भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.147

6.147.1

महादेव उवाच।
देवि वै श्रूयतां तीर्थं देवानामपि दुर्ल्लभम् ।
खड्गतीर्थमिति ख्यातं सर्वपापप्रणाशनम्

6.147.2

खड्गतीर्थे नरः स्नात्वा दृष्ट्वा खङ्गेश्वरं शिवम् ।
न नरो दुर्गतिं गच्छेत्स्वर्गलोकं प्रगच्छति

6.147.3

खड्गधारेश्वरं देवं यः पश्यति सुरोत्तमे ।
कार्तिक्यां तु विशेषेण पूजनं तत्र कारयेत्

6.147.4

अयं विश्वेश्वरो देवः सर्वदा भुवि वल्लभे ।
सर्वं ददाति सर्वेशो वांच्छितार्थप्रदायकः

6.147.5

वैशाखे राज्यकामार्थी यः पश्यति तमीश्वरम् ।
तमर्थं लभते क्षिप्रं विश्वनाथप्रसादतः

6.147.6

पुष्पैर्धूपैश्च नैवेद्यैर्दीपैर्वा नगनंदिनि ।
फलप्रदानैर्बिल्वैश्च विश्वेशं पूजयेत्ततः

6.147.7

धनधान्यप्रदं चाशु पुत्रपौत्रादिसंपदः ।
प्राप्यंते नात्र संदेहः श्रीविश्वेश्वरपूजनात्

6.147.147

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे खड्गतीर्थं नाम सप्तचत्वारिंशदधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc