भाषा

ENहिગુ
ग्रंथ पाठ

पद्म पुराण · अध्याय 2.31

2.31.1

सूत उवाच-
अथ त्वंगो महातेजा दृष्ट्वा इंद्रस्य संपदम् ।
भोगं चैव विलासं च लीलां तस्य महात्मनः

2.31.2

कथं मे इंद्र सदृशः पुत्रः स्याद्धर्मसंयुतः ।
चिंतयित्वा क्षणं चैव अंगो धर्मभृतां वरः

2.31.3

स्वकं गेहं समायातः स त्वंगः सत्यतत्परः ।
अत्रिं पप्रच्छ पितरं प्रणतो नम्रकंधरः

2.31.4

कोऽयं पुण्यः समाचारैरिंद्रत्वं भुंजते महत् ।
कस्य पुण्यस्य वै पुष्टिः किं कृतं कर्म कीदृशम्

2.31.5

कीदृशं तप एतस्य कमाराधितवान्पुरा ।
एतन्मे विस्तरेण त्वं ब्रूहि सत्यवतां वर

2.31.6

अत्रिरुवाच-
साधुसाधु महाभाग यद्येवं पृच्छसे मयि ।
चरित्रमिंद्रस्य वत्स तन्मे निगदतः शृणु

2.31.7

सुव्रतो नाम मेधावी पुरा ब्राह्मणसत्तमः ।
तेन कृष्णो हृषीकेशस्तपसा चैव तोषितः

2.31.8

पुण्यगर्भं पुनः प्राप्तो ह्यदित्याः कश्यपात्किल ।
विष्णोश्चैव प्रसादेन सुरराजो बभूव ह

2.31.9

अंग उवाच-
कथमिंद्रसमः पुत्रो मम स्यात्पुत्रवत्सल ।
तदुपायं समाचक्ष्व भवाञ्ज्ञानवतां वरः

2.31.10

अत्रिरुवाच-
समासेनैव तस्यैव सुव्रतस्य महात्मनः ।
चरित्रमखिलं पुण्यं निशामय महामते

2.31.11

यथा सुव्रत मेधावी पुराराधितवान्हरिम् ।
तस्य भावं च भक्तिं च ध्यानं चैव महात्मनः

2.31.12

समालोक्य जगन्नाथो दत्तवान्वै महत्पदम् ।
स ऐंद्रं सर्वभोगाढ्यं त्रैलोक्यं सचराचरम्

2.31.13

विष्णोश्चैव प्रसादाच्च पदं भुंक्ते त्रिलोकधृक् ।
एवं ते सर्वमाख्यातमिंद्रस्यापि विचेष्टितम्

2.31.14

भक्त्या तुष्यति गोविंदो भावध्यानेन सत्तम ।
सर्वं ददाति तुष्टात्मा भक्त्या संतोषितो हरिः

2.31.15

तस्मादाराध्य गोविंदं सर्वदं सर्वसंभवम् ।
सर्वज्ञं सर्ववेत्तारं सर्वेषां पुरुषं वरम्

2.31.16

तस्मात्प्राप्स्यसि सर्वं त्वं यद्यदिच्छसि नंदन

2.31.17

सुखस्य दाता परमार्थदाता मोक्षस्य दाता जगतां हि नाथः ।
तस्मात्तमाराधय गच्छ पुत्र संप्राप्स्यसे इंद्रसमं हि पुत्रम्

2.31.18

आकर्ण्य वाक्यं परमार्थयुक्तमुक्तं महात्मा ऋषिणा हि तेन ।
संगृह्य तत्त्वं वचनस्य तस्य प्रणम्य तं शाश्वतमभ्ययात्सः

2.31.19

आमंत्र्य चांगः पितरं महात्मा ब्रह्मात्मजं ब्रह्मसमानमेव ।
संप्राप्तवान्मेरुगिरेस्तु शृंगं तं कांचनै रत्नमयैः समेतम्

2.31.31

इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे।
वेनोपाख्याने एकत्रिंशोऽध्यायः

मूल पाठ: padmapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc