भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.190

6.190.1

ईश्वर उवाच-
अतः परं प्रवक्ष्यामि षोडशाध्यायगौरवम् ।
आकर्णय कुरंगाक्षि हर्षोत्कंठप्रवर्षिणि

6.190.2

अस्ति सौराष्ट्रिकं नाम्ना पुरं गुर्जरमंडले ।
तत्रासीत्खङ्गबाहुश्च राजा चंद्र इवापरः

6.190.3

यदीय कुसुमामोदमालासुरभितोदरे ।
वारांनिधौ हरिः स्वास्थ्यादशेत सह पद्मया

6.190.4

यदीय कीर्तिकर्पूरकणाभांतिनभोंगणे ।
कीर्णा वैरिकृतश्वास मारुतैस्तारकाछलात्

6.190.5

यस्यासिधारा तीर्थेषु स्नाता वै रिपुभूभुजः ।
व्यावर्त्तं ते दिवोऽद्यापि स्वर्गस्त्रीवाग्विमोहिताः

6.190.6

तस्यारिमर्दनोनाम मदहस्ती मदोद्धुरः ।
मदांबुधारा सलिले गुंजद्भ्रमरमंडलः

6.190.7

कपोलफलकोत्तीर्ण मदधाराजलाविलः ।
बभौ यो निर्झरोद्गोरैरंजनाद्रिरिवाच्चकैः

6.190.8

यस्यांगेषु व्यराजंत चामराश्चंद्रिकोज्ज्वलाः ।
किरणाइव शीतांशोः पतिताः काननोदरे

6.190.9

सिंदूरपांसुपटली राजत्कुंभस्थलो बभौ ।
यः संध्यावारिदव्याप्तं वियत्खंडमिव स्थितम्

6.190.10

स कदाचिन्मोचयित्वा शृंखलान्निगडानपि ।
भंक्त्वा लौहदृढस्तंभं प्रसह्य निशि निर्गतः

6.190.11

आधोरणगणान्सर्वान्पार्ष्णिविस्फूर्जदंकुशान् ।
क्रोधादवगणय्यैव निजशालां बभंज सः

6.190.12

तीक्ष्णांकुशमुखैर्विष्वखन्यमानोऽपि वैणवैः ।
दंडैस्तु त्रासयामासुः सादिनो न मनागपि

6.190.13

ततो राजा समागत्य निशम्येदं कुतूहलम् ।
तत्र हस्तिकलाभिज्ञैः समं राजकुमारकैः

6.190.14

अदृश्यत समागत्य राज्ञा दंतावलो बली ।
मोहयन्नुद्भटाटोपो हृताट्टालिकमालिकः

6.190.15

ददृशुस्तं महाभीमं पौरा दूरतरं स्थिताः ।
गोपायंतः शिशून्भीत्या निवृत्तान्यकुतूहलाः

6.190.16

रुद्धेषु तत्र मार्गेषु पलायनपरैर्जनैः ।
वासितेषु तदीयोग्रदानधारांबुसीकरैः

6.190.18

स्नात्वा तेनाध्वना यातः सरसः कश्चन द्विजः ।
गीतानां षोडशाध्यायश्लोकान्कतिपयाञ्जपन् १७ भगवद्गीता।दैवासुरसम्पद्विभागयोगः।
निषिद्ध्यमानो बहुधा पौरैराधोरणैरपि

6.190.19

अमन्यमानः करिणो भीतान्चलितवांस्ततः ।
फूत्कारेण स आवृण्वञ्जनान्विपरिमर्दयन्

6.190.20

स्पृशन्दानांबुजं तस्य स्वस्तिमान्निर्गतो द्विजः ।
ततो महानभूत्तत्र विस्मयो वागगोचरः

6.190.21

मानसे भूमिपालस्य पौराणामपि पश्यताम् ।
समाहूय ततो राजा फुल्लराजीवलोचनः

6.190.22

तमापृच्छद्द्विजं वाहादवतीर्य प्रणम्य च

6.190.23

राजोवाच-
अलौकिकमिदं विप्र त्वयाद्याचरितं महत् ।
कृतांतकल्पादेतस्मात्कथं निर्यातवान्गजात्

6.190.24

कमर्चयसि गीर्वाणं कं मंत्रं जपसि प्रभो ।
का च सिद्धिस्तवास्तीति द्विजन्मन्समुदीरय

6.190.25

द्विज उवाच ।
गीतायाः षोडशोध्यायः श्लोकान्कतिपयानहम् ।
जपामि प्रत्यहं भूप तेनैताः सर्वसिद्धयः

6.190.26

ततो विहाय द्विरदं कौतूहलरसं नृपः ।
आजगाम द्विजन्मानमादाय निजमंदिरम्

6.190.27

शुभं मुहूर्तमन्वीक्ष्य तोषयित्वा द्विजोत्तमम्

6.190.28

सुवर्णैर्लक्ष्यसंख्याकैर्गीतामंत्रमुपाददे ।
गीतायाः षोडशाध्यायश्लोकान्कतिपयानपि

6.190.29

समभ्यस्य ततो राजा सत्कारेण सकौतुकः ।
अथैकदा विनिर्गत्य बाह्यालीं सह सैनिकैः

6.190.30

तमेवामोचयद्राजा मत्तमाधोरणाद्गजम् ।
विस्पष्टमिति वाक्यानि राज्यसौख्यममानयन्

6.190.31

तृणवज्जीवितं राजा गजस्याग्रेविशत्ततः ।
आदाय गंडफलकं मदपंक्तिनिरंकुशम्

6.190.32

आययौ मंत्रिविश्वासान्नृपः साहसिकाग्रणीः ।
राहोरिव मुखादिंदुः कालास्यादिव धार्मिकः

6.190.33

साधुः खलस्य वदनान्नृयोनिरगमद्गजात् ।
आगत्य नगरं राजा त्वभिषिच्य कुमारकम्

6.190.34

गीतायाः षोडशाध्यायादवाप परमां गतिम्

6.190.190

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरंखडे गीतामाहात्म्ये नवत्यधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc