर्शयद्भिरधीयानैस्त्रयूं स्वाध्यायकल्पिताम्

4.11.157

इतिहासपुराणानि कथयद्बिर्यथायथम् ।
सन्निधातव्यमन्याभि र्वाणिनीबिस्समन्ततः

4.11.158

इत्थं संसेविते तत्र मण्डपे मधुविद्विषम् ।
अर्चयित्वा ततस्स्नानपीठे नीत्वा यथापुरम्

4.11.159

सहस्रधारापर्यन्तं स्नापयेत्पुरुषोत्तमम् ।
अलङ्कारासने नीत्वा तत्र कृत्यम शेषतः

4.11.160

कृत्वा यात्रासने देवमारोप्य सपरिच्छदम् ।
प्रवेश्य मण्डपं तत्र न्यसेत्तं भोजवासने

4.11.161

महाहविर्निवेद्याथ पानकान्तं यथोदितम् ।
सुखासने स्थापयित्वा राजवत्सर्वमाचरेत्

4.11.162

अलङ्कारासनं नीत्वा यानमारोप्य मङ्गलम् ।
अवरोप्यासने तत्र मण्डयित्वा यथापुरम्

4.11.163

होमादि बलिदानान्तं कृत्वा सर्वम शेषतः ।
औत्सवं बिम्बमादाय कुर्यादेवं महोत्सवम्

4.11.164

प्रत्यहं महमुक्तेन विधिना विहितं क्रमात् ।
अपूर्वाभरणैर्माल्यैरपूर्वैश्चाम्बरैस्तथा

4.11.165

अपूर्वोद्यानयानाद्यैर्यथा कौतूहलं भवेत् ।
तथा विशिष्य कर्तव्यं यावत्तीर्थदिनावधि

4.11.166

यस्मिन्नास्थानभूभागे ये भोगाः कल्पिताः पुरा ।
तत्रेव ते विधातव्या देवस्य सति सम्भवे

4.11.167

श्रिया वसुधया सार्धं ग्रामादौ नित्यमुत्सवे ।
परिभ्रमणमीशस्य केवलस्यापि वा भवेत्

4.11.168

अहनि प्रथमादौस्या द्बलिदानमनुक्रमात् ।
पललं रजनीचूर्णं करम्भान् लाजसंयुतान्

4.11.169

चरुणा सह संयोज्य बलिं तद्याद्यथाविधि ।
द्वितीयेऽहनि संयोज्य चरुणा तिलतण्डुलम्

4.11.170

मिश्रितांश्चरुणा लाजा धानान्यापूपकां स्तथा ।
तृतीये च चतुर्थे च नालिकेरजलैस्सह

4.11.171

सक्तूंश्च शालिपिष्टं च संयोज्य चरुणा सह ।
पंचमे पद्मभीजानि पायसं शालितण्डुलम्

4.11.172

षष्ठे त्वपूपान् संयोज्य चरुणा निक्षिपेद्बलिम् ।
सप्तमादिषु सर्वत्र सार्धमन्नैश्चतुर्विधैः

4.11.173

अपूपांश्च तथा सक्तून् प्रत्यहं निक्षिपेद्बलिम् ।
ब्रह्मादीशानपर्यन्तं स्थानेष्वष्टसु पूर्ववत्

4.11.174

विधाय बलिपीठानि गोमयालिप्तभूमिषु ।
तेषु वाद्यं तथा नृत्तं गेयं नित्येत्सवे यथा

4.11.175

कृत्वा दद्यात्तोयपूर्वं बलिं तेयोत्तरं तथा ।
बलिमुद्रां दर्शयित्वा दर्शयेन्मङ्गलाष्टकम्

4.11.176

बलिं प्रदक्षिणीकृत्य गच्छेयुर्बलिदायिनः ।
आरम्भदिवसे रात्रौ समाप्तिदिवसेऽहनि

4.11.177

बलिमेकां क्षिपेन्मध्यदिवसेषु बलिद्वयम् ।
अह्नि रात्रौ च सर्वत्र बलिदानं यथाविधि

4.11.178

अवसानदिने रात्रौ ग्रहणे विषुवेऽयने ।
प्राप्ते कुर्यादवभृथं यदि तस्मिन् बलिद्वयम्

4.11.179

ग्रामादिरहिते स्थाने मध्ये तु पुरतो बलिम् ।
महापीठस्य वितरेद्ब्रह्मणे देशिकोत्तमः

4.11.180

पुर्वेद्युस्तीर्थदिवसाद्देवस्य मृगया भवेत् ।
मृगयादिवसात्पूर्वं जलद्रोण्यवगाहनम्

4.11.181

अवगाहदिनात्पूर्वदिवसे देवमर्चयेत् ।
श्रीभूमिभ्यां सहैकस्मिन् विष्टरे विपुले स्थितम्

4.11.182

उद्यानादौ च देवीभ्यां सार्धं देवस्य निर्गमः ।
कीड्राश्च तत्र बहुधा दर्शये च्चोपदाः पुनः

4.11.183

देशाद्देशादाहृतानि प्राभृतानि गुरुस्स्वयम् ।
प्रदर्श्य देवदेवाय जनसंसदि मण्डपे

4.11.184

इतो यातमिदं सर्व मितो यातमितीर्यच ।
देवादीनपि चाहर्तॄन्काले विज्ञापये त्ततः

4.11.185

तन्मयत्वाद्देशिकेन्द्रो देवोऽहमिति भावयन् ।
कुर्यादनुग्रहं सर्वं देवस्यालोक्य चाननम्

4.11.186

अभिप्रायं यथा राज्ञो ज्ञात्वा तेन प्रदर्शितम् ।
ब्रुवन्ति तत्समीपस्था राज्ञां तत्तदनुग्रहम्

4.11.187

सुदर्शनान्नमूर्तिभ्यां सह ताभ्यां विनापि वा ।
सह बल्यर्चया कुर्याद्विना वा तं महोत्सवम्

4.11.188

केवलोत्सवबिम्बेन दिनेष्ववभृथावधि ।
जलद्रोणीं जलस्नानदिने कृत्वा यथापुरम्

4.11.189

उत्सवं देवदेवस्य प्रातरारभ्य मङ्गळम् ।
अपराह्णे जलद्रोण्यामवगाहनमिष्यते

4.11.190

सोपानदेशे सरसि जलद्रोणीं निवेशयेत् ।
कटाहं वापि सौवर्णं पूरयेद्गन्धवारिभिः

4.11.191

मुक्ता भान्यक्षतान्यत्र परितो विकिरेत् स्थले ।
जलेष्वावाह्य गङ्गाद्यास्सरितस्तास्सभाजयेत्

4.11.192

जलेऽभिमन्त्रिते मन्त्रैरब्लिङ्गैर्देवमर्चितम् ।
उपचारैर्यथापूर्वं स्नानान्त्रैरवगाहयेत्

4.11.193

काले तस्मिन्नधीयूरन् सूक्तं वारुणमुच्चकैः ।
तन्मया दिक्षु सर्वासु घोषयेत्तूर्यमुच्चकैः

4.11.194

अवगाढं ततो देवं यानमारोप्य मण्डपम् ।
अन्यमानीय तत्रापि यथापूर्वं सभाजयेत्

4.11.195

अनुष्ठितमिदं तीर्थं ब्रह्मद्यैरपि दैवतैः ।
एतैश्च तीर्थसलिलैःपीतैश्शिरपि धारितैः

4.11.196

स्नानैर्निर्धूतपाप्मानो यान्ति ब्रह्म सनातनम् ।
मृगयादिवसे वापि प्रातरारभ्य पूर्ववत्

4.11.197

कृत्वोत्सवमशेषेण तस्यान्ते मृगया भवेत् ।
मृगयानुगुणैस्सर्वैर्भूषणैर्भूषितं ततः

4.11.198

तद्योग्यायुधसन्नाहं हस्त्यादौ परिकल्पिते ।
आरोप्य कृत्रिमे चाश्वे नयेद्ग्रामादि पूर्ववत्

4.11.199

देवीभ्यां सह सीमादौ सैन्यैर्हस्त्यादिभिर्युतम् ।
उद्यनमण्टपे चापि मध्ये सौवर्णविष्टरे

4.11.200

आसने तत्र चासीनं स्नानपूर्वं समर्चयेत् ।
मण्टपेऽन्यत्र विधिना निवेद्य च महाहविः

4.11.201

यानमारोप्य तद्रात्रौ मन्द्रिरान्तर्भुवं नयेत् ।
नित्योत्सवं यथापूर्वं कुर्यात्तदनु मङ्गलम्

4.11.202

पश्चिमे रात्रिभागे तु तीर्थभिमाबाधिवासनम् ।
बद्वा प्रतिसरं तीर्थबिम्बाभावे चतुर्मुख

4.11.203

नित्योत्सवप्रतिकृतेरभावे त्वधिवासनम् ।
स्नानर्चायां भवेद्यद्वा बिम्बस्योत्सवकारिणः

4.11.204

उत्सवं प्रातरारभ्य कुर्यात्पूर्वोदितक्रमात् ।
उत्थाप्य शायितं बिम्बं निवेश्य मुखमण्टपे

4.11.205

आदाय स्थापितान् कुम्भान् यागमण्डपभूमिषु ।
नीत्वा प्रदक्षिणं धाम तीर्थभिम्बस्य सन्निदौ

4.11.206

स्थापयित्वा धान्यराशौ तीर्थबिम्बं यथाविधि ।
वस्त्रान्तमर्चयित्वान्ते मुहूर्ते शोभने गुरुः

4.11.207

एकभेरे मूलभेरमन्यथा तीर्थकौतुकम् ।
कुम्बौरभ्युद्धृतैर्देवं मूलमन्त्रेण मन्त्रवित्

4.11.208

वूर्वादिमध्यकुम्भान्तमभिषिञ्चेद्यथाविधि ।
स्नानादिदीपपर्युन्तं प्रतिकुम्भं समर्चयेत्

4.11.209

पठत्सु विप्रवर्येषु दिक्षु स्वाध्यायमुच्चकैः ।
घोषयत्सु च वाद्येषु मन्त्रैरब्दैवदैर्गुरुः

4.11.210

नववस्त्रोत्तरीयाद्यैर्दीपान्तैरर्चिते हरौ ।
ध्वजपीठस्य पुरतः क्षितौ गोमयपारिणा

4.11.211

आलिप्ते चतुरश्रे च शालिभारैर्विकीर्यच ।
वस्त्रपूर्वाद्यलङ्कारैरुलूखलमङ्कृतम्

4.11.212

क्षालितं स्थण्डिले पीठे स्थापयित्वा चतुर्मुख ।
श्रीनूक्तविद्यया लक्ष्मीं ध्यात्वा मन्त्रितमर्चितम्

4.11.213

मुसलं क्षालितं चापि मन्त्रितं मूलविद्यया ।
आदाय मार्तिपैस्सार्धं देशिकेन्द्रस्समाहितः

4.11.214

अवहन्यान्नि शाचूर्णं निक्षिप्तं तदुलूखले ।
गायन्त्यो गणिका गीतं मन्दिरे देवदासिकाः

4.11.215

अवहन्युर्निशाचूर्णं यथासूक्ष्मतरं भवेत् ।
निक्षिप्तचूर्णं तदनु कुम्भं वेष्टितवासनम्

4.11.216

सकूर्चमल्लकं पीठे तण्डुलैः परिकल्पिते ।
स्थापितं मूलमन्त्रेण गन्धादिभिरथार्चितम्

4.11.217

आदायकुम्भचूर्णैस्तैश्श्रीसूक्तेनाभिषेचयेत् ।
ऋत्विजो देशिकेन्द्रश्च देवं गत्वा प्रदक्षिणम्

4.11.218

अष्टाङ्गप्रणिपातेन प्रणिपत्य विकीर्य च ।
पुष्पाण्यञ्जलिभिर्देवं स्तुत्वा स्तोत्रे रनेकशः

4.11.219

अलङ्कृतैर्भागवतैश्छत्रचामरधारिभिः ।
तैरेव सर्वैर्बहुभिर्भाव्यं देवसमीपगैः

4.11.220

अरोप्य देवं हास्त्यादौ तीर्थभिम्बमलङ्कृतम् ।
पश्चादुत्सवबिम्बेन नीयमानेन पूर्ववत्

4.11.221

सहितं सरित स्तीर्थं नीत्वा यद्वा सरित्तटम् ।
दर्शे च पौर्णमास्यां च अर्वाक्चेद्योजनावदौ

4.11.222

समुद्रतीरमथवा मण्डपे तत्र कल्पिते ।
अवरोप्यासने याना न्निविष्टे तीर्थकौतुके

4.11.223

कलशानग्रतःपञ्च विंशतिं दश सप्त च ।
यद्वा यद्वा नव न्यस्य यथाविधि यथाक्रमम्

4.11.224

कलशैरभिञ्चेत चक्रं शिष्टैश्च वारिभिः ।
सरितादौ च तीर्थेषु तीर्थान्यावाह्य नामभिः

4.11.225

निमज्जयेत्तत्र बिम्बं चक्रं च त्रिर्यथाविधि ।
तीर्थार्थमौत्सवे बिम्बे समानीते तु वारिभिः

4.11.226

प्रोक्ष्य कूर्चाग्रपतितैर्भिम्बं चक्रं निमज्जयेत् ।
चक्राभावे तु तत्कूर्चं केवलं देवसन्निदौ

4.11.227

देवेन सह तत्काले निमज्जन्ति च ये नराः ।
ते निर्धूयाखुभं सर्वं महापातकमप्यथ

4.11.228

यान्ति द्रुवं सुदुष्प्रापं स्थानमाचन्द्रतारकम् ।
मण्डपे देवमानीय पूजयित्वा यथापुरम्

4.11.229

महाहविर्निवेद्याथ ब्राह्मणान् भोजयेत्ततः ।
प्रत्यहं भोजयेद्विप्रान् सहस्रं शतमेव वा

4.11.230

आलयाभ्यन्तरं यानमारोप्य प्रापयेत्ततः ।
तद्रात्रौ मण्डपे देवं नीत्वाभ्यर्च यथाविधि

4.11.231

निवेद्य च यथान्यायं प्रभाते मण्डपान्तरे ।
भक्तैर्भागवतैश्चैव सेविते भूतेल क्वचित्

4.11.232

चक्राब्जं वर्तयित्वोक्तवर्तना वरणान्वितम् ।
प्रसवैः कालजैश्श्यामैः कृष्णैश्च तुलसीदलैः

4.11.233

न्यूवातिरेकरहितैर्वर्णैरेव सितादिभिः ।
विचित्रयेत्पञ्चवर्णैश्चित्रिते तस्य मध्यतः

4.11.234

भद्रपीठे प्रभायुक्तेन्यस्ते कल्याणकौतुकम् ।
निवेश्याराधयेदर्घ्यपाद्यादिभिरनुक्रमात्

4.11.235

द्वादशाक्षरमन्त्रस्थान्यक्षराणि यथायथम् ।
उद्दिश्य भूषापर्यन्तैरर्घ्यार्द्यैर्नवभिःक्रमात्

4.11.236

प्रत्यक्षरं समस्तानि पुष्पौ रभ्यर्चयेद्धरिम् ।
हृदयादीनि चाङ्गानि समुद्दिश्याञ्जलिस्थितैः

4.11.237

फलं भवतु मे पुष्पैर्नम इत्यवसानकम् ।
तन्त्र मन्त्रं समुच्चार्य मन्त्रविद्देशिकोत्तमः

4.11.238

भूषणानि तथोद्दिश्य श्रीवत्पादीन्यनुक्रमात् ।
आयुधानि च दिव्यानि चक्रादीनि यथाक्रमम्

4.11.239

तथैवावरणस्थानां देवतानां समर्चनम् ।
मत्स्यादिमूर्तिदशकं केशवादीं स्तथा परान्

4.11.240

चतुर्विंशतिसङ्ख्याता नुद्दिश्य कुसुमार्चनम् ।
पौरुषेण तु सूक्तेन प्रत्यृचं कमलासन

4.11.241

नारायणानुवाकेन विष्णुसूक्तेन देशिकः ।
पुष्पाणि तद्याद्देवस्य चरणाम्बोजयोर्द्वयोः

4.11.242

तथौपनिषदैर्मन्त्रेः ञ्चभिस्सर्वपापनैः ।
दिक्षु वेदांश्च चतुरः पठेयुर्मन्त्रवित्तमाः

4.11.243

विदिक्ष्वेकायनां शाखां तन्मयूस्सुमुखा स्तथा ।
अधीयीरन् तथा स्तोत्रेनृत्तैश्च सततोद्यतैः

4.11.244

तोषयेद्देवदेवेशं गेयैश्च बहुधा स्थितैः ।
पुष्पाभिषेकं प्रहितैः पुष्पैरेव सितादिभिः

4.11.245

देवस्य कृत्वा देवाय पायसादि चतुर्विधम् ।
अन्नं निवेद्य जुहुयाद्दिश्यग्नेर्मण्डपस्च च

4.11.246

समिद्भिराज्यैश्चरु भिश्चतुभिर्नश्च पृथक्पृथक् ।
अष्टोत्तरशतं वारान् मूलमन्त्रेण मन्त्रवित्

4.11.247

ततःप्रदक्षिणं कृत्वा देवं स्तुत्वा च भूतले ।
प्रणयेद्दण्डद्यानमारोप्य शिभिकादिकम्

4.11.248

प्रविशयेदावरणं प्रथमं तत्र च स्थितः ।
सेवानुभूतिविवशार्न भक्तान् भागवतांश्च सः

4.11.249

ब्रह्मादीनपि कल्याणमनुसन्धातुमागतान् ।
प्रणतानालयं स्वं स्वं गन्तुं सर्वेश्वरो हरिः

4.11.250

नियुज्यावरणं तच्च परिक्रम्य प्रदक्षिणम् ।
सार्धमभ्यन्तरै र्निर्तैस्सेवकै रनुयायिभि

4.11.251

अभ्यन्तरं मन्दिरस्य प्रविशेन्जङ्गलान्वितम् ।
तदहर्निशि पूर्वस्मिन् न्यस्येत्स्नसपनमण्डपे

4.11.252

उत्सवान्तोचितं स्नानं कलशैरा चरेत्क्रमात् ।
महाहविर्निवेद्यथ नीत्वातन्मण्डपान्तरे

4.11.253

यागमण्डपमासाद्य होमं कुर्याद्यथाविधि ।
शान्तिहोमं ततःकुर्याद्यथा पूर्वोदितत्रमात्

4.11.254

प्रायश्चित्तं तु जुहुयात्पञ्सोपनिषदा घृतम् ।
सहस्रं वाशतं वापि हुत्वा पूर्णाहुतिं चरेत्

4.11.255

अग्नीन् विसर्जयेद्देवान् तत्रस्थां स्तोरणादिषु ।
ध्वज स्तम्भं समासाद्य पूजयित्वा खगाधिपम्

4.11.256

हविर्नि वेद्य गरुडं परिक्रम्य प्रदक्षिणम् ।
तमुद्वसेत्पटात्तार्क्ष्यं संहारक्रममाश्रितः

4.11.257

अवरोप्य ध्वजस्तम्भ मुत्पाट्य च महानिशि ।
स्तम्भं ध्वजं चगृह्णीयाद्देशिकेन्द्रस्स्वयं ततः

4.11.258

ग्रहणं देशिकेन्द्रेण तार्क्ष्यतृप्तिकरं भवेत् ।
स्थाने चावाहितान् देवान् तत्र तत्र स्थितानपि

4.11.259

बलिं दत्वा तूर्यघोषैः स्थाने स्थाने सकृत्सकृत् ।
घोषयित्वा चतुर्वक्त्र समुद्वास्य स्वनामभिः

4.11.260

मूकैः परिकरैस्सार्धं गुरुरष्टाक्षरं जपेत् ।
प्रविश्य धाम देवस्य विज्ञाप्य शकटादिकम्

4.11.261

यानमारोप्य धामान्तः प्रापयेन्मखकौतुकम् ।
प्रभातायां निशायां वाऽनुष्ठिते यागकर्मणि

4.11.262

यजमानो गुरुं वस्त्रे र्भूषमैःकटकादिभिः ।
सौवर्णैर्गन्धपुष्पाद्पैद्यैरलङ्कृत्याभिपूज्य च

4.11.263

दक्षितामुत्तमां स्वर्णशतनिष्कां ततोऽधिकाम् ।
यथाविभूति दत्वान्या दक्षिणाः प्रतिपासरम्

4.11.264

दशनिष्कं तदर्धं वा तदर्धं वा यथावसु ।
निष्करूपां यथाश्रद्धमाचार्यय तदर्धकाम्

4.11.265

तदर्धमृत्विजां दद्यात्तदर्धं परिचारिणाम् ।
हेमवस्त्रान्नयानाद्येस्तोषये दुपचर्यया

4.11.266

गायकाद्यान् जनान् सर्वानधिकारानुसारतः ।
कर्माङ्गभूतानन्यांश्च कल्याणं द्रष्टुमागतान्

4.11.267

भर्क्ता भागवतांशैव सामान्यांश्चेप्सितैर्धनैः ।
अप्यल्पिकापि दातव्या दक्षिणा यागकर्मणि

4.11.268

कर्मिर्भ्यो दक्षिणाहीनो निष्फलःकर्तुरब्जज ।
यज्ञःप्रत्युत कर्तॄणां प्रत्यवायाम कल्पते

4.11.269

तस्मादर्थानुगुण्येन दातव्या दक्षिणा भवेत् ।
श्रद्धया वासुदेवस्य साङ्गो पाङ्गं सदक्षिणम्

4.11.270

उत्सवं देवदेवस्य यःकुर्यात्सकुलं स्वकम् ।
उत्तरयर्न स्वयं विष्णोस्सायुज्यं गच्छति द्रुवम्

4.11.271

हयमेधसहस्रेण यजते यस्समाहितः ।
यश्चोत्सवेन यजते तयोस्तुल्यफलान्वयः

4.11.272

यागानामपि सर्वेषां फलमुत्सव कर्मणा ।
देवस्याश्नुवते सर्वं यष्टारो नास्तिसंशयः

4.11.273

उपकुर्वन्ति ये मर्त्यादेवस्योत्सव कर्मणि ।
कर्मणा मनसा वाचा तेऽपि यान्ति यथेप्सितम्

4.11.274

ग्रामे वा नगरे वापि पत्तेने वा महोत्सवः ।
विष्णोः प्रवर्तते यत्र देशे राष्ट्रेऽपि वा भवेत्

4.11.275

भयं न मृत्योर्सव्याधेर्न दुर्भिक्षादिसम्भवः ।
नस्यन्ति तस्करास्तत्र नाधर्मस्संप्रवर्तते

4.11.276

धर्मयुक्तो भवेद्राजा जना धर्मपरायणाः ।
भवन्ति सुखिनस्सर्वे सर्वदुःखविवर्जिताः

4.11.277

महोत्सवे वर्तमाने यतर्थिभ्यःप्रदीयते ।
पानीयमन्नं वस्त्रं वा तत्सवास्रगुणं भवेत्

4.11.278

पुष्पमूलफलै रिज्या देवस्याभरणादिकैः ।
क्रियमाणा यथाशक्ति फलानन्त्याय कल्पते

4.11.279

सेवस्ते तत्र ये देवमहर्निशमतन्त्रिताः ।
तेषामिदमियच्चेति फलं वक्तुं न शक्तते

4.11.280

अलेपनं मार्जनं च रजःप्रशमनं तथा ।
वारिभिर्दीपिकारोपं क्ष्वेलनास्फोटनादिकम्

4.11.281

कुर्वन्तिये ब्रह्मलोकं ते यान्त्यमरदुर्लभम् ।
यानं वहन्तिये विप्रास्ते यान्ति ब्रह्मणःपदम्

4.11.282

रथं वहन्तिये चाश्वास्तेऽपि यान्ति सुरालयम् ।
छत्रादिधारिणश्चापि मोदन्तेदिवि मानवाः

4.11.283

देशिको मूर्तिपाश्चैत तथैव परिचारकाः ।
उत्सवेऽधिकृता विष्णोःप्राप्नुवन्ति यथेप्सितम्

4.11.284

ऋचो यजूंषि सामानि ये तत्राधीयते जनाः ।
ते परे प्योम्नि देवस्य पार्श्वे वर्तन्तिनिस्पृहाः

4.11.285

सर्वशान्तिकरं सर्वदुःखोत्सादनमुत्तमम् ।
राज्ञो राष्ट्रस्य सुखदयायुरारोग्यवर्धनम्

4.11.286

प्रजानां वासुदेवस्य कल्याणा राधनं महत् ।
इमं देवदयस्सर्वे विष्णोरुत्सवमुत्तमम्

4.11.287

कृत्वा शाश्वतिकं स्थानं प्रापुरत्यन्तदुर्लभम् ।
उत्सवे त्रिदिनै काहसाध्ये श्रद्धा प्रवर्तिते

4.11.288

बलिप्रदानं समनोयजनं चाधिपासनम् ।
नवावामपि कुम्भानां तथा तीर्धावगाहनम्

4.11.289

मृगया च जलद्रोणी वर्जनीयानि पद्मज ।
तावत्येवोत्सवदिने तीर्थान्ते ग्रामवीधिषु

4.11.290

ब्रह्मादिदेवतास्सद्यस्समावाह्य बलिः क्षिपेत् ।
केनलोदनमग्नौ च होमो निश्यधिवासनम्

4.11.291

स्नपनं विषुवाद्येषु नद्यादाववगाहनम् ।
पुष्पयागो जलद्रेणी मृगया च न युज्यते

4.11.292

अन्यत्सर्वं यथापूर्वं कर्तव्यं फलकाज्ञ्क्षिभिः ।
इति गुह्यतमं ब्र्हमन्नुत्तमाराधनं परम्

मूल पाठ: padmasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc