भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.189

6.189.1

ईश्वर उवाच।
प्रवक्ष्यामि विशालाक्षि तुहिनाचलकन्यके ।
गीता पंचदशाध्यायमाहात्म्यमवधारय

6.189.2

कृपालुर्नरसिंहोऽभून्नाम्ना गौडेषु भूपतिः ।
यस्यासिधारया संख्ये देवासंघा वधीकृताः

6.189.3

यदीय मत्तमातंग दानधाराजलैरिला ।
निदाघेपि च सेहेतां रविसंतापवेदनाम्

6.189.4

संक्रंदनपरित्रस्ता यदीय शरणं गताः ।
रेजिरे करिणो मत्ताश्चलंतः पर्वता इव

6.189.5

मत्तमातंगचीत्कारप्रतिस्वनमिवादरात् ।
यस्य गोपायतः शैला व्याहरंति कृपावतः

6.189.6

यदीय धावत्तुरगक्षुरसंघातजर्जरम् ।
नाभूच्चित्रं कथंकारं गतखंडं धरातलम्

6.189.3

यस्मिन्वृत्रहणो मित्रे समुद्धरति मेदिनीम्

6.189.7

पुनरुज्वलयांचक्रे महाभाष्यं फणीश्वरः

6.189.8

तस्यासीत्सैनिको धीमाञ्छस्त्रशास्त्रकलानिधिः ।
नाम्ना सरभभेरुंडः प्रचंडभुजमंडलः

6.189.9

भांडारेण तुरंगैश्च भटैर्वीररसोद्भवैः ।
समान एव भूपालदुर्गैरत्यंतदुर्गमैः

6.189.10

स कदाचित्स्वयं राज्यं कर्तुं पापो दधे मनः ।
निहत्य वसुधापालं बलात्साकं कुमारकैः

6.189.11

कर्तुं व्यवस्य दिवसैः स्वल्पैरित्थं चिकीर्षया ।
विषूचिकामयादाशु परासुः समजायत

6.189.12

कालेनाल्पीयसा प्रेत्य पापात्मा तेन कर्मणा ।
तेजस्वी तुरगो जातः सिंधुदेशे कृशोदरिः

6.189.13

मूलेन बहुना क्रीत्वा हयतत्वविदा ततः ।
बहुयत्नवता नीतः केनचिद्वैश्यसूनुना

6.189.14

राजापि पौत्रनप्त्त्राद्यैस्तस्यैव मरणात्परम् ।
कालेन वृद्धतां प्राप्तः स्वराज्यं चापि पालयन्

6.189.15

स वैश्यसूनुस्तं चाश्वं राज्ञे दातुं समागतः ।
राज्ञोद्वारिस्थितस्तत्र प्रतीक्षंस्तत्समागमम्

6.189.16

ज्ञातपूर्वोऽपि वैश्योऽसौ प्रतीहारेण दर्शितः ।
किमर्थं ब्रूहि राज्ञेति पृष्टः स्पष्टमभाषत

6.189.17

देव त्रिजगतीरत्नमिति मत्वा तुरंगमः ।
मया नियुतमूल्येन बहुना साधुलक्षणः

6.189.18

ततोऽवलोक्य वक्त्राणि भूपालः पार्श्ववर्तिनाम् ।
समादिदेश वणिजमश्वोऽत्र नीयतामिति

6.189.19

शिरांसि धूनयन्नृणामश्वलक्षणवेदिनाम् ।
शूराणामपि चेतांसि मुहुरुत्साहयन्महान्

6.189.20

अखंडमेदिनीवेगबहुसंक्रमणार्जितम् ।
लालाफेनछलेनासौ वमन्शुभ्रतरं यशः

6.189.21

उच्चैःश्रवस्तुलां भेजे गुणसाम्येन तत्त्वतः ।
विवृण्वन्नति तेजस्वी ह्रियेव नतकंधरः

6.189.22

चामरैरिंदुधवलैर्वीज्यमानो निरंतरम् ।
दुग्धांभोनिधिलोलैस्तैः श्वासैरुच्चैःश्रवा इव

6.189.23

नीलातपत्रयुगलं घनच्छायतुलश्रिया ।
बिभ्राणो वारिदालीढ हिमाद्रि शिखरश्रियम्

6.189.24

मेदिनीमंडलस्पर्श संक्रांतमिव पावकम् ।
मुहुरुद्धरयन्धुन्वन्बंधुरं कंधरातटम्

6.189.25

दारयन्वैरिणः सर्वान्व्याहरंश्च जयश्रियम् ।
हेषारवेण गुरुणा दिक्षुप्रख्यापयन्यशः

6.189.26

सत्त्वस्य राशिरत्युच्चैर्गतीनामिव शेवधिः ।
रूपस्य निलयं साक्षाल्लक्षणानां पयोनिधिः

6.189.27

आनीतो वणिजा वाजी राज्ञा च समदृश्यत ।
बहुधा वर्णितोऽमात्यैरश्वलक्षणवेदिभिः

6.189.28

यथेच्छं वणिजोदीर्णं स्वर्णं दत्त्वा महीपतिः ।
जग्राह तुरगं वेगादसीमानंदनिर्भरः

6.189.29

ततोऽश्वपालमाहूय यत्नतस्तं निरूप्य च ।
विसर्जितसभालोको गृहांतरमगान्नृपः

6.189.30

अनेकधा समापृष्टो महीपालं रंणांगणे ।
शस्त्रव्रणकिणश्रेणीभूषणं सत्वसन्निभम्

6.189.31

एकदा मृगयां खेलन्कुतूहलरसात्मना ।
तमारुह्य महीपालो वनं प्रति विवेश ह

6.189.32

विसृज्य सैनिकान्पृष्टे धावतः परितोऽखिलान् ।
आकृष्यमाणो हरिणैः पिपासाकुलितोऽभवत्

6.189.33

तत उत्तीर्य तुरगाज्जलमन्वेषयन् नृपः ।
बध्वाश्वं तरुशाखायामारुरोह शिलां नृपः

6.189.34

गीतापंचदशाध्यायश्लोकार्द्धलिखितं ततः ।
पातितं मरुता तत्र यत्र खंडे विलोकयत्

6.189.35

पत्रं वाचयतो राज्ञः श्रुत्वा गीताक्षरावलीम् ।
ततो मुक्तिपदं लेभे तुरगस्त्वरयाऽपतत्

6.189.36

ततो ग्रंथिं समाच्छिद्य पल्याणवतार्य च ।
उत्थापमानस्तुरगो राज्ञा नोत्थितवान्मृतः

6.189.37

ततः सरभभेरुंडो नृपमाभाष्य सुस्वरम् ।
दिव्यं विमानमारुह्य जगाम त्रिदशालयम्

6.189.38

ततो गिरिं समारुह्य ददर्शाश्रममुत्तमम् ।
पुन्नागकदलीचूतनारिकेलसमन्वितम्

6.189.39

द्राक्षेक्षुवाटिकापूगनागकेसरचंपकम् ।
खेलत्करभसारंगं नृत्यत्केकिकुलं नृपः

6.189.40

प्रणिपत्य द्विजन्मानमुटजाभ्यंतरस्थितम् ।
पप्रच्छ परया भक्त्या मुक्तसंसारवासनात्

6.189.41

तुरगो निरगात्स्वर्गं हेतुना केन मे वद ।
इत्याकर्ण्य वचो राज्ञो द्विजन्मा वाचमूचिवान्

6.189.42

कालेन बहुना प्रेत्य तत्पापात्तुरगोऽभवत् ।
अथ पंचदशाध्यायश्लोकार्द्धं लिखितं क्वचित्

6.189.43

ततो वाचयतः श्रुत्वा निरगात्तुरगो दिवम् ।
ततः समागतैस्तत्र परिवारजनैर्वृतः

6.189.44

प्रणिपत्य द्विजन्मानं हृष्टरोमा विनिर्गतः ।
पत्रं तदेव लिखितं गीतापंचदशाक्षरम्

6.189.45

वाचयन्स महीपालो हर्षसंफुल्ललोचनः ।
अभिषिच्य निजं पुत्रं मंत्रविन्मंत्रिभिः समम्

6.189.46

सिंहासने सिंहबलं मुक्तिमाप विशुद्धधीः

6.189.189

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीतामाहात्म्ये एकोननवत्यधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc