पद्म पुराण · अध्याय 6.169
महेश उवाच।
ततःपरं देवनदी वार्त्रघ्नी संगमात्किल ।
प्रविष्टा भद्रया सार्द्धं सागरं वरुणालयम्
समुद्रोऽपि तया तावदागम्य प्रियकाम्यया ।
साभ्रमत्यानुरागेण कृतवान्प्रियमेलनम्
भद्रा वापि सुभद्रा या वयस्या सा नदी पुरा ।
सहायमकरोन्मार्गे साक्षात्श्रीरूपधारिणी
तयोस्तुसंगमः पुण्यः सागरस्योत्तरे तटे ।
तत्र तीर्थे नरः स्नात्वा मृष्टं वारि ददाति यः
नमस्कृत्य वराहाय वारुणं स्थानमाप्नुयात् ।
प्रविश्य भगवान्विष्णुस्तेन मार्गेण सागरम्
जित्वा वै दानवान्सर्वान्देवानां परिपंथिनः ।
देवो यज्ञवराहश्च संक्षोभ्य मकरालयम् ।
क्रीडित्वा सुचिरं कालं कर्दमालेन निर्ययौ
पार्वत्युवाच।
देव यज्ञवराहस्य साभ्रमत्यां प्रवेशनम् ।
निर्गमं कर्दमालेन ब्रूहि त्वं मम विस्तरात्
महादेव उवाच।
अंतर्भू क्रीडितमिदं वराहस्य हरेः पुरा ।
तत्सर्वं कथयिष्यामि शृणु त्वं नगनंदिनि
योऽयं वै भगवान्साक्षाद्धृतवान्सूकरं वपुः ।
देवानां कार्यसिद्ध्यर्थं रूपं धृत्वा सुरेश्वरः
धृत्वा वै पृथिवीं देवीं निर्गतः कर्दमालयम् ।
तत्र तीर्थं महज्जातं वराहाख्यं तु सुंदरि
तत्र स्नाति नरो यस्तु मुक्तिभाक्स न संशयः ।
अत्र श्राद्धं प्रकुर्वीत पितॄणां मुक्तिहेतवे ।
विमुक्तस्तैः समं लोकं प्रयाति सुखदं महत्
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तर।
खंडे वाराहतीर्थंनामैकोनसप्तत्यधिकशततमोऽध्यायः
मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0