भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.188

6.188.1

ईश्वर उवाच-
अतः परं प्रवक्ष्यामि भवानि भवमुक्तये ।
गीताचतुर्दशाध्यायमवधारय सुस्मिते

6.188.2

मेदिन्यां यत्किलस्थूलमस्ति काश्मीरमंडलम् ।
राजधानी सरस्वत्या आस्ते चैव मनोहरा

6.188.3

यामधिष्ठाय वाग्देवी ब्रह्मलोकं प्रयच्छति ।
हंसमारुह्यमानापि सावित्रीप्रहतैरपि

6.188.4

सरस्वतीपदांभोज सेवामाश्रित्य कुंकुमैः ।
यत्र गौरवयंत्याशा हंसपक्षपुटोद्भवैः

6.188.5

निरंतरं तया चैव नृणां संस्कृतभाषिणाम् ।
सुपर्वाणमयी भाषा निमेषेणोपलभ्यते

6.188.6

प्रातर्गृहांगणोद्भूतै र्यत्रकुंकुमपांसुलैः ।
सर्वतोरुणितच्छाय शशांकरविमंडलम्

6.188.7

तत्रासीत्तेजसां राशिः शौर्यवर्मा नरेश्वरः ।
उद्यदुज्ज्वलबाणौघ खंडितारातिमंडलः

6.188.8

अभूच्च सिंहलद्वीपे राजा सिंहपराक्रमः ।
नाम्ना विक्रमवेतालः कलानामपि शेवधिः

6.188.9

उभौ परस्परं मैत्रीं वर्द्धयांचक्रतुः क्रमात् ।
तत्तद्देशसमुत्पन्नैरपूर्वैः प्रचुरोत्करैः

6.188.10

एकदा प्रहितं प्रेम्णा प्रभूतं शौर्यवर्मणा ।
राजा विक्रमवेतालो विलोक्य शुनकीद्वयम्

6.188.11

मत्तमातंगतुरग मणिभूषणचामरम् ।
प्रेषयामास मित्राय प्रभूतं शौर्यवर्मणे

6.188.12

एकदा शिबिकारूढश्चारु चामरवीजितः ।
सुवर्णशृंखलारूढं वाद्यडिंडिमडंबरम्

6.188.13

शुनीयुगलमादाय मृगया कौतुकोत्सुकः ।
राजा जगाम बाह्यालीं समं राजकुमारकैः

6.188.14

पणबंधविधानेन समुपेतं शशामिषम् ।
तत्र राजकुमाराणां महान्कोलाहलोऽभवत्

6.188.15

ततः समानवयसा केनचिद्राजसूनुना ।
बहुमूल्यं पणं कृत्वा राजाचिक्रीडकौतुकी

6.188.16

ततोवतार्य दोलाया विरुदावलिगर्विताम् ।
धावतः शशकस्योच्चैः पृष्ठे मुंचन्नृपं शुनीम्

6.188.17

मुमोच राजपुत्रोऽपि प्रेमपात्रं महाभुजः ।
विरराम शुनीमुच्चैः संकीर्त्य विरुदावलीम्

6.188.18

अलक्ष्यमाणवेगेऽस्मिन्शुनीयुगलकेभृशम् ।
धावत्युत्थितमेवासीत्पश्यतां सर्वभूभृताम्

6.188.19

पपात गर्ते महति शशकोऽतिश्रमादसौ ।
पतितोऽपि शुनी वश्यो नाभवच्छशशावकः

6.188.20

ततः शनैः समुत्थाय धावन्नाक्रम्यरोषतः ।
जगृहे राजशुन्याऽसौ शशकः फेनमुद्वमन्

6.188.21

ततः कथंचिदुप्लुत्य गच्छन्विस्खलयञ्छशः ।
राजपुत्रशुनक्यासौ गृहीतः कंधरातटे

6.188.22

जितमस्माभिरत्यर्थमिति संजल्पतां नृणाम् ।
कोलाहले शंकिताया शुन्या निर्गतवान्मुखात्

6.188.23

ततो दंष्ट्राव्रणश्रेणी क्षरद्रुधिरधारकः ।
क्वापि र्ममरभूभागे निलीयस्थितवाञ्छशः

6.188.24

जिघ्रंत्या राजशुन्याऽसौ भूभागं धनरोषया ।
दृष्टमात्रः परित्रस्तो हस्तमात्रं ततोऽगमत्

6.188.25

यत्र कर्पूरकदली क्रोडव्याघ्रदरीतलः ।
चोली कपोलफलकान्चुबन्वाति समीरणः

6.188.26

उद्भिन्न केतकीकोशरजोमुकुलितेक्षणः ।
विस्रब्धाहरणा यत्रच्छायां तां परितन्वतः

6.188.27

नारिकेलफलैर्यत्र स्वयं निपतितैरधः ।
अपि चूतफलैस्तृप्ताः पक्वैः शाखामृगा अपि

6.188.28

अपि केसरिणो यत्र खेलंति कलभैः समम् ।
फणिनः केकिबर्हेषु निर्विशंकं विशंति च

6.188.29

यत्राश्रमांतरे विप्रो वत्सनामा जितेंद्रियः ।
शांतश्चतुर्दशाध्यायं जपन्नास्ते निरंतरम्

6.188.30

तत्र तच्छिष्यपादाब्ज प्रक्षालनजलैः कृते ।
कर्दमे न्यपतद्गत्वा जीवशेषो मुहुः श्वसन्

6.188.31

ततः कर्दमसंस्पर्शमात्रनिस्तीर्ण संसृतिः ।
दिव्यं विमानमारुह्य निर्ययौ शशको दिवम्

6.188.32

ततः शुन्यपि लिप्तांगीस्तोकैः कर्दमबिंदुभिः ।
क्षुत्पिपासार्तिरहिता शुनीरूपं विहाय सा

6.188.33

ततो दिव्यांगनारम्यं गंधर्वैरुपशोभितम् ।
दिव्यं विमानमारुह्य शुन्यपि त्रिदिवं ययौ

6.188.34

ततो जहास मेधावी शिष्यो नाम्ना स्वकंधरः ।
विचार्य विस्मितः पूर्वजन्मवैरस्य कारणम्

6.188.35

राजापि पर्यपृच्छत्तं विस्मयस्मेरलोचनः ।
प्रणम्य परया भक्त्या विनयैकपयोनिधिः

6.188.36

कथां कथय मे विप्र हीनयोनि निषेवितौ ।
अज्ञौयौ जग्मतुः स्वर्गे शुनी शशकशावकौ

6.188.37

शिष्य उवाच।
वत्सनामा द्विजन्मास्ते वनेऽमुष्मिन्जितेंद्रियः ।
चतुर्दशं तु ह्यध्यायं गीतानां सर्वदा जपन्

6.188.38

शिष्योऽहं तस्य भूपाल ब्रह्मविद्याविशारदः ।
चतुर्दश तु अध्यायं जपामि प्रत्यहं नृप

6.188.39

मदीयचरणांभोजप्रक्षालनजले लुठन् ।
शशस्त्रिदिवमापन्नः शुनक्या सह भूपते

6.188.40

राजोवाच।
हेतुना केन कथय हसितं च द्विजोत्तम ।
अतः किमपि साकूतं मन्यमानेन सादरम्

6.188.41

शिष्य उवाच।
महाराष्ट्रेति नगरं नाम्ना प्रत्युदकं महत् ।
तत्रासीद्ब्राह्मणो नाम्ना केशवः कितवाग्रणीः

6.188.42

विलोभनाभवत्तस्य जाया स्वैरविहारिणी ।
तेन सा हन्यते क्रोधाद्वैरं संचिंत्य जन्मनः

6.188.43

ततः स्त्रीवधपापेन शशको जायते द्विजः ।
किल्बिषाच्छुनकी सापि जाता वंचनजन्मनः

6.188.44

पूर्वेण जन्मनाभ्यस्तं वैरं विस्मरतो नहि ।
आसेदिवद्भ्यां बहुधा योन्यंतरमपि क्वचित्

6.188.45

इत्याकलय्य सकलं भूपालः श्रद्धयान्वितः ।
गीतामभ्यस्य सकलामवाप परमां गतिम्

6.188.188

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीतामाहात्म्ये अष्टाशीत्यधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc