भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 5.12

5.12.1

शेष उवाच।
इत्युक्तवंतं स्वपतिं वीक्ष्य प्रेम्णा सुनिर्भरम् ।
प्रत्युवाच हसंतीव किंचिद्गद्गदभाषिणी

5.12.2

नाथ ते विजयोभूयात्सर्वत्र रणमंडले ।
शत्रुघ्नाज्ञा प्रकर्तव्या हयरक्षा यथा भवेत्

5.12.3

स्मरणीया हि सर्वत्र सेविका त्वत्पदानुगा ।
कदापि मानसं नाथ त्वत्तो नान्यत्र गच्छति

5.12.4

परमायोधने कांत स्मर्तव्याहं न जातुचित् ।
सत्यां मयि तव स्वांते युद्धे 3विजयसंशयः

5.12.5

पद्मनेत्र तथा कार्यमूर्मिलाद्या यथा मम ।
हास्यं नैव प्रकुर्वंति मां वीक्ष्य करताडनैः

5.12.6

इयं पत्नी महाभीरोः संग्रामे प्रपलायितुः ।
कातरा यर्हि युद्ध्यंति शूराणां समयः कुतः

5.12.7

इत्येवं न हसंत्युच्चैर्यथा मे देवरांगनाः ।
तथा कार्यं महाबाहो रामस्य हयरक्षणे

5.12.8

योद्धा त्वमादौ सर्वत्र परे ये तव पृष्ठतः ।
धनुष्टंकारबधिराः क्रियंतां बलिनः परे

5.12.9

तवप्रोद्यत्करांभोज करवालभिया बलम् ।
परेषां भवतात्क्षिप्रमन्योन्य भयव्याकुलम्

5.12.10

कुलं महदलं कार्यं परान्विजयता त्वया ।
गच्छ स्वामिन्महाबाहो तव श्रेयो भवत्विह

5.12.11

इदं धनुर्गृहाणाशु महद्गुणविभूषितम् ।
यस्य गर्जितमाकर्ण्य वैरिवृंदं भयातुरम्

5.12.12

इमौ ते त्विषुधी वीर बध्येतां शं यथा भवेत् ।
वैरिकोटिविनिष्पेष बाणकोटि सुपूरितौ

5.12.13

कवचं त्विदमाधेहि शरीरे कामसुंदरे ।
वज्रप्रभा महादीप्ति हतसंतमसंदृढम्

5.12.14

शिरस्त्राणं निजोत्तंसे कुरु कांत मनोरमम् ।
इमेव तंसे विशदे मणिरत्नविभूषिते

5.12.15

इति सुविमलवाचं वीरपुत्रीं प्रपश्यन् ।
नयनकमलदृष्ट्या वीक्षमाणस्तंदंगम् ।
अधिगतपरिमोदो भारतिः शत्रुजेता ।
रणकरणसमर्थस्तां जगादातिधीरः

5.12.16

पुष्कल उवाच।
कांते यत्त्वं वदसि मां तथा सर्वं चराम्यहम् ।
वीरपत्नी भवेत्कीर्तिस्तव कांतिमतीप्सिता

5.12.17

इति कांतिमतीदत्तं कवचं मुकुटं वरम् ।
धनुर्महेषुधीखड्गं सर्वं जग्राह वीर्यवान्

5.12.18

परिधाय च तत्सर्वं बहुशो भासमन्वितः ।
शुशुभेऽतीव सुभटः सर्वशस्त्रास्त्रकोविदः

5.12.19

तमस्त्रशस्त्रशोभाढ्यं वीरमालाविभूषितम् ।
कुंकुमागुरुकस्तूरी चंदनादिकचर्चितम्

5.12.20

नानाकुसुममालाभिराजानुपरिशोभितम् ।
नीराजयामास मुहुस्तत्र कांतिमती सती

5.12.21

नीराजयित्वा बहुशः किरंती मौक्तिकैर्मुहुः ।
गलदश्रुचलन्नेत्रा परिरेभे पतिं निजम्

5.12.22

दृढं सपरिरभ्यैतां चिरमाश्वासयत्तदा ।
वीरपत्नि कांतिमति विरहं मा कृथा मम

5.12.23

एष गच्छामि सविधे तव भामे पतिव्रते ।
इत्युक्त्वा तां निजां पत्नीं रथमारुरुहे वरम्

5.12.24

तं प्रयांतं पतिं श्रेष्ठं नयनैर्निमिषोज्झितैः ।
विलोकयामास तदा पतिव्रतपरायणा

5.12.25

स ययौ जनकं द्रष्टुं जननीं प्रेमविह्वलाम् ।
गत्वा पितरमंबां च ववंदे शिरसा मुदा

5.12.26

माता पुत्रं परिष्वज्य स्वांकमारोपयत्तदा ।
मुंचंती बाष्पनिचयं स्वस्त्यस्त्विति जगाद सा

5.12.27

पितरं प्राह भरतं रामो यज्ञकरः परः ।
पालनीयो लक्ष्मणेन भवद्भिश्च महात्मभिः

5.12.28

आज्ञप्तोऽसौ जनन्या च पित्रा हृषितया गिरा ।
ययौ शत्रुघ्नकटकं महावीरविभूषितम्

5.12.29

रथिभिः पत्तिभिर्वीरैः सदश्वैः सादिभिर्वृतः ।
ययौ मुदा रघूत्तंस महायज्ञहयाग्रणीः

5.12.30

गच्छन्पांचालदेशांश्च कुरूंश्चैवोत्तरान्कुरून् ।
दशार्णाञ्छ्रीविशालांश्च सर्वशोभासमन्वितः

5.12.31

तत्र तत्रोपशृण्वानो रघुवीरयशोऽखिलम् ।
रावणासुरघातेन भक्तरक्षाविधायकम्

5.12.32

पुनश्च हयमेधादि कार्यमारभ्य पावनम् ।
यशो वितन्वन्भुवने लोकान्रामोऽविता भयात्

5.12.33

तेभ्यस्तुष्टो ददौ हारान्रत्नानि विविधानि च ।
महाधनानि वासांसि शत्रुघ्नः प्रवरो महान्

5.12.34

सुमतिर्नाम तेजस्वी सर्वविद्याविशारदः ।
रघुनाथस्य सचिवः शत्रुघ्नानुचरो वरः

5.12.35

ययौ तेन महावीरो ग्रामाञ्जनपदान्बहून् ।
रघुनाथप्रतापेन न कोपि हृतवान्हयम्

5.12.36

देशाधिपाये बहवो महाबलपराक्रमाः ।
हस्त्यश्वरथपादात चतुरंगसमन्विताः

5.12.37

संपदो बहुशो नीत्वा मुक्तामाणिक्यसंयुताः ।
शत्रुघ्नं हयरक्षार्थमागतं प्रणता मुहुः

5.12.38

इदं राज्यं धनं सर्वं सपुत्रपशुबांधवम् ।
रामचंद्रस्य सर्वं हि न मदीयं रघूद्वह

5.12.39

एवं तदुक्तमाकर्ण्य शत्रुघ्नः परवीरहा ।
आज्ञां स्वां तत्र संज्ञाप्य ययौ तैः सहितः पथि

5.12.40

एवं क्रमेण संप्राप्तः शत्रुघ्नो हयसंयुतः ।
अहिच्छत्रां पुरीं ब्रह्मन्नानाजनसमाकुलाम्

5.12.41

ब्रह्मद्विजसमाकीर्णां नानारत्नविभूषिताम् ।
सौवर्णैः स्फाटिकैर्हर्म्यैर्गोपुरैः समलंकृताम्

5.12.42

यत्र रंभा तिरस्कारकारिण्यः कमलाननाः ।
दृश्यंते सर्वहर्म्येषु ललना लीलयान्विताः

5.12.43

यत्र स्वाचारललिताः सर्वभोगैकभोगिनः ।
धनदानुचरायद्वत्तथा लीलासमन्विताः

5.12.44

यत्र वीरा धनुर्हस्ताःशरसंधानकोविदाः ।
कुर्वंति तत्र राजानं सुहृष्टं सुमदाभिधम्

5.12.45

एवंविधं ददर्शासौ नगरं दूरतः प्रभुः ।
पार्श्वे तस्य पुरश्रेष्ठमुद्यानं शोभयान्वितम्

5.12.46

पुन्नागैर्नागचंपैश्च तिलकैर्देवदारुभिः ।
अशोकैः पाटलैश्चूतैर्मंदारैःकोविदारकैः

5.12.47

आम्रजंबुकदंबैश्च प्रियालपनसैस्तथा ।
शालैस्तालैस्तमालैश्च मल्लिकाजातियूथिभिः

5.12.48

नीपैः कदंबैर्बकुलैश्चंपकैर्मदनादिभिः ।
शोभितं सददर्शाथशत्रुघ्नःपरवीरहा

5.12.49

हयोगतस्तद्वनमध्यदेशे ।
तमालतालादि सुशोभिते वै ।
ययौ ततः पृष्ठत एव वीरो ।
धनुर्धरैः सेवितपादपद्मः

5.12.50

ददर्श त रचितं देवायतनमद्भुतम् ।
इंद्रनीलैश्च वैडूर्यैस्तथा मारकतैरपि

5.12.51

शोभितं सुरसेवार्हं कैलासप्रस्थसन्निभम् ।
जातरूपमयैः स्तंभैःशोभितं सद्मनां वरम्

5.12.52

दृष्ट्वातद्रघुनाथस्य भ्राता देवालयं वरम् ।
पप्रच्छ सुमतिं स्वीयं मंत्रिणं वदतांवरम्

5.12.53

शत्रुघ्न उवाच।
वदामात्य वरेदं किं कस्यदेवस्य केतनम् ।
का देवता पूज्यतेऽत्र कस्य हेतोः स्थितानघ

5.12.54

एवमाकर्ण्य यथावदिहसर्वशः

5.12.55

कामाक्षायाः परं स्थानं विद्धि विश्वैकशर्मदम् ।
यस्या दर्शनमात्रेण सर्वसिद्धिः प्रजापते

5.12.56

देवासुरास्तु यां स्तुत्वा नत्वा प्राप्ताखिलां श्रियम् ।
धर्मार्थकाममोक्षाणां दात्री भक्तानुकंपिनी

5.12.57

याचिता सुमदेनात्राहिच्छत्रा पतिना पुरा ।
स्थिता करोति सकलं भक्तानां दुःखहारिणी

5.12.58

तां नमस्कुरु शत्रुघ्न सर्ववीर शिरोमणे ।
नत्वाशु सिद्धिं प्राप्नोषि ससुरासुरदुर्ल्लभाम्

5.12.59

इति श्रुत्वाथ तद्वाक्यं शत्रुघ्नः शत्रुतापनः ।
पप्रच्छ सकलां वार्तां भवान्याः पुरुषर्षभः

5.12.60

शत्रुघ्न उवाच।
कोऽहिच्छत्रापती राजा सुमदः किं तपः कृतम् ।
येनेयं सर्वलोकानां माता तुष्टात्र संस्थिता

5.12.61

वद सर्वं महामात्य नानार्थपरिबृंहितम् ।
यथावत्त्वं हि जानासि तस्माद्वद महामते

5.12.62

सुमतिरुवाच।
हेमकूटो गिरिः पूतः सर्वदेवोपशोभितः ।
तत्रास्ति तीर्थं विमलमृषिवृंदसुसेवितम्

5.12.63

सुमदो हि तपस्तेपे हतमातृपितृप्रजः ।
अरिभिः सर्वसामंतैर्जगाम तपसे हि तम्

5.12.64

वर्षाणि त्रीणि सपदा त्वेकेन मनसा स्मरन् ।
जगतां मातरं दध्यौ नासाग्रस्तिमितेक्षणः

5.12.65

वर्षाणि त्रीणि शुष्काणां पर्णानां भक्षणं चरन् ।
चकार परमुग्रं स तपः परमदुश्चरम्

5.12.66

अब्दानि त्रीणि सलिले शीतकाले ममज्ज सः ।
ग्रीष्मे चचार पंचाग्नीन्प्रावृट्सु जलदोन्मुखः

5.12.67

त्रीणि वर्षाणि पवनं संरुध्य स्वांतगोचरम् ।
भवानीं संस्मरन्धीरो न च किंचन पश्यति

5.12.68

वर्षे तु द्वादशेऽतीते दृष्ट्वैतत्परमं तपः ।
विभाव्य मनसातीव शक्रः पस्पर्ध तं भयात्

5.12.69

आदिदेश सकामं तु परिवारपरीवृतम् ।
अप्सरोभिः सुसंयुक्तं ब्रह्मेंद्रादिजयोद्यतम्

5.12.70

गच्छ कामसखे मह्यं प्रियमाचर मोहन ।
सुमदस्य तपोविघ्नं समाचर यथा भवेत्

5.12.71

इति श्रुत्वा महद्वाक्यं तुरासाहः स्वयंप्रभुः ।
उवाच विश्वविजये प्रौढगर्वो रघूद्वह

5.12.72

काम उवाच।
स्वामिन्कोऽसौ हि सुमदः किं तपः स्वल्पकं पुनः ।
ब्रह्मादीनां तपोभंगं करोम्यस्य तु का कथा

5.12.73

मद्बाणबलनिर्भिन्नश्चंद्रस्तारां गतः पुरा ।
त्वमप्यहल्यां गतवान्विश्वामित्रस्तु मेनिकाम्

5.12.74

चिंतां मा कुरु देवेंद्र सेवके मयि संस्थिते ।
एष गच्छामि सुमदं देवान्पालय मारिष

5.12.75

एवमुक्त्वा कामदेवो हेमकूटं गिरिं ययौ ।
वसंतेन युतः सख्या तथैवाप्सरसांगणैः

5.12.76

वसंतस्तत्र सकलान्वृक्षान्पुष्पफलैर्युतान् ।
कोकिलान्षट्पदश्रेण्या घुष्टानाशु चकार ह

5.12.77

वायुः सुशीतलो वाति दक्षिणां दिशमाश्रितः ।
कृतमालासरित्तीर लवंगकुसुमान्वितः

5.12.78

एवंविधे वने वृत्ते रंभानामाप्सरोवरा ।
सखीभिः संवृता तत्र जगाम सुमदांतिकम्

5.12.79

तत्रारभत गानं सा किन्नरस्वरशोभना ।
मृदंगपणवानेकवाद्यभेदविशारदा

5.12.80

तद्गानमाकर्ण्य नराधिपोऽसौ ।
वसंतमालोक्य मनोहरं च ।
तथान्यपुष्टारटितं मनोरमं ।
चकार चक्षुः परिवर्तनं बुधः

5.12.81

तं प्रबुद्धं नृपं वीक्ष्य कामः पुष्पायुधस्त्वरन् ।
चकार सत्वरं सज्यं धनुस्तत्पृष्ठतोऽनघ

5.12.82

एकाप्सरास्तत्र नृपस्य पादयोः ।
संवाहनं नर्तितनेत्रपल्लवा ।
चकार चान्या तु कटाक्षमोक्षणं ।
चकार काचिद्भृशमंगचेष्टितम्

5.12.83

अप्सरोभिस्तथाकीर्णः कामविह्वलमानसः ।
चिंतयामास मतिमाञ्जितेंद्रियशिरोमणिः

5.12.84

एता मे तपसो विघ्नकारिण्योऽप्सरसां वराः ।
शक्रेण प्रेषिताः सर्वाः करिष्यंति यथातथम्

5.12.85

इति संचिंत्य सुतपास्ता उवाच वरांगनाः ।
का यूयं कुत्र संस्थाः किं भवतीनां चिकीर्षितम्

5.12.86

अत्यद्भुतं जातमहो यद्भवत्योऽक्षिगोचराः ।
यास्तपोभिः सुदुष्प्राप्यास्ता मे तपस आगताः

5.12.12

इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे कामाक्षोपाख्यानं नाम द्वादशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc