भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.150

6.150.1

महादेवौवाच।
जंबूतीर्थं ततो गच्छेत्स्नानार्थं पापनाशनम् ।
कलिकाले च यत्पुंसां स्वर्गसोपानवत्स्थितम्

6.150.2

यत्र जांबवता पूर्वं दशांगे पर्वतोत्तमे ।
स्थापितं ऋक्षराजेशं लिगं सुरगणार्चितम्

6.150.3

रामेण हि यदा पूर्वं हतो वै रावणोऽसुरः ।
तदा जांबवता दिक्षु भेरीघोषैः प्रघोषितम्

6.150.4

जितं वै रामचंद्रेण रावणो निहतो रणे ।
लब्ध्वा सीतेति संघुष्य स्नातं तीर्थवरे शुभे

6.150.5

स्थापितं तत्र लिंगं तु स्वनाम्ना तु सुरेश्वरि ।
तत्र स्नात्वा नरः सद्यः स्मृत्वा रामं सहानुजम्

6.150.6

जाबवंतेश्वरं स्नात्वा रुद्रलोके महीयते ।
यत्रयत्र हि भो देवि श्रीरामस्मरणं कृतम् ।
भवबंधविमोक्षो हि दृश्यते स चराचरे

6.150.7

अहं रामस्तु विज्ञेयो रामो वै रुद्र एव च ।
एवं ज्ञात्वा तु ते देवि न भेदो वर्तते क्वचित्

6.150.8

रामरामेति रामेति मनसा ये जपंति च ।
तेषां सर्वार्थसिद्धिश्च भविष्यति युगेयुगे

6.150.9

अहं हि सर्वदा देवि श्रीरामस्मरणं चरे ।
यं श्रुत्वा तु पुनर्देवि न भवो जायते क्वचित्

6.150.10

काश्यां हि निवसन्नित्यं श्रीरामं कमलेक्षणम् ।
स्मरामि सततं देवि भक्त्या च विधिपूर्वकम्

6.150.11

जांबवता तदा पूर्वं स्मृत्वा रामं सुशोभनम् ।
जांबवंतमिति ख्यातं प्रस्थाप्य जगतां गुरुम्

6.150.12

तत्र स्नात्वा च भुक्त्वा च कृत्वा देवस्य पूजनम् ।
शिवलोकमवाप्नोति यावदिंद्राश्चतुर्दश

6.150.13

अत्र हि स्नानमात्रेण यथा जांबवतो बलम् ।
तथा वै बलमाप्नोति श्रीविश्वेशप्रसादतः

6.150.14

अत्र गत्वा तु भूदानं पुमान्यश्च करोति वै ।
फलं सहस्रगुणितं जांबवंतेश दर्शनात्

6.150.150

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे जांबवततीर्थमाहात्म्यंनाम पंचाशदधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc