ग्रंथ पाठ
पद्म पुराण · अध्याय 6.171
6.171.1
महादेव उवाच।
संगमस्य समीपे तु सत्तीर्थं लोकविश्रुतम् ।
आदित्याख्यं परं तस्मान्न भूतं न भविष्यति
6.171.2
यस्य वै दर्शनं कार्यं स्नानं वै पुष्करेण तु ।
पूजनं चार्कपुष्पेण करवीरैस्तथा पुनः
6.171.3
तत्र श्राद्धं च दानं च कुर्युर्वै मानवाः सदा ।
इदमादित्यकं तीर्थं पवित्रं पापनाशनम्
6.171.4
दर्शनात्पुण्यदं तीर्थं महापातकिनामपि
6.171.171
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे सत्तीर्थमाहात्म्यंनामैकसप्तत्यधिकशततमोऽध्यायः
मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0