भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.8

5.8.1

शेष उवाच।
वात्स्यायनमुनिश्रेष्ठ कथा पापप्रणाशिनी ।
ब्रह्मण्यदेवदेवस्य सर्वधर्मैकरक्षितुः

5.8.2

राजानं मूर्च्छितं दृष्ट्वा कुंभजन्मा तपोनिधिः ।
शनैःशनैः करेणाशु पस्पर्शाश्रु जगाद च

5.8.3

भो रामाश्वसिहि क्षिप्रं किमर्थमवसीदसि ।
भवान्दैत्यकुलच्छेत्ता महाविष्णुः सनातनः

5.8.4

भूतं भव्यं भवच्चैव जगत्स्थास्नु चरिष्णु च ।
त्वदृते नास्ति संचारी किमर्थमिह मूर्च्छितः

5.8.5

श्रुत्वा वाक्यं महाराजः कुंभजन्मसमीरितम् ।
उत्तस्थौ विगलन्नेत्र बाष्पपूरितसन्मुखः

5.8.6

उवाच दीनदीनं च विस्पष्टाक्षरविस्तरम् ।
त्रपाभर नमन्मूर्तिर्ब्रह्मद्रोहपराङ्मुखः

5.8.7

श्रीराम उवाच।
अहो मे पश्यता ज्ञानं विमूढस्य दुरात्मनः ।
यद्ब्राह्मणकुले रूढं हतवान्कामलोलुपः

5.8.8

महिलार्थे त्वहं विप्रं वेदशास्त्रविवेकवान् ।
हतवान्वाडवकुलं बुद्धिहीनोति दुर्मतिः

5.8.9

इक्ष्वाकूणां कुले जातु ब्राह्मणो न दुरुक्तिभाक् ।
ईदृशं कुर्वता कर्म मयैतत्सुकलंकितम्

5.8.10

ये ब्राह्मणास्तु पूजार्हा दानसम्मानभोजनैः ।
ते मया निहता विप्राः शरसंघातसंहितैः

5.8.11

काँल्लोकान्नु गमिष्यामि कुंभीपाकोऽपि दुःसहः ।
न तादृशं तीर्थमस्ति यन्मां पावयितुं क्षमम्

5.8.12

न यज्ञो न तपो दानं न वा चैव व्रतादिकम् ।
यत्तु वै ब्राह्मणद्रोग्धुर्ममपावनतारकम्

5.8.13

यैः कोपितं ब्रह्मकुलं नरैर्निरयगामिभिः ।
ते नरा बहुशो दुःखं भोक्ष्यंति निरयं गताः

5.8.14

वेदा मूलं तु धर्माणां वर्णाश्रमविवेकिनाम् ।
तन्मूलं ब्राह्मणकुलं सर्ववेदैकशाखिनः

5.8.15

मूलच्छेत्तुर्ममौद्धत्यात्को लोकोनु भविष्यति ।
किमद्यकरणीयं वै येन मे हि शिवं भवेत्

5.8.16

शेष उवाच।
विलपंतं भृशं रामं राजेंद्रं रघुपुंगवम् ।
मायामनुष्यवपुषं कुंभजन्माब्रवीद्वचः

5.8.17

अगस्त्य उवाच।
मा विषादं महाधीर कुरु राजन्महामते ।
न ते ब्राह्मणहत्या स्याद्दुष्टानां नाशमिच्छतः

5.8.18

त्वं पुराणः पुमान्साक्षादीश्वरः प्रकृतेः परः ।
कर्ता हर्ताऽविता साक्षी निर्गुणः स्वेच्छया गुणी

5.8.19

सुरापो ब्रह्महत्याकृत्स्वर्णस्तेयी महाघकृत् ।
सर्वे त्वन्नामवादेन पूताः शीघ्रं भवंति हि

5.8.20

इयं देवी जनकजा महाविद्या महामते ।
यस्याः स्मरणमात्रेण मुक्ता यास्यंति सद्गतिम्

5.8.21

रावणोऽपि न वै दैत्यो वैकुंठे तव सेवकः ।
ऋषीणां शापतोऽवाप्तो दैत्यत्वं दनुजांतक

5.8.22

तस्यानुग्रहकर्ता त्वं न तु हंता द्विजन्मनः ।
एवं संचिंत्य मा भूयो निजं शोचितुमर्हसि

5.8.23

इति श्रुत्वा ततो वाक्यं रामः परपुरंजयः ।
उवाच मधुरं वाक्यं गद्गदस्वरभाषितम्

5.8.24

श्रीराम उवाच।
पातकं द्विविधं प्रोक्तं ज्ञाताज्ञातविभेदतः ।
ज्ञातं यद्बुद्धिपूर्वं हि अज्ञातं तद्विवर्जितम्

5.8.25

बुद्धिपूर्वं कृतं कर्म भोगेनैव विनश्यति ।
नश्येदनुशयादन्यदिदं शास्त्रविनिश्चितम्

5.8.26

कुर्वतो बुद्धिपूर्वं मे ब्रह्महत्यां सुनिंदिताम् ।
न मे दुःखापनोदाय साधुवादः सुसंमतः

5.8.27

प्रब्रूहि तादृशं मह्यं यादृशं पापदाहकम् ।
व्रतं दानं मखं किंचित्तीर्थमाराधनं महत्

5.8.28

येन मे विमला कीर्तिर्लोकान्वै पावयिष्यति ।
पापाचाराप्तकालुष्यान्ब्रह्महत्याहतप्रभान्

5.8.29

शेष उवाच।
इत्युक्तवंतं तं रामं जगाद स तपोनिधिः ।
सुरासुरनमन्मौलि मणिनीराजितांघ्रिकम्

5.8.30

शृणु राम महावीर लोकानुग्रहकारक ।
विप्रहत्यापनोदाय तव यद्वचनं ब्रुवे

5.8.31

सर्वं स पापं तरति योऽश्वमेधं यजेत वै ।
तस्मात्त्वं यज विश्वात्मन्वाजिमेधेन शोभिना

5.8.32

सप्ततंतुर्महीभर्त्रा त्वया साध्यो मनीषिणा ।
महासमृद्धियुक्तेन महाबलसुशालिना

5.8.33

स वाजिमेधो विप्राणां हत्यायाः पापनोदनः ।
कृतवान्यं महाराजो दिलीपस्तव पूर्वजः

5.8.34

शतक्रतुः शतं कृत्वा क्रतूनां पुरुषर्षभः ।
पदमापामरावत्यां देवदैत्यसुसेवितम्

5.8.35

मनुश्च सगरो राजा मरुत्तो नहुषात्मजः ।
एते ते पूर्वजाः सर्वे यज्ञं कृत्वा पदं गताः

5.8.36

तस्मात्त्वं कुरु राजेंद्र समर्थोऽसि समंततः ।
भ्रातरो लोकपालाभा वर्तंते तव भावुकाः

5.8.37

इत्युक्तमाकर्ण्य मुनेः स भाग्यवान् रघूत्तमो ब्राह्मणघातभीतः ।
पप्रच्छ यागे सुमतिं चिकीर्षन्विधिं पुरावित्परिगीयमानः

5.8.8

इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे रघनाथस्यागस्त्योपदेशोनामाष्टमोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc