भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.10

5.10.1

शेष उवाच।
इत्थं संशृण्वतो धर्मान्वसंतः समुपस्थितः ।
यत्र यज्ञ क्रियादीनां प्रारंभः सुमहात्मनाम्

5.10.2

दृष्ट्वा तं समयं धीमान्वसिष्ठः कलशोद्भवः ।
रामचंद्रं महाराजं प्रत्युवाच यथोचितम्

5.10.3

वसिष्ठ उवाच।
रामचंद्र महाबाहो समयः पर्यभूत्तव ।
हयो यत्र प्रमुच्येत यज्ञार्थं परिपूजितः

5.10.4

सामग्री क्रियतां तत्र आहूयंतां द्विजोत्तमाः ।
करोतु पूजां भगवान्ब्राह्मणानां यथोचिताम्

5.10.5

दीनांधकृपणानां च दानं स्वांते समुत्थितम् ।
ददातु विधिवत्तेषां प्रतिपूज्याधिमान्य च

5.10.6

भवान्कनकसत्पत्न्या दीक्षितोऽत्र व्रतं चर ।
भूमिशायी ब्रह्मचारी वसुभोगविवर्जितः

5.10.7

मृगशृंगधरः कट्यां मेखलाजिनदंडभृत् ।
करोतु यज्ञसंभारं सर्वद्रव्यसमन्वितम्

5.10.8

इति श्रुत्वा महद्वाक्यं वसिष्ठस्य यथार्थकम् ।
उवाच लक्ष्मणं धीमान्नानार्थपरिबृंहितम्

5.10.9

श्रीराम उवाच।
शृणु लक्ष्मण मद्वाक्यं श्रुत्वा तत्कुरु सत्वरम् ।
हयमानय यत्नेन वाजिमेधक्रियोचितम्

5.10.10

शेष उवाच।
श्रुत्वा वाक्यं रघुपतेः शत्रुजिल्लक्ष्मणस्तदा ।
सेनापतिमुवाचेदं वचो विविधवर्णनम्

5.10.11

लक्ष्मण उवाच।
वीराकर्णय मे वचः सुमधुरं श्रुत्वा त्वरातः पुनः ।
कार्यं तत्क्षितिपालमौलिमुकुटैर्घृष्टांघ्रि रामाज्ञया ।
सेनां कालबलप्रभंजनबलप्रोद्यत्समर्थांगिनीं ।
सज्जां सद्रथहस्तिपत्तिसुहयारोहैर्विधे ह्यन्विताम्

5.10.12

सज्जीयतां वायुजवास्तुरंगास्तरंगमाला ललितांघ्रिपाताः ।
सदश्वचारैर्बहुशस्त्रधारिभिः संरोहिता वैरिबलप्रहारिभिः

5.10.13

संलक्ष्यतां हस्तिनः पर्वताभा आधोरणैः प्रासकुंताग्रहस्तैः ।
शूरैः सास्त्रैर्भूरिदानोपहाराः क्षीबाणस्ते सर्वशस्त्रास्त्रपूर्णाः

5.10.14

विततबहुसमृद्धिभ्राजमाना रथा मे पवनजवनवेगैर्वाजिभिर्युज्यमानाः ।
विविधरिपुविनाशस्मारकैरायुधास्त्रैर्भृतवलभिविभागानीयतां सूतवृंदैः

5.10.15

पत्तयः शतशो मह्यमायांत्वस्त्राग्न्यपाणयः ।
हयमेधार्हवाहस्य रक्षणे विततोद्यमाः

5.10.16

इत्याकर्ण्य वचस्तस्य लक्ष्मणस्य महात्मनः ।
सेनानी कालजिन्नामा कारयामास सज्जताम्

5.10.17

दशध्रुवकमंडितो लघुसुरोमशोभान्वितो विविक्तगलशुक्तिभृद्विततकंठको शेमणिः मुखे विशदकांतिधृत्त्वसितकांतिभृत्कर्णयोर्व्यराजत तदाह यो धृतकराग्ररश्मिच्छटः

5.10.18

कलासंशोभितमुखः स्फुरद्रत्नविशोभितः ।
मुक्ताफलानां मालाभिः शोभितो निर्ययौ हयः

5.10.19

श्वेतातपत्ररचितः सितचामरशोभितः ।
बहुशोभापरीतांगो निर्ययौ हयराट्ततः

5.10.20

अग्रतो मध्यतश्चैके पृष्ठतः सैनिकास्तथा ।
देवा हरिं यथापूर्वं सेवंते सेवनोचितम्

5.10.21

अथ सैन्यं समाहूय सर्वमाज्ञापयत्तदा ।
हस्त्यश्वरथपादातवृन्दैः सुबहुसंकुलम्

5.10.22

ततस्ततः समेतानां सैन्यानां श्रूयते ध्वनिः ।
ततो दुंदुभिनादोऽभूत्तस्मिन्पुरवरे तदा

5.10.23

तन्निनादेन शूराणां प्रियेण महता तदा ।
कंपंति गिरिशृंगाणि प्रासादा विचलंति च

5.10.24

हेषारवो महानासीद्वाजिनां मुह्यतां नृप ।
रथांगघातसंघुष्टा धरा संचलतीव सा

5.10.25

चलितैर्गजयूथैश्च पृथ्वी रुद्धा समंततः ।
रजस्तु प्रचलत्तत्र जनांतर्द्धानमादधात्

5.10.26

निर्जगाम महासैन्यं छत्रैः संछाद्य भास्करम् ।
सेनान्याकालजिन्नाम्ना प्रेरितं जनसंकुलम्

5.10.27

गर्जंतस्तलवीराग्र्याः कुर्वंतो रणसंभ्रमम् ।
रघुनाथस्य यागाय सज्जास्ते प्रययुर्मुदा

5.10.28

मृगमदमयमंगेष्वंगरागं दधानाः कुसुमविमलमालाशोभितस्वोत्तमांगाः ।
मुकुटकटकभूषाभूषितांगाः समस्ताः प्रययुरवनिनाथप्रेरितास्तेऽपि सर्वे

5.10.29

इत्येवं ते महाराजं ययुः सेनाचरा वराः ।
धनुर्धराः पाशधराः खड्गधाराः स्फुटक्रमाः

5.10.30

एवं शनैःशनैः प्राप्तो मंडपं यागचिह्नितम् ।
हयः खुरक्षततलां भूमिं कुर्वन्नभः प्लवन्

5.10.31

रामो दृष्ट्वा हरिं प्राप्तं बहुसंतुष्टमानसः ।
वसिष्ठं प्रेरयामास क्रियाकर्तव्यतां प्रति

5.10.32

वसिष्ठो राममाहूय स्वर्णपत्नीसमन्वितम् ।
प्रयोगं कारयामास ब्रह्महत्यापनोदनम्

5.10.33

ब्रह्मचर्यव्रतधरो मृगशृंगपरिग्रहः ।
तत्कर्म कारयामास रामः परपुरंजयः

5.10.34

प्रारेभे यागकर्मार्थं कुंडं मण्डपसंमितम् ।
तत्राचार्योभवद्धीमान्वेदशास्त्रविचारवित्

5.10.35

वसिष्ठो रघुनाथस्य कुलपूर्वगुरुर्मुनिः ।
ब्रह्मंस्तत्राचरद्ब्रह्मकर्मागस्त्यस्तपोनिधिः

5.10.36

वाल्मीकिर्मुनिरध्वर्युर्मुनिः कण्वस्तु द्वारपः ।
अष्टौ द्वाराणि तत्रासन्सतोरण शुभानि वै

5.10.37

द्वारि द्वारि द्वयं विप्र ब्राह्मणस्याधिमंत्रवित् ।
पूर्वद्वारि मुनिश्रेष्ठौ देवलासित संज्ञितौ

5.10.38

दक्षिणद्वारि भूमानौ कश्यपात्री तपोनिधी ।
पश्चिमद्वारि ऋषभौ जातूकर्ण्योऽथ जाजलिः

5.10.39

उत्तरद्वारि तु मुनी द्वौ द्वितैकत तापसौ ।
एवं द्वारविधिं कृत्वा वसिष्ठः कलशोद्भवः

5.10.40

हयवर्यस्य सत्पूजां कर्तुमारभत द्विज ।
सुवासिन्यः स्त्रियस्तत्र वासोलंकारभूषिताः

5.10.41

हरिद्राक्षतगंधाद्यैः पूजयामासुरर्चितम् ।
नीराजनं ततः कृत्वा धूपयित्वागुरूक्षणैः

5.10.42

वर्धापनं ततो वेश्याश्चक्रुस्ता वाडवाज्ञया ।
एवं संपूज्य विमले भाले चंदनचर्चिते

5.10.43

कुंकुमादिकगंधाढ्ये सर्वशोभासमन्विते ।
बबंध भास्वरं पत्रं तप्तहाटकनिर्मितम्

5.10.44

तत्रालिखद्दाशरथेः प्रतापबलमूर्जितम् ।
सूर्यवंशध्वजो धन्वी धनुर्दीक्षा गुरुर्गुरुः

5.10.45

यं देवाः सासुराः सर्वे नमंति मणिमौलिभिः ।
तस्यात्मजो वीरबलदर्पहारी रघूद्वहः

5.10.46

रामचंद्रो महाभागः सर्वशूरशिरोमणिः ।
तन्माता कोसलनृपपत्नीगर्भसमुद्भवा

5.10.47

तस्याः कुक्षिभवं रत्नं रामः शत्रुक्षयंकरः ।
करोति हयमेधं वै ब्राह्मणेन सुशिक्षितः

5.10.48

रावणाभिधविप्रेंद्र वधपापापनुत्तये ।
मोचितस्तेन वाहानां मुख्योऽसौ वाजिनां वरः

5.10.49

महाबलपरीवार परिखाभिः सुरक्षितः ।
तद्रक्षकोऽस्ति तद्भ्राता शत्रुघ्नो लवणांतकः

5.10.50

हस्त्यश्वरथपादात सेनासंघसमन्वितः ।
यस्य राज्ञ इति श्रेष्ठो मानः स्यात्स्वबलोन्मदात्

5.10.51

वयं धनुर्धराः शूराः श्रेष्ठा वयमिहोत्कटाः ।
ते गृह्णंतु बलाद्वाहं रत्नमालाविभूषितम्

5.10.52

मनोवेगं कामजवं सर्वगत्यधिभास्वरम् ।
ततो मोचयिता भ्राता शत्रुघ्नो लीलया हयम्

5.10.53

शरासनविनिर्मुक्त वत्सदंतैः शिखाशितैः

5.10.54

इत्येवमादि विलिलेख महामुनींद्रः ।
श्रीरामचंद्र भुजवीर्यलसत्प्रतापम् ।
शोभानिधानमतिचंचलवायुवेगं ।
पातालभूतलविशेषगतिं मुमोच

5.10.55

शत्रुघ्नमादिदेशाथ रामः शस्त्रभृतां वरः ।
याहि वाहस्य रक्षार्थं पृष्ठतः स्वैरगामिनः

5.10.56

शत्रुघ्न गच्छ वाहस्य मार्गं भद्रं भवेत्तव ।
भवेतां शत्रुविजयौ रिपुकर्षण ते भुजौ

5.10.57

ये योद्धारः प्रतिरणगतास्ते त्वया वारणीया-।
वाहं रक्ष स्वकगुणगणैः संयुतः सन्महोर्व्याम् ।
सुप्तान्भ्रष्टान्विगतवसनान्भीतभीतांस्तु नम्रां-।
स्तान्मा हन्याः सुकृतकृतिनो येन शंसंति कर्म

5.10.58

विरथा भयसंत्रस्ता ये वदंति वयं तव ।
ते त्वया न हि हंतव्याः शत्रुघ्न सुकृतैषिणा

5.10.59

यो हन्याद्विमदं मत्तं सुप्तं मग्नं भयातुरम् ।
तावकोऽहं ब्रुवाणं च स व्रजत्यधमां गतिम्

5.10.60

परस्वे चित्तवृत्तिं त्वं मा कृथाः पारदारिके ।
नीचे रतिं न कुर्वीथाः सर्वसद्गुणपूरितः

5.10.61

वृद्धानां प्रेरणं पूर्वं मा कुर्वीथा रणं जय ।
पूज्यपूजातिक्रमं त्वं मा विधेहि दयान्वितः

5.10.62

गां विप्रं च नमस्कुर्या वैष्णवं धर्मसंयुतम् ।
अभिवाद्य यतो गच्छेस्तत्र सिद्धिमवाप्नुयाः

5.10.63

विष्णुः सर्वेश्वरः साक्षी सर्वव्यापकदेहभृत् ।
ये तदीया महाबाहो तद्रूपा विचरंति हि

5.10.64

ये स्मरंति महाविष्णुं सर्वभूतहृदि स्थितम् ।
ते मंतव्या महाविष्णु समरूपा रघूद्वह

5.10.65

यस्य स्वीयो न पारक्यो यस्य मित्रसमो रिपुः ।
ते वैष्णवाः क्षणादेव पापिनं पावयंति हि

5.10.66

येषां प्रियं भागवतं येषां वै ब्राह्मणाः प्रियाः ।
वैकुंठात्प्रेषितास्तेऽत्र लोकपावनहेतवे

5.10.67

येषां वक्त्रे हरेर्नाम हृदि विष्णुः सनातनः ।
उदरे विष्णुनैवेद्यः स श्वपाकोऽपि वैष्णवः

5.10.68

येषां वेदाः प्रियतमा न च संसारजं सुखम् ।
स्वधर्मनिरता ये च तान्नमस्कुर्विहान्वितान्

5.10.69

शिवे विष्णौ न वा भेदो न च ब्रह्ममहेशयोः ।
तेषां पादरजः पूतं वहाम्यघविनाशनम्

5.10.70

गौरी गंगा महालक्ष्मीर्यस्य नास्ति पृथक्तया ।
ते मंतव्या नराः सर्वे स्वर्गलोकादिहागताः

5.10.71

शरणागतरक्षी च मानदानपरायणः ।
यथाशक्ति हरेः प्रीत्यै स ज्ञेयो वैष्णवोत्तमः

5.10.72

यस्य नाम महापापराशिं दहति सत्वरम् ।
तदीय चरणद्वंद्वे भक्तिर्यस्य स वैष्णवः

5.10.73

इंद्रियाणि वशे येषां मनोऽपि हरिचिंतकम् ।
तान्नमस्कृत्य पूयात्सह्या जन्ममरणांतिकात्

5.10.74

परस्त्रियं त्वं करवालवत्त्यजन्भवेर्यशोभूषणभूतिभूमिः ।
एवं ममादेशमथाचरंश्च लभेः परं धाम सुयोगमीड्यम्

5.10.10

इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे शत्रुघ्नशिक्षाकथनंनाम दशमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc