भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.191

6.191.1

ईश्वर उवाच-
षोडशाध्यायसामर्थ्यं कथितं शृणु सांप्रतम् ।
स्पष्टं सप्तदशाध्यायमहिमांभोनिधिं शिवे

6.191.2

खड्गबाहोः सुतस्यैव भृत्यो दुःशासनोऽभवत् ।
तं गजं धर्तुमागत्य गजात्प्राप्तो यमक्षयम्

6.191.3

तद्वासनानिबद्धात्मा गजयोनिमवाप्य च ।
गीता सप्तदशाध्यायं श्रुत्वा प्राप्तः परं पदम्

6.191.4

देव्युवाच ।
दुःशासनो गजत्वं च प्राप्य मुक्त इति श्रुतम् ।
तदेव वद कल्याण विस्तरेण मम प्रभो

6.191.5

ईश्वर उवाच-।
स्थितः कश्चन दुर्मेधा मंडलीककुमारकैः ।
बहुमूल्यं पणं कृत्वा गजमारूढवांस्ततः

6.191.6

गत्वा कतिपयान्येव पदानि जनवारितः ।
नाम्ना दुःशासनो मूढः प्रौढवाक्यमुदीरयन्

6.191.7

ततो निशम्य तद्वाक्यं क्रोधांधः सिंधुरोऽभवत् ।
न्यपतच्च स्खलत्पादः कंपमानकुमारकैः

6.191.8

ततो निपतितं किंचिदुच्छ्वसंतं गजो रुषा ।
ऊर्द्ध्वमुन्मूलयांचक्रे कृतांतकनिरंकुशः

6.191.9

गतासोरपि रोषेण तस्यास्थ्न्यां च गणं गजः ।
विकीर्णवान्पृथक्कृत्वा मत्तो दंतावलस्ततः

6.191.10

ततः कालेन संप्रेत्य गजयोनिमवाप सः ।
महांतं कालमनयत्सिंहलद्वीपभूपतेः

6.191.11

मैत्री गरीयसी सार्द्धं खड्गबाहुमहीभुजा ।
ततोऽयं जलमार्गेण प्रापितो वारुणो मतः

6.191.12

जयदेवेन खड्गबाहोः प्रीत्या नीतो महीभुजा ।
जातिं स्मरन्स्वकीयां स पश्यन्बंधून्सहोदरान्

6.191.13

दुःखेन महतास्तोकान्दिवसानत्यवाहयत् ।
उवास खड्गबाहोश्च गृहे तूष्णीमनिर्दिशन्

6.191.14

स कदाचित्तु संतुष्टः समस्याश्लोकपूरणे ।
कस्मैचित्कवये प्रादात्तमुपायन हस्तिनम्

6.191.15

शतेन तेन कविना रोगोपद्रवभीरुणा ।
मालवक्षोणिपालस्य विक्रीतश्चैत्यकुंजरः

6.191.16

कियत्यपि गते काले पाल्यमानोऽपि यत्नतः ।
मुमूर्षुरभवत्तत्र कुंजरो दुर्जरज्वरः

6.191.17

न जिघ्रति पयः शीतं नादत्ते कवलं गजः ।
स्वपित्यपि न सौख्येन मुंचत्यश्रूणि केवलम् ।
ततो हस्तिपकाख्यातं वृत्तांतमवनीपतिः

6.191.18

आकर्ण्य स समायातो यत्रास्ते ज्वरितो गजः ।
स चावलोक्य भूपालं जगद्विस्मयकारिणीम्

6.191.19

वाचमूचे गजः सम्यग्विसृष्टज्वरवेदनः ।
राजन्नशेषशास्त्रज्ञ राजनीतिपयोनिधे

6.191.20

निर्जितारातिसंघात मुरारिचरणप्रिय ।
किमौषधैरलं वैद्यैः किं धानैः किं नु जापकैः

6.191.21

गीतासप्तदशाध्यायजापकं द्विजमानय ।
तेनायं मामको रोगः शाम्यत्यत्र न संशयः

6.191.22

यथादिष्टं गजेनासौ तथा चक्रे नराधिपः ।
ततो गजत्वमुत्सृज्य मुक्तो दुःशासनोऽभवत्

6.191.23

तेन विप्रेणाभिमंत्र्य जले क्षिप्ते तदुत्तमे ।
अथ दिव्यं समारूढं विमानमवनीपतिः

6.191.24

तं दुःशासनमद्राक्षीत्पाकशासनतेजसम्

6.191.25

राजोवाच।
किं जातीयः किमात्मा त्वं किं वृत्त इति मे वद ।
केन वा कर्मणा जातो गजः कथमिहागतः

6.191.26

पृष्टो राज्ञा विमुक्तोऽसौ विमानस्थः स्थिराक्षरम् ।
वृत्तं यथा यदाचख्यौ निजं दुःशासनः क्रमात्

6.191.27

गीतासप्तदशाध्यायं जपन्मालवभूपतिः ।
नरवर्माभवन्मुक्तः कालेनाल्पीयसा ततः

6.191.191

इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीतामाहात्म्ये एकनवत्यधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc