पद्म पुराण · अध्याय 6.181
श्रीभगवानुवाच।
अथ ते वर्णयिष्यामि सप्तमाध्यायगौरवम् ।
यदाकर्ण्य सुधापूर पूर्तिर्भवति कर्णयोः
अस्ति पाटलिपुत्राख्यं दुर्गमुत्तुङ्गगोपुरम् ।
तत्राभूद्ब्राह्मणो नाम शंकुकर्णो दयार्णवः
वैश्यवृत्तिं समासाद्य धनमर्जितवान्बहु ।
पितॄन्न तर्पयामास पूजयामास नो सुरान्
पार्थिवान्भोजयांश्चक्रे धनार्जनपरायणः ।
तुरीयपाणिग्रहणं मंगलार्थं गृहांतरे
तनुजैर्बंधुभिः सार्धं संप्रतस्थे कदाचन ।
रजन्यां धर्मकल्पायां निद्रालोस्तस्य दोस्तले
दशति स्म समागत्य दंदशूकः कुतश्चन ।
स दष्टमात्रोऽसाध्यात्मा मणिमंत्रौषधादिभिः
क्षणैः कतिपयैरेव गतासुरभवत्ततः ।
पिचुमंददलैर्नालैरवगुंठितविग्रहम्
तमारोप्य तरुस्कंधे सूनवो गृहमाययुः ।
ततः कालेन बहुना ततो जातः सरीसृपः
तद्वासनानिबद्धात्मा जन्मपूर्वमनुस्मरन् ।
वंचयित्वा सुतानेतान्पूरयामि गृहाद्बहिः
आत्मनः कोटिसंख्याकं यत्रास्ते स्थापितं वसु ।
ततो नारायणबलिश्रद्धया परयान्विताः
कृतवंतः परे तस्य सूनवो हि द्विजन्मनः ।
एकदा स्वप्नमागत्य पीडितः सर्पजन्मना
अभाषयन्मनोवृत्तं पुत्राणामग्रतः पिता ।
ततस्ते प्रातरुत्थाय परं विस्मयमोहिताः
इतरेतरमाख्याय पर्यंतस्ते निरंकुशाः ।
एकस्तत्र पितृस्नेहादुद्धर्तुमपि वांछति
अन्यो द्रविणलोभेन निहंतुं सर्पमीहते ।
इतरस्तु पितृस्नेहरसमोहितमानसः
किंवा अहिमयो न स्याच्छोचन्रोदिति केवलम् ।
मध्यमस्तु ततः पुत्रो वंचयित्वा सहोदरौ
केनापि छद्मनोत्थाय जगाम निजमालयम् ।
ततः शनैः समाहूय गृहिणीं गुणशालिनीम्
कुद्दालहस्तो निरगाद्यत्रास्ते पन्नगः पिता ।
तेनाविदितवित्तेन चिह्नैर्निश्चित्य तत्वतः
स्थानमागत्य तं हंतुं वल्मीकं लोभबुद्धितः ।
भार्ययोत्सार्य ते मृत्स्ना स्वयं तेन च खन्यते
निखन्यमानादत्युग्रो वल्मीकादहिरुत्थितः ।
ततो गरलगंडूषैर्निर्गतैरतिदुःसहैः
गिरः स कथयांचक्रे फणी फूत्कारमारुतैः
अहिरुवाच।
कस्त्वं किमर्थमायातः कथं वा खन्यते बिलम् ।
केन वा प्रहितो मूढ तदाख्याहि ममाग्रतः
पुत्र उवाच।
पुत्रस्तेऽहं शिवो नाम हेमग्रहणकौतुकी ।
आगतो रात्रलब्धस्य स्वप्नस्य तु सुविस्मितः
शिव उवाच।
इत्थमाकर्ण्य पुत्रस्य गिरं लोकविगर्हिताम् ।
वक्तुमारभत स्पष्टं हसन्नुच्चैः फणी तदा
सर्प उवाच।
यदि पुत्रोऽसि मे तूर्णं मामुन्मोचय बंधनात् ।
निक्षेपार्थाय संजातं पन्नगं पूर्वजन्मनः
पुत्र उवाच।
पितः कथं ते मुक्तिः स्यादित्याचक्ष्व ममाग्रतः ।
परित्यक्त्वाखिलं लोकमागतोस्मि यथा निशि
पितोवाच।
न तीर्थानि न दानानि न तपांसि न चाध्वराः ।
मामुन्मोचयितुं पुत्र प्रभवंति च सर्वथा
गीतानां सप्तमाध्यायमंतरेण सुधामयम् ।
जंतोर्जरामृत्युदुःखनिराकरणकारणम्
सप्तमाध्यायिनं विप्रं मदीये श्राद्धवासरे ।
भोजय श्रद्धया पुत्र तेन मुक्तिर्न संशयः
अन्यानपि द्विजान्वत्स वेदविद्याविशारदान् ।
संभोजय यथाशक्ति परमश्रद्धयान्वितः
इत्याकर्ण्य पितुर्वाक्यमुरगत्वमुपेयुषः ।
ते सर्वे सूनवो कुर्वन्यथादिष्टं ततोऽधिकम्
शंकुकर्णस्ततः श्रीमानुत्सृज्य तनुमौरगीम् ।
कृत्वा विभागं पुत्राणां दिव्यंदेहमुपाददे
विभज्य दत्तं पित्राय द्रव्यं तत्कोटिसंख्यया ।
तेन ते सूनवः सर्वे मुमुदुः साधुवृतयः
वापीकूपसरोयज्ञदेवप्रासादहेतवे ।
अन्नशालां ततः कुर्वन्पुत्रास्ते धर्मबुद्धयः
सप्तमाध्याय जपतो मुक्तिभाजोभवंस्ततः ।
षष्ठमिष्टतमं ज्ञात्वा निर्वाणार्पितदृष्टयः
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गीतामाहात्म्ये एकाशीत्यधिकशततमोऽध्यायः
मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0