पद्म पुराण · अध्याय 6.148
महादेव उवाच।
साभ्रमत्यास्तटे तीर्थं गयातीर्थमनुत्तमम् ।
चित्रांगवदनं नाम मालार्काधिष्ठितं शुभम्
कल्पपादपसंतानैर्मंदारैश्चोपशोभितम् ।
चूतनिंबकदंबैश्च काश्मर्यश्वत्थतिंदुकैः
तस्मादपहरेत्कुष्ठं योजनस्मृतिविभ्रमात् ।
यस्य संजायते कुष्ठं तस्य मालार्कको हरेत्
या तु वेदोक्तविधिना नारी तत्राभिषिंचति ।
मृतवत्साऽथवा वंध्या पुत्रं प्राप्नोति साचिरात्
संध्यास्नानं जपो होमः स्वाध्यायो देवतार्चनम् ।
कृतं भास्करभक्तेन मालार्के ह्यक्षयं भवेत्
अत्र गत्वा तु देवेशि श्रीरवेर्व्रतमाचरेत् ।
इहलोके सुखं भुक्त्वा रवेर्लोकं हि याति वै
मृतवत्सो हि राजर्षिस्तत्र गत्वाऽकरोत्तपः ।
स राजा प्राप्तवान्पुत्रं श्रीमालार्कप्रसादतः
अत्र गत्वा विशेषण उपवासी जितेंद्रियः ।
मालार्कं पूजयेद्यो वै मुक्तिभागी भवेद्ध्रुवम्
वसिष्ठप्रमुखाविप्रा देवा इंद्रादयः सदा ।
निवसंति सुरश्रेष्ठे मालार्के रविसन्निधौ
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे मालार्कतीर्थं नाम अष्टचत्वारिंशदधिकशततमोऽध्यायः
मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0