भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.180

6.180.1

श्रीभगवानुवाच।
षष्ठाध्यायस्य माहात्म्यं प्रवक्ष्यामि वरानने ।
यदाकर्णयतां नॄणां मुक्तिः करतले स्थिता

6.180.2

अस्ति गोदावरी तीरे प्रतिष्ठानं पुरं महत् ।
पिप्पलेशाभिधानोऽहं यत्रास्मि स्मेरलोचने

6.180.3

यत्र गोदावरी तीर शीकरैरवशीतलैः ।
हंसाः पक्षपुटैः कीर्णैर्हरंति यमिनां श्रमम्

6.180.4

स्फुरत्पद्मावलीकोशपरागसुरभीकृतम् ।
श्लाघ्यं गोदावरीतोयं येन ते निर्जरा नराः

6.180.5

धिक्सुधामौषधीशस्य विकृत्क्षयविधायिनीम् ।
महाराष्ट्रवधूकानां मज्जंतीनां मुनीश्वराः

6.180.6

स्पृशंति यत्र वक्त्राणि फुल्लपंकजशंकया ।
यत्रखेलन्महाराष्ट्राः क्वणत्कंकणसुंदराः

6.180.7

हरंति ध्वनयो लीनां मनांस्यपि तपस्विनाम् ।
अत्युच्चसौधशिखरविहारि वनितामुखम्

6.180.8

पश्यन्ननुदिनं यत्र क्षीयते मृगलांच्छनः ।
अत्युच्चसौधवलभी महामणिमरीचिभिः

6.180.9

चुंब्यंते मुनिगंधर्वैर्दूर्वाचंदनचंचलैः ।
यस्मिन्नाधूयमानानां पताकानां समीरणैः

6.180.10

गतश्रमा रवेर्याने भवंति रथवाजिनः ।
राशीकृतैर्मलयजैरसंख्यातैर्वणिग्गणैः

6.180.11

यस्मिन्नुपलशेषोऽसौ लक्ष्यते मलयाचलः ।
पुंजीकृतानि दृश्यंते यत्र मुक्ताफलान्यपि

6.180.12

नगरीदेवता हास्य स्तबका इव सर्वतः ।
तत्र ज्ञानश्रुतिर्नाम्ना मेदिनीवल्लभोऽभवत्

6.180.13

यस्मिन्नुद्धरति क्षोणीं शेषोऽयं मणिसंनिभां ।
अपि प्रतापमार्तंडमंडली तीव्रतेजसि

6.180.14

नित्यमध्वरधूमेन श्यामलाः कल्पशाखिनः ।
असाधारणदातृत्वं पश्यंत इव लज्जया

6.180.15

यदध्वरपुरोडाश चर्वणास्वादलंपटाः ।
न तत्यजुः सुपर्वाणः प्रतिष्ठानपुरं मनाक्

6.180.16

यस्यदानांबुधाराभिः प्रतापज्योत्स्नयानिशम् ।
मखधूमैश्च संपुष्टा ववृषुः समये घनाः

6.180.17

स्वल्पमात्रमपि क्वापि न पदं प्रापुरीतयः ।
नीतयः प्रसरंति स्म यस्मिन्शासति मेदिनीम्

6.180.18

वापिकूपतडागानां च्छद्मना योऽनुवासरम् ।
हृदयस्थानि मेदिन्या निधानानि व्यलोकयत्

6.180.19

पांडुराभिः पताकाभिः प्रासादो यस्य राजते ।
वियद्गंगातरंगोघैर्हिमाद्रिरिव सानुमान्

6.180.20

दानैस्तपोभिर्यज्ञैश्च प्रजानां पालनेन च ।
तुष्टाः स्वर्गौकसस्तस्मै वरं दातुं समागमन्

6.180.21

ततोंतरिक्षमार्गेण धुन्वानाः पक्षसंहतीः ।
मृणालधवला देवी देवहंसा विनिर्गताः

6.180.22

त्वरया गच्छतां तेषामन्योन्यं तत्र भाषिणाम् ।
भद्राश्वप्रमुखा द्वित्राः पुरस्तान्निर्ययुर्जवात्

6.180.23

सर्वैर्मिलद्भिरूचुस्ते पुरस्ताद्गच्छतो जवात् ।
कथं वेगेन निर्याता भवंतः पुरतः स्थिताः

6.180.24

सर्वैर्मिलित्वा गंतव्यमस्मिन्नध्वनि दुर्गमे ।
प्रकाशमानं पुरतस्तेजःपुंजं न पश्यथ

6.180.25

ज्ञानश्रुतेर्महीभर्तुः पुण्यमूर्त्तेरतिस्फुटम् ।
निशम्येति वचः सम्यक्पाश्चात्याना पुरः स्थिताः

6.180.26

हंसा हसित्वा सावज्ञमूचुर्वचनमुच्चकैः ।
रैक्याभिधस्य दुर्द्धर्ष तेजसो ब्रह्मवादिनः

6.180.27

किं नु ज्ञानश्रुतेरस्य राज्ञस्तीव्रतरं महः ।
इति शुश्राव हंसानां गिरो ज्ञानश्रुतिर्नृपः

6.180.28

अत्युच्चसौधभवनमारुह्य च सुखं स्थितः ।
ततः सारथिमाहूय भूपालो विस्मयान्वितः

6.180.29

संदिदेश महात्माऽसौ रैक्य आनीयतामिति ।
ततोऽवधार्य भूपालवचः पीयूषगर्भितम्

6.180.30

निर्जगाममहो नाम्ना सारथिः प्रथयन्मुदम् ।
यत्र वाराणसीनाम नगरी मुक्तिदायिनी

6.180.31

यत्र विश्वेश्वरो नाम ह्युपदेष्टा जगत्पतिः ।
ततो गयाभिधे क्षेत्रे यत्र देवो गदाधरः

6.180.32

उद्धर्तुमखिलान्लोकान्वसत्युत्फुल्ललोचनः ।
ततो गौरीगुरोः पार्श्वे सर्वैस्तीर्थैरनेकधा

6.180.33

पर्यटन्गतवान्यत्र केदारः पापदारणः ।
यमालोक्य सकृन्मर्त्या मुक्ताः स्युर्नात्र संशयः

6.180.34

महापापविर्निमुक्ता भुक्त्वा भोगान्यथेप्सितान् ।
ततो गौडेषु निर्यातो यत्रास्ते पुरुषोत्तमः

6.180.35

यस्यावलोकनादेव नराः स्वर्लोकगामिनः ।
ततो द्वारावतीं प्रागान्नगरीं मुक्तिदायिनीम्

6.180.36

यत्रास्ते गोमती तीरे रुक्मिणीवल्लभो हरिः ।
स्नात्वा च गोमतीतीर्थे पंचकृष्णान्विलोक्य च

6.180.37

मर्त्यो मुक्तिमवाप्नोति भुक्त्वा भोगान्यथेप्सितान् ।
ततः समुद्रमासाद्य सोमनाथं विलोक्य च

6.180.38

भुक्तिमुक्तिप्रदं देवं ततो निरगमन्सुधीः ।
अवंतिकां पुरीं प्राप्तो भुक्तिमुक्तिप्रदायिनीम्

6.180.39

यत्रोमया सुखं क्रीडन्महाकालोस्ति शंकरः ।
अथोंकारं समासाद्य शर्मदं नर्मदातटे ।
भुक्तिमुक्तिप्रदातारं त्वरया निर्गतस्ततः

6.180.40

अश्वमेधकरं नाम्ना नगरं पर्यटंस्ततः ।
यत्र शार्ङ्गधरः साक्षादास्ते लक्ष्मीपतिः स्वयम्

6.180.41

ततो विष्णुगयां प्राप्तः कुण्डं लोणारसंज्ञितम् ।
यत्र स्नात्वा च पीत्वा च मुच्यते बन्धनान्नरः

6.180.42

ततः कोल्हापुरं नाम गतो रुद्रगयां प्रति ।
आस्ते भगवती यत्र लक्ष्मीर्भक्तिप्रदायिनी

6.180.43

पञ्चनद्यां नरः स्नात्वा महालक्ष्मीं विलोक्य च ।
भुक्त्वा भोगान्यथाकामं भक्तिं च प्रतिपद्यते

6.180.44

ततोऽमलगिरिं नाम नगरीं प्रतिपद्य च ।
नन्दिकेश्वरमारुह्य सोमनाथोऽस्ति यत्र तु

6.180.45

दृष्ट्वा चतुर्भुजं देवं वरदानोद्यतं शिवम् ।
सोमनाथं नृणां मुक्तिर्भवत्येव न संशयः

6.180.46

तुङ्गभद्रानदी तीरे दृष्ट्वा हरिहरं ततः ।
युगेयुगे भुजा यस्य पतन्त्यवनिमण्डले

6.180.47

यद्विलोक्य नराः सर्वे रम्यं हरिहरं वपुः ।
भुक्त्वा भोगान्यथाकामं मुच्यन्ते बन्धनान्नराः

6.180.48

स्वर्गे कल्पशतं स्थित्वा मुक्तसंसारबन्धनाः ।
ततः स्वामिनमालोक्य लोकानां स्वामिनं विभुम्

6.180.49

यमालोक्य न पश्यन्ति निरयं जातुचिन्नराः ।
स्वर्गे कल्पशतं स्थित्वा मुक्तसंसारवासनाः

6.180.6.180.50

मुक्तिं च प्रतिदद्यन्ते नात्र कार्या विचारणा ।
ततः श्रीशैलमासाद्य सिद्धगन्धर्वसेवितम्

6.180.51

गिरिजावल्लभो यत्र मल्लिनाथोऽभिधानतः ।
उद्धर्तुमखिलाँल्लोकान्संसाराम्भोधिमध्यतः

6.180.52

स्वर्गे कल्पशतं स्थित्वा मुक्तसंसारबंधनाः ।
मुक्तिं च प्रतिपद्यंते नात्र कार्या विचारणा

6.180.53

ततः श्रीशैलमासाद्य सिद्धगंधर्वसेवितम् ।
गिरिजावल्लभो यत्र मल्लिनाथोऽभिधानतः

6.180.54

उद्धर्तुमखिलाँल्लोकान्संसारांबुधिमध्यतः ।
कालेकाले परं ज्योतिर्यः संदर्शयते स्वयम्

6.180.55

अवलोकयतां नॄणां यमनुस्मरतामपि ।
दूरे तिष्ठंति संत्रस्ता दूरं निरययातनाः

6.180.56

स्वर्गे लोके सुखं भुक्त्वा मुक्तसंसारबंधनाः ।
मुक्तिं च प्रतिपद्यंते मानवा नात्र संशयः

6.180.57

रामोस्ति सानुजः सार्द्धं जानक्यापि ततो गतः ।
तत्र स्नात्वा च पीत्वा च मुच्यते नरकाद्ध्रुवम्

6.180.58

कल्पकोटिशतं भुक्त्वा स्वर्गलोकसुखं नराः ।
मुक्तसंसारवर्त्मानो मुक्तिं यांति न संशयः

6.180.59

ततो निवृत्य आयातः पश्यन्भीमरथी तटे ।
द्विभुजं विठ्ठलं देवं भुक्तिमुक्तिप्रदायकम्

6.180.60

यत्र गोदावरीजन्मस्थानं ब्रह्मगिरिर्महान् ।
गौतमालयमासाद्य यत्रास्ते त्र्यंबको हरः

6.180.61

अरुणावरुणयोर्मध्ये यत्र गोदावरी नदी ।
तत्र स्नात्वा च पीत्वा च ब्रह्महत्या विलीयते

6.180.62

असंख्यतीर्थसंपन्नं दृष्ट्वा ब्रह्मगिरिं नराः ।
मुक्तिमेव प्रपद्यंते मुक्ताः संसारदुःखतः

6.180.63

गौतम्युभयतीरस्थ तीर्थान्वेषणकौतुकी ।
ततो जगाम सूतस्तु मथुरां पापनाशिनीम्

6.180.64

यत्र स्वायंभुवं देवं भजंति सुरमानवाः ।
आद्यं भगवतः स्थानं महन्मुक्तिप्रदायकम्

6.180.65

त्रैलोक्येश जनिस्थानं विख्यातं वेदशास्त्रयोः ।
नानादेवगणैर्जुष्टं द्विजर्षिगणसेवितम्

6.180.66

कालिंदीकूलसंशोभि ह्यर्द्धचंद्र प्रभाकृति ।
सर्वतीर्थनिवासैक पूर्णमानंदसुंदरम्

6.180.67

गोवर्द्धनगिरिप्रख्यं पुण्यद्रुमलतावृतम् ।
द्विषड्वनं महापुण्यं विश्रांति श्रुतिसारभृत्

6.180.68

ततः काश्मीरनगरमपश्यत्प्रत्यगुत्तरम् ।
दृष्ट्वा धर्मधुरं क्षेत्रं कुरुक्षेत्रं समंततः

6.180.69

यत्राभ्रंलिहगेहानां पंक्तयः शंखपाण्डुराः ।
ता जाता धूर्जटेः स्पष्ट अट्टहासदशा इव

6.180.70

भक्तिप्रसादमालानां सुवर्णकलशैर्वृतम् ।
स्वः सिंधोः पतितानीव हेमपद्मानि मारुतैः

6.180.71

यत्र प्रासादशिखरे नीलपट्टपताकिकाः ।
शैवालवलयाभांति स्वः सिंधोर्लतिका इव

6.180.72

यत्र काश्मीरमाश्रित्य नित्यं वसति भारती ।
नौचेद्युगपदेवेदं कथं लिखति वाङ्मयम्

6.180.73

विश्रामंत्याः सरस्वत्याश्चिरं यत्र मदालसाः ।
मृणालचंचवो हंसा वाहनानि चरंत्यमी

6.180.74

कलाविशेषं प्रहिता यत्र बोद्धुं विरंचिना ।
तारा इव विराजंते हंसा याताः समंततः

6.180.75

स्थलपद्मानि दृश्यंते करस्पर्शसुखानि च ।
शयनाय नितंबिन्या यस्मिन्दानववैरिणा

6.180.76

उपन्यासैर्द्विजातीनां यत्र न श्रूयते स्फुटम् ।
मूकोऽपि निर्जरो वाचा पदकल्लोलडंबरः

6.180.77

यस्मिन्नध्वरधूमेन व्याप्तं गगनमंडलम् ।
अपि च क्षालितं मेघैः कालिमानं न मुंचति

6.180.78

गलितायाः सुधायास्तु यत्राध्वरमहार्चिषा ।
लांछितं छद्मनास्थानं दृश्यते तुहिनत्विषि

6.180.79

जन्माभ्यासवशादेव पठंति बटवः स्वयम् ।
यत्रोपाध्यायसान्निध्यमाश्रित्य सकलाः कलाः

6.180.80

यत्र ब्राह्मणपत्नीनां कंकणध्वनि हुंकृतिः ।
लुंपत्यनुदिनं भ्राम्यद्भ्रमराणां च गर्जितम्

6.180.81

यत्र ब्राह्मणपत्नीनां कपोलफलकं मुहुः ।
स्पृशन्समीरणो मंदं वाति शापभयादिव

6.180.82

माणिक्येश्वरनामासौ यत्र शीतांशुशेखरः ।
वसत्यनुदिनं देवो वरदानाय देहिनाम्

6.180.83

अर्चितो भूपतीन्जित्वा मणिकेशेन चादृतः ।
माणिक्येश्वर इत्याख्यां तदाप्रभृति यो दधौ

6.180.84

राज्ञा काश्मीरदेवेश दिग्जयोत्सवकारिणा ।
असौ सुपूजितो यस्मान्माणिक्यैर्भूरिभूतिभिः

6.180.85

संसेवमानं तद्वारि छायां शकटिकोपरि ।
कंडूयमानमंगानि यंता रैक्यमपश्यत

6.180.86

राज्ञापि कथितैस्तैस्तैश्चिह्नैः परिचितं जवात् ।
प्रणतः सारथी रैक्यं प्रणम्य तमभाषत

6.180.87

सारथिरुवाच।
कस्मिन्ब्रह्मन्किन्नामासि स्वछंदोऽसि निरंतरम् ।
किमर्थमत्र विश्रांतः किं च कर्तुं चिकीर्षसि

6.180.88

इत्याकर्ण्य च तद्वाक्यं परमानंदनिर्भरः ।
स्मृत्वा सारथिमित्यूचे वयं पूर्णमनोरथाः

6.180.89

परं केनापि बहुना परिचर्याविधायिना ।
भवितव्यं मनोवृत्तिं जानतास्माकमेव हि

6.180.90

हृदयस्थितमादाय रैक्याभिप्रायमादरात् ।
शनैर्निरगमद्यंता यत्रास्ते वसुधाधिपः

6.180.91

ततः प्रणम्य भूपालं यथावृत्तं न्यवेदयत् ।
बद्धांजलिपुटो हृष्टः सारथिः स्वामिदर्शनात्

6.180.92

ततो निशम्य तद्वाक्यं विस्मयस्मेरलोचनः ।
श्रद्धालुरभवद्भूपो रैक्यसंभावनाविधौ

6.180.93

आदायाश्वतरीयुग्मयुक्तां शकटिकामगात् ।
मुक्ताहारदुकूलानि सहस्रं च गवां नृपः

6.180.94

गतोऽसौ तत्र यत्रास्ते योगी काश्मीरमंडले ।
तन्निवेद्य पुरो राजा दंडवत्पतितो भुवि

6.180.95

आनम्य परया भक्त्या रैक्यो राज्ञे चुकोप ह ।
रे शूद्र मामकं वृत्तं न जानासि दुरीश्वर

6.180.96

गृहाण शकटीमेतामुत्थाप्याश्वतरी युताम् ।
वस्त्राणि मुक्ताहारांश्च गाश्च दोग्ध्रीरपि स्वयम्

6.180.97

इत्थमाज्ञतवान्भूपो रैक्यस्य भयमादधे ।
ततः शापभयाद्राजा तत्पदांभोरुहद्वयम्

6.180.98

गृह्णन्भक्त्या प्रसीदेति ब्रह्मन्नित्यूचिवान्स्वयम्

6.180.99

राजोवाच।
भगवंस्तव माहात्म्यमेतदत्युद्भुतं कुतः ।
प्रसन्नीभूय भगवन्नाख्याहि मम तत्त्वतः

6.180.6.180.100

रैक्य उवाच।
गीतानां षष्ठमध्यायं जपामि प्रत्यहं नृप ।
तेनैव तेजोराशिर्मे सुराणामपि दुःसहः

6.180.101

गीतानां षष्ठमध्यायं रैक्यादभ्यस्य यत्नतः ।
ज्ञानश्रुतिर्महीपालो मुक्तिमाप ततः सुधीः

6.180.102

रैक्योऽपि सुखमालेभे माणिक्येश्वरसन्निधौ ।
गीतानां षष्ठमध्यायं जपन्मोक्षप्रदायकम्

6.180.103

मरालवेषमास्थाय वरदानार्थमागताः ।
दिवौकसोऽपि निर्जग्मुः स्वैरं विस्मयकारिताः

6.180.104

इममध्यायमप्येकं यो जपेत्सततं नरः ।
सोऽपि तत्पदवीमेति विष्णोरेव न संशयः

6.180.180

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गीता।
माहात्म्ये अशीत्यधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc