भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 6.146

6.146.1

महादेव उवाच ।
ततो गच्छेत देवेशि तीर्थं रुद्र महालयम् ।
केदारानुपमं साक्षाद्रुद्रेण परिनिर्मितम्

6.146.2

श्राद्धं तत्रैव कर्तव्यं पितॄणां तृप्तिकारणम् ।
तत्र श्राद्धप्रदानेन पितरः सपितामहाः

6.146.3

तृप्ताः समभिगच्छंति रुद्रस्य परमं पदम् ।
वृषमुत्सृजते यस्तु तत्र रुद्र महालये

6.146.4

कार्तिक्यामथ वैशाख्यां रुद्रेण सह मोदते ।
केदारे उदकं पीत्वा पुनर्जन्म न विद्यते

6.146.5

अत्र तु स्नानमात्रेण मुक्तिभागी न संशयः ।
एकस्मिन्समये देवि त्यक्त्वा कैलासमागतः

6.146.6

साभ्रमतीं महागंगां ज्ञात्वा लोकहिताय वै ।
तत्र स्नात्वा च पीत्वा च कृत्वा तीर्थमनुत्तमम्

6.146.7

ततोहं च स्वकं स्थानं कैलासं प्रति भामिनि ।
तदनंतरं महापुण्यं तीर्थं जातं महालयम्

6.146.8

रुद्र महालयमिति लोके ख्यातिं गमिष्यति ।
कार्तिक्यामथ वैशाख्यां ये गच्छंति सुरोत्तमे ।
न तेषां विद्यते दुःखं सर्वसंसारजं पुनः

6.146.146

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायांमुत्तरखंडे उमामहेश्वरसंवादे रुद्र महालयतीर्थंनाम षट्चत्वारिंशाधिकशततमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc