भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.11

5.11.1

शेष उवाच।
एवमाज्ञाप्य भगवान्रामश्चामित्रकर्षणः ।
वीरानालोकयन्भूयो जगाद शुभया गिरा

5.11.2

शत्रुघ्नस्य मम भ्रातुर्वाजिरक्षाकरस्य वै ।
को गंता पृष्ठतो रक्षंस्तन्निदेशप्रपालकः

5.11.3

यः सर्ववीरान्प्रतिमुख्यमागतान्विनिर्जयेन्मर्मभिदस्त्रसंघैः ।
गृह्णात्वसौ मे करवीटकं तद्भूमौ यशः स्वं प्रथयन्सुविस्तरम्

5.11.4

इत्युक्तवति रामे तु पुष्कलो भरतात्मजः ।
जग्राह वीटकं तस्माद्रघुराजकरांबुजात्

5.11.5

स्वामिन्गच्छामि शत्रुघ्न पृष्ठरक्षाकरोऽन्वहम् ।
सन्नद्धः सर्वशस्त्रास्त्र चापबाणधरः प्रभो

5.11.6

सर्वमद्य क्षितितलं त्वत्प्रतापो विजेष्यते ।
एते निमित्तभूता वै रामचंद्र महामते

5.11.7

भवत्कृपातः सकलं ससुरासुरमानुषम् ।
उपस्थितं प्रयुद्धाय तन्निषेधे क्षमो ह्यहम्

5.11.8

सर्वं स्वामी ज्ञास्यति यन्ममविक्रम दर्शनात् ।
एष गंतास्मि शत्रुघ्न पृष्ठरक्षाप्रकारकः

5.11.9

एवं ब्रुवंतं भरतात्मजं स प्रस्तूय साध्वित्यनुमोदमानः ।
शशंस सर्वान्कपिवीरमुख्यान्प्रभंजनोद्भूतमुखान्हरिः प्रभुः

5.11.10

भो हनूमन्महावीर शृणु मद्वाक्यमादृतः ।
त्वत्प्रसादान्मया प्राप्तमिदं राज्यमकंटकम्

5.11.11

सीतया मम संयोगे यो भवाञ्जलधिं तरेः ।
चरितं तद्धरे वेद्मि सर्वं तव कपीश्वर

5.11.12

त्वं गच्छ मम सैन्यस्य पालकः सन्ममाज्ञया ।
शत्रुघ्नः सोदरो मह्यं पालनीयस्त्वहं यथा

5.11.13

यत्र यत्र मतिभ्रंशः शत्रुघ्नस्य प्रजायते ।
तत्र तत्र प्रबोद्धव्यो भ्राता मम महामते

5.11.14

इति श्रुत्वा महद्वाक्यं रामचंद्रस्य धीमतः ।
शिरसा तत्समाधाय प्रणाममकरोत्तदा

5.11.15

अथादिशन्महाराजो जांबवंतं कपीश्वरम् ।
रघुनाथस्य सेवायै कपिषूत्तमतेजसम्

5.11.16

अंगदो गवयो मैंदस्तथा दधिमुखः कपिः ।
सुग्रीवः प्लवगाधीशः शतवल्यक्षिकौ कपी

5.11.17

नीलो नलो मनोवेगोऽधिगंता वानरांगजः ।
इत्येवमादयो यूयं सज्जीभूता भवंतु भोः

5.11.18

सर्वैर्गजैः सदश्वैश्च तप्तहाटकभूषणैः ।
कवचैः सशिरस्त्राणैर्भूषितायां तु सत्वराः

5.11.19

शेष उवाच।
सुमंत्रमाहूय सुमंत्रिणं तदा जगाद रामो बलवीर्यशोभनः ।
अमात्यमौले वद केऽत्र योज्या नरा हयं पालयितुं समर्थाः

5.11.20

तदुक्तमेवमाकर्ण्य जगाद परवीरहा ।
हयस्य रक्षणे योग्यान्बलिनोऽत्र नराधिपान्

5.11.21

रघुनाथ शृणुष्वैतान्नववीरान्सुसंहितान् ।
धनुर्धरान्महाविद्यान्सर्वशस्त्रास्त्रकोविदान्

5.11.22

प्रतापाग्र्यं नीलरत्नं तथा लक्ष्मीनिधिं नृपम् ।
रिपुतापं चोग्रहयं तथा शस्त्रविदं नृपम्

5.11.23

राजन्योऽसौ नीलरत्नो महावीरो रथाग्रणीः ।
स एव लक्षं रक्षेत लक्षं युध्येत निर्भयः

5.11.24

अक्षौहिणीभिर्दशभिर्यातु वाहस्य रक्षणे ।
दंशितैस्स शिरस्त्राणैर्मम बाहुभिरुद्धतैः

5.11.25

प्रतापाग्र्यो यो ह्ययं च रिपुगर्वमशातयत् ।
सव्यापसव्यबाणानां मोक्ता सर्वास्त्रवित्तमः

5.11.26

एषोऽक्षौहिणिविंशत्या यातु यज्ञहयावने ।
सन्नद्धो रिपुनाशाय युवाको दंडदंडभृत्

5.11.27

तथा लक्ष्मीनिधिस्त्वेष यातु राजन्यसत्तमः ।
यस्तपोभिः शतधृतिं प्रसाद्यास्त्राणि चाभ्यसत्

5.11.28

ब्रह्मास्त्रं पाशुपत्यास्त्रं गारुडं नागसंज्ञितम् ।
मायूरं नाकुलं रौद्रं वैष्णवं मेघसंज्ञितम्

5.11.29

वज्रं पार्वतसंज्ञं च तथा वायव्यसंज्ञितम् ।
इत्यादिकानामस्त्राणां संप्रयोगविसर्गवित्

5.11.30

स एष निजसैन्यानामक्षौहिण्यैकया युतः ।
प्रयातु शूरमुकुटः सर्ववैरिप्रभंजनः

5.11.31

रिपुतापोऽयमेवाद्य गच्छत्वग्र्यो धनुर्भृताम् ।
सर्वशस्त्रास्त्रकुशलो रिपुवंशदवानलः

5.11.32

गच्छतात्सेनया बह्व्या चतुरंगसमेतया ।
शत्रुघ्नाज्ञां शिरस्येते दधत्वद्य बलोत्कटाः

5.11.33

उग्राश्वोऽपि महाराजा तथा शस्त्रविदेष च ।
सर्वे यांतु सुसंनद्धास्तव वाहस्य पालकाः

5.11.34

इति भाषितमाकर्ण्य मंत्रिणः प्रजहर्ष च ।
आज्ञापयामास च तान्सुमंत्रकथितान्भटान्

5.11.35

तेऽनुज्ञां रघुनाथस्य प्राप्य मोदं प्रपेदिरे ।
चिरकालं सांपरायं वांच्छंतो युद्धदुर्मदाः

5.11.36

सन्नद्धाः कवचाद्यैश्च तथा शस्त्रास्त्रवर्तनैः ।
ययुः शत्रुघ्नसंवासं सीतापति प्रणोदिताः

5.11.37

शेष उवाच।
अथोक्त ऋषिणा रामो विधिना पूजयत्क्रमात् ।
आचार्यादीनृषीन्सर्वान्यथोक्तवरदक्षिणैः

5.11.38

आचार्याय ददौ रामो हस्तिनं षष्टिहायनम् ।
हयमेकं मनोवेगं रत्नमालाविभूषितम्

5.11.39

पौरटं रथमेकं च मणिरत्नविभूषितम् ।
चतुर्भिर्वाजिभिर्युक्तं सर्वोपस्करसंयुतम्

5.11.40

मणिलक्षं तु प्रत्यक्षं मुक्ताफलतुलाशतम् ।
विद्रुमस्य तुलानां तु सहस्रं स्फुटतेजसाम्

5.11.41

ग्राममेकं सुसंपन्नं नानाजनसमाकुलम् ।
विचित्रसस्यनिष्पन्नं विविधैर्मंदिरैर्वृतम्

5.11.42

ब्रह्मणेऽपि तथैवादाद्धोत्रेऽप्यध्वर्यवे ददौ ।
ऋत्विग्भ्यो भूरिशो दत्त्वा प्रणनाम रघूत्तमः

5.11.43

सर्वे ते विविधा वाग्भिराशीर्भिरभिपूजिताः ।
चिरंजीव महाराज रामचन्द्र रघूद्वह

5.11.44

कन्यादानं भूमिदानं गजदानं तथैव च ।
अश्वदानं स्वर्णदानं तिलदानं समौक्तिकम्

5.11.45

अन्नदानं पयोदानमभयं दानमुत्तमम् ।
रत्नदानानि सर्वाणि विप्रेभ्यश्चादिशन्महान्

5.11.46

देहि देहि धनं देहि मानेति ब्रूहि कस्यचित् ।
ददात्वन्नं ददात्वन्नं सर्वभोगसमन्वितम्

5.11.47

इत्थं प्रावर्तत मखो रघुनाथस्य धीमतः ।
सदक्षिणो द्विजवरैः पूर्णः सर्वशुभक्रियः

5.11.48

अथ रामानुजो गत्वा मातरं प्रणनाम ह ।
आज्ञापयाश्वरक्षार्थमेष गच्छामि शोभने

5.11.49

त्वत्कृपातो रिपुकुलं जित्वा शोभासमन्वितः ।
आयास्यामि महाराजैर्हयवर्यसमन्वितः

5.11.50

मातोवाच ।
पुत्र गच्छ महावीर शिवाः पंथान एव ते ।
सर्वान्रिपुगणाञ्जित्वा पुनरागच्छ सन्मते

5.11.51

पुष्कलं पालय निजभ्रातृजं धर्मवित्तमम् ।
महाबलिनमद्यापि बालकं लीलयायुतम्

5.11.52

पुत्रागच्छसि चेद्युक्तः पुष्कलेन शुभान्वितः ।
तदा मम प्रमोदः स्यादन्यथा शोकभागहम्

5.11.53

इति संभाष्यमाणां स्वां मातरं प्रत्युवाच सः ।
त्वदीयचरणद्वंद्वं स्मरन्प्राप्स्यामि शोभनम्

5.11.54

पुष्कलं पालयित्वाहं निजांगमिव शोभने ।
स्वनामसदृशं कृत्वा पुनरेष्यामि मोदवान्

5.11.55

इत्युक्त्वा प्रययौ वीरो रामं स मखमंडपे ।
आसीनं मुनिवर्याग्र्यैर्यज्ञवेषधरं वरम्

5.11.56

उवाच मतिमान्वीरः सर्वशोभासमन्वितः ।
रामाज्ञापय रक्षार्थं हयस्यानुज्ञया तव

5.11.57

रघुनाथोऽपि तच्छ्रुत्वा भद्रमस्त्विति चाब्रवीत् ।
बालं स्त्रियं प्रमत्तं त्वं मा हन्याः शस्त्रवर्जितम्

5.11.58

तदा लक्ष्मीनिधिर्भ्राता जानक्या जनकात्मजः ।
प्रहस्य किंचिन्नयने नर्तयन्राममब्रवीत्

5.11.59

लक्ष्मीनिधिरुवाच।
रामचंद्र महाबाहो सर्वधर्मपरायण ।
शत्रुघ्नं शिक्षय तथा यथा लोकोत्तरो भवेत्

5.11.60

कुलोचितं कर्म कुर्वन्नग्रजाचरितं तथा ।
गच्छेत्स परमं धाम तेजोबलसमन्वितम्

5.11.61

त्वया प्रोक्तं महाराज ब्राह्मणं नावमानयेत् ।
पित्रा तव हतो विप्रः पितृभक्तिपरायणः

5.11.62

त्वयापि सुमहत्कर्म कृतं लोकविगर्हितम् ।
अवध्यां महिलां यस्त्वं हतवान्नियतं ततः

5.11.63

अग्रजोऽस्य महाराज कृतवान्यं पराक्रमम् ।
सनकेन कृतः पूर्वं राक्षस्याः कर्णकर्तनम्

5.11.64

एवं करिष्यति नृपः शत्रुघ्नः शिक्षया तव ।
यदि नायं तथा कुर्यात्कुलस्यासदृशं भवेत्

5.11.65

इत्युक्तवंतं तं रामः प्रत्युवाच हसन्निव ।
मेघगंभीरया वाचा सर्ववाक्यविशारदः

5.11.66

शृण्वंतु योगिनः शांताः समदुःखसुखाः पुनः ।
जानंत्यपारसंसारनिस्तारतरणादिकम्

5.11.67

ये शूराः समहेष्वासाः सर्वशस्त्रास्त्रकोविदाः ।
ते च जानंति युद्धस्य वार्त्तां न तु भवादृशाः

5.11.68

परोपतापिनो ये वै ये चोत्पथविसारिणः ।
ते हंतव्या नृपैः सर्वैः सर्वलोकहितैषिभिः

5.11.69

इत्युक्तमाकर्ण्य सभासदस्ते सर्वे स्मितं चक्रुररिंदमस्य ।
कुंभोद्भवः पूजितमेनमश्वं विमोचयामास सुशोभितं हि

5.11.70

इमं मंत्रं समुच्चार्य वसिष्ठः कलशोद्भवः ।
कराग्रेण स्पृशन्नश्वं मुमोच जयकांक्षया

5.11.71

वाजिन्गच्छ यथालीलं सर्वत्र धरणीतले ।
यागार्थे मोचितो येन पुनरागच्छ सत्वरः

5.11.72

अश्वस्तु मोचितः सर्वैर्भटैः शस्त्रास्त्रकोविदैः ।
परीतः प्रययौ प्राचीं दिशं वायुजवान्वितः

5.11.73

प्रचचार बलं सर्वं कंपयद्धरणीतलम् ।
शेषोऽपि किंचिन्न तया फणया धृतवान्भुवम्

5.11.74

दिशः प्रसेदुः परितः क्ष्मातलं शोभयान्वितम् ।
वायवस्तं तु शत्रुघ्नं पृष्ठतो मंदगामिनः

5.11.75

शत्रुघ्नस्य प्रयाणायाभ्युद्य तस्य भुजोऽस्फुरत् ।
दक्षिणः शुभमाशंसी जयाय च बभूव ह

5.11.76

पुष्कलः स्वगृहं रम्यं प्रविवेश समृद्धिमत् ।
वितर्दिभिर्वलक्षाभिः शोभितं रत्नवेदिकम्

5.11.77

तत्रापश्यन्निजां भार्यां पतिव्रतपरायणाम् ।
किंचित्स्वदर्शनाद्धृष्टां भर्तृदर्शनलालसाम्

5.11.78

मुखारविंदेन च नागवल्लीदलं सुकर्पूरयुतं च चर्वती ।
नासाफलं तोयभवं महाधनं बाह्वोर्मृणालीसदृशोः सुकंकणे

5.11.79

कुचौ तु मालूरफलोपमौ वरौ नितंबबिंबं वरनीवि शोभितम् ।
पादौ तुलाकोटिधरौ सुकोमलौ दधत्यहो एक्षत सत्पतिं स्वकम्

5.11.80

परिरभ्य प्रियां धीरो गद्गदस्वरभाषिणीम् ।
तदुरोजपरीरंभनिर्भरीकृतदेहकाम्

5.11.81

उवाच भद्रे गच्छामि शत्रुघ्नपृष्ठरक्षकः ।
रामाज्ञया याज्ञमश्वं पालयन्रथसंयुतः

5.11.82

त्वया मे मातरः पूज्याः पादसंवाहनादिमिः ।
तदुच्छिष्टं हि भुंजाना तत्कर्मकरणादरा

5.11.83

सर्वाः पतिव्रता नार्यो लोपामुद्रादिकाः शुभाः ।
नावमान्यास्त्वया भीरु स्वतपोबलशोभिताः

5.11.11

इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे हयमोचन-पुष्कलभार्यासमागमोनाम एकादशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc