भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.149

6.149.1

महादेव उवाच।
तीर्थादस्मात्परं तीर्थं मालार्कांतरतः स्थितम् ।
चंदनेश्वरमागच्छेदामोदस्थानमुत्तमम्

6.149.2

दुःशासनस्य रुधिरं पीत्वा भीमो महाबलः ।
प्रतिज्ञामात्मनः सर्वां पूरयित्वा सुदारुणाम्

6.149.3

कराभ्यां रुधिराक्ताभ्यां द्रौपद्याः केशबंधनम् ।
कृत्वा दत्त्वा द्विजातिभ्यो तीर्थयात्रां ततोऽगमत्

6.149.4

साभ्रमत्यास्तटे रम्ये गतो वै भ्रातृभिः सह ।
आनीतः साभ्रमत्यां यः स्वर्गाच्चंदनपादपः

6.149.5

स तु लिंगतया जातः पुण्यतीर्थप्रभावतः ।
तत्र स्नात्वा च पीत्वा च कृत्वा वै पितृतर्पणम्

6.149.6

न नरो निरयं गच्छेद्रुद्रलोकमवाप्नुयात् ।
चंदनेशं ततो दृष्ट्वा विश्वेशं लोकशंकरम्

6.149.7

पूजयेच्च यथाशक्त्या यत्र गत्वा न शोचति ।
यत्र कैवर्तको राजा पूजां कृत्वा ह्यनेकशः

6.149.8

स गतः शिवलोकं तं यत्र गत्वा न शोचति ।
मज्जंति ऋषयो यत्र यत्र देवः सनातनः

6.149.9

साक्षाद्विष्णुः परमात्मा नित्यं तिष्ठति भूतिदः ।
इयं साभ्रमती धन्या धन्यो विश्वेश्वरः प्रभुः

6.149.10

यत्र तीर्थान्यनेकानि जातानि भुवि पार्वति ।
अत्र चामर्दकीपुण्यैः फलैर्नानाविधैः शुभैः

6.149.11

कर्त्तव्यमर्घदानं च विधिना तत्र सुंदरि

6.149.149

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे चंदनेश्वरमाहात्म्यं नामैकोनपंचाशदधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc