भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.29

2.29.1

पृथुरुवाच-
हते चैव महापापे एकस्मिन्पापचारिणि ।
लोकाः सुखेन जीवंति साधवः पुण्यदर्शिनः

2.29.2

तस्मादेकं प्रहर्तव्यं पापिष्ठं पापचेतनम् ।
तस्मात्त्वां हि हनिष्यामि सर्वसत्त्वप्रणाशिनीम्

2.29.3

त्वया बीजानि सर्वाणि लुप्तान्येतानि सांप्रतम् ।
ग्रासं कृत्वा स्थिरीभूत्वा प्रजां हत्वा क्व यास्यसि

2.29.4

हते पापे दुराचारे सुखं जीवंतिसाधवः ।
तस्मात्पापं प्रहंतव्यं सत्यमेवं न संशयः

2.29.5

पालितव्यं प्रयत्नेन यस्माद्धर्मः प्रवर्द्धते ।
भवत्या तु महत्पापं प्रजासंक्षयकारकम्

2.29.6

एकस्यार्थेन यो हन्यादात्मनो वा परस्य वा ।
लोकोपतापकं हत्वा न भवेत्तस्य पातकम्

2.29.7

सुखमेष्यंति बहवो यस्मिंस्तु निहते शुभे ।
वसुधे निहते दुष्टे पातकं नोपपातकम्

2.29.8

प्रजानिमित्तं त्वामेव हनिष्यामि न संशयः ।
यदि मे पुण्यसंयुक्तं वचनं न करिष्यति

2.29.9

जगतोऽस्य हितार्थाय साधु चैव वसुंधरे ।
हनिष्ये त्वां शितैर्बाणैर्मद्वाक्यात्तु पराङ्मुखीम्

2.29.10

स्वीयेन तेजसा चैव पुण्यां त्रैलोक्यवासिनीम् ।
प्रजां चैव धरिष्यामि धर्मेणापि न संशयः

2.29.11

मच्छासनं समास्थाय धर्मयुक्तं वसुंधरे ।
इमाः प्रजा आज्ञया मे संजीवय सदैव हि

2.29.12

एवं मे शासनं भद्रे अद्य यर्हि करिष्यसि ।
ततः प्रीतोऽस्मि ते नित्यं गोपायिष्यामि सर्वदा

2.29.13

त्वामेव हि न संदेह अन्ये चैव नृपोत्तमाः ।
धेनुरूपेण सा पृथ्वी बाणांचितकलेवरा

2.29.14

उवाचेदं पृथुं वैन्यं धर्माधारं महामतिम् ।
धरण्युवाच-।
तवादेशं महाराज सत्यपुण्यार्थसंयुतम्

2.29.15

प्रजानिमित्तमत्यर्थं विधास्यामि न संशयः ।
उद्यमेनापि पुण्येन उपायेन नरेश्वर

2.29.16

समारंभाः प्रसिद्ध्यंति पुण्याश्चैवाप्युपक्रमाः ।
उपायं पश्य राजेंद्र येन त्वं सत्यवान्भवेः

2.29.17

धारयेथाः प्रजाश्चेमा येन सर्वाः प्रवर्द्धये ।
संलग्नाश्चोत्तमा बाणा ममांगे ते शिलाशिताः

2.29.18

समुद्धर स्वयं राजंश्छल्यंति भृशमेव ते ।
समां कुरु महाराज तिष्ठेन्मयि यथा पयः

2.29.19

सूत उवाच-।
धनुषोग्रेण ताञ्छैलान्नानारूपान्गुरूंस्तथा ।
उत्सारयंस्ततः सर्वां समरूपां चकार सः

2.29.20

तदाप्रभृति ते शैला वृद्धिमापुर्द्विजोत्तमाः ।
तस्या अंगात्स्वयं बाणान्स्वकीयान्नृपनंदनः

2.29.21

समुद्धृत्य ततो वैन्यः प्रीतेन मनसा तदा ।
गर्ताश्च कंदराश्चैव बाणाघातैः समीकृताः

2.29.22

एवं पृथ्वद्यंसमां सर्वां चकार पुण्यवर्द्धनः ।
समीकृत्य महाभागो वत्सं तस्या व्यकल्पयत्

2.29.23

मनुं स्वायंभुवं पूर्वं परिचिंत्य पुनः पुनः ।
अतीतेष्वथ सर्वेषु मन्वंतरेषु सत्तमाः

2.29.24

विषमत्वं गता भूमिः पंथा नासीच्च कुत्रचित् ।
समानि विषमाण्येवं स्वयमासन्द्विजोत्तमाः

2.29.25

पूर्वं मनोश्चाक्षुषस्य प्राप्ते चैवांतरे तदा ।
जाते पूर्वविसर्गे च विषमे च धरातले

2.29.26

ग्रामाणां च पुराणां च पत्तनानां तथैव च ।
देशानां क्षेत्रपन्नानां मर्यादा न हि दृश्यते

2.29.27

कृषिर्नैव न वाणिज्यं न गोरक्षा प्रवर्तते ।
नानृतं भाषते कश्चिन्न लोभो न च मत्सरः

2.29.28

नाभिमानं च वै पापं न करोति कदा किल ।
वैवस्वतस्य संप्राप्ते अंतरे द्विजसत्तम

2.29.29

वैन्यस्य संभवात्पूर्वं प्रजानामेव संभवः ।
इमाः प्रजा द्विजाः सर्वा निवासं समरोचयन्

2.29.30

क्वचिद्भूमौ गिरौ क्वापि नदीतीरेषु वै तदा ।
कुंजेषु सर्वतीर्थेषु सागरस्य तटेषु च

2.29.31

निवासं चक्रिरे सर्वाः प्रजाः पुण्येन वै तदा ।
तासामाहारः संजातः फलमूलमधुस्तथा

2.29.32

महता कृच्छ्रेण तासामाहारश्च द्विजोत्तमाः ।
पृथुर्वैन्यः समालोक्य प्रजानां कष्टमेव हि

2.29.33

स्वायंभुवो मनुर्वत्सः कल्पितस्तेन भूभुजा ।
स्वपाणिः कल्पितस्तेन पात्रमेवं महामते

2.29.34

स पृथुः पुरुषव्याघ्रो दुदोह वसुधां तदा ।
सर्वसस्यमयं क्षीरं ससर्वान्नं गुणान्वितम्

2.29.35

तेन पुण्येन चान्नेन सुधाकल्पेन ताः प्रजाः ।
तृप्तिं नयंति देवान्वै प्रजाः पितॄंस्तथापरान्

2.29.36

प्रसादात्तस्य वैन्यस्य सुखं जीवंति ताः प्रजाः ।
देवेभ्यश्च पितृभ्यश्च दत्वा चान्नं प्रजास्ततः

2.29.37

ब्राह्मणेभ्यो विशेषेणअतिथिभ्यस्तथैव च ।
पश्चाद्भुंजंति पुण्यास्ताः प्रजाः सर्वा द्विजोत्तमाः

2.29.38

यज्ञैश्चान्ये यजंत्येव तर्पयंति जनार्दनम् ।
तेन चान्नेन देवेशं तृप्तिं गच्छंति देवताः

2.29.39

पुनर्वर्षति पर्जन्यः प्रेषितो माधवेन च ।
तस्मात्पुण्या महौषध्यः संभवंति सुपुण्यदाः

2.29.40

सस्यजातानि सर्वाणि पृथुर्वैन्यः प्रजापतिः ।
तेनान्नेन प्रजाः सर्वा वर्तंतेऽद्यापि नित्यशः

2.29.41

ऋषिभिश्चैव मिलितैर्दुग्धा चेयं वसुंधरा ।
पुनर्विप्रैर्महाभाग्यैः सत्यवद्भिः सुरैस्तथा

2.29.42

सोमो वत्सस्वरूपोभूद्दोग्धा देवगुरुः स्वयम् ।
ऊर्जं क्षीरं पयः कल्पं येन जीवंति चामराः

2.29.43

तेषां सत्येन पुण्येन सर्वे जीवंति जंतवः ।
सत्यपुण्ये प्रवर्तंते ऋषिदुग्धा वसुंधरा

2.29.44

अथातः संप्रवक्ष्यामि यथा दुग्धा इयं धरा ।
पितृभिश्च पुरा वत्स विधिना येन वै तदा

2.29.45

सुपात्रं राजतं कृत्वा स्वधा क्षीरं सुधान्वितम् ।
परिकल्प्य यमं वत्सं दोग्धा चांतक एव सः

2.29.46

नागैः सर्पैस्ततो दुग्धा तक्षकं वत्समेव च ।
अलाबुपात्रमादाय विषं क्षीरं द्विजोत्तमाः

2.29.47

नागानां तु तथा दोग्धा धृतराष्ट्रः प्रतापवान् ।
सर्पा नागा द्विजश्रेष्ठास्तेन वर्तंति चातुलाः

2.29.48

नागा वर्तंति तेनापि ह्यत्युग्रेण द्विजोत्तमाः ।
विषेण घोररूपेण सर्पाश्चैव भयानकाः

2.29.49

तेनैव वर्तयंत्युग्रा महाकाया महाबलाः ।
तदाहारास्तदाचारास्तद्वीर्यास्तत्पराक्रमाः

2.29.50

अथातः संप्रवक्ष्यामि यथा दुग्धा वसुंधरा ।
असुरैर्दानवैः सर्वैः कल्पयित्वा द्विजोत्तमाः

2.29.51

पात्रमत्रान्नसदृशमायसं सर्वकामिकम् ।
क्षीरं मायामयं कृत्वा सर्वारातिविनाशनम्

2.29.52

तेषामभूत्स वै वत्सो विरोचनः प्रतापवान् ।
ऋत्विग्द्विमूर्द्धा दैत्यानां मधुर्दोग्धा महाबलः

2.29.53

तया हि मायया दैत्याः प्रवर्त्तंते महाबलाः ।
महाप्रज्ञा महाकाया महातेजः पराक्रमाः

2.29.54

तद्बलं पौरुषं तेषां तेन जीवंति दानवाः ।
तयैते माययाद्यापि सर्वमाया द्विजोत्तमाः

2.29.55

प्रवर्तंते मितप्रज्ञास्ते तदेषामिदं बलम् ।
तथा तु दुग्धा यक्षैः सा सर्वाधारासु मेदिनी

2.29.56

इति शुश्रुम विप्रेंद्राः पुराकल्पे महात्मभिः ।
अंतर्धानमयं क्षीरमयस्पात्रे सुविस्तरे

2.29.57

वैश्रवणो महाप्राज्ञस्तदा वत्सः प्रकल्पितः ।
मणिधरस्य पिता पुण्यः प्राज्ञो बुद्धिमतां वरः

2.29.58

दोग्धा रजतनाभस्तु तस्याश्चासीन्महामतिः ।
सर्वज्ञः सर्वधर्मज्ञो यक्षराजसुतो बली

2.29.59

अष्टबाहुर्महातेजा द्विशीर्षः सुमहातपाः ।
यक्षावर्तंत तेनापि सर्वदैव द्विजोत्तमाः

2.29.60

पुनर्दुग्धा इयं पृथ्वी राक्षसैश्च महाबलैः ।
तथा चैषा पिशाचैश्च सातुरैर्दग्धवारिभिः

2.29.61

उत्प्लुतं नृकपालं तं शावपात्रमयः कृतम् ।
सुप्रजां भोक्तुकामास्ते तीव्रकोपपराक्रमाः

2.29.62

दोग्धा रजतनाभस्तु तेषामासीन्महाबलः ।
सुमाली नाम वत्सश्च शोणितं क्षीरमेव च

2.29.63

रक्षांसि यातुधानाश्च पिशाचाश्च महाबलाः ।
यक्षास्तेन च जीवंति भूतसङ्घाश्च दारुणाः

2.29.64

गंधर्वैरप्सरोभिश्च पुनर्दुग्धा वसुंधरा ।
कृत्वा वत्सं सुविद्वांसं तैश्च चित्ररथं पुनः

2.29.65

दुदुहुः पद्मपात्रे तु गांधर्वं गीतसंकुलम् ।
सुरुचिर्नाम गंधर्वस्तेषामासीन्महामतिः

2.29.66

दोग्धा पुण्यतमश्चैव तस्याश्च द्विजसत्तमाः ।
शुचिगीतं महात्मानः सुक्षीरं दुदुहुस्तदा

2.29.67

गंधर्वास्तेन जीवंति अन्याश्चाप्सरसस्तथा ।
पर्वतैश्च महापुण्यैर्दुग्धा चेयं वसुंधरा

2.29.68

रत्नानि विविधान्येव ओषधीश्चामृतोपमाः ।
वत्सश्चैव महाभागो हिमवान्परिकल्पितः

2.29.69

मेरुर्दोग्धा च संजातः पात्रं कृत्वा तु शैलजम् ।
तेन क्षीरेण संवृद्धाः शैलाः सर्वे महौजसः

2.29.70

पुनर्दुग्धा महावृक्षैः पुण्यैः कल्पद्रुमादिभिः ।
पालाशं पात्रामानिन्युश्छिन्नदग्धप्ररोहणम्

2.29.71

शालो दुदोह पुष्पांगः प्लक्षो वत्सोऽभवत्तदा ।
गुह्यकैश्चारणैः सिद्धैर्विद्याधरगणैस्तदा

2.29.72

दुग्धा चेयं सर्वधात्री सर्वकामप्रदायिनी ।
यं यमिच्छंति ये लोकाः पात्रवत्सविशेषणैः

2.29.73

तैस्तैस्तेषां ददात्येव क्षीरं सद्भावमीदृशम् ।
इयं धात्री विधात्री तु इयं श्रेष्ठा वसुंधरा

2.29.74

सर्वकामदुघा धेनुरियं पुण्यैरलंकृता ।
इयं ज्येष्ठा प्रतिष्ठा तु इयं सृष्टिरियं प्रजा

2.29.75

पावनी पुण्यदा पुण्या सर्वसस्य प्ररोहिणी ।
चराचरस्य सर्वस्य प्रतिष्ठा योनिरेव च

2.29.76

महालक्ष्मीरियं विद्या सर्वविश्वमयी सदा ।
सर्वकामदुघा दोग्ध्री सर्वबीजप्ररोहिणी

2.29.77

सर्वेषां श्रेयसां माता सर्वलोकधरा इयम् ।
पंचानामपि भूतानां प्रकाशो रूपमेव च

2.29.78

असीदियं समुद्रांता मेदिनीति परिश्रुता ।
मधुकैटभयोः कृत्स्ना मेदसा समभिप्लुता

2.29.79

तेनेयं मेदिनी नाम प्रोच्यते ब्रह्मवादिभिः ।
ततोभ्युपगमात्प्राज्ञ पृथोर्वैन्यस्य सत्तमाः

2.29.80

दुहितृत्वमनुप्राप्ता देवी पृथ्वीति चोच्यते ।
तेन राज्ञा द्विजश्रेष्ठाः पालितेयं वसुंधरा

2.29.81

ग्रामाधारं गृहाणां च पुरपत्तनमालिनी ।
सस्याकरवती स्फीता सर्वतीर्थमयी द्विजाः

2.29.82

एवं वसुमती देवी सर्वलोकमयी सदा ।
एवं प्रभावो राजेंद्रः पुराणे परिपठ्यते

2.29.83

पृथुर्वैन्यो महाभागः सर्वकर्मप्रकाशकः ।
यथा विष्णुर्यथा ब्रह्मा यथा रुद्रः सनातनः

2.29.84

नमस्कार्यास्त्रयो देवा देवाद्यैर्ब्रह्मवादिभिः ।
ब्राह्मणैरृषिभिः सर्वैर्नमस्कार्यो नृपोत्तमः

2.29.85

वर्णानामाश्रमाणां यः स्थापकः सर्वलोकधृक् ।
पार्थिवैश्च महाभागैः पार्थिवत्वमिहेप्सुभिः

2.29.86

आदिराजो नमस्कार्यः पृथुर्वैन्यः प्रतापवान् ।
धनुर्वेदार्थिभिर्योधैः सदैव जयकांक्षिभिः

2.29.87

नमस्कार्यो महाराजो वृत्तिदाता महीभृताम् ।
एवं पात्रविशेषाश्च मया ख्याता द्विजोत्तमाः

2.29.88

वत्सानां सुविशेषाश्च दोग्धॄणां भवदग्रतः ।
क्षीरस्यापि विशेषं तु यथोद्दिष्टं हि भूभुजा

2.29.89

समाख्यातं तथाग्रे च भवतां वै यथार्थतः ।
धन्यं यशस्यमारोग्यं पुण्यं पापप्रणाशनम्

2.29.90

पृथोर्वैन्यस्य चरितं यः शृणोति द्विजोत्तमाः ।
तस्य भागीरथी स्नानमहन्यहनि जायते

2.29.91

सर्वपापविशुद्धात्मा विष्णुलोकं प्रयाति सः

2.29.29

इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे
पृथूपाख्याने एकोनत्रिंशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc