पद्म पुराण · अध्याय 6.187
देव्युवाच।
द्वादशाध्यायमाहात्म्यं भवता कथितं मम ।
ब्रूहि त्रयोदशाध्यायमाहात्म्यमतिसुंदरम्
ईश्वर उवाच-
शृणु त्रयोदशाध्यायमहिमांभोनिधिं शिवे ।
यदाकर्णनमात्रेण परां मुदमवाप्स्यसि
अस्ति दक्षिणदिङ्मार्गे तुंगभद्रा महानदी ।
तत्तटे नगरं रम्यं नाम्ना हरिहरं पुरम्
यत्राऽस्ते भगवान्देवि देवो हरिहरः स्वयम् ।
यस्य दर्शनमात्रेण परं कल्याणमाप्यते
तस्मिन्पुरे द्विजन्मासीद्धरिदीक्षितसंज्ञिकः ।
तपः स्वाध्यायनिरतो श्रोत्रियो वेदपारगः
दुराचारेति तस्यासीद्भार्या नाम्ना च कर्मणा ।
न सुष्वाप समं पत्या दुरालापा कदाचन
क्षणमप्यात्मसदने न चास्ते स्वैरचारिणी ।
कंठदघ्नं द्विजद्वारे धयंती वारुणीरसम्
पतिसंबधिनः सर्वान्तर्जयंती पुनः पुनः ।
विटैः सह सदोन्मत्ता रममाणा निरंतरम्
कदचिद्व्याकुलं दृष्ट्वा पुरं पौरैरितस्ततः ।
संकेतगेहमकरोत्कांतारे निर्जने स्वयम्
अथ तत्रैव सा धूर्ता रममाणा विटैः सह ।
निनाय सा बहून्कालान्निजयौवनगर्विता
अथ तस्मिन्पुरे रम्ये निवसंत्या निरंकुशम् ।
वसंतकालं समभूत्परं चित्ते भुवः सखा
आमूलपल्लवाकीर्णं सहकारविकारिणा ।
पिकानां पंचमालापैः पुनः स जीवितः स्मरः
स्फुरच्चंपकसौरभ्यहारकैर्मलयानिलैः ।
मंदं मंदं प्रसर्पद्भिरांदोलितवनद्रुमः
उत्फुल्लमल्लिकामोद मदिरापारणावताम् ।
अलीनां कलटंकारैः समंताद्रावशोभितः
प्रसन्नचारुभिः स्मेरः सरोवरसुगंधिभिः ।
मीलन्मरालनिवहैः सरोभिः प्रकटीकृतः
घनच्छायासुखासीन हरिणार्भकधारिभिः ।
नीरंध्रपल्लवैर्नानाशाखिभिः शोभितावनिः
तस्मिन्वसंतसमये मुदिता साभिसारिका ।
अपश्यज्जगदानंददायिनीं चंद्रिकां निशि
चंचच्चकोरचंच्वग्रगलत्पीयूषसीकराम् ।
द्रवदिंदुशिलानिर्यत्सुधानिर्झरनिर्भराम्
विकाशिकुसुमक्रोडसांद्रीभूतकरोत्कराम् ।
उल्लासितपयोराशिकल्लोलालिंगितांबराम्
मनोभवमहासिंहकुलटाकंठकर्तरीम् ।
घनांधकारसंदोहविदारणपटीयसीम्
श्वेतीकृतसतीकारपरार्थहिमगर्भिणीम् ।
म्लानपंकजसंकोचा द्यूनामानंददायिनीम्
चक्रवाकवधूवक्त्र करुणाक्रोशसाक्षिणीम् ।
मुक्ताश्रेणीविशुद्धांशु प्रभासितदिगंतराम्
अथ तस्यां प्रभूतायां पूरयंत्या दिशो दश ।
कामांधा कामिनीजाता पथिसौधविहारिणी
अपश्यंती विटान्रात्रौ निर्भिद्य भवनार्गलम् ।
ययौ संकेतभवनं निर्गत्य नगराद्बहिः
तत्र प्रियतमं कंचित्काममोहितमानसा ।
अन्वेषयंती नाद्राक्षीत्कुंजे कुंजे तरौ तरौ
आकर्णयंती कांतस्य मंदालापान्पदे पदे ।
अभियाति ततः क्रीडन्यत्र संहारिनिस्वनः
चक्रवाकरवान्श्रुत्वा कांतालापभ्रमादसौ ।
सरोवराणि सर्वाणि पर्यटंती मुहुर्मुहुः
कांतभ्रांत्या तरुतले प्रसुप्तान्हरिणोत्करान् ।
प्रबोधयंती सोच्छ्वासमागतास्मीति भाषिणी
आलिंगंती वनस्थाणुं जीवनेश्वरशंकया ।
तदाननभ्रमाद्भूयं चुंबंती विकचांबुजम्
तत्रतत्र कृतव्यर्थश्रमादृष्टप्रियास्वयम् ।
विललाप वने तस्मिन्मूर्च्छती विविधोक्तिभिः ।
हा कांत हा गुणाक्रांत मच्चैतन्यस्य नायक
हे मनोहरसौभाग्य भाग्यलावण्यशेवधे ।
हा पूर्णचंद्रवदन हा सरोजायतेक्षण
हा कांततत्वसौहित्य विश्रमाय सुरद्रुम ।
यदि कोपेन कुत्रापि गुह्यवेषोऽत्र तिष्ठसि
प्रसादयामि त्वां कांत दत्त्वा प्राणान्प्रियानपि।
इत्युच्चैः सर्वतो दिक्षु विलपंत्या वियोगतः
तस्याः श्रुत्वा वचः कोऽपि सुप्तो व्याघ्रः प्रबुद्धवान् ।
कुर्वन्घुरघुरध्वानं पश्यन्प्रतिदिशं रुषा
आस्फालयन्नखैर्भूमिं गर्जन्नाकाशगह्वरम् ।
पृष्ठनिर्भग्नलांगूल द्रुतमुत्थाय वेगवान्
गतो व्याघ्रः समुत्पत्य यत्रास्ते साभिसारिका ।
अथ सापि तमायांतमालोक्य पतिशंकया
निर्जगाम पुरः स्थातुं प्रेममनिर्भरमानसा ।
ततस्तस्यनखक्रीडाक्रूरतांधीकृता सती
जहौ प्रियवपुः शंकां श्रुत्वा गर्जितमूर्ज्जितम् ।
तथाविधापि सा नारी भ्रांतिमुत्सृज्यसत्वरम्
व्याघ्रत्वं तु कुतो हेतोर्मां निहंतुमिहागतः ।
इदं सर्वं समाख्याहि यतस्त्वं हंतुमिच्छसि
इति तस्या वचः श्रुत्वा शार्दूलश्चंडविक्रमः ।
क्षणं विहाय तद्ग्रासमुवाच प्रहसन्निव
मलापहा नदी नाम्ना देशे तिष्ठति दक्षिणे ।
नगरी मुनिपर्णेति तस्या रोधसि वर्तते
तत्रास्ते भगवान्साक्षात्पंचलिंगो महेश्वरः ।
तस्यां पुर्यामहं विप्र पुत्रो भूत्वा स्थितस्ततः
अयाज्यान्याजयन्नश्नन्नेकोद्दिष्टे नदी तटे ।
वेदपाठफलं शश्वद्विक्रीणन्धनकांक्षया
भिक्षुकानपरान्लोभात्तिरस्कुर्वन्दुरुक्तिभिः ।
अदेयद्रविणं गृह्णन्नदत्तमनिशं दिनम्
छलयन्सकलांल्लोकान्क्षणग्रहणकौतुकात् ।
ततः कतिपये काले जरठत्वमुपागतः
वलीपलितवानंधः प्रपतन्प्रस्खलद्गतिः ।
पतद्दंतोभवं भूयः प्रतिग्रहपरायणः
हस्ते गृहीत दर्भोऽहमगमं तीर्थसन्निधिम् ।
धनग्रहणलोभेन भ्रमन्पर्वसु पर्वसु
ततोऽहं शिथिलांगः सन्कंचिद्भूनिर्जरालयम् ।
गतवान्याचितं भोक्तुं दष्टो मध्ये पदे शुना
अपतं मूर्छितो भूत्वा ततः क्षितितले क्षणात् ।
ततोऽहं गलितप्राणो व्याघ्रयोनिमुपागतः
अत्र तिष्ठामि कांतारे पूर्वपापमनुस्मरन् ।
न भक्षयामि धर्मिष्ठान्मुनीन्साधुजनान्सतीः
किंतु पापान्दुराचारनसतीर्भक्षयाम्यहम् ।
अतोऽसतित्वं तत्वेन ममैव कवलायसे
इत्युक्त्वा स्वैर्नखैः कूरैस्तां विभज्यांगखंडशः ।
अथतां भक्षितां तेन पापदेहमुपाश्रिताम्
यमस्य किंकरा निन्युः सद्यः संयमनीं पुरीम् ।
यमादेशेन तत्रापि पातयामासुराशु ताम्
विण्मूत्ररक्तपूर्णेषु घोरकुंडेष्वनेकधा ।
कल्पकोटिषु पीतासु तस्मादानीय तां मुहुः
रौरवे स्थापयामासुर्मन्वंतरशतावधि ।
ततोप्याकृष्य तां दीनां रुदतीं सर्वतोमुखीम्
मुक्तकेशां भग्नगात्रां चिक्षिपुर्दहनानने ।
एवं पापपरां घोरां भुक्त्वा नरकयातनाम्
इह जाता महापापात्पुनः श्वपचयोनिषु ।
ततः श्वपचगेहेऽपि वर्द्धमाना दिनेदिने
पूर्वजन्मवशेनैव तथैवासीद्यथा पुरा ।
ततः कतिपये काले पुनः स्वंभवनंययौ
यत्रास्ते जृंभकादेवी शिवस्यांतः पुरेश्वरी ।
तत्रापश्यद्द्विजन्मानं वासुदेवाभिधं शुचिम्
गीतात्रयोदशाध्यायमुद्गिरंतमनारतम् ।
ततस्तच्छ्रवणादेव मुक्ता श्वपचविग्रहात्
दिव्यं देहं समासाद्य जगाम त्रिदशालयम्
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीतामाहात्म्ये सप्ताशीत्यधिकशततमोऽध्यायः
मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0