भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.9

5.9.1

श्रीराम उवाच।
कीदृशोऽश्वस्तत्र भाव्यः को विधिस्तत्र पूजने ।
कथं वा शक्यते कर्तुं के जेयास्तत्र वैरिणः

5.9.2

अगस्त्य उवाच।
गंगाजलसमानेन वर्णेन वपुषा शुभः ।
कर्णे श्यामो मुखे रक्तः पीतः पुच्छे सुलक्षितः

5.9.3

मनोवेगः सर्वगतिरुच्चैःश्रवस्समप्रभः ।
वाजिमेधे हयः प्रोक्तः शुभलक्षणलक्षितः

5.9.4

वैशाखपूर्णमास्यां तु पूजयित्वा यथाविधि ।
पत्रं लिखित्वा भाले तु स्वनामबलचिह्नितम्

5.9.5

मोचनीयः प्रयत्नेन रक्षकैः परिरक्षितः ।
यत्र गच्छति यज्ञाश्वस्तत्र गच्छेत्सुरक्षकः

5.9.6

यस्तंबलान्निबध्नाति स्ववीर्यबलदर्पितः ।
तस्मात्प्रसभमानेयः परिरक्षाकरैर्हयः

5.9.7

कर्त्रा तावत्सुविधिना स्थातव्यं नियमादिह ।
मृगशृंगधरो भूत्वा ब्रह्मचर्यसमन्वितः

5.9.8

व्रतं पालयमानस्य यावद्वर्षमतिक्रमेत् ।
तावद्दीनांधकृपणाः परितोष्या धनादिभिः

5.9.9

अन्नं तु बहुशो देयं धनं वा भूरि मारिष ।
यद्यत्प्रार्थयते धीमांस्तत्तदेव ददाति हि

5.9.10

एवं प्रकुर्वतः कर्म यज्ञः संपूर्णतां गतः ।
करोति सर्वपापानां नाशनं रिपुनाशन

5.9.11

तस्माद्भवान्समर्थोऽस्ति करणे पालनेऽर्चने ।
कृत्वा कीर्तिं सुविमलां पावयान्याञ्जनान्नृप

5.9.12

श्रीराम उवाच।
विलोकय द्विजश्रेष्ठ वाजिशालां ममाधुना ।
तादृशाः संति नो वाश्वाः शुभलक्षणलक्षिताः

5.9.13

इति श्रुत्वा तु तद्वाक्यमगस्त्यः करुणाकरः ।
उत्तस्थौ वीक्षमाणोऽयं यागार्हान्वाजिनः शुभान्

5.9.14

गत्वाथ तत्र शालायां रामचंद्रसमन्वितः ।
ददर्शाश्वान्विचित्रांगान्मनोवेगान्महाबलान्

5.9.15

अवनितलगताः किं वाजिराजस्य वंश्याः किमथ रघुपतीनामेकतः कीर्तिपिंडाः ।
किमिदममृतराशिर्वाहरूपेण सिंधोर्मुनिरिति मनसोंतर्विस्मयं प्राप पश्यन्

5.9.16

एकतः शोणदेहानां वाजिनां पंक्तिरुत्तमा ।
एकतः श्यामकर्णाश्च कस्तूरीकांतिसप्रभाः

5.9.17

एकतः कनकाभाश्च त्वन्यतो नीलवर्णिनः ।
एकतः शबलैर्वर्णैर्विशिष्टैर्वाजिभिर्वृताः

5.9.18

एवं पश्यन्मुनिः सर्वान्कौतुकाविष्टमानसः ।
ययावन्यत्र तान्द्रष्टुं यागयोग्यान्हयान्मुनिः

5.9.19

ददर्श तत्र शतशो बद्धांस्तादृशवर्णकान् ।
दृष्ट्वा विस्मयमापेदे स मुनिर्हर्षितांगकः

5.9.20

एकतः श्यामकर्णांश्च सर्वांगैः क्षीरसन्निभान् ।
पीतपुच्छान्मुखे रक्ताञ्छुभलक्षणलक्षितान्

5.9.21

निरीक्ष्य परितोऽनघान्विमलनीरधारानिभान्मनोजवनशोभितान्विमलकीर्तिपुंजप्रभान् ।
पयोनिधिविशोषको मुनिरुवाचसीतापतिं विचित्रहयदर्शनाद्धृषितनेत्रवक्त्रप्रभः

5.9.22

अगस्त्य उवाच।
हयमेधक्रतौ योग्यान्वाहांस्ते बहुशः शुभान् ।
पश्यतो नेत्रयोर्मेऽद्य तृप्तिर्नास्ति रघूत्तम

5.9.23

रामचंद्र महाभाग सुरासुरनमस्कृत ।
यज्ञं कुरु महाराज हयमेधं सुविस्तरम्

5.9.24

सुरपतिरिव सर्वान्यज्ञसंघान्करिष्यंस्तपन इव सुपर्वारातितोयं विशोष्यन् ।
हतरिपुगणमुख्यं सांपरायं विजित्य क्षितितलसुखभोगं कुर्विदं भूरिभाग

5.9.25

इत्येवं वाक्यवादेन परितुष्टाखिलेंद्रियः ।
सर्वान्वै यज्ञसंभारानाजहार मनोहरान्

5.9.26

मुन्यन्वितो महाराजः सरयूतीरमागतः ।
सुवर्णलांगलैर्भूमिं विचकर्ष महीयसीम्

5.9.27

विलिख्य भूमिं बहुशश्चतुर्योजनसंमिताम् ।
मंडपान्रचयामास यज्ञार्थं स नरोत्तमः

5.9.28

कुंडं तु विधिवत्कृत्वा योनिमेखलयान्वितम् ।
अनेकरत्नरचितं सर्वशोभासमन्वितम्

5.9.29

मुनीश्वरो महाभागो वसिष्ठः सुमहातपाः ।
सर्वं तत्कारयामास वेदशास्त्रविधिश्रितम्

5.9.30

प्रेषितास्तेन मुनिना शिष्या मुनिवराश्रमान् ।
कथयामासुरुद्युक्तं हयमेधे रघूत्तमम्

5.9.31

आकारितास्तदा सर्वे ऋषयस्तपतां वराः ।
आजग्मुः परमेशस्य दर्शने त्वतिलालसाः

5.9.32

नारदोसितनामा च पर्वतः कपिलो मुनिः ।
जातूकर्ण्योंऽगिरा व्यास आर्ष्टिषेणोऽत्रिरासुरिः

5.9.33

हारीतो याज्ञवल्क्यश्च संवर्तः शुकसंज्ञितः ।
इत्येवमादयो राम हयमेधवरं ययुः

5.9.34

तान्सर्वान्पूजयामास रघुराजो महामनाः ।
प्रत्युत्थानाभिवादाभ्यामर्घ्यविष्टरकादिभिः

5.9.35

गां हिरण्यं ददौ तेभ्यः प्रायशो दृष्टविक्रमः ।
महद्भाग्यं त्वद्यमेऽस्ति यद्यूयं दर्शनं गताः

5.9.36

शेष उवाच।
एवं समाकुले ब्रह्मन्नृषिवर्य समागमे ।
धर्मवार्ता बभूवाहो वर्णाश्रमसुसंमता

5.9.37

वात्स्यायन उवाच।
का धर्मवार्ता तत्रासीत्किं वा कथितमद्भुतम् ।
साधवः सर्वलोकानां कारुण्यात्किमुताब्रुवन्

5.9.38

शेष उवाच।
तान्समेतान्मुनीन्दृष्ट्वा रामो दाशरथिर्महान् ।
पप्रच्छ सर्वधर्मांश्च सर्ववर्णाश्रमोचितान्

5.9.39

ते तु पृष्टा हि रामेण धर्मान्प्रोचुर्महागुणान् ।
तान्प्रवक्ष्यामि ते सर्वान्यथाविधि शृणुष्व तान्

5.9.40

ऋषय ऊचुः।
ब्राह्मणेन सदा कार्यं यजनाध्ययनादिकम् ।
वेदान्पठित्वा विरजो नैव गार्हस्थ्यमाविशेत्

5.9.41

ब्राह्मणेन सदा त्याज्यं नीचसेवानुजीवनम् ।
आपद्गतोऽपि जीवेत न श्ववृत्त्या कदाचन

5.9.42

ऋतुकालाभिगमनं धर्मोऽयं गृहिणः परः ।
स्त्रीणां वरमनुस्मृत्याऽपत्यकामोथवा भवेत्

5.9.43

दिवाभिगमनं पुंसामनायुष्यकरं मतम् ।
श्राद्धाहः सर्वपर्वाणि यतस्त्याज्यानि धीमता

5.9.44

तत्र गच्छेत्स्त्रियं मोहाद्धर्मात्प्रच्यवते परात् ।
ऋतुकालाभिगामी यः स्वदारनिरतश्च यः

5.9.45

सर्वदा ब्रह्मचारी ह विज्ञेयः स गृहाश्रमी ।
ऋतुः षोडशयामिन्यश्चतस्रस्ता सुगर्हिताः

5.9.46

पुत्रदास्तासु या युग्मा अयुग्माः कन्यकाप्रदाः ।
त्यक्त्वा चंद्रमसं दुष्टं मघां मूलं विहाय च

5.9.47

शुचिः सन्निर्विशेत्पत्नीं पुंनामर्क्षे विशेषतः ।
शुचिं पुत्रं प्रसूयेत पुरुषार्थप्रसाधनम्

5.9.48

आर्षे विवाहे गोद्वंद्वं यदुक्तं तत्प्रशस्यते ।
शुल्कमण्वपि कन्यायाः कन्याक्रेतुस्तु पापकृत्

5.9.49

वाणिज्यं नृपतेः सेवा वेदानध्ययनं तथा ।
कुविवाहः क्रियालोपः कुलपातनहेतवः

5.9.50

अन्नोदक पयो मूलफलैर्वापि गृहाश्रमी ।
गोदानेन तु यत्पुण्यं पात्राय विधिपूर्वकम्

5.9.51

अनर्चितोऽतिथिर्गेहाद्भग्नाशो यस्य गच्छति ।
आजन्मसंचितात्पुण्यात्क्षणात्स हि बहिर्भवेत्

5.9.52

पितृदेवमनुष्येभ्यो दत्त्वाश्नीतामृतं गृही ।
स्वार्थं पचत्यघं भुंक्ते केवलं स्वोदरंभरिः

5.9.53

षष्ठ्यष्टम्योर्विशेत्पापं तैले मांसे सदैव हि ।
चतुर्दश्यां तथामायां त्यजेत क्षुरमंगनाम्

5.9.54

रजस्वलां न सेवेत नाश्नीयात्सह भार्यया ।
एकवासा न भुंजीत न भुंजीतोत्कटासने

5.9.55

नाश्नंतीं स्त्रियमीक्षेत तेजःकामो नरोत्तमः ।
मुखेनोपधमेन्नाग्निं नग्नां नेक्षेत योषितम्

5.9.56

नांघ्री प्रतापयेदग्नौ न वस्त्वशुचि निक्षिपेत् ।
प्राणिहिंसां न कुर्वीत नाश्नीयात्संध्ययोर्द्वयोः

5.9.57

नाचक्षीत धयंतीं गां नेंद्रचापं प्रदर्शयेत् ।
न दिवोद्गतसारं च भक्षयेद्दधिनो निशि

5.9.58

स्त्रीं धर्मिणीं नाभिवादेन्नाद्यादातृप्ति रात्रिषु ।
तौर्यत्रिकप्रियो न स्यात्कांस्ये पादौ न धावयेत्

5.9.59

न धारयेदन्यभुक्तं वासश्चोपानहावपि ।
न भिन्नभाजनेऽश्नीयान्नाश्नीतान्नं विदूषितम्

5.9.60

संविशेन्नार्द्रचरणो नोच्छिष्टः क्वचिदाव्रजेत् ।
शयानो वा न चाश्नीयान्नोच्छिष्टः संस्पृशेच्छिरः

5.9.61

न मनुष्यस्तुतिं कुर्यान्नात्मानमवमानयेत् ।
अभ्युद्यतं न प्रणमेत्परमर्माणि नो वदेत्

5.9.62

एवं गार्हस्थ्यमाश्रित्य वानप्रस्थाश्रमं व्रजेत् ।
सस्त्रीको वा गतस्त्रीको विरज्येत ततः परम्

5.9.63

इत्येवमादयो धर्मा गदिता ऋषिभिस्तदा ।
श्रुता रामेण महता सर्वलोकहितैषिणा

5.9.9

इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे सर्वधर्मोपदेशोनाम नवमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc