पद्म पुराण · अध्याय 6.179
श्रीभगवानुवाच।
पंचमस्याधुना देवि माहात्म्यं लोकपूजितम् ।
कथयामि समासेन सावधाना शृणु प्रिये
पिंगलो नाम भद्रेषु पुरुकुत्सपुरे द्विजः ।
अवदाते कुले जातो विश्रुते वेदवादिनाम्
कुलोचितानि शास्त्राणि तथा वेदान्विसृज्य सः ।
तौर्यत्रिके मतिं चक्रे वादयन्मुरजादिकम्
कृतश्रमस्ततस्तत्र गीते नृत्ये च वादने ।
परां प्रसिद्धिमासाद्य नृपसद्म विवेश सः
समातस्थे स तेनासौ पुरा भूमिभुजा सह ।
परदारानुपाहृत्य बुभुजे ता अनन्यधीः
तत उत्सिक्तगर्वोऽयं सूचमानो निरंकुशः ।
परच्छिद्राणि चामुष्मै विविक्ते स निरंतरम्
तस्यासीदरुणा नाम भार्या हीनकुलोद्भवा
भ्रमत्यन्वेषयंती सा कामुकेन विहारिणी ।
तमंतरायं मन्वाना निशीथिन्यां निजालये
निजघान शिरश्छित्त्वा निचखान महीतले ।
वियोजितस्तः प्राणैरुपेत्य यमसादनम्
दुर्जयान्नरकान्भुंक्त्वा गृध्रोऽभूद्विजने वने ।
भगंदरेण रोगेण सापि हित्वा वरां तनुम्
उपेत्य नरकान्घोरान्जज्ञे तत्र वने शुकी ।
कणानादातुकामां तां संचरंतीमितस्ततः
विददार नखैस्तीक्ष्णैर्गृध्रो वैरमनुस्मरन् ।
नृकपाले पयः पूर्णे निपतंतीं ततः शुकीम्
अभिदुद्राव गृध्रोऽपि निजघ्ने स च जालिकैः ।
पत्नीवियोजिता प्राणैर्नृकपालजले ततः
तत्रैव निममज्जा सा वेत्यक्रूरतरः खगः ।
पितृलोकं प्रपेदाते नीतौ तौ यमकिंकरैः ।
प्राक्कृतं दुष्कृतं कर्म स्मरंतौ भयभागिनौ
ततो यमः समालोक्य तयोः कर्म जुगुप्सितम् ।
अकस्मादेवतत्स्नानान्मरणे सुकृतं महत्
अनुजज्ञे ततो लोकमीप्सितं गंतुमेतयोः ।
महापातकसंघातैरपि दुर्द्धर्षमानसौ
ततोविस्मयमापन्नौ स्मृत्वा तौ दुष्कृतं निजम् ।
उपेत्य प्रणतौ भूत्वा वैवस्वतमपृच्छताम्
संचितं दुष्कृतं पूर्वमावाभ्यामपि गर्हितम् ।
लोकानामीप्सितानां तु को हेतुस्तद्वदस्व नौ
एवमुक्तस्ततस्ताभ्यामाह वैवस्वतो वचः ।
आसीद्गंगातटे नाम्ना बटुर्ब्रह्मविदुत्तमः
एकाकी निर्ममः शांतो वीतरागो विमत्सरः ।
गीतानां पंचमाध्यायमावर्त्तयति सर्वदा
तेन पुण्येन पूतात्मा बुद्ध्वा ब्रह्म सनातनम् ।
पापीयानपि यं श्रुत्वा तनुमुत्सृष्टवानसौ
निर्मलीकृतदेहस्य गीताभिर्भावितात्मनः ।
तत्कपालजलं प्राप्य युवां यातौ पवित्रताम्
तद्गच्छतं युवां लोकान्मनोरथपथिस्थितान् ।
गीतानां पंचमाध्यायमाहात्म्येन पवित्रितौ
एवं तौ बोधितौ तेन मुदितौ समवर्तिना ।
व्योमयानं समारुह्य जग्मतुर्वैष्णवं पदम्
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गीतामाहात्म्ये एकोनाशीत्यधिकशततमोऽध्यायः
मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0