पद्म पुराण · अध्याय 6.170
महादेव उवाच।
अत्र तीर्थात्परं तीर्थं सङ्गमाख्यमिति श्रुतम् ।
अत्र साभ्रमती गंगा मिलिता सागरेण तु
तत्र स्नानं च दानं च कर्तव्यं विधिपूर्वकम् ।
यत्र स्नात्वा तु मुच्यंते महापातकिनोऽपि ये
तत्र श्राद्धं प्रकर्तव्यं स्वानां च हितमिच्छता ।
यत्र वै तु कृते श्राद्धे पितृलोके वसेद्ध्रुवम्
यत्र वै सागरो देवो नित्यं मिलति गंगया ।
ब्रह्महा तत्र मुच्येत किमन्यैरितरैरघैः
यत्र तीर्थं न जानंति लोका वै मंदबुद्धयः ।
तदा वै मम नाम्ना च कर्तव्यं तीर्थमुत्तमम्
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे सङ्गमतीर्थंनाम सप्तत्यधिकशततमोऽध्यायः
मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0