भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.30

2.30.1

ऋषय ऊचुः-
योऽसौ वेनस्त्वयाख्यातः पापाचारेण वर्तितः ।
तस्य पापस्य का वृत्तिः किं फलं प्राप्तवान्द्विज

2.30.2

चरित्रं तस्य वेनस्य समाख्याहि यथा पुरा ।
विस्तरेण विदां श्रेष्ठ त्वं न एतन्महामते

2.30.3

सूत उवाच-
चरित्रं तस्य वेनस्य वैन्यस्यापि महात्मनः ।
प्रवक्ष्यामि सुपुण्यं च यथान्यायं श्रुतं पुरा

2.30.4

जाते पुत्रे महाभागस्तस्मिन्पृथौ महात्मनि ।
विमलत्वं गतो राजा धर्मत्वं गतवान्पुनः

2.30.5

महापापानि सर्वाणि अर्जितानि नराधमैः ।
तीर्थसंगप्रसंगेन तेषां पापं प्रयाति च

2.30.6

सतां संगात्प्रजायेत पुण्यमेव न संशयः ।
पापानां तु प्रसंगेन पापमेव प्रजायते

2.30.7

संभाषाद्दर्शनात्स्पर्शादासनाद्भोजनात्किल ।
पापिनां संगमाच्चैव किल्बिषं परिसंचरेत्

2.30.8

तथा पुण्यात्मकानां च पुण्यमेव प्रसंचरेत् ।
महातीर्थप्रसंगेन पापाः शुध्यंति नान्यथा

2.30.9

पुण्यां गतिं प्रयान्त्येते निर्द्धूताशेष कल्मषाः ।
ऋषय ऊचुः-
तत्कथं यांति ते पापाः परां सिद्धिं द्विजोत्तम

2.30.10

तन्नो विस्तरतो ब्रूहि श्रोतुं श्रद्धा प्रवर्तते

2.30.11

सूत उवाच-
लुब्धकाश्च महापापाः संजाता दासधीवराः ।
रेवा च यमुना गंगास्तासामंभसि संस्थिताः

2.30.12

ज्ञानतोऽज्ञानतः स्नात्वा संक्रीडंति च वै जले ।
महानद्याः प्रसंगेन ते यांति परमां गतिम्

2.30.13

दासत्वं पापसंघातं परित्यज्य व्रजंति ते ।
पुण्यतोयप्रसंगाच्च ह्याप्लुताः सर्व एव ते

2.30.14

महानद्याः प्रसंगाच्च अन्यासां नैव सत्तमाः ।
महापुण्यजनस्यापि पापं नश्यति पापिनाम्

2.30.15

प्रसंगाद्दर्शनात्स्पर्शान्नात्र कार्या विचारणा ।
अत्रार्थे श्रूयते विप्रा इतिहासोऽघनाशनः

2.30.16

तं वो अद्य प्रवक्ष्यामि बहुपुण्यप्रदायकम् ।
कश्चिदस्ति मृगव्याधः सुलोभाख्यो महावने

2.30.17

श्वभिर्वागुरिजालैश्च धनुर्बाणैस्तथैव च ।
मृगान्घातयते नित्यं पिशितास्वादलंपटः

2.30.18

एकदा तु सुदुष्टात्मा बाणपाणिर्धनुर्धरः ।
श्वभिः परिवृतो दुर्गं वनं विंध्यस्य वै गतः

2.30.19

मृगान्रुरून्वराहांश्च भीतान्सूदितवान्बहून् ।
रेवातीरं समासाद्य कश्चिच्छफरघातकः

2.30.20

शफरान्सूदयित्वा स निर्जगाम बहिर्जलात् ।
मृगव्याधस्य लोभस्य भयत्रस्ता ततो मृगी

2.30.21

जीवत्राणपरा सार्ता भीता चलितचेतना ।
त्वरमाणा पलायंती रेवातीरं समाश्रिता

2.30.22

श्वभिश्च चालिता सा तु बाणघातक्षतातुरा ।
श्वसनस्यापि वेगेन सुलभो मृगघातकः

2.30.23

पृष्ठ एव समायाति पुरतो याति सा मृगी ।
दृष्टवांस्तां शफरहा बाणपाणिः समुद्यतः

2.30.24

धनुरानम्य वेगेन अनुरुध्य च तां मृगीम् ।
तावल्लुब्धक लोभाख्यः श्वभिः सार्द्धं समागतः

2.30.25

न हंतव्या मदीयेयं मृगयां मे समागता ।
तस्य वाक्यं समाकर्ण्य मीनहा मांसलंपटः

2.30.26

बाणं मुमोच दुष्टात्मा तामुद्दिश्य महाबलः ।
निहता मृगलुब्धेन बाणेन निशितेन च

2.30.27

प्रमृता सा मृगी तत्र बाणाभ्यां पापचेतसोः ।
श्वभिर्दंतैः समाक्रांता त्वरमाणा पपात सा

2.30.28

शिखराच्च ह्रदे पुण्ये रेवायाः पापनाशने ।
श्वानश्च त्वरमाणास्ते पतिता विमले ह्रदे

2.30.29

मृगव्याधो वदत्येव धीवरं क्रोधमूर्च्छितः ।
मदीयेयं मृगी दुष्ट कस्माद्बाणैर्हता त्वया

2.30.30

तमुवाच पुनः सोऽपि मीनहा मृगघातकम् ।
मदीयेयं न संदेहो अवलिप्त प्रभाषसे

2.30.31

युध्यमानौ ततस्तौ तु द्वावेतौ तु परस्परम् ।
क्रोधलोभान्महाभागौ पतितौ विमले जले

2.30.32

तस्मिन्काले महापर्व वर्तते गतिदायकम् ।
अमावास्या समायोगं महापुण्यफलप्रदम्

2.30.33

वेलायां पतिताः सर्वे पर्वणस्तस्य सत्तम ।
जपध्यानविहीनास्ते भावसत्यविवर्जिताः

2.30.34

तीर्थस्नानप्रसंगेन मृगी श्वा च स लुब्धकः ।
सर्वपापविनिर्मुक्तास्ते गताः परमां गतिम्

2.30.35

तीर्थानां च प्रभावेण सतां संगाद्द्विजोत्तमाः ।
नाशयेत्पापिनां पापं दहेदग्निरिवेंधनम्

2.30.36

सूत उवाच-
तेषामेवं हि संसर्गादृषीणां च महात्मनाम् ।
संभाषाद्दर्शनान्नष्टं स्पर्शाच्चैव नृपस्य च

2.30.37

वेनस्य कल्मषं नष्टं सतां संगात्पुरा किल ।
अत्युग्रपुण्यसंसर्गात्पापं नश्यति पापिनाम्

2.30.38

अत्युग्रपापिनां संगात्पापमेव प्रसंचरेत् ।
मातामहस्य दोषेण संलिप्तो वेन एव सः

2.30.39

ऋषय ऊचुः-
मातामहस्य को दोषस्तं नो विस्तरतो वद ।
स मृत्युः स च वै कालः स यमो धर्म एव च

2.30.40

न हिंसको हि कस्यापि पदे तस्मिन्प्रतिष्ठितः ।
चराचराश्च ये लोकाः स्वकर्मवशवर्तिनः

2.30.41

जीवंति च म्रियंते च भुंजंत्येवं स्वकर्मभिः ।
पापाः पश्यंति तं घोरं तेषां कर्मविपाकतः

2.30.42

निरयेषु च सर्वेषु कर्मणैवं सुपुण्यवान् ।
योजयेत्ताडयेत्सूत यम एष दिनेदिने

2.30.43

सर्वेष्वेव सुपुण्येषु कर्मस्वेवं सपुण्यवान् ।
योजयत्येव धर्मात्मा तस्य दोषो न दृश्यते

2.30.44

स मृत्योः केन दोषेण पापी वेनस्त्वजायत ।
सूत उवाच-
स मृत्युः शासको नित्यं पापानां दुष्टचेतसाम्

2.30.45

वर्तते कालरूपेण तेषां कर्म विमृश्यति ।
दुष्कृतं कर्म यस्यापि कर्मणा तेन घातयेत्

2.30.46

तस्य पापं विदित्वाऽसौ नयत्येवं हि तं यमः ।
सुकृतात्मा लभेत्स्वर्गं कर्मणा सुकृतेन वै

2.30.47

योजयत्येष तान्सर्वान्मृत्युरेव सुदूतकैः ।
महता सौख्यभावेन गीतमंगलकारिणा

2.30.48

दानभोगादिभिश्चैव योजयेच्च कृतात्मकान् ।
पीडाभिर्विविधाभिश्च क्लेशैः काष्ठैश्च दारुणैः

2.30.49

त्रासयेत्ताडयेद्विप्रान्स क्रोधो मृत्युरेव तान् ।
कर्मण्येवं हि तस्यापि व्यापारः परिवर्तते

2.30.50

मृत्योश्चापि महाभाग लोभात्पुण्यात्प्रजायते ।
सुनीथा नाम वै कन्या संजातैषा महात्मनः

2.30.51

पितुःकर्म विमृश्यैव क्रीडमाना सदैव सा ।
प्रजानां शास्ति कर्तारं पुण्यपापनिरीक्षणम्

2.30.52

सा तु कन्या महाभागा सुनीथा नाम तस्य सा ।
रममाणा वनं प्राप्ता सखीभिः परिवारिता

2.30.53

तत्रापश्यन्महाभागं गंधर्वतनयं वरम् ।
गीतकोलाहलस्यापि सुशंखं नाम सा तदा

2.30.54

ददर्श चारुसर्वांगं तप्यंतं सुमहत्तपः ।
गीतविद्यासु सिद्ध्यर्थं ध्यायमानं सरस्वतीम्

2.30.55

तस्योपघातमेवासौ सा चकार दिने दिने ।
सुशंखः क्षमते नित्यं गच्छगच्छेति सोऽब्रवीत्

2.30.56

प्रेषिता नैव गच्छेत्सा विघ्नमेव समाचरेत् ।
तेनाप्युक्ता सा हि क्रुद्धा ताडयत्तपसि स्थितम्

2.30.57

तामुवाच ततः क्रुद्धः सुशंखः क्रोधमूर्च्छितः ।
दुष्टे पापसमाचारे कस्माद्विघ्नस्त्वया कृतः

2.30.58

ताडनात्ताडनं दुष्टे न कुर्वंति महाजनाः ।
आक्रुष्टा नैव कुप्यंति इति धर्मस्य संस्थितिः

2.30.59

त्वयाहं घातितः पापे निर्दोषस्तपसान्वितः ।
एवमुक्त्वा स धर्मात्मा सुनीथां पापचारिणीम्

2.30.60

विरराम महाक्रोधाज्ज्ञात्वा नारीं निवर्तितः ।
ततः सा पापमोहाद्वा बाल्याद्वा तमिहैव च

2.30.61

समुवाच महात्मानं सुशंखं तपसि स्थितम् ।
त्रैलोक्यवासिनां तातो ममैव परिघातकः

2.30.62

असतो घातयेन्नित्यं सत्यान्स परिपालयेत् ।
नैव दोषो भवेत्तस्य महापुण्येन वर्तयेत्

2.30.63

एवमुक्त्वा गता सा तु पितरं वाक्यमब्रवीत् ।
मया हि ताडितस्तात गंधर्वतनयो वने

2.30.64

तपस्तपन्सदैकांते कामक्रोधविवर्जितः ।
स मामुवाच धर्मात्मा क्रोधरागसमन्वितः

2.30.65

ताडयेन्नैव ताडंतं क्रोशंतं नैव क्रोशयेत् ।
इत्युवाच स मां तात तन्मे त्वं कारणं वद

2.30.66

एवमुक्तः स वै मृत्युः सुनीथां द्विजसत्तमाः ।
किंचिन्नोवाच धर्मात्मा प्रश्नप्रत्युत्तरं ततः

2.30.67

वनं प्राप्ता पुनः सा हि सुशंखो यत्र संस्थितः ।
कराघातैस्ततो दौष्ट्याद्घातितस्तपतां वरः

2.30.68

सुशंखस्ताडितो विप्रा मृत्योश्चैव हि कन्यया ।
ततः क्रुद्धो महातेजाः शशाप तनुमध्यमाम्

2.30.69

निर्दोषो हि यतो दुष्टे त्वयैव परिताडितः ।
अहमत्र वने संस्थस्तस्माच्छापं ददाम्यहम्

2.30.70

गार्हस्थ्यं च समास्थाय सह भर्त्रा यदा शृणु ।
पापाचारमयः पुत्रो देवब्राह्मणनिंदकः

2.30.71

सर्वपापरतो दुष्टे तव गर्भे भविष्यति ।
एवं शप्त्वा गतः सोपि तप एव समाश्रितः

2.30.72

गते तस्मिन्महाभागे सा सुनीथा गृहं गता ।
समाचष्ट महात्मानं पितरं तप्तमानसा

2.30.73

यथा शप्ता तदा तेन गंधर्वतनयेन सा ।
तत्सर्वं संश्रुतं तेन मृत्युना परिभाषितम्

2.30.74

कस्मात्कृतस्त्वयाघातस्तपति दोषवर्जिते ।
युक्तं नैव कृतं पुत्रि सत्यस्यैव हि ताडनम्

2.30.75

एवमाभाष्य धर्मात्मा मृत्युः परमदुःखितः ।
बभूव स हि तत्तस्यादिष्टमेवं विचिंतयन्

2.30.76

सूत उवाच-
अत्रिपुत्रो महातेजा अंगो नाम प्रतापवान् ।
एकदा तु गतो विप्रा नंदनं प्रति स द्विजः

2.30.77

तत्र दृष्ट्वा देवराजं तमिंद्रं पाकशासनम् ।
अप्सरसां गणैर्युक्तं गंधर्वैः किन्नरैस्तथा

2.30.78

गीयमानं गीतगैश्च सुस्वरैः सप्तकैस्तथा ।
वीज्यमानं सुगंधैश्च व्यजनैः सर्व एव सः

2.30.79

योषिद्भी रूपयुक्ताभिश्चामरैर्हंसगामिभिः ।
छत्रेण हंसवर्णेन चंद्रबिंबानुकारिणा

2.30.80

राजमानं सहस्राक्षं सर्वाभरणभूषितम् ।
कामक्रीडागतं देवं दृष्टवानमितौजसम्

2.30.81

तस्य पार्श्वे महाभागां पौलोमीं चारुमंगलाम् ।
रूपेण तेजसा चैव तपसा च यशस्विनीम्

2.30.82

सौभाग्येन विराजंतीं पातिव्रत्येन तां सतीम् ।
तया सह सहस्राक्षः स रेमे नंदने वने

2.30.83

तस्य लीलां समालोक्य अंगश्चैव द्विजोत्तमः ।
धन्यो वै देवराजोऽयमीदृशैः परिवारितः

2.30.84

अहोऽस्य तपसो वीर्यं येन प्राप्तं महत्पदम् ।
यदा ममेदृशः पुत्रः सर्वलोकप्रधारकः

2.30.85

भवेत्तदा महत्सौख्यं प्राप्स्यामीह न संशयः ।
इति चिंतापरो भूत्वा त्वरमाणो गृहागतः

2.30.30

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने त्रिंशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc